← अध्यायः ३२ चर्यापादः
अध्यायः ३३
[[लेखकः :|]]
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
त्रयस्त्रिंशोऽध्यायः.
-----
* औपचारिक मन्त्रकल्पः.*
ब्रह्मा :---
अथौपचारिकान् (1) मन्त्रान् शुश्रूषे भगवन्नहम् ।
(2) प्रयुज्यमानैर्यैः प्रीतिर्महती ते भविष्यति ।। 33.1 ।।
(1. सर्वान् इति. क्वचित्पाठः.)
(2. प्रोच्यमानै र्यथाप्रीतिः.)
श्रीभगवान् :---
ब्रह्मन्नाराधनाङ्गानि मन्त्राण्यवहितश्शृणु ।
यानि श्रुत्यन्तभागेषु शृण्वन्ति ब्रह्मवादिनः ।। 33.2 ।।
(3) ब्रह्मकोशं पुरस्कृत्य ककुभं (4) ब्रह्ममस्तकम् ।
वैराजं देवरं पश्चादेकनेत्रमृगेश्वरौ ।। 33.3 ।।
(3. बन्धुकोशं.)
(4. बन्धुमस्तकम्.)
पवित्रभुवनौ चापि ब्रह्मन् चण्डवनालयौ ।
हुताश वामनौ पद्मागोपनौ विनतात्मजम् ।। 33.4 ।।
विघ्नेशं मन्दरं कान्तं कलात्मा च जयाजयौ ।
पीयूषरामौ श्रीकुम्भौ सूक्ष्मं गोपनपश्चिमौ ।। 33.5 ।।
वरुणं भद्रहस्तान्तं विघ्नेशं पाटलप्रियम् ।
अनिरुद्धं (5) जयेणेशौ शुक्लं जयमथोदयम् ।। 33.6 ।।
(5. जयेणांशौ.)
भास्वन्तमृतधामानं शत्रुदाहकवामनौ ।
(6) पद्मादिदेवौ श्रीवत्सं दक्षं भास्करगोपनौ ।। 33.7 ।।
(6. पद्मां च दत्तं.)
पवित्र (7) भुवनौ वह्निभुवनौ शत्रुदाहकम् ।
पश्चिमास्यं (8) मकारं च हुताशनसुधारसौ ।। 33.8 ।।
(7. विक्रमौ.)
(8. महामोयम्.)
अन्तिमं ककुभं कृत्वा जितन्तामनुमिरयेत् ।
भानुविष्णुध्रुवं बीजं ब्रह्मन्नेतस्य कल्पयेत् ।। 33.9 ।।
अङ्गान्यप्यमुना कुर्यादृषिस्सनके उच्यते ।
छन्धोऽनुष्टुप्तथैतस्य देवता (9) पुरुषोत्तमः ।। 33.10 ।।
(9. पुरुषो महान्.)
जपोऽम्बुतर्पणं होमं (10) कृतं षोडशलक्षवत् ।
धर्मार्थकाममोक्षार्थान् पुंसां सर्वं प्रयच्छति ।। 33.11 ।।
(10. कुर्यात्.)
* पञ्चोपनिषन्मन्त्राः.*
पञ्चोपनिषदां मन्त्रानथ ते कथ याम्यहम् ।
परमेष्ठी पुमान् विश्वो निवृत्तस्सर्व एव हि ।। 33.12 ।।
आम्नायादिं क्रोधरूपं (11) सङ्कर्षणगजानम् ।
दक्षानिरुद्धौ (12) पापघ्न वह्निगोपनमारुतान् ।। 33.13 ।।
(11. सङ्कर्षणविनायकाः.)
(12. नान्तानि.)
पवित्रपापकौ दक्षमाधवौ पद्मसम्भव ।
क्रोधकौस्तुभ सङ्खाद्यैर्गोपनं जयमन्दरौ ।। 33.14 ।।
विघ्नेशमाधवौ चान्ते परमेष्टिनमिरयेत् ।
ऋषिरादित्यनामास्य च्छन्दो गायत्र मुच्यते ।। 33.15 ।।
देवता च सदा विष्णु र्जपेद्ध्वादशलक्षवान् ।
* पुरुषमन्त्रः.*
प्रथमं प्रणवं कृत्वा धूलिकेतन गोवनौ ।। 33.16 ।।
विघ्नेश द्वितयं दक्षकलान्तौ पश्चिमाननम् ।
वह्न्येदिदेवौ शङ्खाख्यं पश्चिमं भुवनं तथा ।। 33.17 ।।
पावकं (13) भुवनं पश्चाच्चक्रं दाहकगोपनौ ।
जयदक्षौ भद्रपाणी देवदत्तौ तथा न्तिमौ ।। 33.18 ।।
(13. श्रीधरं पश्चात् श्रत्रुं.)
इत्येवं पौरुषं मन्त्रमिरयेन्मन्त्रकोविदः ।
ऋषिं नारदमस्याहुश्छन्दो गायत्रमीरितम् ।। 33.19 ।।
देवता वासुदेवश्छ
* विश्वमन्त्रः.*
शृणु विश्वमतः परम् ।
ताराग्निगोपनौ (14) दक्षभद्रपाणी कलान्तिमौ ।। 33.20 ।।
(14. भद्रपाणिदक्षकमान्तिमौ.)
पवित्रवह्न्यादिदेवान् शङ्खं वरुणविक्रमौ ।
श्रीवत्सकुंभौ विजयमन्दरौ विघ्नमाधवौ ।। 33.21 ।।
इतीरितो विश्वमन्त्रः पुनर्द्रष्टा भृगुर्मनोः ।
छन्दो गायत्रमेतस्य वाच्यस्सङ्कर्षणाभिधः ।। 33.22 ।।
* निवृत्तमन्त्रः.*
उद्गीथकुम्भादिदेवौ विघ्नेशद्वयमस्तकम् ।
मन्दरं (15) वरुणं पापहननं वह्निगोपनौ ।। 33.23 ।।
(15. सर्गिणं पाप.)
वायुं विघ्नेश्वरं रामं पीयूषं (16) वसुमस्तकम् ।
एकनेत्रं वायुमादिदेवान् वैराजमन्दरौ ।। 33.24 ।।
(16. समघाननं.)
मनुष्येशं मृगेशानं निवृत्तिमनुरीरितः ।
ऋषिस्तु नारदश्छन्दो गायत्रं पूर्वमीरितम् ।। 33.25 ।।
प्रद्युम्नो देवताऽनेन निवृत्तिं लभते पुमान् ।
* सर्वमन्त्रः.*
प्रणवं पीतवर्णाभं गोपनं मानुषेश्वरम् ।। 33.26 ।।
माधवीं सर्गिणं पापहननं वह्निगोपनौ ।
चतुर्गतिं कलात्मानं कुम्भं पावकगोपनौ ।। 33.27 ।।
वै राजमन्दरौ स्याता मुद्धार्य चतुरासन ।
गजास्यं देवदत्तान्तं सर्वमन्त्रं प्रकल्पयेत् ।। 33.28 ।।
उष्णिक्छन्दः पुनस्त्वस्य दृष्टास्यान्नीललोहितः ।
अनिरुद्दो देवता च मनवः पञ्च कीर्तिताः ।। 33.29 ।।
पञ्चोपनिषदः पुण्या (17) स्ता एताश्चतुरानन ।
महापातकनाशिन्यः (18) पराकादि फलप्रदाः ।। 33.30 ।।
(17. स्ता एव.)
(18. पारत्य्रादि.)
एतास्सम्यगधीतेयो वेदान्तानथवाखलान् ।
तावुभौ सदृशौमन्ये (19) पञ्चभूश्शस्य तेऽधुना ।। 33.31 ।।
(19. कोशेषु सर्वेषु एवमेवास्ति.)
प्रायश्चित्तेषु होमेषु प्रतिष्ठाप्रोक्षणादिषु ।
प्रयुञ्जीत पुमानेतास्सर्वपापप्रणाशिनीः ।। 33.32 ।।
* शान्तिमन्त्रचतुष्टयम्.*
अतः परं प्रवक्ष्यामि शान्तिमन्त्रचतुष्टयम् ।
प्रणवं मधुहन्तारं पवनं मधुसूदनम् ।। 33.33 ।।
भास्करं पुरुषात्मानं गदिविघ्नेशमाधवान् ।
भल्लायुधं हृषी (20) केशमग्निं भल्लायुधोदयम् ।। 33.34 ।।
(20. केशं मर्त्य. भल्लायुधे दधौ.)
कुम्भं मृगाङ्कपीयूषौ कमलाननमन्तिमम् ।
शुक्लं (21) कुम्भमथो शत्रुं भास्करं गोपनं तथा ।। 33.35 ।।
(21. कुम्भं मधोश्शत्रुं इति.)
इतीरयेन्मनुं ब्रह्मन् ऋषिस्याद्देवता (22) मनोः ।
छन्दो गायत्रमेतस्य देवता तिग्मतेजसः ।। 33.36 ।।
(22. पुनः.)
उद्गीथं विजयं कुम्भो विघ्नेशात्रिर्मृगेश्वराः ।
पियूषगोपनौ भद्रह (23) स्तगोपनयष्टयः ।। 33.37 ।।
(23. स्तं देवन दृष्टयः.)
जृम्भलं पद्मनाभं च भानु (24) मद्विजयोनयः ।
मुसलि गोपनः पश्चा (25) ज्जयं कुम्भं च माधवम् ।। 33.38 ।।
(24. मद्विजयाननः.)
(25. द्विजयः कुम्भमाधवौ.)
नेत्रोतदेहौ सूर्यश्च (26) श्रीधरौ विजयावनौ ।
श्रीविघ्नेशस्सुभद्रोऽथ गदी वरुणमस्तकाः ।। 33.39 ।।
(26. श्रीधरो विजयगोपनौ । श्रीविघ्नेशौ.)
वैराजकुम्भादिदेवा दक्षो मधुनिघादनः ।
आदित्यरामनासिक्यचन्द्र वामनसर्गिणः ।। 33.40 ।।
हुतान्त इति मन्त्रोऽयमाहनीयश्चतुर्मुख ।
ऋषिमस्य (27) भृगुं प्राहुश्छन्दो गायत्रमित्यपि ।। 33.41 ।।
(27. मनुं.)
हुताशनो देवता च देवानां प्रथमं मुखम् ।
निगमादिं श्रियः कान्तौ विजयद्वय (28) विक्रमौ ।। 33.42 ।।
(28. पातरौ ?)
(29) क्रोधमेघौ पवित्रं च श्रीधरं पावकोदयौ ।
उग्रात्मवह्नीद्युमणिरनलं बन्धु मस्तकम् ।। 33.43 ।।
(29. क्रोधाखेयौ.)
पवित्रं बन्धुनासिक्यं गदिनं पुलहं तथा ।
दृष्टिं मृगेशं द्युमणिं रामो वैधरपावकौ ।। 33.44 ।।
वरुणं मायया साकं प्रचण्डं पाटलप्रियं ।
पवित्रदहनौ वायुस्वच्छन्धौ ठठपश्छिमौ ।। 33.45 ।।
इत्थं प्रकल्पयेन्मन्त्रमृषिर्धनद उच्यते ।
छन्दो गायत्रमेतस्य देवता हरिपिङ्गलः ।। 33.46 ।।
(30) तारं पवित्रं विजयं विघ्नेशं भृगुगोपनौ ।
भास्करं पुरुषात्मानं गदिनं विघ्नमाधवौ ।। 33.47 ।।
(30. कालं पवित्रं कमलं.)
भल्लायुधहृषीकेशौ वह्निं भल्लायुधं तथा ।
कुम्भसंपुटितंशुक्लं चन्द्रपियूषगोपनान् ।। 33.48 ।।
(31) भानुमन्तमथो शत्रुमिति मन्त्रं विवेचयेत् ।
ऋषिर्बृहस्पतिस्तस्य छन्दः पूर्ववदीरितम् ।। 33.49 ।।
(31. भानुमन्तं मधोश्शत्रुं इति स्यात्.)
आदित्यो देवता ह्येवमुक्तं मन्त्रचतुष्टयम् ।
यत्रमन्त्रं क्रियाद्रव्यहीनं शान्त्यादिकर्मणि ।। 33.50 ।।
तस्मिन्नेतत्प्रयुञ्जीत तथायं साधको विधिः ।
* पञ्च विंशतितत्वमन्त्राः.*
मन्त्राणि ते प्रवक्ष्यामि तत्त्वानां पञ्चविंशतेः ।। 33.51 ।।
प्रयुज्यमानैर्यैर्विश्वं प्राणितिप्राणवर्जितम् ।
प्रणवस्योपरि स्पर्शानाहुर्वामनमस्तकान् ।। 33.52 ।।
नमोन्तान् प्रातिलोम्येन योजयेत्पञ्चविंशतिम् ।
परशब्दं चतुर्थ्यन्तं न तेः पश्छात्प्रकल्पयेत् ।। 33.53 ।।
जीवं देहं तथा (32) बुद्धिर्गर्वं पश्चान्मनस्तथा ।
शब्दस्पर्शौ तथा रूपं रसो गन्धश्च पञ्चकम् ।। 33.54 ।।
(32. बुद्धिमहङ्कारं मन.)
एतान् पञ्चापि विषयान् तन्मन्त्रवचनोदरान् ।
श्रोत्रं त्वक्च तथा नेत्रं जिह्वा घ्राणं ततः परम् ।। 33.55 ।।
वाचं पाणिं तथा पादं पायूपस्थं पितामह ।
पृथिवीं प्रथमं तोयं तेजोमारुतमन्वतः ।। 33.56 ।।
प्योम चान्ते चतुर्थ्यन्तै रात्मशब्दैस्तथो त्तरैः ।
कृतनामानिमान् शब्दान्मन्त्ररूपेण कल्पयेत् ।। 33.57 ।।
* दीपमन्त्रः.*
उद्गीथकृतनासिक्यौ हुताशं (33) बिन्दुमस्तकम् ।
ककुभं गदिनं वासुदेवं विजयवा मनौ ।। 33.58 ।।
(33. बन्धु.)
वह्निं गुहालयं चापि पवित्र मधुसूदनौ ।
चतुर्गतिं (34) मनुं प्राणं दीपार्थं मनुमिरयेत् ।। 33.59 ।।
(34. नतिप्रान्तं दीपान्तं.)
* अक्षसूत्रमन्त्रः.*
तारं सूर्यहृषीकेशयष्टयः पुष्टिभीजवान् ।
मेघबिन्दू शुक्लरामौ ऋषिः पुण्यत्रिविक्रमौ ।। 33.60 ।।
इन्दुर्गुहालयं पश्चाज्जयपावकगोपनाः ।
(35) इति वायुर्नतिमत्स्या दक्षसूत्रमनुर्महान् ।। 33.61 ।।
(35. क्वचित्कोशे पाददौ अक्षरद्वयत्रुटिः. अथ " वायुनतिमत् इत्यस्ति अन्यत्र---इति वायु र्मतिर्मत्स्यात्" इति दृश्यते.)
* अर्घ्यमन्त्रः.*
तारं श्रीरामकौमारपुरुषात्ममृगेश्वरौ ।
विष्णुं पंचान्तकं वह्निं धूमध्वजगुहालयौ ।। 33.62 ।।
पवित्रबन्धुसुमुखा माधवं प्रथमं तथा ।
हुताशं पद्मपाणिंच (36) वायुं वह्निं गुहालयम् ।। 33.63 ।।
(36. वह्निं ब्रह्मगुहालयौ.)
पश्चिमास्य (37) मधोशत्रुं शङ्खं च नतिमस्तकम् ।
इत्यर्घ्यमन्त्रं रचयेत्
* पाद्यमन्त्रः.*
अथ पाद्यमनुं शृणु ।। 33.64 ।।
(37. मधोशरत्रुमन्दरं.)
तारं गदिद्रुवौ चापि गदध्वंसिमृगाधिपौ ।
पश्चिमं रामशिरसं विजयं (38) वह्निपश्छिमौ ।। 33.65 ।।
(38. रामपञ्चकं.)
एकविंशं पद्मनाभं मायां पवनपङ्कजौ ।
वह्निं द्वितीयमनिलं पापघ्नं मधुसूदनम् ।। 33.66 ।।
(39) वैधरं मारुतं वह्निं हृषीकेशोऽथ पश्चिमम् ।
रामं सुमुखसारङ्गौ नत्यन्तं मन्त्रमिरयेत् ।। 33.67 ।।
(39. सुभगं.)
* अचमनमन्त्रः.*
आदौ व्यापिं शुक्ल वह्निं चन्द्रकुम्भौ जयानिलौ ।
मन्दरं पद्मनाभं च वै राजाग्निगुहालयाः ।। 33.68 ।।
(40) पापहन्तारमद्वेषी वनमाली मृगेश्वरौ ।
गोपनो वक्रतुण्डश्च दक्षविघ्नेशगोपनाः ।। 33.69 ।।
(40. पापहन्ता च रामश्च.)
वैराजदक्षौ विघ्नेशमाधवौ नतिमस्तकम् ।
इत्यचमन (41) मन्त्रस्स्याद्रूपादीनि यथा अमि ।। 33.70 ।।
(41. मन्त्रस्य धूपादीनां.)
* भोगनिवेदनमन्त्रः.*
(42) प्रथमं चेदपि मनोन्धो पावान्दुरितात्मवान् ? ।
(43) रामं दृष्टिमनुस्वारं गदिनं विष्णुसप्तमम् ।। 33.71 ।।
(42. क्वचित्कोशे " प्रथमं चेदनो...न्धूपान्दुरितात्मवान्" इति दृश्यते. अन्यत्र यथापाङ्त्कां दृश्यते. शुद्धरोशसंवाद श्शुद्धिकरः.)
(43. राजमुष्टिमनुस्कारं---सप्तकम्.)
आदित्यगोपनौ चण्डं वह्निजायावसानकम् ।
इत्येतत्कल्पितं मन्त्रं प्रतिभोगनिवेदनम् ।। 33.72 ।।
प्रयुञ्जीत प्रयोगं च तस्मात्साधारणो मनुः ।
* पुषाञ्जलिमन्त्रः.*
द्विषट्काक्षरमुधृत्य शिखण्डिपुलहं ध्रुवम् ।। 33.73 ।।
सुभद्रकुंभौ विजयश्रीधरौ दक्षमाधवौ ।
पवित्रभुवनौ क्रोधपश्चिमान (44) नगोपनाः ।। 33.74 ।।
(44. गोधनान्.)
ठठान्तमथ नत्यन्तं मनुमित्थं प्रकल्पयेत् ।
पुष्पाञ्जलिप्रदानेषु नियुञ्जीत जितं पुनः ।। 33.75 ।।
* वस्त्रमन्त्रः.*
तारश्शुक्लघटो यष्टिश्चन्द्रमा भुवनो नलः ।
सुभद्रवाय्यौतदेहनत्यन्तो मनुरीरितः ।। 33.76 ।।
तेनाराधन (45) वस्त्रं स्यादाप्यायनमुपाचरेत् ।
इत्थमाराधनाङ्गानि मन्त्राणि कथितानि ते ।। 33.77 ।।
(45. मप्यायनमानयनमाचरेत्.)
* ऐहिकसुखसाधनमन्त्राः.*
इदानीमैकान् मन्त्रान् प्रवक्ष्यामि मनोहरान् ।
स्वीकृत्य सप्तवर्णानि रोहिणिशमपांपतिम् ।। 33.78 ।।
पवित्रमानुषेशनौ गोपनं पुण्यविक्रमौ ।
पश्चिमं विजयं वायुं माधवो वरुणानिलौ ।। 33.79 ।।
वासुदेवं तथा दक्षं गोपनं जयमन्दरौ ।
विघ्नेशमाधवौ पापहननं पवनं तथा ।। 33.80 ।।
गुहालयमथो यष्टिं सूर्यमूर्ध्वं जगत्पतिम् ।
यष्टिं कुम्भं जगत्प्राणं हृषीकेशं तथा ध्रुवम् ।। 33.81 ।।
श्वेतांशुं वरुणं बिन्दुं द्विसूर्यं वामनं ध्रुवम् ।
ठठान्तिकं मनुं ब्रह्मन्नीरये (46) दथ तारकम् ।। 33.82 ।।
(46. दधितारकं.)
नत्यन्तं शुक्लवरुणौ पश्चिमं विक्रमं जयम् ।
बन्धुमग्निं हृषीकेशं पश्चिमं मधुसूदनम् ।। 33.83 ।।
चतुर्गतिमचामादिं माहेन्द्रं विष्णुपन्नगौ ।
मन्दरं वामनं पश्चात्पश्चिमं विजयानिलौ ।। 33.84 ।।
देवदत्तं श्रियं वह्निं महामायां महाबलाम् ।
हृषीकेशं ध्रुवं चापि बीजमाम्रेडयेदिमम् ।। 33.85 ।।
पवित्र (47) मनलं चण्डं गोपनं द्विविनायकम् ।
वैधरं मधुहन्तारं विजयं मन्दरं तथा ।। 33.86 ।।
(47. मनिलं किंच.)
भद्रहस्तं मृगेशं च ठठान्तं मन्त्रमिरयेत् ।
सिन्धुद्वीपो मनोर्द्रष्टा विराट् छन्दो निगद्यते ।। 33.87 ।।
स्वप्नादिपति रेतस्य देवता परमः पुमान् ।
हृषीकेशं यष्टिमन्त्रमिरयेन्मन्त्रकोविदः ।। 33.88 ।।
उष्णिक्छन्दः पुनस्तस्य देवता नृहरिर्हरिः ।
(48) तथा हि रसनामानि.. (49) मन्त्रं प्रचक्षते ।। 33.89 ।।
(48. अथाङ्गिरस.)
(49. सर्वत्राक्षरत्रुटिः.)
(50) अभिन्नविटपस्कन्धं स्पृष्ट्वा श्वत्थमिमं जपेत् ।
अहोभिस्सप्तभिर्मृत्युं लङ्घयेत्सं यतेन्द्रियाः ।। 33.90 ।।
(50. अभग्न.)
* अल्पायाससाध्यामन्त्राः.*
अथाल्यायाससाध्यानि शृणु मन्त्राणि पद्मज ।
व्यापिनं पुरुषात्मानं वासुदेवं (51) नपश्चिमम् ।। 33.91 ।।
(51. द्विनीलयम्.)
रामं (52) विघ्नेश्वरं मायामुद्गीधरहितानिमान् ।
(53) दक्षादीशादिदेवानामथाब्जं सुप्रतिष्ठितम् ।। 33.92 ।।
(52. विश्वेश्वरम्.)
(53. " दक्षादीशानादि देवान्मायाज्जम्.")
वायुं पद्म (54) मथोशत्रुं शङ्खवह्निध्रुवानपि ।
हुतान्तमुद्धरेत्क (55) र्णगोभितिं मन्त्रमुत्तमम् ।। 33.93 ।।
(54. मथोश्शत्रुं इति स्यात्.)
(55. र्णगोभूति. र्णभोनिधिः.)
जपेल्लक्षमिमं मन्त्रमुफोष्यैकादशे हनि ।
द्वादश्यामपि कुर्यात् स्त्रीं (56) समुन्नतपयोधराम् ।। 33.94 ।।
(56. उन्नतस्य.)
आवाह्य तस्यां (57) हुत्वा च पूजयित्वाच योगिनीम् ।
मध्यरात्रे बलिं दत्वा छिन्द्यात्तां प्रतियातनाम् ।। 33.95 ।।
(57. हृत्वा.)
भूतं (58) भवद्भविष्यं च तस्य वक्ष्यति योगिनी ।
अम्नायादिं विधातारं प्रचण्डं वसुमस्तकम् ।। 33.96 ।।
(58. भव्यं भविष्यच्च.)
पश्चिमं विक्रमं लक्ष्मीं गोपनं खड्ग (59) धारिणम् ।
सविक्रमं घटं चाग्निं घटं च द्विरदाननम् ।। 33.97 ।।
(59. धारिणीम्.)
पङ्कजं (60) वारुणमथो सरसीरुहसम्भव ।
ककुभं वह्निमपरं पीयूषं गोपनं तथा ।। 33.98 ।।
(60. दारुणम.)
झषं गुहालयं चापि शङ्खं (61) वह्निं च मन्दरम् ।
श्रीधरं पद्मवैराजं गोपनं सूक्ष्मलोचनम् ।। 33.99 ।।
(61. वह्निमपश्चिमं.)
वह्निं प्रचण्डं विघ्नेशं रामं मन्दरपावकौ ।
पीतादिदेवौ पुलहं यष्टिं पद्मगुहान्तिमौ ।। 33.100 ।।
एकनेत्रं (62) श्रियं वह्निं वामनं वह्निमाधवौ ।
मृगेशभावसद्बन्धोन् विघ्नोपहतिकं तथा ।। 33.101 ।।
(62. ध्रुवं.)
स्वच्छन्दं विजयं वह्निं वीरसेनसरोरुहौ ।
आदिदेवं (63) तथा चन्द्ररविदृष्टिशुभप्रदौ ।। 33.102 ।।
(63. तथा चादौ दूरदृष्टि शुभप्रदौ.)
वह्निं विनायकं रामं द्विर्दक्षं चतुरासनम् ।
प्रचण्डः पावको यष्टिः पश्चिमास्यहुताशनौ ।। 33.103 ।।
पियूषरामसहितौ शुभदं वायुगोपनौ ।
विजयं पञ्चबिन्दुं च वै राजं मधुसूदनम् ।। 33.104 ।।
गणेशगोपनौ पश्चाद्गदिनं विजयं घटम् ।
एकदृष्टिं तथा वह्निं मन्दरं मधुसूदनम् ।। 33.105 ।।
कुञ्जराननविष्ण्वन्तौ विघ्नेशं बन्धुमस्तकम् ।
ककुभं चन्द्रधवलं गोपनं पश्चिमाननम् ।। 33.106 ।।
चतुर्गतिं ठठोपान्तमिति मन्त्रं प्रकल्पयेत् ।
अधस्तान्ने त्रवृक्षन्य जपेन्नेतदतन्द्रितः ।। 33.107 ।।
नष्टं मुष्टिं (64) चिन्तनां च जानात्येतत्प्रसादतः ।
* जलस्तम्भनमन्त्रः.*
सप्ताक्षरं प्रकल्प्यादौ वरुणं गोपनं दरम् ।। 33.108 ।।
(64. मुष्टं इति स्यात्किम्.)
पियूषमाधवं दक्षं दृष्टिवह्निदरद्वयम् ।
पश्चिमाग्निमुखानेतान् दहनस्यान्तरोदितान् ।। 33.109 ।।
सूर्य (65) रामौ पीबतन्धो द्विः प्रकल्प्यचतुष्टयम् ।
शुक्लं यष्टिविवस्वन्तौ वह्निं स्वाहावसानिकम् ।। 33.110 ।।
(65. रामोपि तद्बन्धो.)
इत्यम्बुस्तम्भनं मन्त्रं कल्पयेत्कमलासन ।
* नदीवेगस्तम्भनमन्त्रः.*
प्रणवादिं वासुदेवं शुभदं पङ्क (66) जं तथा ।। 33.111 ।।
(66. जद्वयं.)
मायामभ्यस्य हन्तारं फलहं शशिनं जयम् ।
यष्टिं भल्लायुधं चापि विघ्नेशं राममस्तकम् ।। 33.112 ।।
सत्यन्तमुदकस्तम्भं मन्त्रं मन्त्र (67) विदीरयेत् ।
अनयोः पूर्वमन्त्रेण स्थितवत्सलिते चरेत् ।। 33.113 ।।
(67. मितीर.)
उत्तरेण तु सिन्धूनां वेगस्तम्भं समाचरेत् ।
* अग्निस्तम्भनमन्त्रः.*
अग्निस्तम्भनमन्त्रं ते कथयामि यथातथम् ।। 33.114 ।।
सप्ताक्षरं कुम्भवह्निं भुवनं वनमालिनम् ।
गोपनं पुरुषात्मानं त्रिवह्निं शशलाञ्चनम् ।। 33.115 ।।
वैराजबिन्दुं ह्रस्वान्तं चतुर्गतिमथो ठठम् ।
इत्यग्निस्तम्भनं मन्त्रं साधयेतयुतं नरः ।। 33.116 ।।
(68) लोहतैलं घृतं क्षीरं परशुं सलिलं तथा ।
सप्तचैतानि संस्पृश्य शीतश्छाग्निर्भविष्यति ।। 33.117 ।।
(68. लोहं तैल.)
(69) उदरे पङ्कजस्येव सुखमासीत श्रुष्मणः ।
* गोमहिषादिवश्यमन्त्रः.*
सप्ताक्षरं चतुर्थ्यन्तं विध्णुशब्दं चतुर्मुख ।। 33.118 ।।
(69. उत्तरे पङ्कजस्यैव मुखमासीत पुष्पिणः.)
(70) पवित्रं श्रीहृषीकेशं विघ्नेशं मधुसूदनम् ।
प्रद्युम्नं पापहननं विजयं वायुमाधवौ ।। 33.119 ।।
(70. पवित्रार्थं हृषी.)
(71) दृष्टिं मन्दरं (72) पाताद्विष्ठठान्तं मन्त्रमिरयेत् ।
गवां च महिषाणां च कुर्यादेतेन वश्यताम् ।। 33.120 ।।
(71. वृष्टिं.)
(72. वाताद्विः.)
* व्यालादिदमनमन्त्रः.*
आदौ चतुस्त्रिवर्णानि धरप्रदगुहालयौ ।
पवित्रवह्निकमलं सुमुखं वह्निगोपनौ ।। 33.121 ।।
वायुषठान्त इत्येष व्यालादिदमनो मनुः ।
* रिपुनाशकपिशाचवशमन्त्रः.*
प्रणवे षष्ठशब्दादि सम्बुध्यन्तं पिशाचवत् ।। 33.122 ।।
ऊर्ध्वलोकेश हननं (73) पाषाणेषु ठठोमनुः ।
इदं हि जपतो मन्त्रं रिपुमूर्धनि ताडयेत् ।। 33.123 ।।
(73. पाषाणेषतरोमनुः.)
पिशाचरूपं प्रत्यक्षं पाषाणैरस्थिभिश्शवैः ।
* गन्धर्वसाधनमन्त्रः.*
(74) व्यापिनं गदिनं भद्रहस्तं पुण्यस्सरित्फतिम् ।। 33.124 ।।
(74. गदिनं व्यापिनं हस्तं सरस्यो वा.)
(75) वह्निं हुताशं विष्ण्वन्तं ककुभं कुम्भविक्रमौ ।
श्रीकुम्भगोपनान् कुम्भं शशाङ्कं ब्रह्मसाधनम् ।। 33.125 ।।
(75. वह्निं हुताशनं विष्णुं.)
द्विर्मन्दरं (76) मधोश्शत्रुं सुभद्रं बन्धुमस्तकम् ।
पितं क्रोधन (77) मायामं विजयं गोपनं ध्रुवम् ।। 33.126 ।।
(76. मथो शत्रुं.)
(77. धारामम्.)
ब्रह्माणं मानुषेशानं वायुं गोपनमस्तकम् ।
बिन्दुं पवित्र (78) मनलं मारुतं प्रेतनायकम् ।। 33.127 ।।
(78. मनिलं.)
स्वाहावसानं गान्धर्वं मन्त्रमित्थं प्रकल्पयेत् ।
अथर्वणमिमं मन्त्रं (79) पिनाकिशिरसि स्थितम् ।। 33.128 ।।
(79. पिनाङ्गिशिरसोत्थितम्.)
अधस्तात्पारिजातस्य हेमसिंहासनस्थितम् ।
(80) आयामि नीभिर्मालाभिर्दिव्याभिश्शोभिवक्षसम् ।। 33.129 ।।
(80. आयामिनीभिर्ज्वालाभिः.)
दिङ्नागमदलिप्ताङ्गं (81) दिव्याभरणभूषितम् ।
रूपयौवनयुक्ताभिर्वालव्यजनपाणिभिः ।। 33.130 ।।
(81. रत्ना.)
नित्यं षोढसवर्षाभिरुत्पलस्निग्धदृष्टिभिः ।
महाकुल प्रसूताभिर्मदविह्वल (82) मूर्तिभिः ।। 33.131 ।।
(82. दृष्टिभिः.)
अद्भुतभ्रूविरासाभिश्श्रवणप्रियगीतिभिः ।
ईषद्वि स्रंसिवा सोभिरंसव्युकुलमौलिभिः ।। 33.132 ।।
स्तनान्दोलितहाराभिः कदलिसुभगोरुभिः ।
कुटिलालकमालाभिः कन्यकाभिर्निषेवितम् ।। 33.133 ।।
कृतावधानं गीतेषु किन्नराणां मुहुर्मुहुः ।
गन्धर्वाधिपतिं ध्यायन्लक्षं मन्त्रमिमं जपेत् ।। 33.134 ।।
अथेनमुपतिष्ठनै कुलवत्योवरास्त्रियः ।
गन्धर्वराजवचनाद्रूप यौवनशालिनः ।। 33.135 ।।
* इन्द्रजालमन्त्रः.*
अथेन्द्रजालमन्त्रस्य स्वरूपं कथयामिते ।
ब्रह्मकुंभौ वीरसेनौ क्रोधं (83) सुमुखवारुणौ ।। 33.136 ।।
(83. सुभग.)
रामं दक्षं मधोश्शत्रुं चतुर्गतिमृगेश्वरौ ।
मोहयत्यथ रूपाणि द्विः प्रदर्शयमस्तकम् ।। 33.137 ।।
हुङ्कारं चतुरभ्यस्तं ब्रह्मन् किलिकिलिं तथा ।
ऋतद्वयं कुम्भरामौ पवित्रानलवामनान् ।। 33.138 ।।
विजयं लोचने कृत्वा गर्भद्वितयमस्तकम् ।
नानारूपाणि मायेद्वे द्विर्मन्त्रमितिकल्पयेत् ।। 33.139 ।।
जपेन लक्षसङ्ख्येन माया प्रत्यक्षसंगता ।
यद्यदिष्टं साधकस्य तत्तत्कुर्वीत तत्क्षणात् ।। 33.140 ।।
ब्रह्माद्या देवतास्सर्वा गगनस्थाः प्रदर्शयेत् ।
(84) गहनं मेदिनीं कुर्याद्यामिनिं दिवसं तथा ।। 33.141 ।।
(84. गगनं मेदनीं कुर्यास्मेदिनिं च दिवं.)
जीवन्तमप्सुविहितं प्राणपन्तं (85) तथा शवम् ।
मरुप्रदेशं वारिणि शुष्यन्तं पयसां निथिम् ।। 33.142 ।।
(85. तथा वशम्.)
षड्रसं वैपरीत्येन देशानप्ययथातथम् ।
पाषाणैस्ताडयेद्देहे नेत्राद्युत्पाटनं तथा ।। 33.143 ।।
खल्वाट केशसंरोहं यूनस्थ्सविरतां तथा ।
पुंसस्त्रीत्वं तथा स्त्रीणां पुस्त्वं क्लीबस्य तद्द्वयम् ।। 33.144 ।।
तयोर्वाक्लीबतां चित्रं श्मश्रुस्तनविपर्ययम् ।
गीतं शुक्ल स्तथा (86) गीता मन्यथा भावभागिनः ।। 33.145 ।।
(86. गीत---भागिनाम्.)
अगर्भिणीं गर्भिणीं च गर्भिणीं चाप्यगर्भिणीम् ।
पादादिभङ्गसन्धाने नभः कुसुमसम्भवः ।। 33.146 ।।
अचिन्तितानि शैलानां पतनानि यथेप्सितम् ।
मनुष्यादिषु शृङ्गाणि गगनारोहणं तथा ।। 33.147 ।।
अकाल रणसंरंभान् प्रतिमाकर्षणं तथा ।
कठिनानां द्रवीभावं (87) द्रवतां कठिनात्मताम् ।। 33.148 ।।
(87. द्राविणां कठिणेय.)
अद्यापि प्रलयावस्थामुन्मज्जन निमज्जने ।
खड्गादिभि (88) रभङ्गं च जङ्गमं स्थावरं तथा ।। 33.149 ।।
(88. श्शिरोभङ्गं.)
आचेतनेषु चैतन्यं चेतनेषु विचेतनाम् ।
रूपदर्शनमन्धस्य मूकस्य मधुरां गिरम् ।। 33.150 ।।
श्रवणं बधिरस्यापि पज्गोर्गमसमद्भुतम् ।
प्रदर्शनं विमानानां भुवि (89) सूर्येन्दुमण्डलम् ।। 33.151 ।।
(89. सूर्यादि.)
(90) शिलावर्षं महाघोरं राहुग्रासमपर्वणि ।
एतस्थानप्रविष्टानि भुवनानि चतुर्दश ।। 33.152 ।।
(90. शिलावर्षमहाधारां.)
आसनस्थस्य पतनं तुमुलं च परस्परम् ।
प्रतीपगमनं सिन्धो रासनं हव्यवाहने ।। 33.153 ।।
तत्क्षणेपि प्ररूढानां वृक्षाणां पल्लवं फलम् ।
सेचनं हव्यवाहेन ज्वलनं वयसा तथा ।। 33.154 ।।
मध्याह्नसमये ज्योत्स्नांदिङ्मोहं वातसम्ब्रमम् ।
चित्तादिधातु सङ्क्षोभं प्रत्यक्षस्याप्यदर्शनम् ।। 33.155 ।।
शैलशृङ्गा (91) द्यपतना (92) द्गव्यनस्य प्रदर्शनम् ।
(91. दिपतनं गव्यं न्यस्य.)
(92. गव्यन्यस्य.)
इत्थं भूतानि चित्राणि कुर्यान्मायानुभावतः ।। 33.156 ।।
* सप्तयक्षीमन्त्रः.*
इदानीं सप्तयक्षीणां मन्त्राणि कथ यामिते ।
* सुन्दरीमन्त्रः.*
आगच्छ सुन्दरी स्वाहावसानं प्रणवादिमम् ।। 33.157 ।।
इत्येष सुन्दरी (93) मन्त्रो मन्त्रादेः कार्यमाचरेत् ।
* मनोहरामन्त्रः.*
प्रणवं प्रथमं सर्वं मनो हर नमो ठठ ।। 33.158 ।।
(93. मन्त्रे मन्त्र्यादेः.)
इत्थं (94) मनोहरी मन्त्रः प्रियमिष्टं प्रयच्चति ।
* कनकवतीमन्त्रः.*
(95) उद्गीथं कनकं ब्रह्मन् (96) पक्ष्यते मैधुनप्रिय ? ।। 33.159 ।।
(94. मनोहरं मन्त्रं प्रियादिष्टं.)
(95. उद्गीथः करकी ब्रह्मन् प्रत्युतो मैधुनप्रिये.)
(96. ब्रह्मन्...मथो मथुनतर्पिये.)
ठठः कनकवत्यास्स्यान्मन्त्रः कामुकसिद्धिदः ।
* कामेश्वरीमन्त्रः.*
(97) ममागच्छ चतुर्वक्त्र कामेश्वरि ठठान्तिमम् ।। 33.160 ।।
(97. मामागच्छ.)
इति कामेश्वरीमन्त्रः सर्वां सिद्धिं प्रयच्छति ।
(98) आरुह्य शयनं (99) नक्तमे काकि पुष्पगन्धवान् ।। 33.161 ।।
(98. अत्रक्वचित्कोशे पद्यमेक मधिकमस्ति. यथा---" दिव्यान्योदनवासांसि कुसुमान्य नुलेपनम् । पादुकांजनखड्गादीन् भुषणानि रसायनम् ।।" इति.)
(99. रक्त.)
ध्यायेत्कामेश्वरिं यक्षिं सा तस्य भवति प्रिया ।
(100) यदान्यां कामयेन्मन्त्री सा तस्य वशमाचरेत् ।। 33.162 ।।
(100. यदन्यं.)
* रतिप्रियामन्त्रः.*
स्वाहान्तः कथितो मन्त्रो ब्रह्मात्पाते रतिप्रिये ।
प्रिता रतिप्रिया यक्षी साधकस्य प्रयच्छति ।। 33.163 ।।
दिव्यान्योदनवासांसि कुसुमाद्यनुलेपनम् ।
पादुकाञ्जन खड्गादीन् भाषणानि रसायनम् ।। 33.164 ।।
* पद्मिनिमन्त्रः.*
(101) ओं पद्मिनि ठठो मन्त्रं पद्मिनि यस्य देवता ।
ओं श्रीं ह्रीं द्वयमागच्छ द्वयं यक्षि ठठान्तिमम् ।। 33.165 ।।
(101. पद्मिनीं तां.)
प्रणवद्वितयं पुष्टिबीजं पश्छान्नति स्तथा ।
* यामिनीमन्त्रः.*
वातादिदेवौ (102) दक्षाद्यं बन्धुं विघ्नेशमारुतौ ।। 33.166 ।।
(102. दक्षाख्यं.)
वीरसेनमथो शुक्लं कुम्भं वह्निं च पश्चिमम् ।
हृषीकेशं जयं कुम्भं श्रीद्धुवौ (103) कमलासन ।। 33.167 ।।
(103. कमलानलौ.)
पञ्चबिन्दुं ठठान्तं च यामिनीमन्त्रमुद्धरेत् ।
एतज्जपेन पुरुषो विभवं लभते परम् ।। 33.168 ।।
द्वन्द्वानि पुंसां स्त्रीणां च रहितान्यपि योजयेत् ।
यद्यद्वस्तु तथान्येषां स्त्रियो वा पुरुषोऽपि वा ।। 33.169 ।।
ताम्भूलं (104) कुसुमं वापि तद्वान्वहमुपानयेत् ।
यस्यैते मनवस्सप्त सिद्धाः पुंसश्चतुर्मुख ।। 33.170 ।।
(104. कुंकुमं वापि तद्वाहनमु.)
यक्ष्यस्तस्य भविष्यन्ति (105) किङ्कयन् इति देवताः ।
मेरुमन्धरविन्ध्यादिशिखरेषु यथातथम् ।। 33.171 ।।
(105. किं कार्यमिति.)
साधकं रमयिष्यान्ति कल्पं भोगै रमानुषैः ।
* पिशाचमन्त्राः.*
ब्रह्मन् पिशाचमन्त्राणि (106) श्रुणुष्व गदतो मम ।। 33.172 ।।
(106. कथयिष्ये यथातथम्.)
(107) सप्ताक्षराणि सप्तार्कगोपनाः कुम्भविक्रमौ ।
क्रोधप्रचण्डौ वरुणमृगेशौ विपुलस्तथा ।। 33.173 ।।
(107. सप्ताक्षराण्यथो दक्षगोपनौ.)
द्विकुण्डसस्पमिस्वाहा मनुरेष प्रकीर्तितः ।
बद्नि यादमुना ब्रह्मन्नाविष्टस्य शिखां पुनः ।। 33.174 ।।
सप्ताक्षरं पुरस्कृत्य चतुर्थ्यं विष्णुमस्तकम् ।
(108) गुरुर्बन्धुःपिता कामो मन्दरं विक्रमं तथा ।। 33.175 ।।
(108. "गुरुर्बन्धुः" इत्यात्यर्धत्रयं क्वचिदधिकमस्ति.)
पुलहं विक्रमं पश्छाद्भल्लायुधगुहालयौ ।
वै राजपापहननौ विजयं बन्धुमस्तकम् ।। 33.176 ।।
हुताशगोपनौ ब्रह्मन् ककुभं (109) ब्रह्मसूदनौ ।
पवित्रशङ्खौ विजयं मायां स्वाहावसानकम् ।। 33.177 ।।
(109. भृगु.)
इतिमन्त्रं प्रकल्प्‌याथ बलिमेतेन दापयेत् ।
पूर्वं मन्त्रदशार्णानि महेन्द्रो राममस्तकः ।। 33.178 ।।
पवित्र (110) पापनौ पीतगौपनौ पश्चिमाननौ ।
वह्न्यन्तसूदनौ विघ्नगोपनौ पपनं तथा ।। 33.179 ।।
(110. पवनौ पीतगोपनौ पश्चिमानलौ.)
(111) गदी हुतवहस्सूर्यो वनमालि पितामह ।
मानं शब्द शिरस्स्वाहा गन्धमन्त्रः प्रकल्पितः ।। 33.180 ।।
(111. भक्तिः.)
द्वादशार्णमुखं पूर्वं वह्निं सुमुखविक्रमौ ।
माहेन्द्रविक्रमौ भानुर्दक्षं विजययोर्द्वयम् ।। 33.181 ।।
द्विर्वारिशब्दं कमलं देवदत्तं विनायकम् ।
स्वाहान्तमिरयेन्मन्त्र (112) मावेशे विनियोजयेत् ।। 33.182 ।।
(112. तमावेशे नि.)
स्तम्भे वा पुरुषे वापि (113) पयस्तेनाभिमन्त्रितम् ।
विक्षिपेदथ भूतानि स्तम्भ (114) मप्याविशन्तितम् ।। 33.183 ।।
(113. यस्तेनास्यभि.)
(114. माप्या.)
अष्टाक्षरमुखस्सूर्यो वह्निर्दिः कमलासन ।
व्यस्तौ पुनस्तयोर्वह्नावुभयत्र त्रिविक्रमौ ।। 33.184 ।।
आदित्यरामं नासिक्यं (115) घटसं वावकप्रियाः ? ।
(116) येन साग्रहमन्त्रस्य पिशाचादिभयावहम् ।। 33.185 ।।
(115. स्फुटस्थो पानक.)
(116. एनसा.)
भूतप्रतिकृतिं कृत्वा शालिपिष्टैर्महोदरीम् ।
भित्वा तीक्ष्णेन शस्त्रेण भूतं साक्षाद्भविष्यति ।। 33.186 ।।
भूतग्रहपिशाचादीनपस्मारमथापि वा ।
कूश्माण्‍डयक्षगन्धर्वब्रह्मरक्षस्सुरासुरान् ।। 33.187 ।।
आवेशयेद्धरेच्चापि मन्त्रैरेतैश्चतुर्मुख ।
यद्यदेभिरशक्यं स्यात्तत्तत्कुर्याद्विचक्षणः ।। 33.188 ।।
(117) सुदर्शनस्य मन्त्रेण नारसिह्मेन वा पुनः ।
त्रैलोक्यमोहनेना पि साक्षा दष्टाक्षरेण वा ।। 33.189 ।।
(117. सौदर्शनेन मन्त्रेण.)
* संहितोपसिंहारः.*
इति मन्त्रप्रभावस्ते कथितः पद्मसम्भन ।
(118) चर्या च विधिवत्प्रोक्ता धर्मकामार्थमुक्तिदा ।। 33.190 ।।
(118. भवचर्या च विधिनत्प्रोक्ता कमलसम्भव ।।)
(119) इदं हि पावनं शास्त्रमधीते यस्समाहितः ।
त्रिष्वप्यमुष्य लोकेषु ज्ञेयमन्यन्नविद्यते ।। 33.191 ।।
(119. इदमेकायनं.)
* शास्त्रोपदेशागमप्रकारः.*
पद्म :---
इत्युक्त्वा ब्रह्मणे शान्त्रं भगवान् भूतभावनः ।
वासुदेवः परं ब्रह्मतत्रैवान्तरधीयत ।। 33.192 ।।
अथ विस्मयमानात्मा ब्रह्मालोकपितामहः ।
अजगाम स्वकं लोकं स्तूयमानो महर्षिभिः ।। 33.193 ।।
कपिलाय ददौ ब्रह्माशास्त्रमेतन्महर्षये ।
स चापि भगवान्मह्यं मयाते कथितं पुनः ।। 33.194 ।।
तत्पाताल मिदं हित्वा जम्भूद्विपमितो व्रज ।
हिमवत्सर्वते रम्ये समाधाय मनश्शुभम् ।। 33.195 ।।
आराधय हृषीकेशं (120) विधानैः पाञ्चकालिकैः ।
इति ब्रुवाणे पद्मे तु लब्ध्वा हृष्टेन चेतसा ।। 33.196 ।।
(120. विधिभिः.)
अयोग्याज्ञानतिमिरं शास्त्राञ्जनशलाकया ।
* संवर्तस्य पातालाज्जंबूद्वीपागमनम्.*
(121) निवृत्य पातालतलात्कृत्वा पद्मं प्रदक्षिणम् ।। 33.197 ।।
(121. निर्वर्त्य.)
अमुष्मिन् शैलशिखरे देवदारुभिरावृते ।
महाभागवतैः पुण्यैः पञ्चरात्रविशारदैः ।। 33.198 ।।
तपस्वाध्यायनिरतैस्सेविते परमर्षिभिः ।
हृदयेभ्यस्समाहृत्य हृदयं संयमादिभिः ।। 33.199 ।।
अराधयामि विश्वेशं वासुदेवं जगद्गुरम् ।
(122) अन्यमानीय तद्वाचा तं ध्यायन्मनसा पुनः ।। 33.200 ।।
(122. अन्नमानीय तद्वाचा तध्यायन्मन.)
कालेनाराधनं कुर्वन् भजामि परमेश्वरम् ।
त्वमप्याराधय क्षिप्रं चतुर्प्योहमधोक्षजम् ।। 33.201 ।।
* शास्त्रगोपनम्.*
मया ते कथितं शास्त्रं सावधानेन किं श्रुतम् ।
इदं ते नातपस्काय नाभक्ताय कदाचन ।। 33.202 ।।
न चाशुश्रूषवे वाच्यं न च मां यो भ्यसूयति ।
* तन्त्रेषु पञ्चरत्नानि.*
तन्त्राणां चैवरत्नानि पञ्चाहुः परमर्षयः ।। 33.203 ।।
पाद्मं सनत्कुमाराख्यं तथा परमसंहिता ।
पद्मोद्भवं च माहेन्ध्रं कण्वतन्त्रामृतानि (123) च ।। 33.204 ।।
(123. रक्षादिमन्त्र माद्यन्ते.)
तदा प्रभृति ये शिष्टास्ततो हं हिमवत्तटे ।
आराधयं चतुर्बाहुं नियतः पुरुषोत्तमम् ।। 33.205 ।।
भवन्तोपि यतात्मानो भक्तिमन्तो जनार्दने ।
केन वा कथितं शास्त्रमृषयः कल्मषापहम् ।। 33.206 ।।
* शास्त्रश्रवणे फलम्.*
इदं महोपनिषदं श्रद्धधानशश्रुणोति यः ।
स याति शाश्वतं (124) स्थानं दुष्प्रापमकृतात्मभिः ।। 33.207 ।।
(124. ब्रह्म---इत्यध्यायस्त्रयस्त्रिं शच्चर्यापादः प्रकीर्तित इति अर्धंकेषु चित्कोशेषु दृश्यते ।।)
येन मां प्रथमामान यथा पद्म गुरोर्गुरुः ।
तेनेदं श्रीयते ? पुण्या मतनोत्पद्म संहिताम् ।। 33.208 ।।
ऋषयस्तं भवन्तोपि भगन्तु पुरुषोत्तमम् ।
प्रदास्यति स युष्मभ्य मपवर्गं तपोधनाः ।। 33.209 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चार्यापादे समाराधनाङ्ग मन्त्रोद्धारो नाम त्रयस्त्रिंशोऽध्यायः.
चर्यापादस्समाप्तः.
समाप्ताचेयं संहिता.
------ ******* -------
 

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_३३&oldid=207000" इत्यस्माद् प्रतिप्राप्तम्