चर्यापादः/अध्यायः २२
← अध्यायः २१ | चर्यापादः अध्यायः २२ [[लेखकः :|]] |
अध्यायः २३ → |
पाद्मसंहितायाम्
चर्यापादे--द्वाविंशोऽध्यायः
* मुद्राविधिः.*
ब्रह्मा:---
कीदृशी भगवन्मूद्रा तद्भेदाश्चापि कीदृशाः ।
प्रयोजनं वा किं तस्याः कथ्यतां तदशेषतः ।। 22.1 ।।
* मुद्रानिरुक्तिः.*
श्रीभगवान्.
अङ्गुलीरचना (1) भेदो मुद्रायस्मात्प्रदर्शितात् ।
(2) हिंसकानामशेषाणां मुदं द्रावयति क्षणात् ।। 22.2 ।।
(1. भेदा मुद्रा यस्मात्प्रदर्शिताः.)
(2. साङ्गुलीनामशेषाणां मुद्रा वारयुति क्षणात्.)
ततो मुद्रा निरसनं तेषां तस्याः प्रयोजनम् ।
प्रीणनं चापि देवानां कर्मणा सोपिदर्शितः ।। 22.3 ।।
* मुद्रापूर्वविधिः.*
प्रयोक्तव्यश्च रहिसि न बहिर्जनसंसदि ।
मन्त्रमण्डलमुद्राणां गुप्तिरेषा सनातनी ।। 22.4 ।।
गन्धलिप्तौ करौ कृत्वा मुद्रादर्शनमाचरेत् ।
* हृदयमुद्रा.*
अनामि कामध्यमयोः प्रवेश्याङ्गुष्ठमायतम् ।। 22.5 ।।
विधाय मुष्टिं हृदये न्यसेद्धृदयमुद्रिका ।
* शीर्षमुद्रा.*
सैषा मुष्टिमधो बध्वा स्तापयित्वा च मूर्धनि ।। 22.6 ।।
अङ्गुष्ठाग्रेण हननं तर्जन्या शीर्षमुद्रिका ।
* शिखामुद्रा.*
उर्ध्वाङ्गुष्ठं धृढं मुष्टिं बध्वान्यस्येच्छिखापदे ।। 22.7 ।।
शिखामुद्रेयमुदिता
वर्ममुद्रातु कथ्यते ।
* कवचमुद्रा.*
प्रवेश्याभ्यन्तरांगुष्टं बध्वा मुष्टिप्रवेशनम् ।। 22.8 ।।
उन्नम्यकिञ्चिदग्रे च विततान्तेन मुष्टिना ।
(3) भावयेद्वर्मणो बन्धं सैषा कवचमुद्रिका ।। 22.9 ।।
(3. हरयेद्वर्मणो.)
* अस्त्रमुद्रा.*
(4) तर्जन्यंगुष्ठसिरसि स्फोटयेच्चक्रवत् (5) स्मरन् ।
दिक्षु सर्वासु शेषाभिर्मुष्टिं बध्वा चतुर्मुख ।। 22.10 ।।
(4.तर्जन्याङ्गुष्ठशिरसा.)
(5. क्रमात्.)
सैषास्त्रमुद्रा विज्ञाया
* नेत्रमुद्रा.*
शिखामुद्रामधोमुखीम् ।
विन्यनेत्तां भ्रुवोर्मध्ये नेत्रमुद्रेयमीरिता ।। 22.11 ।।
षडङ्गमुद्रास्वेतानु हस्तस्सर्वत्र दक्षिणः ।
* अग्नि प्राकारमुद्रा.*
कनिष्ठादित्रिभिर्बध्वा मुष्टिं साङ्गुष्ठमुन्न ताम् ।। 22.12 ।।
विधाय तर्जनीं तेन भ्रामयेदाशु चक्रवत् ।
अग्नि प्राकारमुद्रेयं (6) तयैवात्माभिरक्षणम् ।। 22.13 ।।
(6. ताभि रात्मा.)
* योगमुद्रा.*
नाभेरधस्ताद्विन्यस्य (7) सव्यं करतलं पुनः ।
उत्तानमितरं तस्य विन्यसेदुपरी (8) दृशी ।। 22.14 ।।
(7. सर्वं.)
(8. शम्.)
योगमुद्रा
* योगसम्पुटमुद्रा.*
(9) करतलं सव्यं नाभेरधस्ततः ।
अवाङ्मुखं तदुपरि (10) सव्येकरतलं पुनः ।। 22.15 ।।
(9. करतले सर्वं.)
(10. सर्वं.)
समाङ्गुष्ठं विरचयेद्योगसम्पुटमुद्रिका ।
* उक्तयोर्मुद्रयोर्विनियोगः.*
योगाभ्यासे च तत्वानां संहारोत्पादनेपि च ।। 22.16 ।।
मुद्राद्वयमिदं ब्रह्मन्कथितं योगिनां हितम् ।
* कुम्भमुद्रा.*
योगसंपुट (11) मुद्रेयमुच्चिता घटवत्कृता ।। 22.17 ।।
(11. मुद्रैवच्छिद्रिता---मुद्रेयं मुद्रिता.)
(12) ऊर्ध्वं स्यात्कुम्भमुद्रैषातया स्नानं समाचरेत् ।
* संहारमुद्रा.*
तर्जन्या नामिकाग्रं तु विष्टयित्वा क्रमेण तत् ।। 22.18 ।।
(12. ऊर्ध्वाभ्यां स्यात्कुम्भमुष्टेः कुम्भ.)
तथाङ्गुष्ठकनिष्ठौ तु ज्ञेया संहारमुद्रिका ।
* एतस्या विनियोगः.*
तत्वानां सहृतौ चैव देवतोद्वासने तथा ।। 22.19 ।।
एषा मुद्रा प्रयोक्तव्या सर्वकर्मसु सर्वदा ।
* सृष्टिमुद्रा.*
संहताभि(13) श्च तिसृभिरङ्गुलीभिश्चसंगतिः ।। 22.20 ।।
(13. श्चतसृभिः.)
विमुक्ततर्जनी भूयस्सृष्टि मुद्रेति कीर्तिता ।
* एतद्विनियोगः.*
आवाहने (14) तत्वसृष्टौ मुद्रैषा परिकीर्तिता ।। 22.21 ।।
(14. च सृष्टौ च.)
* तत्वमुद्रा.*
अङ्गुष्ठतर्जनीभ्यां तु संयोगस्तत्वमुद्रिका ।
तत्वन्यसनकाले च मुद्रैषा (15) परिकीर्तिता ।। 22.22 ।।
(15. समुदाहृता.)
* सैवज्ञानमुद्रा.*
ज्ञानमुद्रा (16) पि सैवैषा स्यादज्ञानतमोपहा ।
* न्यासमुद्रा.*
ऊर्ध्वयोः करयोर्मध्यं मध्यमाभ्यां तु स्स्पृशेत् ।। 22.23 ।।
(16. फलैस्सैषा.)
उत्तानितौ करौ कृद्वा न्यास (17) मुद्रा निगद्यते ।
देवात्मदेहयोर्मन्त्रं न्यासमुद्रेयमीरिता ।। 22.24 ।।
(17. मुद्रेति कथ्यते.)
* जपमुद्रा.*
अङ्गुष्ठाभ्यां तु करयोस्तर्जन्योरुभयोरपि ।
मध्यमाभ्यां स्पृशेदन्यां (18) विस्तृतानि यथा तथा ।। 22.25 ।।
(18. द्विसृताहि र्यथा.)
जपमुद्रेति विज्ञेया जपकाले प्रदर्शयेत् ।
* ब्रह्ममुद्रा.*
अङ्गुलीभिस्समस्ताभिर्दक्षिणेतरहस्तयोः ।। 22.26 ।।
संपुटीकरणं ब्रह्ममुद्रा संशब्दिता बुधैः ।
* विष्णुमुद्रा.*
अङ्गुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी द्वयो ।। 22.27 ।।
(19) सहयुक्ताग्रतश्शिष्टा विष्णुमुद्रेति कीर्तिता ।
* रुद्रमुद्रा.*
सा चैव शेषिताङ्गुष्ठासमस्तेन परस्परम् ।। 22.28 ।।
(19. सङ्गयुक्ताग्रगाः.)
उभयाङ्गुष्ठमुद्रा सा रुद्रस्य कथिता तव ।
* अभिवादनमुद्रा.*
श्रोत्रे पिधाय पाणिभ्यां दण्डपद्दक्षिणं करम् ।। 22.29 ।।
प्रसारयेद्गुरूणां तु अभिवादनकर्मणि ।
* विष्णु राजमुद्रा.*
(20) सर्वहस्ताङ्गुलीस्सव्यकर्णेन्यस्य तथेतरम् ।। 22.30 ।।
(20. सव्यहस्तांगुलीस्सव्य.)
प्रसरेद्विघ्नराजस्य मुद्रा विघ्नविनाशिनी ।
* भागवतमुद्रा.*
अन्तस्तु तर्जनीयुग्मं संहताङ्गुष्ठकद्वयम् ।। 22.31 ।।
मुद्रा भागवती सास्यात्
* वराहामुद्रा.*
करयुग्मं तु सम्पुटे ।
(21) कृते वराहमुद्रा सासर्वसिद्धिकरी शुभा ।। 22.32 ।।
(21. कृत्वा.)
गुरुपङ्क्तिक्रमे ब्रह्मन् (22) सैषामुद्रा प्रदर्शिता ।
* दहनमुद्रा.*
अपसव्ये करतले संस्मरेद्रक्तपङ्कजम् ।। 22.33 ।।
(22. मुद्रास्सर्वाः प्रदर्शिताः. सर्वकर्मप्रदर्शितम्.)
तन्मध्ये चिन्तयेदग्निं त्रिकोणं तेससां निधिम् ।
अवाङ्मुखं करतलं कृत्वा द्रव्योपरि न्यसेत् ।। 22.34 ।।
ज्ञेया दहनमुद्रैषा द्रव्यशुद्धि (23) प्रदा सदा ।
* अप्यायनमुद्रा.*
सव्ये करतले श्वेतपङ्कजं षोडशच्छदम् ।। 22.35 ।।
(23. प्रदायिनी.)
कलाषोडश (24) संयुक्तं शशिनं पङ्कजासन ।
तन्मध्येचिन्तयित्वातु स्रावितं चामृतं स्मरेत् ।। 22.36 ।।
(24. सम्पूर्णम्.)
तेनामृतेन तद्भस्म क्षालितं तूत्थितं स्मरेत् ।
आप्यायनन्य मुद्रैषा कथिता कमलासन ।। 22.37 ।।
* सुरभिमुद्रा.*
अंगुष्ठे द्वे कनिष्ठे द्वे तथास्यात्तर्जनी (25) द्वयोः ।
शिष्टं प्रसारयेद्ब्रह्मन्नंगुलानि करद्वये ।। 22.38 ।।
(25. द्वयम्.)
मध्यमां दक्षिणकरेऽनामिकां च तथेतरे ।
संहृत्य प्रसरेच्छेषं करयोरुभयोरपि ।। 22.39 ।।
ज्ञेया सुरभिमुद्रा (26) सा याग द्रव्यविशोधिनी ।
* आवाहनमुद्रा.*
हस्ताभ्यामञ्जलिं कृत्वा ईषद्विकसितं स्फुटम् ।। 22.40 ।।
(26. स्यात्.)
अवाहनस्य मुद्रैषा दर्शनात्स (27)न्निधिं भजेत् ।
* प्रणाममुद्रा.*
हृदये शिरसि द्वेपि सम्पुटाञ्जलिरूर्ध्वागा ।। 22.41 ।।
(27. सन्निधिर्भवेत्.)
प्रणाममुद्रासाज्ञेया क्षिप्रं देवप्रसादिनी ।
* तस्याविनियोगः.*
सा ज्ञेया वासुदेवादिमूर्तिनां कमलासन ।। 22.42 ।।
चतुर्विंशतिमूर्तीनां मीनादीनां तथैव च ।
मुद्रैषा चा न्यमूर्तिनां कथिता कमलासन ।। 22.43 ।।
* पद्ममुद्रा.*
प्रसार्यकरजान् सर्वान् मणिबन्धौ समेत्य तौ ।
अन्तः प्रविश्य चांगुष्ठौ तयोः पृष्ठमनुस्पृशेत् ।। 22.44 ।।
प्रसारयेत्पद्ममुद्रा मासने (28) तु प्रदर्शयेत् ।
* कमलमुद्रा.*
श्रियादीनां च सर्वासां देवीनां चतुरासन ।। 22.45 ।।
(28. सम्प्र.)
प्रोक्ता कमलमुद्रा (29) सा सर्वकामफलप्रदा ।
* शङ्खमुद्रा.*
निबध्य दक्षिणांगुष्ठं वामहस्तस्य मुष्टिगम् ।। 22.46 ।।
(29. स्यात्सर्व.)
कृत्वा चांगुष्ठतर्जिन्यौ संयुक्ते प्रसृते समे ।
(30) त्रिप्रस्तु दक्षिणन्यासा बध्नी युर्मुष्टिमूर्ध्वगाः ।। 22.47 ।।
(30. तिस्रस्तु दक्षिणस्यान्याम्.)
शङ्खमुद्रेयमुदिता ज्ञानदा मोक्षदाऽचिरात् ।
* चक्रमुद्रा.*
मणिबन्धसमौ हस्तौ तिर्यक्सं (31) भ्राम्य च क्रमात् ।। 22.48 ।।
(31. भाव्य चक्रवत्)
पर्यायेण प्रयोक्तक्या चक्रमुद्रा महोदया ।
* गदामुद्रा.*
मुष्ठिं कृत्वा तु हस्ताभ्यामंगुष्ठौ (32) विनतावुभौ ।। 22.49 ।।
मध्यमांगुलियुग्मं तु (33) ऋजुमूर्ध्वं प्रसारयेत् ।
शेषाभिरंगुलीभिस्तु बन्धयेयुः परस्परम् ।। 22.50 ।।
(32. वितता.)
(33. दर्वीकृत्य दीर्घाकृत्य.)
संश्लिष्टौ कूर्परौ द्वौ तु गदामुद्रेयमीरिता ।
* चापमुद्रा.*
तर्जन्यग्रं मध्यमया संस्पृशे (34) च्चापमुद्रिका ।। 22.51 ।।
(34. धनु.)
* मुसलमुद्रा.*
मुष्टिं कृत्वा वामहस्त मंगुष्ठमृजुमूर्ध्वतः ।
अपसव्यकरेणै तदंगुष्ठं तु बन्धयेत् ।। 22.52 ।।
प्रसार्य दक्षिणांगुष्ठं ज्ञेया मुसलमुद्रिका ।
* खड्गमुद्रा.*
कनिष्ठांगुलिपूर्वं तु संहृत्यांगुष्ठकेन (35) तु ।। 22.53 ।।
(35. च.)
निबध्य तर्जनीं भूयस्तदग्रं नतमेव च ।
खड्गमुद्रा तुसा ज्ञेया सर्वदुष्टभयङ्करी ।। 22.54 ।।
* वनमूलामुद्रा.*
हस्ताभ्यां लम्बयेद्ब्रह्मन्नंगुल्यग्रैः परस्परम् ।
बन्धयेद्वन (36) माला स्यादंगुष्ठौ द्वौ तु संहरेत् ।। 22.55 ।।
(36. मामाया अङ्गुष्ठौ.)
* अञ्जलिमुद्रा.*
आखण्डलादिदेवानां मुद्रा चाञ्जलिसंज्ञिता ।
* गरुडमुद्रा.*
उभौ करतले पृष्ठौ संश्लिष्टौ तु कनिष्ठकौ ।। 22.56 ।।
बन्धयेत्तर्जनीयुग्मं प्रसरेत्तुण्डवत्क्रमात् ।
अंगुष्ठौ द्वौ (37) पादयुग्म मधस्ताल्लम्बयेत्क्रमत् ।। 22.57 ।।
(37. पदे युग्मे.)
मध्यमानामिकाभ्यां तु करयोरुभयोरपि ।
पक्षवच्चलनं कुर्याज्ज्ञया गरुडमुद्रिका ।। 22.58 ।।
* विष्टक्सेनमुद्रा.*
कनिष्ठादित्रयं ब्रह्मन् संहृत्यागुष्ठकेन च ।
निबध्य तर्जनीं भूयो निष्वक्सेनस्य मुद्रिका ।। 22.59 ।।
* अनन्तमुद्रा.*
प्रसार्य करजान् सर्वान् विरलानूर्ध्वगामिनः ।
कृत्वाहस्तस्य चायामं तदग्रान् कुञ्चयेत्क्रमात् ।। 22.60 ।।
फणिफणाग्रसदृशाज्ञेयाऽनन्तस्य मुद्रिका ।
* बलिमुद्रा.*
चण्डादीनां भ वेन्मुष्टिमुद्रैषा बलिमुद्रिका ।। 22.61 ।।
* अस्त्रमुद्रा.*
अङ्गुष्ठानामिकाभ्यांतु (38) तथा स्यादस्त्रमुद्रिका ।
* मुष्टिमुद्रा.*
मुष्टिमुद्रा तु मुष्टिस्स्यादंगुष्ठेन तु वेष्टिता ।। 22.62 ।।
(38. तथा स्याद्वक्त्र--द्वस्त्र.)
* ज्ञानमुद्रा.*
ज्ञानमुद्रेति विज्ञेया सैव मुक्तकनिष्ठिका ।
* गन्धमुद्रा.*
गन्धमुद्रेति विज्ञेया विमुक्तानामिका च सा ।। 22.63 ।।
* पुष्पामुद्रा.*
पुष्पमुद्रेति विज्ञेया विमुक्ता मध्यमा तथा ।
* यज्ञोपवीतमुद्रा.*
मध्यमाङ्गुष्ठशिरसि (39) सङ्गतिर्ह्यग्रपर्वणा ।। 22.64 ।।
(39. सङ्गताभ्यांतु.)
यज्ञोपवीतमुद्रा स्या
* आकल्पमुद्रा.*
दंगुष्ठेन कनिष्ठिका ।
आकल्पमुद्रिका ज्ञेया विष्णोः प्रीतिकरी शुभा ।। 22.65 ।।
* धूपमुद्रा.*
(40) संहृताग्राङ्गुलीनां तु कृत्वा व्यतिकराङ्गुलीः ।
सहैवोर्ध्वीकृतांगुष्ठौ कराभ्यां (41) धूपमुद्रिका ।। 22.66 ।।
(40. संशृता.)
(41. धूम.)
* दीपमुद्रा.*
ऊर्ध्वंतु मध्यमां कृत्वा संहृत्यांगुष्ठमेव च ।
तर्जन्या नामिकाभ्यां तु संहृत्य तु कनिष्ठिकाम् ।। 22.67 ।।
तेनैव वामहस्तेन दक्षिणेन कृता (42) तु या ।
दीपमुद्रेति सा प्रोक्ता देवदेव प्रयाधिका ।। 22.68 ।।
(42. तथा.)
अन्येषामुपचाराणां मुद्रा स