← अध्यायः २७ चर्यापादः
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-अष्टाविंशोऽध्यायः
अष्टाविंशोऽध्यायः.
---
श्रीभगवान् :----
* यज्ञमूर्तिमन्त्रः.*
हेब्रह्मन् यज्ञवपुषमन्त्रस्संप्रति कथ्यते ।
महाफलं प्रोच्यमानमिमं त्वमवधारय ।। 28.1 ।।
आत्मने इति पर्यन्तमष्टाक्षरवदुद्धरेत् ।
कालाद्यनलमध्यं च विग्रहान्तं पदं ततः ।। 28.2 ।।
चतुर्थ्यन्तो मूर्तिशीर्षं यज्ञादिपदमन्वतः ।
तद्विभक्त्यन्तमपरं ठठान्तं मनुरीरितः ।। 28.3 ।।
बी मस्या नलं मुख्यमनुस्वारान्तमुद्धरेत् ।
अङ्गानि चानलादीनि षड्भारान्तान्यनुक्रमात् ।। 28.4 ।।
सानुस्वाराणि योज्यानि क्रतुर्द्रष्टा विरुट्पुनः ।
छन्धश्च यज्ञमूर्त्यात्मा देवता भगवान् हरिः ।। 28.5 ।।
लक्षत्रयं जपःकार्यो मन्त्रस्यास्य प्रसाधने ।
फलं प्रसूते धर्मादिपुरुषार्थ चतुष्टयम् ।। 28.6 ।।
* अन्नाधिपतिमन्त्रः.*
अन्नाधिपतिमन्त्रस्य प्रभापोरूपमेव च ।
कथ्यते संप्रति ब्रह्मन् न वाच्यं यस्य कस्य चित् ।। 28.7 ।।
प्रणवादिर्मनुस्सर्वो विशेषस्तूच्यतेऽधुना ।
(1) मुख्यमर्णं भद्रपाणिं द्विरुक्तं तदनन्तरम् ।। 28.8 ।।
(1. मुखवर्णम्.)
आदिदेवं धनपतिं मायामुद्धृत्य पश्चिमम् ।
विष्णुं विजयनामानमाद्यं वायुमनन्तरम् ।। 28.9 ।।
देवदत्तं च दक्षादिमाद्यं दक्षं पुनस्तथा ।
आदिदेवं मनुष्येशं द्विरुक्तं मुख्यमन्वतः ।। 28.10 ।।
मन्दरं पापहननमृतधा वैष्णवाक्षरम् ।
शङ्खमादिमचामन्वग्द्विः प्रोक्तं प्रेतनायकम् ।। 28.11 ।।
प्रणवादिं ठठेत्यन्तमिति मन्त्रं चतुर्मुख ।
बीजमस्य प्रवक्ष्यामि द्वादशात्मानमुद्धरेत् ।। 28.12 ।।
ज्वलनं वामनं बिन्दुमेतदेवाङ्गमुच्यते ।
आकारादिक्रमाद्दीर्घस्वरभक्तिर्विशेष (2) कृत् ।। 28.13 ।।
(2. वित्.)
अस्त्रे विशेषो विष्णुश्च विसर्गश्च समिरितः ।
व्यासो द्रष्टास्य मन्त्रस्य छन्दस्तु बृहती तथा ।। 28.14 ।।
देवतान्नपतिःप्रोक्तो मन्त्रस्यास्य चतुर्मुख ।
अन्यथा शृणु वक्ष्यामि (3) बह्वन्नफलदं शुभम् ।। 28.15 ।।
(3. बह्मर्ण.)
नत्यन्तं प्रपणवं पूर्वं वरुणं च त्रिविक्रम् ।
क्रोधरूपं प्रचण्डं च विष्णुं वरुणमन्वतः ।। 28.16 ।।
माधवं पूर्णचन्द्रं च पीयूषात्मानमेव च ।
आदिं वैश्वानरं मुख्यं पवित्रं प्रणवादि च ।। 28.17 ।।
एकनेत्रमकारं च श्वसनं माधवं ततः ।
मन्दरं प्रणवाद्यं च दीप्तिमन्त्रं चतुर्मुख ।। 28.18 ।।
गोपनं जृम्भलं विष्णुं माहेन्द्रं गोपनं ततः ।
वायुवाद्यं ठठान्तं च वर्णोद्धार इतीरितः ।। 28.19 ।।
बीजमङ्गानि पूर्वोक्तमृषिरस्य पराशरः ।
छन्दश्छ देवी गायत्रं देवतान्नपतिर्भवेत् ।। 28.20 ।।
पूर्णेन्धुबिम्बमध्यस्थे सितपद्मे विकस्वरे ।
आसीनं धवलाकारं निलकुञ्छितमूर्धजम् ।। 28.21 ।।
दुकूलक्षौमवसनं बालयोग्य (4) विभूषणम् ।
कलधौतमयं प्रातं वायसान्नेन पूरितम् ।। 28.22 ।।
(4. विभूषितम्.)
बिभ्राणं दक्षिणे हस्ते दध्योदन मथेतरे ।
ध्यायेल्लक्षत्रयं धीमान् जपेत्तद्गतमानसः ।। 28.23 ।।
अनेन जुहुयाच्चाग्नौ नियतं मन्त्रवित्तमः ।
बह्वन्नत्वमवाप्नोति सर्वमिष्टं लभेति च ।। 28.24 ।।
* शक्तीशमन्त्रः.*
शक्तीशमन्त्रमधुना कथयामि चतुर्मुख ।
आदितस्सप्तवर्णानामुद्धारः पूर्वमिरितः ।। 28.25 ।।
क्रोधनं हृदयाह्लादं भुवनं भास्करं ततः ।
गुहालयमनुस्स्वारं रविमग्निं च मारुतम् ।। 28.26 ।।
सयष्टिं पीतमाद्यर्णं कमलं क्रोधरूपिणम् ।
माधवीं पञ्चबिन्दुं च हननं चाप्रमेयकम् ।। 28.27 ।।
वै राजमपप्रमेयं च पुरुषात्माच माधवः ।
नारायणं चतुर्थ्यन्तं ठठेति मनुरीरितः ।। 28.28 ।।
अंशुमान् वीतिहोत्रश्छ वामनो बिन्दुमस्तकः ।
अङ्गं च बीजं पूर्वोक्तमृषिश्चापि पराशरः ।। 28.29 ।।
छन्दश्च देवी गायत्रं शक्तीशो देवता तथा ।
जपेद्द्वादश लक्षं तु प्राप्नु यात्सर्वमिप्सितम् ।। 28.30 ।।
* कालनेमिमन्त्रः.*
कालनेमिमनुर्ब्रह्मन् कथ्यते सर्वसाधकः ।
आद्यर्णाः पूर्ववत्सप्तपीयूषात्मा त्रिविक्रमः ।। 28.31 ।।
उग्रदेहः प्रचण्डश्च विष्णुः कलशमाधवौ ।
कमलं गोपनयुतं महेन्द्रं विष्णुमस्तकम् ।। 28.32 ।।
विघ्नेशं (5) देवदत्तं च दक्षं मायापरिष्कृतम् ।
(6) पतङ्गमृतधामानं वैधरं च चतुर्गतिम् ।। 28.33 ।।
(5. देवदेवं च.)
(6. पतङ्गामृत.)
आद्यं सुधारसं मायामत्रिर्गोपनहव्यवाट् ।
आद्यं सुमुख (7) माद्यं च श्वसनं चाप्रमेयकम् ।। 28.34 ।।
(7. माकारं.)
हुंफडन्तं ठठपरं मनुरेवं समुद्धृतः ।
बीजं वक्ष्ये दिनकरं भुवनं यष्टिमस्तकम् ।। 28.35 ।।
क्रुद्धादि पूर्ववच्चाङ्गं नारदो मन्द्रदर्शनः ।
छन्धो विराट् देवता च कालनेमिश्छतुर्मुख ।। 28.36 ।।
जपसङ्ख्याफलं चापि द्विषट्काक्षरवद्भवेत् ।
* त्रैलोक्यमोहनमन्त्रः.*
त्रैलोक्य मोहनं मन्त्रं कथयामि यथातथम् ।। 28.37 ।।
उद्गीथं कमलं पीतं वामनं (8) ध्रुवमस्तकम् ।
एकाक्षरो मनुरयं देवताङ्गमनुक्रमात् ।। 28.38 ।।
(8. बिन्दु.)
षड्भिर्युतमचामाद्वैस्यानुस्वारं प्रजयोजयेत् ।
ऋषिर्वृद्धमनुश्छन्धो देवी गायत्रमिरितम् ।। 28.39 ।।
त्रैलोक्यमोहनो देवो देवता जपतर्पणम् ।
होमश्च फलमप्यस्य निधिस्थानोपलम्भनम् ।। 28.40 ।।
जपन् भूयस्तथा सर्वं दुर्लभं फलमश्नुते ।
* तस्यैव मन्त्रान्तरम्.*
षोडशार्णो मनुर्ब्रह्मन् त्रिलोकीमोहनात्मकः ।। 28.41 ।।
उच्यते पूर्ववत्सप्तवर्णानाद्यान् समुद्धरेत् ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं ततः परम् ।। 28.42 ।।
तद्विभक्तिपदं विष्णुपदं स्वाहान्तमुद्धरेत् ।
मनुरेष स एवाङ्गं बीजं पूर्ववदीरितम् ।। 28.43 ।।
मुनिः पुनस्त्यश्छन्दश्च देवता पूर्ववत्तथा ।
जपसङ्ख्या फलं चैव मूलमन्त्रवदिष्यते ।। 28.44 ।।
मन्त्रो नवाक्षरश्चान्यस्त्रिलोकी मोहनात्मकः ।
त्रैलोक्य मोहनपदं चतुर्थ्यन्तं नमस्तथा ।। 28.45 ।।
बीजमङ्गमयं चैव सर्वकामफलप्रदम् ।
(9) निगमादिं चतुर्थ्यन्तं पदं त्रैलोक्य मोहनम् ।। 28.46 ।।
(9. अत्र--"कामकामेश्वरी" इत्यर्धं क्वचिदधिकमस्ति.)
अंशुमालिनमग्निं च पञ्चबिन्दुं सयष्टिकम् ।
शङ्खिनं पुलहं पञ्च बिन्दुयष्टिसमन्वितम् ।। 28.47 ।।
तद्बीजं च द्विरभ्यस्य नतिश्च तदनन्तरम् ।
द्वादशार्णात्मकोमन्त्रस्त्रिलोकीमोहनात्मकः ।। 28.48 ।।
प्रत्यक्षरं लक्षजपो द्वादशाक्षरवत्फलम् ।
* कामकामेश्वरीमन्त्रः.*
कामकामेश्वरी नाम मन्त्रस्सर्वफलप्रदः ।। 28.49 ।।
उद्गीथं पूर्वमुचार्य भास्करं ज्वलनं ततः ।
महामायां यष्टियुतामित्येकाक्षरमुद्धरेत् ।। 28.50 ।।
ेतदेवाङ्गमुदितं शौनको मुनिरुच्यते ।
छन्दश्च देवी गायत्रं देवता पुरुषोत्तमः ।। 28.51 ।।
लक्षमेकं जपेन्मन्त्री सर्वान् कामानवाप्नुयात् ।
शङ्खकुन्देन्दुधवलं चतुर्चाहुं किरीटिनम् ।। 28.52 ।।
गरुडारूढमारोप्य देवीं वामोरुविष्टरे ।
दाडिमिकुसुमप्रख्यां सर्वाकल्पपरिष्कृताम् ।। 28.53 ।।
वाशाङ्कुशधरां लक्ष्मीं कामविह्वाललोचनाम् ।
कामकामेश्वरीमेव ध्यायेदेकाग्रमानसः ।। 28.54 ।।
* त्रैलोक्यमोहनमालामन्त्रः.*
त्रैलोक्यमोहनं नाम मनुस्संप्रतिकथृते ।
ब्रह्मकोशमुदीर्यादौ नत्यन्तं तदनन्तरम् ।। 28.55 ।।
पदानि सम्बुध्यान्तानि क्रमेणोद्धारयेत्सुधीः ।
पुरुषाद्युत्तमपदं रुपमप्रति (10) मेति च ।। 28.56 ।।
(10. मादिच.)
लक्ष्म्यादि च निवासान्तं सकलादिं जगत्पदम् ।
क्षोभणान्तं च सर्वादिपदं स्त्रीहृदयावधि ।। 28.57 ।।
विदारणशिरश्चापि त्रयादि भुवनावधि ।
उन्मादकरपर्यन्तं सुरासुरपदं ततः ।। 28.58 ।।
मनुजेति समुच्चार्य सुन्दरीजनमन्वतः ।
मनांसीति समुच्चार्य तापयेति चतुर्मुख ।। 28.59 ।।
दीपयेति पदं पश्चाच्छोषयेति च मारय ।
स्तम्भय द्रावयाकर्षपर्यन्तं च क्रियापदम् ।। 28.60 ।।
द्विर्वक्तव्यं (11) ततो ब्रह्मन् परमं सुभगावधि ।
सम्बुध्यन्तं च सौभाग्यं (12) करेति पदमन्वतः ।। 28.61 ।।
(11. तदा ब्रह्मन् प्रथमम्.)
(12. करोति च पदं ततः.)
सर्वकामप्रदं प्रोच्य पदं चामुकमित्यतः ।
हनेति द्विस्समुच्चार्य चक्रेण गदयेति च ।। 28.62 ।।
खड्गेन सर्वबाणैश्च द्विर्भिन्धेति पठेत्ततः ।
पाशेनेति ततो बन्ध बन्धेति च पदद्वयम् ।। 28.63 ।।
अङ्कुशेनेति संप्रोच्य ताडयेति द्विरभ्यसेत् ।
कुर्वन्ति द्विस्समुच्चार्य किं तिष्ठपदमन्वतः ।। 28.64 ।।
तावद्यावत्पदे प्रोच्य समीहितपदं ततः ।
मे सिद्धिर्भवतूच्चार्य (13) मे हुंफडिति शीर्षकम् ।। 28.65 ।।
(13. हेतु.)
इत्येष मालामन्त्रस्य समुद्धारः प्रदर्शितः ।
निगमादिरनन्तं च और्वं चन्द्रार्ध शेखरम् ।। 28.66 ।।
बीजमेवं समुद्धृत्य षडङ्गानि मनुः पुनः ।
षोढा विभज्य कर्तव्या ऋषिस्स्यान्नलकूबरः ।। 28.67 ।।
छन्दोऽतिच्छन्दनामास्य देवता पुरुषोत्तमः ।
(14) ध्यायेत्तमेव पुरुषं साधयेन्मन्त्रवित्तमः ।। 28.68 ।।
(14. ध्यात्वा.)
अष्टबाहुं विशालाक्षं गरुडारूढमच्युतम् ।
अकलङ्कशशिप्रख्यं पूर्णेन्दुसदृशासनम् ।। 28.69 ।।
सुभ्रूललाटमकुटं लावण्यामृतसागरम् ।
पीतकौशेयवसनं (15) कपोलामृष्टकुण्डलम् ।। 28.70 ।।
(15. युवानं.)
चक्रं च मुसलं बाणमङ्कुशं दक्षिणे भुजे ।
शङ्खं कौमोदकीं शार्ङ्गं पाशं वामेषु बिभ्रतम् ।। 28.71 ।।
सर्वलक्षणसंपूर्णं सर्वाकल्पपरिष्कृतम् ।
दिव्य चन्दनलिप्ताङ्गं दिव्य (16) स्रग्दामभूषितम् ।। 28.72 ।।
(16. स्रस्वस्त्र.)
देव्योऽष्टौ परितस्तस्य वालव्यजनपाणयः ।
वीजयन्ति सदा देवं कामविह्वललोचनाः ।। 28.73 ।।
एताभ्यो बहिरष्टौ च दिक्षु चक्रादिधारिणः ।
पुरुषा देवदेवेशं प्रणिपत्य बहिस्थिताः ।। 28.74 ।।
एवं सपरिवारं तं ध्यात्वा देवं समाहितः ।
सप्ताहं मन्त्रजापेन वश्या मनुजयोषितः ।। 28.75 ।।
दिवसेषु च तावत्सु पुनर्यक्ष्यादियोषितः ।
तिष्ठन्ति संमुखास्सर्वा मन्मथाविष्टचेतसः ।। 28.76 ।।
भजन्तिमन्त्रिणं मन्त्र (17) वैभवान्मोहयन्ति च ।
(18) जपी भूयास्तथा कामान् सर्वान्विन्दत्यसंशयः ।। 28.77 ।।
(17. प्रभावात्.)
(18.जपन् भूयस्तदा.)
किं पुनर्बहुनोक्तेन देवः प्रत्यक्षतामियात् ।
शान्तिः पुष्टिश्च (19) धर्मश्च कामार्थौ मोक्ष एव च ।। 28.78 ।।
(19. कामार्थौस धर्मौ.)
पातालाकाशगमनमन्तर्धानमदृश्यताम् ।
निधानं (20) फलसिद्धिं च खननं चौषधं तथा ।। 28.79 ।।
(20. बलसिद्धिं.)
पादुकां गुलिकां चापि रसायनमनुत्तमम् ।
(21) अक्षसूत्रं दरं खड्गं तथा वेतालसाधनम् ।। 28.80 ।।
(21. अष्टसूत्रधरम्.)
फलानि दुर्लभान्येव सिध्यन्ति मनुवैभवात् ।
प्रत्येकं न प्रदर्शन्ते ग्रन्थविस्तरभीरुभिः ।। 28.81 ।।
फलानां दिगियं प्रोक्ता दुर्लभानां चतुर्मुख ।
त्रैलोक्यमोहनाख्यस्य कामकामेश्वरस्य च ।। 28.82 ।।
एकाक्षरमुखस्योक्तं फलं मन्त्रस्य पद्मज ।
* यज्ञवराहमन्त्रः.*
मन्त्रं यज्ञवराहस्य वक्ष्यामि कमलासन ।। 28.83 ।।
गृहीत्वा पूर्ववत्सप्त वर्णानाद्याननुक्रमात् ।
स्पर्सान्तं भास्करं चाद्यं (22) कलशं प्रणपादि च ।। 28.84 ।।
(22. कमलम्. केवलम्.)
(23) अनलं चादिदेवान्तं भास्करं मधुसूदनम् ।
श्वसनं वर्णमाद्यं च ओषधीशमचां मुखम् ।। 28.85 ।।
(23. बहुलं.)
वह्निं प्रचेतसं मुख्यं मारुतं प्रणवादि च ।
मुसलिं चन्द्रधवलमचामादिमनन्तरम् ।। 28.86 ।।
श्रीवत्समादिमनलं महामायाग्निगोपनम् ।
दरं विष्णुं खड्गधरं (24) विजयं श्रीधरं तथा ।। 28.87 ।।
(24. श्रीधरं विजयं.)
पियूषरूपमनलं माधवं वैधरं तथा ।
आदिं पवित्रधृष्टिं च प्रणवादिविभूषितम् ।। 28.88 ।।
श्वसनं चाप्रमेयं च कलात्मा विष्णुमस्तकः ।
वरुणं दहनाक्रान्तं वैधरं माधवाक्षरम् ।। 28.89 ।।
वरुणं चादिवर्णं च तथैपोग्रात्म (25) संमितम् ।
अनलं (26) माधवोपेतं मन्दरं प्रथमं मरुत् ।। 28.90 ।।
(25. सप्तमम्.)
(26. माययो.)
मधुसूदनविक्रान्तं पवनं श्वेतरोचिषम् ।
वरुणं वीतिहोत्रं च सुभद्रं च गुहालयम् ।। 28.91 ।।
वै राजमादिदेवान्तं विजयं मन्दरं तथा ।
भद्रपाणिं मृगेशं च वैधरं यष्टिमस्तकम् ।। 28.92 ।।
उग्रात्मा पर्वतं चादिमृतधामपरिष्कृतम् ।
विघ्नेशं मारुतं चैकनेत्रं शुक्लशिरस्तथा ।। 28.93 ।।
सुभद्रं चोर्ध्वलोकेशं नाभिपङ्कजसम्भव ।
माधवीमप्रमेयं च वनमाली झष स्तथा ।। 28.94 ।।
माहेन्द्रं गोपनयुतं मारुतं प्रथमस्वरम् ।
भल्लायुधं हृषीकेशं सुभद्रं भुवनं वसुं ।। 28.95 ।।
प्रचेतसं कलात्मान (27) ममृतं सविसर्गकम् ।
पवित्रमादिं वै राजं मुख्यं पवनमादवौ ।। 28.96 ।।
(27) माकारम्.
सुभद्रमौर्वं दक्षं च मुख (28) द्विपदमिरयेत् ।
शशाङ्कं द्विपदं वह्निभुवनं द्विपदं पठेत् ।। 28.97 ।।
(28. द्विः परमिरयेत् । शशाङ्कं भुवनं वह्निं भुवनं द्विरदं पठेत् ।।)
अचां द्वितीयं दृष्टिं च मायां (29) कमलमादिशेत् ।
(30) हव्यवाड्गोपनयुतं भास्करं मधुसूदनम् ।। 28.98 ।।
(29. कलशमादिशेत्. कमलमादिमम्.)
(30. विसस्वान्.)
(31)प्रभञ्जनमकारं च सूक्ष्मदृग्भुवनं तथा ।
माधवीं रामसहितं पश्चिमाननमादिमत् ।। 28.99 ।।
(31. " प्रभञ्चने" त्यादिसार्धं श्लोकद्वयं - क्वचिन्नास्ति.)
एकनेत्रमिकारं च विजयं कलशं तथा ।
मन्दरं देवदत्तं च वैधरं विष्णुमस्तकम् ।। 28.100 ।।
द्विर्ब्रूयाद्गापना (32) क्रान्तं पश्चिमाननमादिमत् ।
प्रभञ्जनमकारं चठठान्तो मनुरीरितः ।। 28.101 ।।
(32. न्तं च.)
सूक्ष्मदृग्भुवनं सर्गं बीजमेतत्समुद्धृतम् ।
मन्त्रं षोढा विभज्याङ्गकल्पनं काश्यपो मुनिः ।। 28.102 ।।
छन्दो विराट् (33) स्तोमघोणी देवता कमलासन ।
जपो लक्षद्विषट्कं स्यात्फलं सर्वं यथापुरम् ।। 28.103 ।।
(33. दीर्घघोणी. सोमऋषिः.)
* दरोदरनृसिंहमन्त्रः.*
दरोदरनृसिंहस्य मनुस्संप्रति कथ्यते ।
ओंकारं पूर्वमुद्धृत्य (34) कमलं शत्रुदाहकम् ।। 28.104 ।।
(34. कलशम्.)
गुहालयं सयष्टिं च गोपतिं भुवनं ध्रुवम् ।
पुल्ललोचनमाद्यं च हृदया (35) ह्लादनं तथा ।। 28.105 ।।
(35. मोदनम्.)
भद्रपाणिं स्वरादिं च ज्वलनं चादिमं तथा ।
ओषधीशमिकारं च यष्टिं भास्करगोपनौ ।। 28.106 ।।
श्वसनं च नतिर्मन्त्रो नारसिंह उदीरितः ।
अयमेव मनुर्भीजं छन्दो गायत्रमिरितम् ।। 28.107 ।।
देवता नृहरिर्द्रष्टा कपिलो ध्यानमुच्यते ।
दरोदरे सुखासीनं शतपत्रे विकस्वरे ।। 28.108 ।।
तप्तजाम्भूनदनिभं चतुर्भाहुमुदायुधम् ।
पर्यङ्कबन्धसुभगं प्रसारितभुजद्वयम् ।। 28.109 ।।
जानुनोरुपरिष्टाच्च सर्वाकल्पपरिष्कृतम् ।
व्यात्ताननं त्रिनयनं सखदम्भोलिभीषणम् ।। 28.110 ।।
सिंहस्यार्धं नरस्यार्धं मेघगम्भूरगर्जितम् ।
एवं ध्यात्वा जपेदष्टलक्षं मन्त्री समाहितः ।। 28.111 ।।
सावित्रे मण्डले देवमासीनं सर्वकामदम् ।
ध्यायेल्लभेत धर्मादि पुरुषार्थचतुष्टयम् ।। 28.112 ।।
बहुनात्रकिमुक्तेन सर्वान् कामानवावप्नुयात् ।
* पुरुषचतुष्टयमन्त्रनिर्देशः.*
चतुर्णां पुरुषादीनां मनुस्संप्रति कथ्यते ।। 28.113 ।।
प्रणवादीन् सप्तवर्णान् समुद्धृत्य यथा (36) पुरम् ।
स्वं स्वं नाम चतुर्थ्यन्तं मन्त्रानेषां प्रकल्पयेत् ।। 28.114 ।।
(36. तथा.)
तेषां बीजानि वक्ष्यामि वर्णोद्धारैः क्रमादहम् ।
तिग्माशुर्गोपनयुतस्सदण्डः पुरुषात्मनः ।। 28.115 ।।
मार्ताण्डः पञ्चबिन्दुश्च (37) सेन्दुस्सत्यस्स कथ्यते ।
वैराजं पापकं पञ्चबिन्दुं नासिक्य (38) मेव च ।। 28.116 ।।
(37. सेन्द्रम्.)
(38. मुच्यते.)
त्रयूतनुं हृषीकेशं यष्टिं चानन्तनामनि ।
ऋषिश्छन्दो देवता च फलमष्टाक्षरे तथा ।। 28.117 ।।
* हयग्रीवमन्त्रः.*
हयग्रीवस्य मन्त्रस्य वर्णोद्धारः प्रदर्श्यते ।
सप्तवर्णान् समुद्धृत्य विजयं बहुलं ततः ।। 28.118 ।।
(39) कालात्मा चैक दृग्वह्निं गोपतिं विष्णुमस्तकम् ।
श्वसनं प्रणवादिं च लक्ष्मीं (40) बिन्दुमनन्तरम् ।। 28.119 ।।
(39. कलात्मा कामात्मा.)
(40. बन्धु.)
ज्वलनं गोपनयुतं शशाङ्कं माधवं तथा ।
स्वाहान्तमश्वशिरसः कथितष्षोडशाक्षरः ।। 28.120 ।।
स एव बीजमङ्गानि क्रुद्धोल्कादि यथापुरम् ।
ऋषिर्बृहस्पतिर्ह्यस्य च्छन्दो गायत्रमुच्यते ।। 28.121 ।।
देवो हयशिरा नाम देवता कमलासन ।
(41) दशलक्षं जपेन्मन्त्रं महेत् ज्ञानमवाप्नुयात् ।। 28.122 ।।
(41. "दशलक्षम्" इत्यादि " कर्तव्यम्" इत्यन्तं क्वचिन्न.)
ओंकारपूर्वं नत्यन्तं चतुर्थी देवता क्रमात् ।
ठठान्तो मन्त्ररोजोयं दशाक्षरविदर्भितः ।। 28.123 ।।
बीजानि पूर्ववत्सर्वं (42) कर्तव्यं कमलासन ।
* हयग्रीवमालामन्त्रः.*
अतोऽन्यं वाजिशिरसो मालामन्द्रं ब्रवीमिते ।। 28.124 ।।
(42. स्मर्तव्यम्.)
अर्णसप्तकमुद्धृत्य पदं हयशिरास्तथा ।
चतुर्थ्यन्तं सर्वविद्यालयेति पदमन्वतः ।। 28.125 ।।
सकला (43) मरशब्दादि गुरवे पदमुद्धरेत् ।
समस्तप्रतिशब्दादि (44) हन्तानन्तेत्यनन्तरम् ।। 28.126 ।।
(43. मलशब्दानि.)
(44. हतनन्दे.)
वीर्यं तेजः पदं पश्चात् ज्ञानैश्वर्यपदं ततः ।
(45) शक्तिश्चैव बलं चैव सर्वाद्यावासमन्वतः ।। 28.127 ।।
(45. शक्तिशब्दश्चतुर्थ्यन्तस्सर्वन्याससमन्वितः.)
तद्विभक्तिं ततः पश्चात्परमात्मपदं ततः ।
चतुर्थ्यन्तं वासुदेवशब्दस्ता दृग्विभक्तिकः ।। 28.128 ।।
ज्ञानज्ञेयपदं तद्वद्व्यक्ताव्यक्तपराय च ।
सर्वदुष्टासुरं प्रोच्यदुरितं व्रजिनं तथा ।। 28.129 ।।
प्रमाथि तद्विभक्त्यन्तं तत्सद्रुचिरपूर्वकम् ।
पदं च तुरगायेति ज्ञानमुच्चार्य मूर्तये ।। 28.130 ।।
इति चोच्चार्य तस्यानु सहस्रं कोटिमन्वतः ।
पदं विद्यादिनिकं मुञ्च गच्छ पदे ततः ।। 28.131 ।।
स्फोटिर्विजृम्भिर्ल्लोडन्तं द्विर्वक्तव्यं च तिज् पदम् ।
सर्वादितेजोमध्यं च निध्यन्तं च पदत्रयम् ।। 28.132 ।।
चतुर्थ्यन्तं समुच्चार्य निर्धूत पदमन्वतः ।
(46) विकीर्णपदमुचाचार्य प्राक्प्रदीप्तपदं ततः ।। 28.133 ।।
(46. वदीर्णपद.)
केसरं च सटाशब्दं कलापपदमन्वतः ।
प्रदीप्तसूर्यमंशुं च प्रतीकाशपदं ततः ।। 28.134 ।।
भास्कराकारशब्दं च ऊष्ममूर्ध्वजमन्वतः ।
शङ्खमाभमताङ्घ्रिं ? च प्रसरव्रातदीप्तिमान् ।। 28.135 ।।
द्रवत्कनकमुच्चार्य पिङ्गलायतमाननम् ।
महास्वरसमाकारं विशुद्धदशनं ततः ।। 28.136 ।।
पङ्त्किं विनिर्गतां (47) चोक्त्वा विराजितपदं तथा ।
लोकत्रयद्रवद्दीप्तपदं चामिकरादिमत् ।। 28.137 ।।
(47. श्रुत्वा.)
पिङ्गलायतमुच्छार्य विष्फारितपदं पठेत् ।
लोचनादि महाशब्दं विभीषण पदान्वितम् ।। 28.138 ।।
नासिकापुटमद्रीन्द्र शिखराकारसंयुतम् ।
रुचिरं पदमुच्चार्य विकुञ्छितपदं तथा ।। 28.139 ।।
(48) महाश्रवणसंयुक्तं श्रेयसेति पठेत्पदम् ।
तच्छब्दं च चतुर्थ्यन्तं दुष्टसत्वाननन्तरम् ।। 28.140 ।।
(48. महाशुवर्णसंयुक्त श्रवणेति पदं पठेत् ।)
बिन्दिश्छिन्दि स्तथा मारि र्मर्दिस्त्रासिश्च दातवः ।
लोडन्ता द्विस्समुच्चार्य स्यौं वौ मितिपदद्वयम् ।। 28.141 ।।
(49) ध्वंसि हन्ति तथाध्मापि हन्ति ग्रहसि ताडय ।
पचि (50) र्मथिश्च ते एते चोडन्ता द्विः कृता स्तथा ।। 28.142 ।।
(49. ध्वंसिर्ण्यन्त स्तथाध्मापिर्हन्तिर्ग्रन्थिस्तथादिभिः । पचिर्मथिश्च .)
(50. र्मन्दिश्च.)
परविद्यापदं प्रोच्यच्छिन्धिर्ण्यन्तः प्रयुज्यताम् ।
अमित्युक्त्वा तथा नारी ? लोण्मध्यमशिराः स्मृतः ।। 28.143 ।।
एह्येहि भगवन् शब्दं (51) वज्रशब्दमनन्तरम् ।
अङ्कुशेनेति तदनुप्रोच्य चाकर्षयेति च ।। 28.144 ।।
(51. भगवच्छब्दं यज्ञ.)
हृदया (52) द्यादिरन्वक्स्याद्भक्ति पूर्वजनेति च ।
जिह्वादिनिलयं प्रोच्य बडबानलमन्वतः ।। 28.145 ।।
(52. न्यादिमन्वक्.)
सम्बध्यन्तं विश्वमूर्तिं सौमनस्यमनन्तरम् ।
भगवन्नितिवक्तव्य (53) मोंकारं हृदयं ततः ।। 28.146 ।।
(53. मोङ्कौरहृदयं ततः । सदादिब्रह्म.)
सदा (54) यद्ब्रह्म सदसदात्मेति च पदं पुनः ।
चिद्घनादि च तुर्थ्यन्तं भगवत्पदमिरयेत् ।। 28.147 ।।
(54. सदा सद्ब्राह्म सदासच्चात्मेति)
ठठान्तमुद्धरेदेवं हयग्रीवं चतुर्मुख ।
पूर्वोक्तमेवास्य बीजं पूर्ववच्छाङ्गपद्धतिः ।। 28.148 ।।
व्यासो मुनिर्हयग्रीवो देवता च्छन्द उत्कृतिः ।
ध्यायन् हयशिरोवक्त्रातुद्वान्तं फेनमुल्बणम् ।। 28.149 ।।
पिबन्निव सुधीर्मन्त्र (55) राजं मन्त्रविदुच्चरेत् ।
अयुतं नियुतं वापि (56) जपेन्मन्त्रस्य सिद्धये ।। 28.150 ।।
(55. बलं.)
(56. जपो मन्त्रस्य सिद्धदः.)
विद्यापारमवाप्नोति वागीशत्वं च पद्मज ।
व्याख्यातृत्वं च कर्तृत्वं शास्त्राणां बहुवर्त्मनाम् ।। 28.151 ।।
सकृद्ग्रहणमात्रेण विद्यास्सर्वाः प्रतिष्ठिताः ।
(57) अविस्मृतिश्च तासु स्यात्पुरुषार्थचतुष्टये ।। 28.152 ।।
(57. अविस्मृतिश्च नास्यस्यात्पुरु.)
नासाध्यं किञ्सिदस्यास्ति दीर्घमायुश्च विन्दति ।
* मुकुन्दादिमन्त्रनिर्देशः .*
षण्णां मुकुन्दमुख्यानां मनुस्संप्रति कथ्यते ।। 28.153 ।।
सप्तार्णान् पुर्वमुच्चार्य नामधेयानि षट्तथा ।
चतुर्थ्यन्तानि योज्यानि (58) शिष्टार्णानेवमुद्धरेत् ।। 28.154 ।।
(58. शब्दान्येवं स.)
* बभ्रुमन्त्रः.*
(59) जीमूतमादिं नासिक्ये वरुणं प्रणवादि च ।
सबिन्दुं भास्करं (60) रेफे पञ्चबिन्दुं सयष्टिकम् ।। 28.155 ।।
(59. "जीमूतमादिं इत्यरभ्य" " नासिक्यमुद्धरेत्" इत्यन्तं क्वचिन्न.)
(60. रेफम्.)
ठठान्तं च मुकुन्धस्य मुनुरेवं समुद्धृतः ।
भास्करं पावकं पञ्च बिन्दुर्यष्टिसमन्वितः ।। 28.156 ।।
अक्षरं च द्विरभ्यस्येन्मार्ताण्डं च गुहान्वयम् ।
सानुस्वारं द्विरभ्यस्येद्विष्णुशब्दमनन्तरम् ।। 28.157 ।।
चतुर्थ्यन्तं ठठान्तं च बभ्रोर्मनुरुदीरितः ।
* वृषाकपिमन्त्रः.*
पर्वतं भुवनं भानुमूर्ध्वलोकेशनासिके ।। 28.158 ।।
भास्करं पावकं पञ्च बिन्दुं नासिक्यमुद्धरेत् ।
फट्कारं च हुतान्तं च मनुश्चैवं वृषाकपेः ।। 28.159 ।।
खुभदं पावकं चैव पञ्चबि (61) न्दुसदर्थकम् ।
अक्षरं तद्द्विरुच्चार्य (62) ठठान्तो मन्त्र ईरितः ।। 28.160 ।।
(61. न्दुं सदण्दकं.)
(62. ठान्तोमन्त्र उदीरितः.)
* शौरिमन्त्रः.*
शौरेस्तथापरं वक्ष्ये दशार्हं मनुमब्जज ।
सवितारं बृहद्भानुं सयष्टिं पञ्चबिन्दुकम् ।। 28.161 ।।
हुतान्तश्च मनुः प्रोक्तो
* वैकुण्ठमन्त्रः.*
वैकुण्ठमनुरुच्यते ।
परमात्मा चतुर्थ्यन्तं वरुणं प्रथमं स्वरम् ।। 28.162 ।।
नासिक्यं कुम्भमाकारमर्धेन्दुं भास्करं ततः ।
हृषीकेशमनुस्वारं नारायणपदं ततः ।। 28.163 ।।
चतुर्थ्यन्तं ठठान्तं च वैकुण्ठमनुरीरितः ।
* षण्णां ऋष्यादीनि.*
ऋषिश्छन्दो देवता च बीजमङ्गानि षट्तथा ।। 28.164 ।।
अष्टाक्षरवदेतेषां फलानि च चतुर्मुख ।
* अपराजितमन्त्रः.*
अथापराजितं मन्त्रं वक्ष्यामि कमलासन ।। 28.165 ।।
निगमादीन् सप्तवर्णान् गृहीत्वादौ यथापुरम् ।
चतुर्थ्य (63) न्तान न्तपूर्वमन्तश्शब्दं समुद्धरेत् ।। 28.166 ।।
(63. न्तं मन्त्र.)
सहस्रादि च शीर्षान्तं तद्विभक्तिपदं पुनः ।
(64) तत्सुगन्धं तथाक्षीरमुदार्णव पदान्वितम् ।। 28.167 ।।
(64. तत्सुबन्दं.)
(65) शायिनेति पदं प्रोच्य शेषभोजपदं तथा ।
पर्यङ्केति चतुर्थ्यन्तं तद्विभक्तिश्च वाहनम् ।। 28.168 ।।
(65. शायिन्निन.)
गरुडादि पदं पश्चाद्वासुदेवपदं ततः ।
तद्विभक्तिश्च सत्यन्तं वासःपीतादि तादृशम् ।। 28.169 ।।
* सङ्कर्षणादिमन्त्रनिर्देशः.*
(66) संपूर्वं कर्षणपदं सम्बुध्यन्तमनन्तरम् ।
प्रद्युम्नाद्यनिरुद्धं च तद्विभक्तिपदं स्मृतम् ।। 28.170 ।।
(66. संपूर्णं.)
हयादिशीर्षं सम्बुद्धौ वराहं तद्विदिष्यते ।
नृसिंह वामनपदे त्रिविक्रममनन्तरम् ।। 28.171 ।।
रामशब्दं त्रिरुच्चार्य कृष्णेति पदमुद्दरेत् ।
वरप्रदेति नत्यन्तमस्तीत्यन्वक्क्रियापदम् ।। 28.172 ।।
तेच शब्दं चतुर्थ्यन्त (67) मसुरेति पदं ततः ।
दैत्ययक्षपदे चोक्त्वा राक्षसेति पदं ततः ।। 28.173 ।।
(67. मधुरेति.)
भूतं पिशाचं सिद्धं च योगिनी ढाकिनीति च ।
ब्रह्मादि राक्षसपदं विनायक पदं ततः ।। 28.174 ।।
पूतना रेवतीस्कन्दपुरोगमसमुद्धृतिः ।
गृहीदीति च नक्षत्र गृहीनित्यप्यनुक्रमात् ।। 28.175 ।।
अन्यांश्चेति महत्पुर्वं गृहानिति पठेत्पदम् ।
(68) हनिं दहिं पचिं चैव मथिह्यन्त ? शबन्वितम् ।। 28.176 ।।
(68. इदमर्धं क्वचिदधिकमस्ति.)
अनिभिर्द्विः ? पतिं चैव पतिभ्यन्तं ? समन्वितम् ।
आख्यातं द्विस्समुच्चार्य गृहाणेति तथैव च ।। 28.177 ।।
आविश ध्वं सिरपरास्त्रसिद्रुह्यन्तलोट्पराः ।
चत्वारो धातवो मन्त्रे द्विर्वक्तव्याश्चतुर्मुख ।। 28.178 ।।
चक्रं गदां च वज्रं च तृतीया न्तमुदीरयेत् ।
भस्मीकुर्वित्यनुक्रम्य बाहुं सम्बद्दिशीर्षकम् ।। 28.179 ।।
(69) सहस्रारपदं सर्वं मुख्य प्रहरणायुधम् ।
जयेति विजयेति द्वे पदे द्विः प्रोच्य पद्मज ।। 28.180 ।।
(69. सहस्रादि.)
अनन्तमपरा (70) पूर्वजितं प्रतिहतं तथा ।
नङ्पार्वं नेतृपर्यन्तं सहस्रादिपदं ततः ।। 28.181 ।।
(70. पूर्वं जितं प्रतिजयं.)
प्रज्वलिर्ज्वलिरित्येते लोडन्तेद्विस्समु (71) द्धरेत् ।
विश्वरूपं समुद्धृत्य मधुसूदनमन्वतः ।। 28.182 ।।
(71. च्चरेत्.)
महापुरुषवैकुण्ठनारायणपदं ततः ।
पद्मादिनाभिपर्यन्तं हृषीकेशपदं ततः ।। 28.183 ।।
सर्वमुक्त्वा तथा भूतं (72) वशीकरणमुद्धरेत् ।
शङ्खचक्रगदामुक्त्वा धरेति तदनन्तरम् ।। 28.184 ।।
(72. वशङ्करम नूद्धरेत्.)
उद्धृत्य सर्वभूतं च नमस्कृतपदं तथा ।
सर्वमन्वङ्नागपदं प्रमर्दनपदान्वितम् ।। 28.185 ।।
सर्वं प्रपठ्यानुपूर्वादसुरोत्साधनं ततः ।
सर्वदेवमनुक्रम्य महाश्वरमुदीरयेत् ।। 28.186 ।।
सर्वं गृहं समुच्चार्य निवारणपदं तथा ।
(73) यन्त्रमन्यं च सर्वादि प्रभञ्जनपदं ततः ।। 28.187 ।।
(73. यञ्चमध्यं च पूर्वादि.)
सर्वदुःखप्रशमनं सर्वज्वर (74) विनाशनम् ।
सर्वबन्धमनुक्रम्य विमोक्षणपदं तथा ।। 28.188 ।।
(74. निवारणं.)
दुस्स्वप्नमध्यं सर्वादिविनाशनमनुद्धरेत् ।
नमस्कृतान्तं सर्वादिभूतमध्यं पदत्रयम् ।। 28.189 ।।
पदद्वयं पूर्ववत्स्यादपकर्षणमाचरेत् ।
जनार्दनेति सम्बुद्धौ नमश्चास्त्विति ते पदम् ।। 28.190 ।।
अप्रमेयमनुस्वारसहितं बीजमिरितम् ।
मन्त्रं षोढा विभज्याङ्गमृषिः पद्युन्म उच्यते ।। 28.191 ।।
छन्धोऽतिच्छन्द एतस्य विश्वरूपश्च देवता ।
साधयेन्मन्त्रविन्मन्त्रमष्टाक्षरसमादिना ।। 28.192 ।।
अपराजितमन्त्रेण नासाध्यं विद्यते फलम् ।
वश्यमुच्छाटनं चैव तथामारणकर्मच ।। 28.193 ।।
(75) कृत्यादि भूतदोषाणां निवारणमनुत्तमम् ।
फलानि लिप्सुस्सर्वाणि मन्त्रमेनं समाश्रयेत् ।। 28.194 ।।
(75. कृत्याभिभूति.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे (76) यज्ञमूर्त्यादिमन्त्रोद्धारो नाम अष्टाविंशोऽध्यायः.
(76. अन्नाधिपद्यादि.)
------ ****** -------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२८&oldid=206994" इत्यस्माद् प्रतिप्राप्तम्