प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १५ चर्यापादः
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
षोडशोऽध्यायः.
-----
* अरिष्टशान्तिकम्.*
ब्रह्मा :---
भगवन् भाविनां कर्म फलानामशुभात्मनाम् ।
सूचनेषु निमित्तेषु सञ्जातेष्वशुभात्मसु ।। 16.1 ।।
गृहदोषादिषु नृणामधिपस्य च भूपतेः ।
तेषा मकस्माज्जातानां कर्म यच्छमनं परम् ।। 16.2 ।।
तन्ममाख्यायतां कीदृक्किं कथं चेति चाच्युत ।
रहस्यमपि तद्वाच्यं दयाया परया मयि ।। 16.3 ।।
* दुर्निमित्तनिरूपणम्.*
श्रीभगवान् :----
जन्मर्क्षाद्यशुभस्थानग तेष्वङ्गारकादिषु ।
क्रूरेषु दुर्निमित्तेषु दुस्वप्नेष्वामयेषु च ।। 16.4 ।।
(1) गृहक्षेत्रादिकेष्वेवं वल्मीकजनने तथा ।
रक्तस्त्रीषु च जातासु अग्निदाहे च वेश्मनाम् ।। 16.5 ।।
(1. गृहक्षेत्रादिषु स्वेषु वल्मीकाक्रन्दनेषु च.)
वस्त्रादिमूषिकादं शे दग्धेषु शयनादिषु ।
सङ्कटेष्वपि चान्येषु पुत्रादिकलहात्मसु ।। 16.6 ।।
नृपकोपे तथा चित्तदुःखे निगलबन्धने ।
पीडायामरिपक्षेण पिशाचाद्यैर्भयानकैः ।। 16.7 ।।
व्रतध्वंसे प्रागभावे (2) पुत्राणामर्थहानिषु ।
अरिष्टसूचने पुत्रजन्मन्युत्पातसम्भवे ।। 16.8 ।।
(2. पुराणा मर्थ.)
* अरिष्टशान्तये भगवदाराधनवि शेषः.*
एवमादिषु जान्येषु दोषेष्वाराधनं मम ।
शान्तये कल्पते ब्रह्मन् प्रकारस्तस्य कथ्यते ।। 16.9 ।।
(3) स्नानपूर्वाणि कर्माणि कृत्वा विधिवदादृतः ।
* आचार्यवरण कुम्भस्थापनादि.*
आचार्यं वरयेत्पश्चान्मदारधनतत्परम् ।। 16.10 ।।
(3. स्नानपूर्वाणि इत्यादि सार्धं श्लोकद्वयं केशान्तरे न दृश्यते.)
शमादिगुणसंयुक्तं पञ्चकालपरायणम् ।
शुचौ भूमितले कुम्भं सौवर्णं राजतं तु वा ।। 16.11 ।।
ताम्रं वापि यथावित्तं वारिपूर्णं सकूर्चकम् ।
तन्तुभिर्वेष्टितं न्यस्त वारिभीजं (4) सपल्लवम् ।। 16.12 ।।
(4. समल्लकम्.)
धान्यराशिषु संस्थाप्य न्यस्तरत्न गुवर्णकम् ।
शान्तिद्रव्यसनाथं च अश्वत्थदलमङ्गलम् ।। 16.13 ।।
वेष्टितं नववस्त्रेण रक्तेनाक्षतसंयुतम् ।
प्राच्यां दिशि च देवेशं याम्ये सङ्कर्षणं तथा ।। 16.14 ।।
प्रद्युम्नं पश्चिमे भागे अनिरुद्धं तथोत्तरे ।
एवं क्रमेण व...त्तमावाह्यघटिकासने ।। 16.15 ।।
कुशकूर्चैः पश्चिमाशासम्मुखेऽष्टाक्षरेण तु ।
यजेतार्घ्यादिना यद्वा (5) रुक्मं न्यस्य तदर्चनम् ।। 16.16 ।।
(5. रुक्मस्य च. कुक्मं न्यस्य तदर्धकम्.)
कुम्भे चावाह्य यजनं (6) जपेस्मन्त्रमनुत्तमम् ।
मूलमन्त्रेण लक्षं वा तदर्द्धं वा तदर्द्धकम् ।। 16.17 ।।
(6. जपेत् इत्यादि मन्त्रेणाष्टाक्षरेण इत्यन्तं क्वचिन्न.)
ततः पुंसूक्तमन्वाकं नारायणानुवाककौ ।
ततश्श्रीसूक्त भूसूक्ते जपेदाचार्य ऋत्विजाम् ।। 16.18 ।।
मूलेनाग्निं प्रतिष्ठाप्य जुहुयाद्गव्यसर्पिषा ।
* वैष्णवीकरणाष्टाष्टाक्षरहोमादि.*
अग्नि प्रतिष्ठां क्वत्वाऽथ वैष्णवीकरणं तथा ।। 16.19 ।।
मन्त्रेणाष्टाक्षरेणैव लक्षवारा नथायुतम् ।
सहस्रमपि वा कुण्डे शतं वाष्टोत्तरं गुरुः ।। 16.20 ।।
ध्यात्वा हरिं सर्वशान्तिकरं सर्वसमृद्धिदम् ।
गौरवं लाघवं चापि समवेक्ष्य यथोचितम् ।। 16.21 ।।
दोषाणां यत्नमातिष्ठेदर्चनादिषु सर्वतः ।
* स्नपनम्.*
अन्तेप्रणवमब्लिङ्गैर्यजमानं गुरुस्स्वयम् ।। 16.22 ।।
मन्त्रैः कुम्भस्थतो येन प्रोक्षयेन्मूलविद्यया ।
सहस्रकृत्वः कूर्चेन स्नापयेच्छेषवारिभिः ।। 16.23 ।।
आचार्याय यथावित्तं दद्यात्स्वार्णादि दक्षिणाम् ।
ब्राह्मणान् भेजयेत्तेभ्यो दक्षिणामल्पिकामपि ।। 16.24 ।।
प्रभूणामपि सर्वेषां सर्वोपद्रवशान्तये ।
सर्वाभिप्रेतलाभाय विशेषयजनं हरेः ।। 16.25 ।।
कुर्यात् स्नपनपूर्वं तदह्नि नित्यार्चने कृते ।
* शान्तिकपौष्टिककर्मणोः कालः.*
तदनैशान्तिकं कर्म अपराह्णे तु पौष्टिकम् ।। 16.26 ।।
पूर्वाह्णे नित्यकर्मोक्तं वस्तुभिर्द्विगुणैरिह ।
* एकबेरे बहुभेरे च अर्चनक्रमः.*
पूजाद्रव्यैरेकभेरे मूलभेरे समर्चनम् ।। 16.27 ।।
बहुबेरेतु बिम्बस्यादौत्सवे कमलासन ।
आचार्य एव पूजायां वैशेषिक्यां समर्चयेत् ।। 16.28 ।।
* शान्तिके पौष्टके च कर्मणि कुण्डभेदः.*
होमकुण्डं भवेत्पद्मतुल्याकारं सुशोभनम् ।
पौष्टिके शान्तिके वृत्तं प्रत्यहं समिधादिभिः ।। 16.29 ।।
* तत्र कर्तव्यहोमादिकम्.*
प्रत्येकं तिलहोमस्स्यादयुतं वा शतावरम् ।
प्रत्यहं भोजयेद्विप्रान् यथाशक्ति च दक्षिणा ।। 16.30 ।।
नृत्तं गेयं च वाद्यं च तथाध्ययनमन्वहम् ।
कर्मावसानदिवसं यावदग्नेश्च धारणम् ।। 16.31 ।।
सप्ताहं द्विगुणं वा स्यात्त्रिगुणं वा चतुर्गुणम् ।
स्नपनं प्रत्यहं कार्यं दानहोमादय स्तथा ।। 16.32 ।।
* शान्तिके पौष्टिके च कर्मणि ध्येयस्य भगवतो रूपभेदः.*
शान्तिके कर्मणि ध्येयो हरिस्स्फटिक सन्निभः ।
पौष्टिके तु सुवर्णाभश्श्रियाऽसीनस्सहासने ।। 16.33 ।।
* चक्राब्जमण्डलार्चने अनिर्माल्यता.*
चक्राब्जमण्डले कुम्भे यत्र यत्र समर्चनम् ।
तत्रैवान्येद्युराराध्यो न तु निर्माल्यता तयोः ।। 16.34 ।।
* आचार्यादीनां यथाविभवं दक्षिणा.*
आचार्यदक्षिणा वापि यथाविभवविस्तरम् ।
कर्मण्यधिकृतानां च कर्मगौरवलाघवम् ।। 16.35 ।।
अवेक्ष्य तोषणं वित्तैरृत्विजां चोपकुर्वताम् ।
* पौष्टिकी क्रिया अनुकूलेषु दिनेषु कार्या.*
दिनादिष्वनुकूलेषु प्रारभ्या पौष्टिकी क्रिया ।। 16.36 ।।
* शान्तिकी प्रतिकूलेषु कार्या.*
शान्तिकी प्रतिकूलेषु यजमानस्य पद्मज ।
* भगवतः मन्दिरे परिचर्यापराणां
क्षेत्रादिप्रदानां दत्तापहारिणां च फलप्रश्नः.*
ब्रह्मा :---
भगवन्मार्जनादीनि मन्दिरे कुर्वतां नृणाम् ।। 16.37 ।।
विष्णोः क्षेत्रादिदातॄणां पूजोपकरणानि च ।
भूषणानि च वस्त्राणि फलमभ्युदयात्मकम् ।। 16.38 ।।
कीदृक्कीदृश्च तान्येव (7) दत्तान्याहरतामपि ।
अनर्थकरमेतन्मे संशयानस्य कथ्यताम् ।। 16.39 ।।
(7. दत्तानां हरताम्.)
* भगवतः प्रत्युत्तरम् तत्र मार्जनालेपनफलम्.*
श्रीभगवान् :----
मार्जनं मन्दिरे विष्णोः कुर्वन् सम्मार्ष्टि देहजम् ।
मलं पापात्मकं सर्वं परत्रेह च सम्भृतम् ।। 16.40 ।।
प्रत्यहं मार्जनं कुर्वन् प्रत्यहं हन्ति किल्बिषम् ।
गोचर्ममात्रमालिप्य गोमयेन च भूतलम् ।। 16.41 ।।
आलये लभते सद्योगोप्रदानफलं नरः ।
मार्जनालेपने कुर्वन् विष्णोरायतने नरः ।। 16.42 ।।
उषित्वा सुचिरं स्वर्गे कर्मशेषेण भूतले ।
भूयोपि जायते भूपः कुले महति पूजिते ।। 16.43 ।।
* स्रग्दायिनां फलम्.*
स्रजं बद्वा सुमनसां यः प्रयच्छति विष्णवे ।
स भुक्त्वा विपुलान् भोगान्नाकपृष्ठे विराजते ।। 16.44 ।।
* दीपारोपणफलम्.*
दीपानारोपयेद्विष्णोर्मन्दिरेऽभ्यन्तरे बहिः ।
दिवि देववदासित्वा जायते परमार्थवित् ।। 16.45 ।।
नित्यान्नैमित्तिकान्वापि दीपानारोपयेन्नरः ।
बहुदुःखसमाकिर्णं नरकं (8) नैव पश्यति ।। 16.46 ।।
(8. स न पश्यति.)
अहोरात्रमनिर्वाणं दीपमारोपयेन्नरः ।
सर्वपापविशुद्धात्मा विष्णुलोके महीयते ।। 16.47 ।।
* उदकाब्युक्षणफलम्.*
उदकाभ्युक्षणं विष्णोरालये विदधाति यः ।
लोकं स वारुणं प्राप्य रमते वत्सरान् बहून् ।। 16.48 ।।
* पुष्पविकिरणफलम्.*
सम्मार्यालिप्य च हरेर्धाम पुष्पाणि भूतले ।
विकिरेन्मनुजस्सर्वकामानाप्नोति पुष्कलान् ।। 16.49 ।।
* भूमिदानफलम्.*
विष्णुसात्कुरुते भूमिं सर्वसस्य फलप्रदाम् ।
यस्सलोकानवाप्नोति सर्वानेव न संशयः ।। 16.50 ।।
पुष्पोद्यानप्रदानेन तपोलोके महीयते ।
फलवृक्षसमोपेतां पूगभूमिं जलान्विताम् ।। 16.51 ।।
यो ददाति महर्लोके सचिरं वसति ध्रुवम् ।
उत्पादयति यः क्षेत्रे वैष्णवे फलिनस्तरून् ।। 16.52 ।।
नालिकेरादिकान्याति स स्वर्गं प्रेत्य दुर्लभम् ।
* तुलसीपुष्पादिदानफलम्.*
आराधनाय तुलसीमुत्पादयति यत्नवान् ।। 16.53 ।।
सुरभीणि च पुष्पाणि दिवि देवैस्सपूज्यते ।
* वापीकूपादिनिर्माणे फलम्.*
वापीकुपतटाकानि विष्णोर्मन्धिरभूमिषु ।। 16.54 ।।
उत्पादयति हस्तस्थास्तस्य सर्वसमृद्धयः ।
न तं बध्नन्ति पापानि बहुजन्मार्जितान्यपि ।। 16.55 ।।
* भगवन्मन्दिरजीर्णोद्धारफलम्.*
यः कुर्याद्वैष्णवं धाम भक्तिश्रद्धोभ योचितम् ।
खण्डिते स्फुटिते धाम्नि दूषिते च सुधादिभिः ।। 16.56 ।।
समादध्यात्पुनर्धाम स लोकं याति वैष्णवम् ।
* उपकरणद्रव्यदानफलम्.*
स्नानपानाम्भसां विष्णोः प्रदानात्तत्सलोकभाक् ।। 16.57 ।।
स्नानीयद्रव्यदानेन नीरोगः प्रेत्य मोदते ।
क्षौमादिदानादाप्नोति परलोके महत्सुखम् ।। 16.58 ।।
आलेपनद्रव्यदानत्कामानाप्नोति शाश्वतान् ।
एलाकर्पूरताम्बालीतैलादिस्वर्शनात्सुखी ।। 16.59 ।।
परत्रेह च लोके न्याद्धीर्घकालमसंशयः ।
चामरव्यजनच्छत्रदानात् स्वाराज्यमश्नुते ।। 16.60 ।।
आदर्शनप्रदानेन दृश्यस्सर्वैर्भविष्यति ।
धूपद्रव्यप्रदानेन स्वस्थानं स्वर्गिणां भवेत् ।। 16.61 ।।
उपानहौ पादुके च वाहनं यानमेव च ।
ददाति यो मण्डयित्वा मणिकाञ्चन चित्रिम् ।। 16.62 ।।
स विमानं सुदुष्प्रावं प्राप्नोत्येव न संशयः ।
अलङ्कृतं भद्रपीठं प्रयच्छन् सर्वकामभाक् ।। 16.63 ।।
विनतानन्दनस्थानं ध्वजमुत्पाद्य दर्शयन् ।
सामीप्यं सहसा विष्णोर्याति सद्यश्चतुर्मुख ।। 16.64 ।।
ध्वजं च वाद्यमुत्पाद्य विष्णुसात्कुरुते तु यः ।
स दिव्यदुन्दुभिप्रायं स्थानं प्राप्य विराजते ।। 16.65 ।।
दासीदानं तथात्मीयमात्मानं च प्रयच्चति ।
वासुदेवाय दास्येन मुक्तिःकरतले स्थिता ।। 16.66 ।।
नृत्तभेदैर्गीतभेदै स्तथा वाद्यैरनेकधा ।
श्रोतव्यैरपि दृश्यैश्च एवं देवेशसन्निधौ ।। 16.67 ।।
आसीन मुपचारौस्तैर्ये समाराधयन्तिते ।
प्रेत्य दिव्येषु लोकेषु पूज्यंते तैर्न संशयः ।। 16.68 ।।
* प्रदक्षिण नमस्काराद्युपचाराणां फलम्.*
प्रदक्षिणनमस्कारस्तुतिप्रायोपचर्यया ।
आराधयन्तिये देवं देवानामधिदैवतम् ।। 16.69 ।।
ते देवैरुपचर्यन्ते परत्र भगवान् यथा ।
स्थितं शयानमासीनं देवं सर्वेश्वरेश्वरम् ।। 16.70 ।।
यदृच्छयापि पश्यस्तः प्राप्नुवन्ति परं पदम् ।
किं पुनर्भक्तिपूर्वं ये पश्यन्ति क्षणम (9) च्युतम् ।। 16.71 ।।
(9. मप्यमुम्, मप्यमी.)
निर्धूय दुष्कृतं सर्वं यान्ति लोकान्यथेप्सितान् ।
अष्टाङ्गप्रणिपातेन ये नमस्यन्ति मानवाः ।। 16.72 ।।
तपस्स्वाध्यायशीलानां फलमश्नुवतेऽचिरात् ।
इयदेतदिति स्मर्तुं फलं वक्तुं च कः क्षमः ।। 16.73 ।।
सकृत्प्रणमतां देवं फलं यन्मधुविद्विषम् ।
शिरसा श्रवणाभ्यां वा मनसा वा करेण वा ।। 16.74 ।।
बहुभ्यां वाथ पद्भ्यां वा दृग्भ्यां वा पक्षसापि वा ।
एकैकेनाङ्गजातेन प्रणमन्मधुविद्विषम् ।। 16.75 ।।
कामानाप्नोति विपुलाननन्तानन्यदुर्लभान् ।
किं पुनर्येऽष्टभिस्सर्वैरङ्गैः प्रणिपतन्ति च ।। 16.76 ।।
वासुदेवा श्रयकथा व्याचक्षाणा दिने दिने ।
पासुदेवालये यान्ति वाचस्पत्यमसंशयम् ।। 16.77 ।।
गवां च कपिलादीनां प्रदानादश्नु ते जनः ।
ब्रह्मलोकादिलोकेषु वासं विन्दन्ति शाश्वतम् ।। 16.78 ।।
हविषां पायसादीनां हरये च निवेदनात् ।
सुखैकरसपूर्णात्मा राजते विष्णुसन्निदौ ।। 16.79 ।।
भक्ष्यपानीयभोज्यानामन्येषामपि दानतः ।
श्वेतद्वीपे तत्समीपे वसन्ति सुखनस्सदा ।। 16.80 ।।
बहुनात्र किमुक्तेन वासुदेवार्थमादरात् ।
ददाति वस्तुजातं यः स्थानं प्राप्नोति चेप्सितम् ।। 16.81 ।।
कर्मणां मार्जनादीनां फलभोगादनन्तरम् ।
कर्मशेषैः पुनर्जन्म कर्मानुगुणयोनिषु ।। 16.82 ।।
उत्कृष्टास्वेव भोक्तारो लभन्ते सुखिनस्सदा ।
* दत्तापहारादीनां फलम्.*
प्रासादमण्डपादीनां (10) भोक्तारःकैटभद्विषः ।। 16.83 ।।
(10. भेत्तारः.)
ये मूढमतयः प्रेत्य निरयेषु निरत्ययाः ।
वसन्ति भूयो नीचासु जायन्ते योनिषु द्रुवम् ।। 16.84 ।।
भूषणच्छत्रवस्त्रादि यो पर्ता दुर्मति र्नरः ।
गले निगलितः पाशैः कृष्यते निरयेषु सः ।। 16.85 ।।
वाहनानि च यानानि वैष्णवानि हरन्तिये ।
मोहद्वासन्ति ते दीर्घमङ्गार (11) नरकोदरे ।। 16.86 ।।
(11. निरयेनराः.)
प्रेत्य भूयोऽपि जायन्ते गर्दभोष्ट्रादियोनिषु ।
चन्दनादीनि वस्तूनि पुष्पाणि सुरभीण्यपि ।। 16.87 ।।
हरन्तिस्वानि विष्णोस्ते व्रजन्ते याम्ययातनाम् ।
अनुभूय पुनर्ब्रह्मन् जायन्ते गन्धमूषिकाः ।। 16.88 ।।
उपानत्पादुकापीठव्यजनानि हरन्तिये ।
उषित्वा निरयेष्वेते जायन्ते फणिनां कुले ।। 17.89 ।।
गोभूहिरण्यपस्त्रादिधनं विष्णोः परिग्रहम् ।
आहृत्य ये तु भुञ्जन्ते नरकेषु निरत्ययाः ।। 17.90 ।।
उषित्वा प्रेत्य भूयोपि जायन्ते श्वादियोनिषु ।
(12) सर्वेषु नरकेष्वेवं देवब्रह्मस्वहारिणः ।। 17.91 ।।
(12. सर्वेष्वित्यादिश्लोकत्रयं क्वचिन्न.)
वसन्ति मूढमतयो याम्यदुःखानि भूयसा ।
व्यायामोद्वर्तनाभ्यङ्गस्नानपानाशनादिकम् ।। 17.92 ।।
कुर्वन्ति मन्तिरे विष्णोर्ये ते निरयगामिसः ।
पच्यन्ते तत्र भूयोपि जायन्ते नीचयोनिषु ।। 17.93 ।।
वासुदेवप्रतिकृतेर्भेदनच्छेदनादिषु ।
(13) विक्रीतादीनि चान्येषु यतन्ते पापचेतसः ।। 17.94 ।।
(13. विकृतादीनि.)
ये ते यान्ति क्रमात्सर्वान्नरकान् भृशदारुणान् ।
अन्येष्वप्यपचारेषु स्थूलसूक्ष्मेषु मानवाः ।। 17.95 ।।
कृतिनः प्रेत्य नरके पच्यव्ते दुःखबागिनः ।
इतिश्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे संमार्जनादिफलदेवस्वापहरदोषकीर्तनं नाम षोडशोऽध्यायः.
------- ******* ------