← अध्यायः ३० चर्यापादः
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्९
एकत्रिंशोऽध्यायः.
----
* विघ्नराजोत्पत्तिः.*
ब्रह्मा :---
भगवन् विघ्नराजस्य जन्मकीदृक्कुतश्च सः ।
भूषणानां च कोटीरप्रमुखानां यथातथम् ।। 31.1 ।।
चक्रादीनामायुधानां तार्क्ष्यसेनेशयोरपि ।
मनवः पूजितायैस्तैः पूजिताः फलहेतवः ।। 31.2 ।।
इति सर्वं समाचक्ष्वमयि (1) ते यद्यनुग्रहः ।
श्रीभगवान् :---
असुरैरर्दिता देवा बलिनो युद्धदुर्जयौः ।। 31.3 ।।
(1. चेदस्त्यनुग्रहः.)
शरण्यं शरणं जग्मुः प्रद्युम्नमभयप्रदम् ।
देवा :---
आहवेषु वयं दैत्यैर्बलवन्तोपि बाधिताः ।। 31.4 ।।
यथा ते विघ्नविहताः पलायन्ते तथा कुरु ।
प्रद्युम्नस्तैरिति प्रोक्तः क्रुद्धस्संरक्तलोचनः ।। 31.5 ।।
कोपात्तस्य समुद्भूतस्सम्यक् स्तम्भेरमानवः ।
सञ्जातं प्राञ्जलिपुटं कुर्वाणं तं पुरस्थ्सितम् ।। 31.6 ।।
तं दृष्ट्वा गजवद्वक्त्रं प्रोवाचेदं वचस्तदा ।
देवानामसुराणां च सङ्ग्रामे समुपस्थिते ।। 31.7 ।।
सन्निधाय भवांस्तत्र दैत्यानां विघ्नमाचर ।
इत्युक्त्वा मिषतस्तस्य प्रद्युम्नो भगवान् हरिः ।। 31.8 ।।
अन्तर्दधे सुराश्चापि प्रतिजग्मुर्यथा (2) गतम् ।
ततः प्रभृति विघ्नेश प्रसादाद्देवतागणाः ।। 31.9 ।।
(2. पुरम्.)
असुरान् जघ्निवांसस्तेन च जग्मुः पराभवम् ।
* आकल्पमनुनिर्देशः.*
तत्र किरीटमन्त्रः.
आकल्पस्य किरीटस्य मनुं वक्ष्यामि संप्रति ।। 31.10 ।।
व्यापिनं नतिमुद्धृत्य कमलं तदनन्तरम् ।
महामायां सप्तजिह्वं पञ्चबिन्दुसमाह्वयम् ।। 31.11 ।।
हृदयाह्लादमाकारं पवनं शुक्लमन्दरौ ।
दाक्षायणीशविजयौ मन्दरं च सरोरुहम् ।। 31.12 ।।
श्रीधरं हृदयाह्लोदं माधवं वित्तवर्धनम् ।
कुम्भं हुताशनं देवदत्तं क्षीरं सुधामयम् ।। 31.13 ।।
दहनं गोपनं वायुं करालं कमलोद्भव ।
ओतदेहं क्षितिधरं (3) विक्रमं धूमकेतनम् ।। 31.14 ।।
(3. महामायां ध्वजं तथा.)
अमृतं बन्धुसहितं भद्रहस्तं त्रिविक्रमम् ।
चतुर्गतिं श्रीधरं च विजयं माधवं तथा ।। 31.15 ।।
(4) हस्तिवक्त्रं वैधरं च भुवनं कामगं ततः ।
वैराजं वैधराह्वानमिरयित्वा ततः परम् ।। 31.16 ।।
(4. वह्निवक्त्रम्. विघ्नं दान्तम्.)
रामं पवित्रं विजयं गोपनं द्विरदाननम् ।
(5) महेन्द्रं कुञ्जरमुखं विक्रमं सूक्ष्मलोचनम् ।। 31.17 ।।
(5. उपेन्द्रं.)
गोपनं (6) स्पर्शनामादिदेवं समसरोरुहम् ।
माहेन्द्रं (7) पश्चिमं चादिदेवं च धनदाह्वयम् ।। 31.18 ।।
(6. स्पर्शनामानमादिदेवं सरोरुहम्.)
(7. पंचमं.)
विक्रमं पश्चिमं चैव विजयं च तुरानन ।
प्रभञ्जनमृगेशं च मधुसूदन संज्ञितम् ।। 31.19 ।।
मार्ताण्डं पापकमथो पञ्चबिन्दुं सबिन्दुकम् ।
करालमृतधामानं महामायां सयष्टिकम् ।। 31.20 ।।
गोपतिं श्रीधरयुतं नासिक्यं फट्कृतिं तथा ।
स्वाहायां विरमेन्मन्त्रं बीजमस्योच्यतेऽधुना ।। 31.21 ।।
कमलं त्वृतधामानं महामाया परिष्कृतम् ।
(8) उद्धृतं षत्षडङ्गानि द्रष्टा चाखण्डल स्तथा ।। 31.22 ।।
(8. उद्धनं.)
छन्दश्च पङ्त्किरित्युक्तं किरीटो देवतापि च ।
किरीटिनं च द्विभुजं महाकायं (9) महोदरम् ।। 31.23 ।।
(9. महाभुजम् ।)
कृताञ्जलिपुटं प्रह्वं सुस्थितं भूषणैर्युतम् ।
ध्यात्वैवं मन्त्रविन्मन्त्रं पञ्चलक्षमतन्द्रितः ।। 31.24 ।।
नत्यन्तं
* श्रीवत्समन्त्रः.*
छन्दसामादिं श्रीशब्दं कलशं तथा ।
एकनेत्रं हुतवहं शशाङ्कं मधुसूदनम् ।। 31.25 ।।
सदागतिं चादिदेवं नासिक्यं यष्टिसंज्ञितम् ।
लक्ष्मीं करालं पुलहं महामायां सबिन्दुकम् ।। 31.26 ।।
तार्क्ष्यमौर्वादिकं यष्टिं हुंफट्कारं हुतान्तिमम् ।
श्रीभीजं तद्भवेद्बीज मृषिश्चैव प्रजापतिः ।। 31.27 ।।
विराट् छन्दश्च गायत्रं श्रीवत्सो देवता मता ।
श्रीवत्समन्त्रमपरं कथयामि चतुर्मुख ।। 31.28 ।।
ओंकारं प्रथमं सोमं स्वरादि जयमारुतौ ।
माधवं तारकाधीशमेकनेत्रं समारुतम् ।। 31.29 ।।
कलशं विजयं पश्चान्महामायापरिष्कृतम् ।
शुक्लं च तारं श्वसनं कुंभं वैराजमेव च ।। 31.30 ।।
अनलं पूर्णचन्द्रं च पुलहं माधवं तथा ।
सत्यन्तं शुक्लविजयौ श्वसनं श्वेतरोचिषम् ।। 31.31 ।।
दक्षं दरं देवदत्तामोषधीशं तथाब्जज ।
वैराजं प्रथमं कुम्भमृतधामवदर्भितौ ।। 31.32 ।।
(10) जयं सदागतिं देवदत्तं चैव ठठान्तिमम् ।
श्रीभीजं पूर्वमेवोक्तमृषिर्देवल उच्यते ।। 31.33 ।।
(10. विजयं सदागतिं.)
छन्दश्चाक्षरपङ्त्किस्स्याच्छ्रीवत्सो देवता मता ।
ततो लक्षजपेनैव सर्वान्कामानवाप्नुयात् ।। 31.34 ।।
* रौस्तुभमन्त्रः.*
प्रणवादिं च सत्यन्तं विधातारं तथा मनुम् ।
सकारं विजयं लोकं सुभद्रं मधुविद्विषम् ।। 31.35 ।।
प्रभञ्जनं पावकं च वैराजं विघ्ननायकम् ।
गोपनं धनदं मायां पश्चिमं प्रथमस्वरम् ।। 31.36 ।।
(11) वै राजं मारुतं पश्चादेकारं प्रथमस्वरम् ।
माधवीं पद्मनाभं च विजयं ब्रह्मसाधनम् ।। 31.37 ।।
(11. इतमर्धं क्वचिदधिकमस्ति.)
अग्निं भल्लायुधं कुम्भमाकारं मारुतं तथा ।
अचां द्वितीयं (12) कमलं पुलहं च पवित्रकम् ।। 31.38 ।।
(12. कलशं.)
आदिदेवं च धनदं त्रिविक्रममनन्तरम् ।
पश्चिमं विजयं चादिं (13) स्पर्शनं माधवं तथा ।। 31.39 ।।
(13. मारुतं.)
ओषधीशमिकारं च दृष्टिं च धनदं पुनः ।
रामं प्रद्यम्नसहितं पश्चिमं पद्मनाभकम् ।। 31.40 ।।
प्रभञ्जनं छलध्वंसं (14) द्वयं स्वाहावसानकम् ।
कौस्तुभं बिन्दुसहितं बीजमेतदृष्टिः पुनः ।। 31.41 ।।
(14. मधुं यमं.)
जमदग्निर्विराट् छन्दो देवता कौस्तुभाह्वया ।
कौस्तुभं च चतुर्थ्यन्तमुच्चार्यनतिमु (15) द्धरेत् ।। 31.42 ।।
(15. च्चरेत्.)
पञ्चलक्षजपादस्य मनोस्सिध्यति वाञ्छितम् ।
* वनमालामन्त्रः.*
सप्तार्णपूर्वकं (16) कुम्भं भद्रहस्तं प्रियद्विषम् ।। 31.43 ।।
(16. बन्दुं मन्दरं मधुवि.)
(17) भद्रहस्तं मन्दरं च मधुसूदनमब्जज ।
पुलहं देवदत्तं च माधवीं मधुसूदनम् ।। 31.44 ।।
(17.इतमर्धं क्वचिन्नास्ति.)
माहेन्द्रं रामनामानं विघ्नेशं पञ्चबिन्दुकम् ।
पश्चिमं श्रीधरं वह्निं भुवनं तदनन्तरम् ।। 31.45 ।।
क्रोधाग्निं वासुदेवं च वैराजौ द्वौ च मन्दरम् ।
पश्चिमं पद्मनाभं च माया शिरसमन्वतः ।। 31.46 ।।
मारुतं माधवयुतं ठठान्तो मनुरीरितः ।
कलशं मारुतं पश्चादुदयश्चा (18) निरुद्धकम् ।। 31.47 ।।
(18. ग्निमा धवौ.)
बीजं मुनिश्च धनदः छन्दः पङ्क्तिश्च देवता ।
वनमालापरं मन्त्रं कथयामि महाफलम् ।। 31.48 ।।
ब्रह्मकोशं नतिं कुम्भं मुखं विघ्नेश (19) मन्दरौ ।
गोपनं पुलहं चादिदेवं (20) शङ्खं च गोधनम् ।। 31.49 ।।
(19. सुन्दरौ । रोदनं पुलहम्.)
(20. खड्गं च रोधनम्.)
माधवं सूदनं वायुं मृगेशं दक्षगोपनौ ।
चतुर्गतिश्चादिदेवमनलं सगुहालयम् ।। 31.50 ।।
पश्चिमं विक्रमपरं प्रचण्डं पञ्चिबिन्दुकम् ।
दक्षं दिनकरं (21) चक्षुर्द्वितीयं श्वेतदीधितिम् ।। 31.51 ।।
(21. चाक्षं द्वि.)
दक्षद्वयं वासुदेवं तिग्मांशुं बन्धुशीर्षकम् ।
द्विरदास्यं पञ्चबिन्दुं श्वेतरोचिषमादिमत् ।। 31.52 ।।
अमृतं वह्निशिरसं कमलं गोपनाह्वयम् ।
मन्दरं (22) वैधरं मायां पञ्चमं गजवाहनम् ।। 31.53 ।।
(22. वैधरमचां.)
माधवं श्वेतदीधिं च कुम्भं बहुलशीर्षकम् ।
विजयं चैकदृष्टिं च वरुणं पाटलप्रियम् ।। 31.54 ।।
चतुर्गतिं सूदनं च मारुतं चादिमत्तथा ।
चतुर्थमृतधामान (23) मग्निं च श्वसनं पुनः ।। 31.55 ।।
(23. म्मतिश्च.)
ब्रह्मकोशपरां चैव भद्रपाणिं च पद्मजाम् ।
विजयं प्रणवादिं च श्वेतदीधितिमब्जज ।। 31.56 ।।
शशाङ्कं पद्मनाभं वै धरं मायामहाधनौ ।
पश्चिमं विजयं माया (24) शीर्षं विघ्नेशमिरयेत् ।। 31.57 ।।
(24. विक्रमं सूक्ष्मदृष्टि च.)
विक्रमं सूक्ष्मदृष्टिं च गोपनं च चतुर्मुख ।
जन्मध्वंसं च कलशं पुलहं च द्विरुच्छरेत् ।। 31.58 ।।
(25) पूर्ववच्च द्विरभ्यस्य पुष्टिबीजमथोद्धरेत् ।
गोपतिं गोपनं यष्टिं वरुणं चादिबिन्धुकम् ।। 31.59 ।।
(25. प्रपूर्नं च.)
भास्करं भुवनं यिष्टिं फट्कारं च ठठान्तिमम् ।
 पियीषं पवनं ब्रह्मसाधनं यष्टिशीर्षकम् ।। 31.60 ।।
बीजमेतच्चतुर्वक्त्र (26) प्रधानार्णाङ्गकल्पना ।
(27) भवश्चास्य मुनिश्छन्दो अस्या उष्णिश्च देवता ।। 31.61 ।।
(26. प्रथमा.)
(27. भवस्वामि मुनिश्छन्दस्स्या दुष्णिक्साच.)
द्विभुजां बालिकां पीनवक्षोरुहविभूषिताम् ।
करण्डमकुटोपेतां बिभ्राणां वनमालिकाम् ।। 31.62 ।।
दर्पणं वामहस्तेन बिभ्राणां दक्षिणेन तु ।
पुष्पमञ्ज (28) लिकां द्वाभ्यां ध्यात्वालक्षं जपेन्मनुम् ।। 31.63 ।।
(28. रिशैलाभ्यां.)
अन्येषां भूषणानां च चतुर्थ्यन्तं समाह्वयम् ।
मन्त्रं मनोन्तं जानीयाद्भीजमाद्यं प्रकल्पयेत् ।। 31.64 ।।
* प्रभामन्त्रः.*
प्रभामनुं प्रवक्ष्यामि यथावदवधारय ।
उद्गीथमादिं नत्यन्तं पश्चिमं त्वृतधामकम् ।। 31.65 ।।
भल्लायुधं चादिदेवं श्वसनं सूक्ष्मलोचनम् ।
अचां द्वितीयं श्वेतांशु कमलं (29) चादिमत्तया ।। 31.66 ।।
(29. चांदिमं तथा.)
पावकं चौषधं पद्मपाणिं वै राजमन्वतः ।
मृगेशं जन्मविध्वंसं ब्रह्मसाधनसंयुतम् ।। 31.67 ।।
ककुभं कलशं चादि देवं पुलहमब्जज ।
ओङ्कारं माधवीमग्निं मायामस्तकभूषितम् ।। 31.68 ।।
पाटलप्रियमाकारं पीताभं मधुविध्विषम् ।
श्रीवत्समादिं विजयं शशाङ्कं विष्णुमस्तकम् ।। 31.69 ।।
मार्ताण्डमिन्दुमनलं मधुसूदनमारुतौ ।
श्रियः प्रतिमथैकाक्षं गोपनं कमलोद्भव ।। 31.70 ।।
अमृतं त्वृतधामानं विजयं कमलालयाम् ।
ओतदेहं सुभद्रं च बन्धुमस्तकभूषितम् ।। 31.71 ।।
विजयं गोपनं प्राणं हुंफट्कारं ठठान्तकम् ।
आद्यर्णं यष्णिसहितं बीजमस्यप्रकीर्तितम् ।। 31.72 ।।
ऋषिर्भास्कर एतस्य पङ्त्किश्छन्दश्च देवता ।
प्रभा जपश्च मन्त्रस्य लक्षसङ्ख्यः प्रकीर्तितः ।। 31.73 ।।
भोगांश्च पुष्करान् भुक्त्वामन्त्रविन्मन्त्रवैभवात् ।
परं पदमवाप्नोति देहत्यागेन संशयः ।। 31.74 ।।
* अक्षमालामन्त्रः.*
निगमादिं कौस्तुभं च गोपनं बिन्दुमैन्दवम् ।
विक्रमं वैधरं पुण्यं रामं शुक्लसमाह्वयम् ।। 31.75 ।।
वै राजमग्नि माकारं स्पर्शनं विष्णुमस्तकम् ।
सत्यन्तमुद्धरेन्मन्त्रमेवमक्षस्रजस्सुधीः ।। 31.76 ।।
अक्षमालाधरं ध्यायेद्विभुजं स्फटिकप्रभम् ।
अलङ्कृतं पीतवस्त्रं पद्मविष्टरसंस्थितम् ।। 31.77 ।।
वरदाभयदाकारं मन्त्रस्य च जपस्तथा ।
मन्त्री च महदाप्नोति फलमत्यन्तदुर्लभम् ।। 31.78 ।।
* धूपमन्त्रः.*
उद्गीथं सुभगं शङ्खमूर्ध्वयष्टिमनन्तरम् ।
धनदं च हृषीकेशं मन्दरं ब्रह्मनाधनम् ।। 31.79 ।।
बहुलं (30) चैकनेत्रं च पञ्चान्तं बन्धुमस्तकम् ।
अनलं गोपनं शङ्खमचामादिं नतिं ततः ।। 31.80 ।।
(30. पंच.)
धूपपात्रमनुः प्रोक्तो
* घंटामन्त्रः.*
घण्टामन्त्रः प्रवक्ष्यते ।
आम्नायादिं क्षितिधरं हृषीकेशं रविं तथा ।। 31.81 ।।
(31) गुहालयं च नासिक्यं पद्मपाणिं प्रचण्डकम् ।
झषमाकार संयुक्तं चतुर्गतिनमस्कृतिः ।। 31.82 ।।
(31. विजयं त्वथ. इदमेकं पद्यं क्वचिन्नास्ति.)
कथितश्च मनुर्ब्रह्मन्
* दीपमन्त्रः.*
दीपपात्रस्य कथ्यते ।
उद्गीथं ककुभं चादिं गदध्वंसम (32) चां मुखम् ।। 31.83 ।।
(32. वाङ्मुखम्.)
पावकं विजयं (33) जन्महन्तारं ब्रह्मसाधनम् ।
वैराजं विक्रमपरमनलं च गुहालयम् ।। 31.84 ।।
(33. ब्रह्म.)
पश्चिमं चादिदेवं च श्वसनं (34) नतिशीर्षकम् ।
दीपपात्रस्य कथितो मनु
* सुदर्शनमन्त्रः.*
स्संप्रति कथ्यते ।। 31.85 ।।
(34. नखशीर्षनम्.)
ब्रह्मकोशमुखं (35) ब्रह्मन् सप्तार्णं तदनन्तरम् ।
शशाङ्कं श्रीधर दृष्टिमादिलक्ष्मीं हुताशनम् ।। 31.86 ।।
(35. ब्रह्म.)
लम्बोदरं चादिदेवं दरं विष्णुं च माधवम् ।
नभोमणिमथो रामं पुलहं चादिमत्तथा ।। 31.87 ।।
वक्रतुण्डं विधातारं वक्रतुण्डमचां मुखम् ।
कमलं त्वृतधामानं यान्तं च मधुसूधनम् ।। 31.88 ।।
मुसलं गोपनयुतं श्वसनं ककुभं ततः ।
अमृतं (36) पीतवर्णार्णं हुंफट्कारं ठठान्तिमम् ।। 31.89 ।।
(36. पूर्णवर्णाभं फट्कारान्तं ठठान्तकम् ।।)
शुक्लं मुखं सबिन्दुं च बीजमेवं समुद्धरेत् ।
तारं करालमाकारं पुलहं चादिमत्तथा ।। 31.90 ।।
वक्रतुण्डं विधातारं (37) बहुलं मधुविद्विषम् ।
आदिं चतुर्गतिं हुंफडित्यादि हृदयादिषु ।। 31.91 ।।
(37. बहुमूलम्.)
कालरुद्रोऽथ भगवानृषिश्छन्दः प्रकीर्तितः ।
गायत्री देवता चास्य (38) हेतिराजस्सुदर्शनः ।। 31.92 ।।
(38. मन्त्रराजं सुर्शनम्.)
जपेद्द्वादशलक्षं तु सिद्धयो मूलमन्त्रवत् ।
* सुदर्शनस्य मन्त्रान्तरम्.*
आदितस्सप्तवर्णांश्च पूर्वोक्तान् शशिनं तथा ।। 31.93 ।।
श्रीधरं वैधरं विष्णुं श्रीवत्समनलं तथा ।
भद्र (39) हस्तादि देवं च शङ्खादिं च चतुर्मुख ।। 31.94 ।।
(39. हस्तं चादिदेवं.)
सुदर्शनस्य कथितो द्वादशार्णात्मको मनुः ।
बीजमङ्गं यथापूर्वं द्रष्टा च कपिलस्म्सृतः ।। 31.95 ।।
छन्दो विराट् देवता च हेति राजस्सुदर्शनः ।
(40) जफो द्वादशलक्षं च द्विषट्काक्षरवत्फलम् ।। 31.96 ।।
(40. जपेत्.)
आम्नायादिं च नत्यन्तं सुदर्शनपदं ततः ।
चतुर्थ्यन्तं प्रयुञ्जीत फलमष्टाक्षरे यथा ।। 31.97 ।।
ऋषिर्भवस्तथा च्छन्दो गायत्रं हेति (41) राडिनः ।
पूर्वोदितं द्विषट्कार्णं माधवी मादिमुद्धरेत् ।। 31.98 ।।
(41. संज्ञितम्.)
नभोमणिं चादिदेवं वक्रतुण्ड (42) मचां मुखम् ।
कराल मृतमग्निं च गोपनं ककुभं तथा ।। 31.99 ।।
(42. मवाङ्मुखं.)
अचां (43) द्वयं गन्धवहं मुखं दक्षं चतुर्मुख ।
गोपतिं गोपनमथो जृम्भलं चादिमत्तथा ।। 31.100 ।।
(43. द्वितीयम्.)
महेन्द्रं यादसां नाथं (44) द्विरदं पन्नगाधिपम् ।
स्पर्शनं नृहरिं कुम्भं रामं सुभगमन्वतः ।। 31.101 ।।
(44. दरं द्विः.)
प्राचेतसं सयष्टिं च शुक्लमादिं दरं तथा ।
अमृतं बन्धुसहितं धनाध्यक्षमपां पतिम् ।। 31.102 ।।
नासिक्यं शशिनं चादिं मारुतं मन्दरद्वयम् ।
मुखं लक्ष्मीं तथै काक्षं वसुं चैव गुहालयम् ।। 31.103 ।।
सयष्टिं कुञ्जरमुखं (45) गोपनं शुभदं दरम् ।
माधवीं गोपतिं चैव गोपनं कालनेमिजित् ।। 31.104 ।।
(45. शोभनं.)
माहेन्द्रं गोपनं शङ्खं ककुभं कुम्भसंज्ञितम् ।
पुलहं मुसलं कुम्भं (46) महेन्द्रं भुवनाह्वयम् ।। 31.105 ।।
(46. नत्यन्तं.)
गदध्वंसं हुतवहं वै राजं मृगवल्लभम् ।
जन्मध्वंसं शशधरमेणएशं च ठठान्तिमम् ।। 31.106 ।।
बीजमङ्गं यथापूर्व मृषिस्स्यान्नीललोहितः ।
(47) यष्टिश्छन्दश्च कथितो देवता हेतिराडसौ ।। 31.107 ।।
(47. अत्रिः.)
जपेल्लक्षत्रयं मन्त्री (48) जपस्यास्य च वैभवात् ।
निग्रहेऽनुग्रहे शक्तिस्तम्भविद्वेषणादिकृत् ।। 31.108 ।।
(48. मन्त्रस्या.)
चलाचलसमुद्रादिशोषणं कम्सनं तथा ।
तत्कटाक्षविनिक्षेपात्सृष्ट्यादीनां (49) विधिर्भवेत् ।। 31.109 ।।
(49. निधि.)
* सुदर्शनमहामन्त्रः.*
सुदर्शनमहामन्त्रं वक्ष्यामि चतुरासन ।
मातृकाचक्रमालिख्य समभ्यर्च्य यथाविधि ।। 31.110 ।।
स्वीकृत्य द्वादशार्णांश्च वक्रतुण्डमचां मुखम् ।
करालमग्नि सहितं गोपनं मारुतं ततः ।। 31.111 ।।
पश्चिमं पावकं खड्गमनलं च (50) कृशानुकम् ।
विधातारं चादिदेवं पुलहं मधुसूदनम् ।। 31.112 ।।
(50. कृशागमम्.)
(51) दरं हुतवहं तार्क्ष्यं द्विर्वसुं च समुद्धरेत् ।
पाटलप्रियामाकारं (52) दरं ध्रुवसमन्वितम् ।। 31.113 ।।
(51. उदयं.)
(52. दरत्रयसमन्वितः.)
लक्ष्मीं मुखं च वै राजमग्निं भुवनशीर्षकम् ।
द्विरदाननमाकारं कमलां मधुसूदनम् ।। 31.114 ।।
स्पर्शनं वैधरं चादिमनलं वैधरं तथा ।
अमृतं चादिदेवं च महेन्ध्रं च समिकरणम् ।। 31.115 ।।
शुक्लं मुखं भास्करं च कमलं विक्रमं तथा ।
अनलं सुमुखं विष्णुं पद्मनाभविनायकौ ।। 31.116 ।।
जन्मध्वंसं च कलशं पुलहं बन्धुसंमितम् ।
वैराजं शुभदं रामं खर्वदेहं हुताशनम् ।। 31.117 ।।
वैधरं त्वृतधामानं नृहरिं मृगवल्लभम् ।
पवित्रमृतधामानं माधवं भुजगं ततः ।। 31.118 ।।
चतुर्गतिं तथा दृष्टिं चादिदेवं हुताशनम् ।
भुवनं चण्डमत्रिं च ऊकारं कमलोद्भव ।। 31.119 ।।
क्रोधरूपं दिनमणिं विघ्नेशं मधुसूदनम् ।
एकाक्षं मन्दरं पद्मं वैधरं गोपतिं तथा ।। 31.120 ।।
पश्चिमं वक्रतुण्डं च खड्गं गोपनमन्वतः ।
भूधरं (53) मारुतं स्पर्शं तृतीयं (54) ककुभं तथा ।। 31.121 ।।
(53. माधनम्.)
(54. ककुभाह्वयं.)
यान्तं च विजयं त्वग्निमाकारं श्वेतरोचिषम् ।
(55) अदिं दरं तथेन्द्रं च विजयं (56) ज्वलनं तथा ।। 31.122 ।।
(55.आदिदेवं.)
(56.जननं.)
श्रीधरं च गदध्वंसं भुवनं च हुताशनम् ।
उदयं चतुर्गतिं विघ्ननायकं त्वेकचक्षुषम् ।। 31.123 ।।
स्वाहाधवं (57) गोपनं च यष्टिं च कमलालयाम् ।
वक्रतुण्डं चोर्ध्वलोकं प्रचण्डं वसुमस्तकम् ।। 31.124 ।।
(57. गोधनं.)
मारुतं वरुणं चाग्निं पश्चिमं स्वान्तमब्जज ।
पवित्रमृतधामानं मारुतोदयसंज्ञितौ ।। 31.125 ।।
विरिञ्चविजयौ चाग्नि देवमन्दरश्रीधरौ ।
मारुतात् षष्ठमन्त्रं च पद्मां विजय (58) मादिमत् ।। 31.126 ।।
(58. मादितः.)
(59) यष्टिं लक्ष्म्यास्तृतीयं च शिखण्डं ब्रह्मसाधनम् ।
खेटकं मारुतं पापहननं पावकं ततः ।। 31.127 ।।
(59. षष्टिं.)
शशाङ्कं विक्रमं (60) चार्तिदण्डनं विक्रमं तथा ।
अर्धेन्दुशेखरं पश्चात्पञ्जान्तमृतधाम च ।। 31.128 ।।
(60. चादि.)
नभोमणिं पवित्रं च पवनान्तं च मन्दरम् ।
गजाननं च विजयं दहनं बिन्दुशेखरम् ।। 31.129 ।।
नीहारदीधितिं यष्टिं सान्तं चैवाग्निसप्तमम् ।
माधवीमिन्दुयान्तौ च दक्षं च मधुविद्विषम् ।। 31.130 ।।
अर्धेन्दुमिन्दुमाकारं मन्दरं माययायुतम् ।
क्रोधरूपं हुतवहं भुवनं पुण्यविक्रमौ ।। 31.131 ।।
(61) यान्तं सुभद्रमोंकारं मुसलं द्विरदाननम् ।
धनदं विक्रमं स्पर्शं गोपनं च चतुर्गतिम् ।। 31.132 ।।
(61. धान्तम्.)
वैराजं वामनं तार्क्ष्यं प्रचण्डं श्वेतदीधितिम् ।
विक्रमं वैधरं पुण्यं (62) प्रचण्डं कुञ्जराननम् ।। 31.133 ।।
(62. गोपनं.)
एकनेत्रं हुतवहं मधुसूदनसंज्ञितम् ।
यान्तोदयौ शुक्ललोकौ बहुलं ब्रह्मसाधनम् ।। 31.134 ।।
सप्तार्चिश्श्रीधरं (63) त्विन्द्रं यष्टिं पञ्चान्तकं तथा ।
(64) यान्तं चाग्निं द्वितीयं च मन्दरं पवनद्वयम् ।। 31.135 ।।
(63. चेन्दुम्.)
(64. यान्तमचां द्वितीयम्.)
भद्रपाणिमथैकाक्षं यान्तं च मधुविद्विषम् ।
लम्बकुक्षिं च विजयं शिखिनं मन्दरं तथा ।। 31.136 ।।
सर्वरोधं भद्रबाहुं माधवं कमलं ततः ।
नासिक्यं खर्वदेहं च वक्रतुण्डं सरोरुहम् ।। 31.137 ।।
यान्तं कुशेशयं कुम्भं सुमुखं द्विस्समुद्धरेत् ।
ओतदेहं तथा (65) दिं च श्वसनं विजयं तथा ।। 31.138 ।।
(65. त्रिं च.)
करालमग्नि वदनं मुखं पवकगोपनौ ।
निहारदीथितिं चैव चषकं हव्यवाहनम् ।। 31.139 ।।
विघ्नेशं गोपनं चाग्निं मधुसूदनमारुतौ ।
चण्डं हुतवहं रामं पुलहं बन्धुशीर्षकम् ।। 31.140 ।।
सुधामयमिकारं च महान्द्रं रामशीर्षकम् ।
स्पर्शान्तं (66) विक्रमाध्यं च नत्यन्तं बन्धु (67) मस्तकम् ।। 31.141 ।।
(66. विक्रमं चान्यं.)
(67. सस्तकम्.)
खड्गं त्रिविक्रं पीतवर्णाभं च त्रिविक्रमम् ।
माधवीं सर्वरोधं च (68) वैधरं मन्दरद्वयम् ।। 31.142 ।।
(68. मन्दरं वैधरद्वयम् ।।)
(69) यान्तार्णाग्निरथं पश्चाद्यान्तं गोपनमस्तकम् ।
विहगेशं श्वेतरोचिर्मुखं हुतवहं तथा ।। 31.143 ।।
(69. यान्तार्ण शिरसम्.)
श्रीधरं चैकनयनं पश्चिमं बन्धुमस्तकम् ।
श्रीवत्समादिदेवान्तं प्रचण्डं कमलाभिधम् ।। 31.144 ।।
अथोर्ध्वलोकं श्रीवत्सं मन्धरं मधुविद्विषम् ।
प्रचण्डं पुण्डरीकाक्षं शुभदं च सरोरुहम् ।। 31.145 ।।
(70) वनं गजमुखं बन्धुं भुवनं मृगवल्लभम् ।
अमृतं चैकनयनं पञ्चबिन्दुं सुधामयम् ।। 31.146 ।।
(70. भुवनम्.)
विक्रमं कुञ्जरमुखं गोपनं धूलिकेतनम् ।
करालं जन्मविध्वसं कुलिशं च हुताशनम् ।। 31.147 ।।
शशाङ्कमादिं यान्तं च वरुणं पुलहं तथा ।
हृषीकेशं तथैकाक्षं वरुणं बन्धुशीर्षकम् ।। 31.148 ।।
क्रोधरूपं (71) गोपतिं च दान्तं मन्दरगोपनौ ।
शिखिनं स्पर्शनं चादिं षट्कृत्वः पुलहं क्षिपेत् ।। 31.149 ।।
(71. गोपनम्.)
जयं सदागतिं बन्धुं पियूषं विक्रमाभिधम् ।
हिरण्यगर्भमनलं मन्दरद्वयमब्जज ।। 31.150 ।।
पुण्डरीकाक्ष (72) मग्न्यन्तं विजयं रामशीर्षकम् ।
नभोमणिं चादिदेवममृतं मायया युतम् ।। 31.151 ।।
(72. मत्यन्तं.)
अत्रिं च धनदं कुम्भं द्वयमर्धेन्दुमादिमत् ।
हस्तिवक्त्रं च कमलमसलं च सुधामयम् ।। 31.152 ।।
अग्निं च गोपनं मान्तं श्रीधरं सुभगं तथा ।
स्पर्शत्रयं बृहद्भानुं गोपनं सुमुखं ततः ।। 31.153 ।।
माधवीं वासुदेवं च वैधरं माधवाह्वयम् ।
सुभद्रं चन्द्रधवलं मुसलं च द्विरुच्छरेत् ।। 31.154 ।।
ब्रह्मन्ननन्तरं तस्य मारुतं मधुविद्विषम् ।
कुम्भं सविक्रमं लक्ष्मीं सुधादीधितिविक्रमौ ।। 31.155 ।।
क्रोधरूपं प्रचण्डं च भुवनं वक्रतुण्डकम् ।
करालं शिखिनं दक्षं भद्रहस्तं (73) तथोदरम् ।। 31.156 ।।
(73. तथोदयम्.)
ओषधीशं तथा दक्षं (74) पानकं च ठठान्तिमम् ।
(74. पवनं.)
* बीजाङ्गदेवतानिर्देशः.*
बीजमङ्गं यथापुर्वमृषिर्दक्षः प्रजापतिः ।। 31.157 ।।
छन्दोऽतिच्छन्द एतस्य देवता (75) च सुदर्शनः ।
सप्ताधिका सप्तदिश्च वर्णानां द्वे शते समे ।। 31.158 ।।
(75. स्यात्सुदर्शनः.)
जपेन सिध्यति मनुर्लक्षद्वादशसङ्ख्यया ।
* जपकालदेशादिनिर्देशः.*
कृष्णपक्षे चतुर्दश्या मुपोष्य (76) प्रयतात्मवान् ।। 31.159 ।।
(76. दृढमा.)
निशीथे दृढधीर्मन्त्रीश्मशाने वा चतुष्पथे ।
जपेद्भूतादयस्तस्य प्रत्यक्षास्सर्वकामदाः ।। 31.160 ।।
* अपरस्सुदर्शनमहामन्त्रः.*
महासुदर्शनं मन्त्रमपरं कथयामिते ।
द्विषट्काक्षरमुद्धृत्य गोपतिं मृगवल्लभम् ।। 31.161 ।।
वैरांज विक्रम (77) परमनलं मधुसूदनम् ।
(78) गदध्वंसमचामादिं दक्षं दिनकराह्वयम् ।। 31.162 ।।
(77. परं यान्तं च - परं वामनं.)
(78. जन्मध्वंसं.)
गोपनं धृतिमन्तं च पुलहं पश्चिमाननम् ।
ऋतधामा दिनमणिं पावकं सुमुखं ततः ।। 31.163 ।।
अमृतं ककुभं पद्मनाभं (79) गोपतिमब्जज ।
सुभगं बन्धुशिरसं पवित्रं विजयं तथा ।। 31.164 ।।
(79. गोपन.)
चतुर्गतिं देवदत्तं पश्चिमं (80) बन्धुमस्तकम् ।
प्रचण्डं पुण्डरीकाक्षं (81) गोपनं वैधराह्वयम् ।। 31.165 ।।
(80. बन्धुसप्तकम्.)
(81. गोधनं वैधरं ध्वजम्.)
सरामं चैकनेत्रं च मारुतं (82) ब्रह्मसाधनम् ।
अत्रिं चतुर्गतिं श्वेतदीधितं च (83) स्वरादिमत् ।। 31.166 ।।
(82. च प्रसाधनम्.)
(83. सुरादिमत्.)
विघ्नेशद्वितयं पश्चान्मायामस्तकमुद्धरेत् ।
सुभद्रं सूदनं शङ्खं वैधरं पञ्चबिन्दुकम् ।। 31.167 ।।
पश्चिमं चैकनयनं सूदनं गदिनं तथा ।
भद्रबाहुं सरामं च ककुभं कुम्भ (84) गोपनौ ।। 31.168 ।।
(84. शोभनौ.)
माहेन्द्रं सूदनं (85) विश्वरूपं भूधरमब्जज ।
शुभदं विजयं शुक्लं गोपनं श्वेतदीधितिम् ।। 31.169 ।।
(85. क्रोधरूपम्.)
ऋतं च सूदनं यान्तं देवरं मन्दरोदयौ ।
भृगुं खड्गधरौ द्वौ च माधवं भुवनाह्वयम् ।। 31.170 ।।
आकारं वक्रतुण्डं च वैधरं श्रीधरं तथा ।
उग्रात्मानं पवित्रं च पद्मनाभं च माधवम् ।। 31.171 ।।
नृहरिं सूदनं शुक्लं भुवनं बहुलद्वयम् ।
तार्क्ष्यं झषं (86) गोपनं च (87) कमलं बन्धुमस्तकम् ।। 31.172 ।।
(86. गोपतिम्.)
(87. मलयं.)
विघ्नेशं वामनपरं सुभद्रं सगुहालयम् ।
एकनेत्रं चादिदेवं पश्चिमाननमब्जज ।। 31.173 ।।
शुक्लं दक्षं सूदनं च यान्तं पश्छिमवक्त्रकम् ।
ऋतधाम तथा दक्षं सर्वरोधं सपश्चिमम् ।। 31.174 ।।
विक्रमं शुभदं चादिदेवं खड्गधरं तथा ।
चतुर्गतिं वासुदेवं गदध्वंसं सविक्रमम् ।। 31.175 ।।
भद्रहस्तं पञ्चबिन्दुबिन्दुमोषधीशं करालकम् ।
विघ्नेशं वैधरं कुम्भं विक्रामणमनन्तरम् ।। 31.176 ।।
कुञ्जराननमाकारं चतुर्गतिमचां मुखम् ।
(88) शिखिनं मानुषेशं च नृहरिं स्पर्शषोडशीम् ।। 31.177 ।।
(88. शंखिनम्.)
ऋतधामोतदेहं च भद्र (89) बाहुमनन्तरम् ।
अचां द्वितीयं दृष्टिं च गदिनं पद्मनाभकम् ।। 31.178 ।।
(89. बाहुं समन्दरम्.)
मार्ताण्डं सूदनं विघ्ननायकं विजयं तथा ।
पद्मनाभं (90) गोपनं च शुक्लमादिं दराह्वयम् ।। 31.179 ।।
(90. गोपतिम्.)
तत्समष्टिं द्विरुच्चार्य सोममादिं सयष्टिकम् ।
भास्करं पावकं चैव द्विर्वक्तव्यं तदक्षरम् ।। 31.180 ।।
पीयूषं विक्रमं पुण्यं कलशं यष्टिशीर्षकम् ।
शशाङ्कमादिं शङ्खं च पूर्ववत्कमलोद्भव ।। 31.181 ।।
पीयूषं रामशिरसं स्पर्शानामपि षोडशम् ।
ऋतं च सूदनं शुक्ल (91) मत्रिं चैव यथापुरम् ।। 31.182 ।।
(91. मुग्रं चैन यथापुरम् ।। लक्ष.)
तार्क्ष्यद्वयं च कमलां विजयं त्वृतधाम च ।
हृषीकेशं तथा भद्रद्वयं मधुनिघादनम् ।। 31.183 ।।
श्रीवत्सं चादिमनलं श्रियः पतिमनन्तरम् ।
पञ्छान्तकं पद्मनाभमेकाक्षं मृगवल्लभम् ।। 31.184 ।।
जन्मध्वंसं श्वेतरश्मिमेणएशं दृष्टिवामनौ ।
सुभद्रं बन्धुशिरसं स्पर्शानां षोडशाक्षरम् ।। 31.185 ।।
विक्रमं चैकविंशं च बन्धुं तन्मस्तकस्थितम् ।
सुमुखं पवनाह्वानं ब्र्हमसाविजयाह्वयम् ? ।। 31.186 ।।
दहनं भद्रममृतं मतिमन्तं च सूदनम् ।
प्रचण्डं गोपनं शुक्लं भुवनं बहुलं तथा ।। 31.187 ।।
भल्लायुधं श्रीधरं च मुसलं प्रेतनायकम् ।
माधवं वैधरं विघ्ननायकं द्वितीयं तथा ।। 31.188 ।।
अचां द्वितीयं पञ्चान्तं विष्कंभं द्विरदाननम् ।
विक्रमं माधवीमग्निं वासुदेवं चतुर्मुख ।। 31.189 ।।
वक्रतुण्डं मानुषेशमप्रमेयं वनस्रजम् ।
धरित्रीं कमलाक्षं च सूक्ष्मदृग्बन्धुमस्तकम् ।। 31.190 ।।
विघ्नेशं वैधरं प्रेतनायकं माययायुतम् ।
हैरम्बं वैधरं चादिं पश्छिमं त्वृतधामकम् ।। 31.191 ।।
विजयं रामशिरसं भास्करं विजयाह्वयम् ।
अत्रिं मृगेशं वरुणं गोपनं श्वेतदीधितिम् ।। 31.192 ।।
श्रीधरं बहुलं पीतं जृम्भलं मोहनाशनम् ।
पश्चिमं भुवनं विघ्ननायकद्वितयं तथा ।। 31.193 ।।
अचां द्वितीयं कमलमादिं शङ्खं विनायकम् ।
पश्चिमं भुवनं बिन्दुं शशाङ्कं द्विगुणं तथा ।। 31.194 ।।
भद्रबाहुं सरामं च सुधादीधितिगोपनौ ।
यान्तं समिरणं चादिं पश्चिमं जातवेदनम् ।। 31.195 ।।
अमृतं विक्रमपरं वैधरं (92) चानलं तथा ।
गोपनं विजयं विघ्ननायकं विजयाह्वयम् ।। 31.196 ।।
(92. चानिलं तथा.)
ऋतवधामं नलसिजं पद्मनाभं पितामह ।
वैराजं श्वसनं चादिदेवं भल्लायुधं करम् ।। 31.197 ।।
श्वसनं प्रणवादिं च विघ्नेशं (93) सर्वविक्रमौ ।
(94) करालमृतधामान्तं विजयं धनसंज्ञितम् ।। 31.198 ।।
(93. शर्वविक्रमौ.)
(94. `करालम्' इत्यारभ्य `विधातारम्' इत्यन्तं क्वचिन्नास्ति.)
स्वच्छन्धमथं दृष्टिं च चतुर्गति मनन्तरम् ।
शशाङ्कं पुल्लनयनं वासुदेवं च खेटकम् ।। 31.199 ।।
शङ्खं पुलहमोङ्कारं मार्ताण्डं पश्चिमानम् ।
क्रोधं वनस्रजं भूमिं नासिक्यं श्वेतदीधितिम् ।। 31.200 ।।
षोडशं कपिलं भानुं चतुर्गतिमनन्तरम् ।
विधातारं तथा शैलं विजयं कमलोद्भव ।। 31.201 ।।
अचां त्रयोदशं चाग्निं कमलं चन्द्रदीधितिम् ।
वक्रतुण्डं चादिदेवं (95) शङ्खं पीतमचां मुखम् ।। 31.202 ।।
(95. शङ्खं पीतमवाङ्मुखं.)
पूर्णचन्द्रं तथा दक्षं भुवनं वैधरात्मकम् ।
पद्मनाभं ध्रुवं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ।। 31.203 ।।
क्रोधरूपं दरं चादिं माधवं गोपतिं तथा ।
विक्रमं माधवं भानुं सरामं सूक्ष्मलोचनम् ।। 31.204 ।।
गदध्वंसं च पीयूषं विघ्नेशं पश्चिमाननम् ।
अचां द्वितीयं शुभदं सूदनं यष्टिशीर्षकम् ।। 31.205 ।।
करालं श्रीधरं लक्ष्मीं मृगेशं द्विरदाननम् ।
पद्मपाणिं भूधराख्यं द्वयं (96) वैधरमाधवौ ।। 31.206 ।।
(96. भूधर.)
पश्चिमं पवनं लक्ष्मीं ब्रह्मसाधनसंज्ञितम् ।
क्रोधरूपमचामादिं स्पर्शनं दक्षगोपनौ ।। 31.207 ।।
धान्तं चतुर्गतिं पापहननं बहुलं तथा ।
वक्रतुण्डं करालं च (97) ककुभं त्वृधाम च ।। 31.208 ।।
(97. ऋतधाम च धाम च.)
भद्रबाहुं (98) चलध्वंसं मृगेशं दृष्टिमादिमम् ।
द्विरदाननयष्टिं च अनलं गोपनाह्वयम् ।। 31.209 ।।
(98. गदध्वंसं.)
(99) सध्रुवं पुलहं बिन्दुं माहेन्द्रं मधुसूदनम् ।
अर्धचन्द्रं तथा चन्द्रं नासिक्यं तद्द्विरुद्धरेत् ।। 31.210 ।।
(99. बन्धूहम्.)
शशाङ्कमृतधामानं सूधनं यष्टिशीर्षकम् ।
तद्विरभ्यस्य शीतांशुमर्पितं वसुमस्तकम् ।। 31.211 ।।
पुलहं वासुदेवाख्यं स्रष्टारंद्विरदाननम् ।
विक्रमं बहुलं ब्रह्मन् गोपनं बहुलं तथा ।। 31.212 ।।
प्रचण्डं (100) जन्मविध्वंसं विघ्नेशं च (101) तृतीयकम् ।
अचां (102) दृष्टिं द्वितीयान्तं भद्रबाहुं पवित्रकम् ।। 31.213 ।।
(100. छलि.)
(101. द्वितीयकम्.)
(102. दृष्टिद्वयं यान्तम्.)
ऋतं च कार द्विरदं चाननं मन्दराह्वयम् ।
प्रद्योतनं गोपनं च शशाङ्कं च श्रियः पतिम् ।। 31.214 ।।
वैधरं शुभदं चाग्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमपरं विजयं मुखमब्जज ।। 31.215 ।।
अत्रिं सरामं पञ्चान्तं सुभगं मधुसूदनम् ।
यष्टिं करालमाकारं चतुर्गतिमनन्तरम् ।। 31.216 ।।
अपां पतिं श्वेतरश्मिं श्रियः पतिमतः परम् ।
स्तम्बरमाननं मायां कलशं (103) दीप्तरोचिषम् ।। 31.217 ।।
(103. सप्त.)
सुभगं गोपनं यान्तं गोपनं पश्चिमाननम् ।
हृषीकेशं वसुं शङ्खं (104) गोपनं द्वितीयं पुनः ।। 31.218 ।।
(104. श्रीद्विज. श्रीबीजद्वितियं.)
यष्टिबीजं द्विरुच्चार्य (105) तिग्मदीधिं पवित्रकम् ।
ऋतधामतथैकाक्षं विक्रमं बहुलाह्वयम् ।। 31.219 ।।
(105. निगमादिं.)
गदध्वंसं तथैकाक्षं विक्रमं बहुलाह्वयम् ।
(106) गुहालयं पापहनममृतं मधुविद्विषम् ।। 31.220 ।।
(106. गुहाश्रयम्.)
रोचिश्श्रियः पतिं कान्तं वैधरं माधवं तथा ।
पीयूषमादिं कमल (107) मशिवं धनदाह्वयम् ।। 31.221 ।।
(107. मनलं.)
ऋतधाम तथै काक्षमचामेकदशं तथा ।
द्विरुद्धरेत्कामभीजं वैधरं (108) तूदयाह्वयम् ।। 31.222 ।।
(108. मरणा.)
गदध्वंसं तथै वाग्नि मस्तकस्थं पवित्रकम् ।
गोपनं विजयं चादिदेवं विष्कम्भसंज्ञितम् ।। 31.223 ।।
त्रिदशाकारमेकारं श्वेतांशु विक्रमं तथा ।
गजवक्त्रं सूदनं च कपिलाक्षमनन्तरम् ।। 31.224 ।।
तृतीयं ककुभद्वन्द्वमस्तकं वसुं पुनः ।
जन्मध्वंसं च जलजं सुधादीधितिविक्रमौ ।। 31.225 ।।
(109) कलशं पुरुषात्मानं गहनं पद्मनाभकम् ।
भास्करं सुमुखं ब्रह्मन् भुवनं विजयं (110) वसु ।। 31.226 ।।
(109. मुसलं.)
(110. सुखम्.)
द्रुहिणं त्वृतधामानं भूधरं क्रोधनं ततः ।
स्पर्शानां षोडशार्णं च (111) कुम्भेशं मुसलं ततः ।। 31.227 ।।
(111. मृगेशं.)
निहारदीधितिमचा (112) मेकदेशमतः परम् ।
चतुर्गतिं भद्रहस्तं विजयं पद्मनाभकम् ।। 31.228 ।।
(112. मेकादश.)
हैरम्बं गोपनं चैव गदिनं कलुषापहम् ।
अचां द्वितीयं (113) कमलां गोपनं वित्तवर्धनम् ।। 31.229 ।।
(113. कमलम्.)
(114) हरिणाननमाये द्वे ककुभं वरुणाह्वयम् ।
(115) ज्वलनं मानुषघ्नं च विघ्नेशं गोपनाह्वयम् ।। 31.230 ।।
(114. वारणानन.)
(115. अनलं मानुषेशं च.)
श्रीवत्सं (116) द्विशदं शुक्लमचामादिं सरोरुहम् ।
ब्रह्मन् पञ्चान्तकमतः (117) धृतावासुमतः परम् ? ।। 31.231 ।।
(116. जलजं.)
(117. कोशाष्टकेपि त्रुटिः. क्वचित् यथा पाङ्त्काः पाठः.)
वैराजमग्निं नृहरिं ब्रह्मसाधनसंज्ञितम् ।
सुभद्रं सुमुखं कुम्भं मारुतं चोतदेहकम् ।। 31.232 ।।
दक्षं दाक्षायणीकान्तं मन्दरं पञ्चबिन्दुकम् ।
धूमध्वजं प्रचण्डं च सूदनं कतृतीयकम् ।। 31.233 ।।
(118) हरिवक्त्रं रामसंज्ञं दृष्टिविक्रममब्जज ।
शुभदं कपिलं (119) ह्रस्वं भद्रहस्तं समिरणम् ।। 31.234 ।।
(118. करिवक्त्रं.)
(119. भद्रहस्तं पुण्यं.)
निहारदीधितिमचामादिं कुम्भं हुताशनम् ।
शुक्लमोङ्कारसंयुक्तं सुभद्रं मधुसूदनम् ।। 31.235 ।।
स्पर्शं तृतीयमनलं विजयं सप्तमिं कलाम् ।
विक्रमं सूक्ष्मदृष्टिं च श्रीधरं यादसां पतिम् ।। 31.236 ।।
हेरम्बं वासुदेवं च भद्रहस्तं च माधवीम् ।
अचां द्वितीयं (120) दृष्टिं च कमलं बहुलं तथा ।। 31.237 ।।
(120. तुष्टिं च.)
स्पर्शान्तं भुवनं चक्रं भृगुं ककुभसंज्ञितम् ।
नभोमणिं विक्रमं च पाटलं मधुविद्विषम् ।। 31.238 ।।
भल्लायुधं बन्धु (121) शीर्षं विघ्नेशं वैधराह्वयम् ।
वक्रतुण्डमाचामादिं कमलं पीठपूर्वकम् ।। 31.239 ।।
(121. रसं---शरो.)
गोपनं मानुषं चैव (122) पुलहं बन्धुमस्तकम् ।
ओतदेहं तथा पीतं जन्मध्वसं त्रिविक्रमम् ।। 31.240 ।।
(122. पुलहद्वय.)
गोपतिं वरुणं विघ्ननायकं त्वृतधामकम् ।
एकाक्षं मारुतं चादिदेवं बहुलमस्तकम् ।। 31.241 ।।
(123) पवनं सूक्ष्मदृक् प्रोक्तं सूदनं च चतुर्गतिम् ।
सुभद्रं च बृहद्भानुं गदिनं वरुणं मुखम् ।। 31.242 ।।
(123. पावनं.)
जयं कुम्भेशमखिलमृतं भुवनसंज्ञितम् ।
दृष्टिं च धनदं दक्षं हृषीकेशं जयाह्वयम् ।। 31.243 ।।
शशाङ्कं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं भुवनं चादिं कमलामद्रिमस्तकम् ।
विघ्नेशं पश्चिमं बन्धुं नासिक्यं गदिनं तथा ।। 31.244 ।।
माहेन्द्रं शशिनं देवदत्तं लक्ष्मीं श्रियःपतिम् ।
पञ्चान्तकं पद्मनाभं गोपनं विघ्ननायकम् ।। 31.245 ।।
अमृतं समिरणमचां द्वितीयं पश्चिमाननम् ।
वैराजं माधवीमूर्ध्वलोकेशं विजयद्वयम् ।। 31.246 ।।
बहुलं समिरणं देवदत्तं मन्दर (124) गोपने ।
गोपनं चौषधीशं च भुवनं वैधराह्वयम् ।। 31.247 ।।
(124. गोपती । गोपतिम्.)
श्रीवत्समग्निं विघ्नेशं गोपनं च चतुर्गतिम् ।
हुंफट्कारं ठठान्तं च मनुमेवं समुद्धरेत् ।। 31.248 ।।
* बीजाङ्गादिनिर्देशः.*
बीजाङ्गानि यथापूर्वमृषिस्स्यान्नीललोहितः ।
छन्धश्च वरिवंसंज्ञो देवता च सुदर्शनः ।। 31.249 ।।
अष्टलक्षं जपेद्ब्रह्मन् पाताले दिवि वा भुवि ।
गतिनन् प्रतिहन्येत मन्त्रिणो मन्त्रवैभवात् ।। 31.250 ।।
* सुदर्शननृसिंहमन्त्रः.*
सुदर्शननृसिंहाख्यं मन्त्रं ब्रूमि चतुर्मुख ।
उद्गीधं नृहरिं (125) पद्मनाभां सङ्कर्षणाह्वयम् ।। 31.251 ।।
(125. ब्रह्म.)
नासिक्यं शुक्लमादिं च गोपतिं प्रणवादि च ।
निहारदीधितं पद्मनाभं च मधुविद्विषम् ।। 31.252 ।।
अनलं ककुभं कुम्भं गोपनं पुलहात्मकम् ।
अचां द्वितीयं स्पर्शान्तं सूदनं पुलहाह्वयम् ।। 31.253 ।।
विक्रमं कुञ्जरमुखं (126) माधवं तस्य मस्तके ।
मार्ताण्डं भद्रहस्तं च द्विरुच्चार्य प्रभाकरम् ।। 31.254 ।।
(126. वामनं.)
श्रीधरं कपिलाक्षं च फट्कारं खेटकीं ततः ।
ठठान्तमेवं कथितं द्वाविंशत्यक्षरात्मकम् ।। 31.255 ।।
बीजमङ्गानि चोक्तानि छन्दो गायत्रमिरितम् ।।
द्रष्टा च जमदग्निस्स्याद्धेवता च सुदर्शनः ।। 31.256 ।।
* सुदर्शननृसिंहध्यानम्.*
सुदर्शनस्य हृदये विष्ठितं नृहरिं हरम् ।
स्फटिकाचलसङ्काशं परश्शतसटाकुलम् ।। 31.257 ।।
(127) प्रलयाम्बुदनिर्घोषगम्भिरगहनध्वनिम् ।
शज्खचक्रधरं द्वाभ्यां कराभ्यामितरौ पुनः ।। 31.258 ।।
(127. हाराद्यङ्गदनिर्घोषगम्भिर भयद.)
प्रसार्य जानुनोर्भी (128) मं नखदम्भोलिभीषणौ ।
व्यत्यस्तचरणद्वन्द्वमासीनं पद्मविष्टरे ।। 31.259 ।।
(128. मनखदम्भोलिनिर्मितौ । विन्यस्त.)
भ्रुकुटीकुटिलं योगपट्टिकादृढबन्धकम् ।
व्यादायवक्त्रकुहरं दंष्ट्रिणं स्फुटिताधरम् ।। 31.260 ।।
त्रिणेत्रमखिलाकल्पकल्पितं ब्रह्मगर्जितम् ।
ध्याये (129) देवं च तन्मन्त्रं मन्त्री तरति दुर्गतिम् ।। 31.261 ।।
(129. द्धेनं जपेन्मन्त्रं.)
सकृत्स्मरणमात्रेण यथाभिलषितं फलम् ।
अन्येषु मन्त्रकल्पेषु यदुक्तं तत्समश्नुते ।। 31.262 ।।
* पाञ्छजन्यमन्त्रः.*
वक्ष्यामि पाञ्चजन्यस्य मन्त्रं सर्वार्थसाधनम् ।
उद्गीथमादौ सप्तार्णानुद्धृत्य तदनन्तरम् ।। 31.263 ।।
पश्चिमं भुवनं चण्डं पुण्डरीकं हुताशनम् ।
महामायां करालं च गोपनं पन्नगाधिपम् ।। 31.264 ।।
सूदनं च तथा सङ्खं (130) कलशं मधुसूदनम् ।
मारुतं भुवनाह्वानं मन्दरं भुवनं ततः ।। 31.265 ।।
(130. कमलम्.)
खर्वदेहं तथा चादिदेवं श्वसनमादिमत् ।
वैधरं पञ्चबिन्दुं च पश्चिमं विजयं ततः ।। 31.266 ।।
यान्तं गुहालयं पापहननं मधुविद्विषम् ।
शङ्खं लक्ष्मीं तथायष्टिं खर्वदेहं च (131) पश्चिमम् ।। 31.267 ।।
(131. पंचमम्.)
आदिदेवं महेन्द्रं च मधुसूदनशीर्षकम् ।
वायुं ठठान्तमुदितमिति प्रोक्तो मनुर्महान् ।। 31.268 ।।
श्रीवत्सो यष्टिरुद्गीथो बीजमेतत्प्रकीर्तितम् ।
अमुष्य सनको द्रष्टा छन्दस्स्याद्बृहती मनोः ।। 31.269 ।।
देवता पाञ्चजन्यश्च चतुर्लक्षोजपः स्मृतः ।
* पाञ्चजन्यमन्त्रान्तरम्.*
अतोऽन्यं पाञ्चजन्यस्य मन्त्रं शृणु चतुर्मुख ।। 31.270 ।।
सप्तार्णमुद्धरेदादौ पश्चिमं मधुसूदनम् ।
भृगुं चन्ध्रधरं खड्गधवलं ककुभाह्वयम् ।। 31.271 ।।
गजवक्त्रं तथा नायुमादि देवं समिरणम् ।
पश्छिमं सप्तममचां सुमुखं निगमादिकम् ।। 31.272 ।।
पीयूषमत्रिं (132) सुभगं वरुणं मधुविद्विषम् ।
गजास्यमादिदेवं च श्वसनं श्वेतरोचिषम् ।। 31.273 ।।
(132. सुमुखम्.)
वैधरं गोपनं चापि गदध्वंसं चतुर्मुख ।
वैराजं विक्रमं दक्षं श्रीधरं तर्क्ष्यवाहनम् ।। 31.274 ।।
गोपनं स्पर्शनं जन्महन्तरं सलिताधिपम् ।
महेन्द्रमादिं (133) ज्वलनं तथाचं षष्ठिपश्चिमौ ।। 31.275 ।।
(133. जलजं.)
गोपनं पश्चिमं गोपं पीतवर्णं मधुद्विषम् ।
श्वसनं च ठठान्तं च मनुरित्थमुदाहृतः ।। 31.276 ।।
जीमङ्गानि वैतस्य देवता चापि पूर्ववत् ।
विष्वक्सेन ऋषिश्छन्दस्सुप्रतिष्ठापितामह ।। 31.277 ।।
पञ्चलक्षजपेनास्य साधको मन्द्रवैभवात् ।
अतलादिषु लोकेषु (134) चरन्न प्रतिहन्यते ।। 31.278 ।।
(134. गतिर्न.)
किं पिनर्दर्मकामार्थमोक्षाः कमलसम्भव ।
* कौमोदकीमन्त्रः.*
सप्तार्णमग्रे गोविन्दं गदिनं दृष्टिसूदनौ ।। 31.279 ।।
चतुर्गतिं चातिवीरं भल्लायुधमचां मुखम् ।
अपां पतिं हुतमहमुकारं पश्चिमाननम् ।। 31.280 ।।
रामं प्रचण्डं गोविन्दं ब्रह्मसङ्कर्षणावपि ।
मन्दरं वासुदेवाह्वं वैधरं विष्णुमस्तकम् ।। 31.281 ।।
कुशेशयधरे वीरसेनं हुंफट् ठठान्तिमम् ।
इति कौमोदकीमन्त्रमुद्धरेद्बीजमस्यतु ।। 31.282 ।।
स्पर्शद्वितीयमर्धेन्दुमेतेनैवाङ्गकल्पना ।
ऋषिः कृष्णस्तथा (135) छन्दः पङ्त्किः कौमोदकी पुनः ।। 31.283 ।।
(135. चन्दो देवी.)
देवता लक्षमन्त्रश्च जवतस्पिद्धिदो भवेत् ।
* पद्ममन्त्रः.*
आदावुद्धृत्य (136) चोङ्कारं गोपनं दृष्टिविक्रमौ ।। 31.284 ।।
(136. चोद्गीथं.)
वैराजं मारुतं पापहननं (137) वसुमस्तकम् ।
वैराजं बन्धुशिरसं माधवीं सूदनं दरम् ।। 31.285 ।।
(137. विजयं तथा.)
पाटलप्रियमाकारं समिरणमचां मुखम् ।
यान्तं गुहालयं ब्रह्मन् पश्चिमं बन्धुमस्तकम् ।। 31.286 ।।
सुमुखं देवदत्तं च हुंफट्कारं (138) ठठान्तिमम् ।
नादं पकारमाकारमर्धेन्दुशिरसं पुनः ।। 31.287 ।।
(138. हुतान्तिमम्.)
बीजं प्रकल्पयेद्ब्रह्मन्नमनै पाङ्गकल्पना ।
द्रष्टा विरञ्चश्छन्दश्च विराट्पद्मोऽधिदेवता ।। 31.288 ।।
दशलक्षजपात्सिद्धिरखइलं प्राप्नुयान्नरः ।
इति पद्ममनुः प्रोक्तो बीजेनान्याङ्गकल्पना ।। 31.289 ।।
* मुसलमन्त्रः.*
शुक्लं पुनर्विष्णु वह्निपीयूषं गोपनाह्वयम् ।
सप्तार्णाद्धरणात्पश्छान्मन्दरं कमलासन ।। 31.290 ।।
शशाङ्कमादिं पुलहं गोपनं पवनं पुनः ।
ज्वलनं गोपनं दक्षं गोपनं कमलोद्भव ।। 31.291 ।।
चतुर्गतिं च भुवनं सुमुखं मधुविद्विषम् ।
दरं मुखं ठठान्तं च मन्त्रविन्मन्त्रमुद्धरेत् ।। 31.292 ।।
मन्दरं भुवनं यष्टिमितिबीजमिदं मनोः ।
मुद्गस्यादृषिश्छन्दो विराण्मन्द्रस्य देवता ।। 31.293 ।।
मुसलः पञ्चलक्षं तु (139) मन्त्रमस्य प्रचक्षते ।
* खड्गमन्त्रः.*
उद्धृत्य सप्तवर्णांश्च हैरम्बं मधुसूदनम् ।। 31.294 ।।
(139. जप.)
(140) गजह्वमत्रिं कमलं मधुशत्रुं चतुर्गतिम् ।
विष्णुं शुक्लं पुनर्विष्णुं वह्निपियूषगोपनाः ।। 31.295 ।।
(140. गजास्यात्रिसरोजानि.)
शशाङ्कं भुवनं वह्निं श्रीवत्सं ब्रह्मसाधनम् ।
सुमुखं विक्रमं चापि वैधरं विजयं तथा ।। 31.296 ।।
रामं पञ्चान्तकं पुण्यं गोपनं यष्टिशीर्षकम् ।
पञ्चान्तकं गोपनं च श्वसनं हुंकृतिं तथा ।। 31.297 ।।
फट्कारं स्वाहया सार्धं खड्गस्य गदितो मनुः ।
चक्रमन्त्रस्य बीजं स्यादृषिश्श्रीनिधिरुच्यते ।। 31.298 ।।
छन्दो विराढधिपतिः खड्गाख्यो हेतिराड्भवेत् ।
लक्षत्रयं जपेन्मन्त्री काङ्क्षितां सिद्धिमश्नुते ।। 31.299 ।।
* शार्ङ्गमन्त्रः.*
सप्तार्णं कल्पयित्वादौ श्रीवत्सं मधुसूदनम् ।
शार्ङ्गहस्तं गदध्वंसं मधुसूदन शीर्षकम् ।। 31.300 ।।
ज्वलनं पवनादिं च वह्निं शुक्लमपां पतिम् ।
मधुसूदनपूर्णेन्दुभुवनं हव्यवाहनम् ।। 31.301 ।।
पवित्रं सप्तममचां श्रियं मन्दरमादिमत् ।
विघ्नेशं गोपनं शङ्खं मुखं पश्चिम (141) श्रीधरम् ।। 31.302 ।।
(141. माधवौ.)
बहुलं भुवनं क्रोधं त्रयोदशमचां तथा ।
हुताशमेकदृष्टीद्वौ मन्दरं पद्मसम्भव ।। 31.303 ।।
(142) पवित्रमृतधामानं वायुं यष्टिं मधुद्विषम् ।
चतुर्गतिं हुंकृतिं च फट्कारं च ठठान्तिमम् ।। 31.304 ।।
(142. "पवित्रम्" इत्यरभ्य उत्तरत्र. " अतो वक्ष्येमनुम्" इत्यन्तं क्वचित्कोशे गलितम्.)
हुंफडन्तं मनुं कृत्वा बीजमाद्यर्णमुद्धरेत् ।
ऋषिर्हुतान्तो मन्त्रस्य छन्दश्छन्दोऽधिदेवता ।। 31.305 ।।
बाणो जपन्नष्टलक्षं समरे विजयी भवेत् ।
ब्रह्मकोशं नतिं सर्गं कलात्मा कमलाह्वयम् ।। 31.306 ।।
महेन्द्रं गोपनपरं शुभदं मधुविद्विषम् ।
शशाङ्कं श्रीधरं वह्निं वरुणं बन्धुमस्तकम् ।। 31.307 ।।
विघ्नेशमादिदेवं च शुभदं गोपनं तथा ।
पवनं कुटामौर्वं च नासिक्यं भास्करो मनुः ।। 31.308 ।।
यष्टिं हुङ्कारफट्कारौ हुतान्तं मनुमुद्धरेत् ।
पीयूषमादिमर्धेन्दुं बीजं चामुष्य कल्पयेत् ।। 31.309 ।।
शतदृग्दृष्टवान् मन्त्रं माच्छ्दो देवतापि च ।
पञ्चलक्षं जपेन्मन्द्रं विजयेत्तरसा रिपून् ।। 31.310 ।।
* पाशमन्त्रः.*
उद्गीधं पापहननं गोपनं सद्ध्रुवं मनुः ।
पश्चिमं गोपनं लक्ष्मीमादिदेवसमिरणौ ।। 31.311 ।।
नत्यन्तं कल्पयेन्मन्त्रमृषिः प्राचेतसः स्मृतः ।
छन्दो विराडधिपतिः पशो लक्षत्रयं जपः ।। 31.312 ।।
* अङ्कशमन्त्रः.*
ब्रह्मकोशमचामादिं नासिक्यं सरसीरुहम् ।
भुवनं शुभदं पश्चादादिदेवं गदागतिम् ।। 31.313 ।।
नत्यन्तमिरयेन्मन्त्रं द्रष्टा सत्यो विराट्पुनः ।
छन्दोऽङ्कुशो देवता स्याल्लक्षत्रयमिमं जपेत् ।। 31.314 ।।
प्रणवादि चतुर्थ्यन्तं नामधेयं ठठान्तकम् ।
अन्येषामायुधानां च मन्द्रबीजमथादिमत् ।। 31.315 ।।
सिद्धयश्च यथापूर्वं भवन्ति जपतोऽखिलाः ।
* गारुडमहमन्त्रः.*
(143) अतो वक्ष्ये मनुं ब्रह्मन् शूयतां कथ्यतेऽधुना ।। 31.316 ।।
(143. कथयिष्ये.)
वश्याकर्षण विद्वेष मारणो च्चाटनादिषु ।
शोषणस्तम्भनावेश सर्पाकर्षण कर्मसु ।। 31.317 ।।
(144) नष्टायनविषक्षेप समुद्रतरणादिषु ।
नभोलङ्घन वाय्वग्नि जलभूमि प्रवेशने ।। 31.318 ।।
(144.अष्टा.)
इन्द्रजालादिविद्यासु (145) ऋषीणां विजये तथा ।
अतीतानागतज्ञाने भूतसंपनने तथा ।। 31.319 ।।
(145. ऋणानां विषये सुराणां विषये.)
देवता सन्निधानादौ (146) स्फोटिमूर्ष्यादिकर्मणि ? ।
एवमादिषु साध्येषु तथा न्येष्वपि (147) सर्मसु ।। 31.320 ।।
(146. स्फुटमुष्ट्यादि.)
(147. मन्त्रवित् । इत्थं.)
इति मन्त्रं प्रयुञ्जीत गरुत्मन्तमनुस्मरेत् ।
सट्तार्णान् पूर्वमुद्धृत्य गदिनं हव्यवाहनम् ।। 31.321 ।।
(148) भुवं पुण्डरीकाक्षं गोपनं पवनं पुनः ।
पश्चिमं भुवनं वह्निं श्रीधरं क्रोधविग्रहम् ।। 31.322 ।।
(148. केशनं.)
ब्रह्मसाधनवैराजौ जयमन्दरामादिमत् ।
अमृतं गोपनं चापि गोपतिं द्विरदाननम् ।। 31.323 ।।
आदिदेवं नभस्वन्तं (149) अनलं च रमाधरम् ।
प्रचण्डं कमलं भद्रहस्तं वामनमस्तकम् ।। 31.324 ।।
(149. श्रीधरं च.)
श्वसनं रोहिणीशं च मृगेशं मानुषेश्वरम् ।
गोपन गदिनं पश्चात्कमलां भुवनं तथा ।। 31.325 ।।
वासुदेवं प्रचण्डं च विक्रमं विजयं तथा ।
(150) वै राजं रामसहितं गदिनं मोहनाशनम् ।। 31.326 ।।
(150. वैधरं.)
अचां (151) तृतीयमर्धेन्दुं पञ्चान्तकमधुद्विषौ ।
मारुतं धूमकेतुं च सप्तकृत्वस्समुद्धरेत् ।। 31.327 ।।
(151. द्वितीय.)
हृङ्कृतिं फट्कृतिं स्वाहमोतदेहं ध्रुवं तथा ।
पुलहं सप्तकृत्वश्च हुंफट्कारं ठठान्तकम् ।। 31.328 ।।
तारं वरुणगोविन्दौ विघ्नेशमथ माधवम् ।
स्पर्शा (152) न्तकमकारं च पञ्चकृत्वस्सदागतिम् ।। 31.329 ।।
(152. न्तर.)
षट्कृत्वो वरुणं चापि हुंफट् स्वाहावसानकम् ।
निगमं पश्चिमं कूटं विक्रमं (153) विघ्नुगोपनौ ।। 31.330 ।।
(153. वह्नि.)
ककुभं गोपनं चापि षट्कृत्वो मारुतं पुनः ।
व्यञ्जनार्णेषु सर्वत्र सुखोच्चारणमिच्छता ।। 31.331 ।।
स्वरानुद्धरणे कल्प्यं मनुश्शास्त्रोक्तवर्त्मना ।
हुंफट्स्वाहावसानं च गारुडं मन्त्रमुद्धरेत् ।। 31.332 ।।
पञ्चान्तकमनुस्स्वारं बीजमेतस्य कल्पयेत् ।
आदौ सुवर्णवचनं वक्रतुण्डगिरं पुनः ।। 31.333 ।।
महासुवर्ण इत्येवं खगेश्वरशिरस्तथा ।
अनन्तवीर्यवन्ताख्यं पक्षिराजं तथा न्तिमम् ।। 31.334 ।।
प्रणवादि यतुरथ्यन्त (154) नत्यन्तानि चतुर्मुख ।
कल्पयित्वाङ्गमन्द्राणि षड्भिरेतैर्यथाक्रमम् ।। 31.335 ।।
(154. सत्यन्तादि.)
अङ्गानि हृदयादीनि स्पृशेन्मन्त्रविचक्षणः ।
अमुष्य काश्यपो द्रष्टा छन्दः पङ्त्किर्निगद्यते ।। 31.336 ।।
देवता गरुडस्तस्य जपो लक्षत्रयं स्मृतः ।
अधस्ताद्वटवृक्षस्य साधकस्साधयेन्मनुम् ।। 31.337 ।।
आम्नायादिं नरहरिं वामनं पश्चिमाननम् ।
वैराजं (155) पावकं तारमिति पञ्चाक्षरो मनुः ।। 31.338 ।।
(155. पावकस्सौर इति.)
ऋषिर्मरिचिरेतस्य गरुडो देवता तथा ।
छन्दश्च देवी गायत्रं षडङ्गानि पुनस्स्वयम् ।। 31.339 ।।
उद्गीधं कमलं (156) वायुं वासुदेवं ध्रुवं तथा ।
पश्चिमं बहुलं ब्रह्मसाधनं यष्टिमस्तकम् ।। 31.340 ।।
(156. वह्निं.)
विघ्नेशं विक्रमं वह्निं महामायां ध्रुवं पुनः ।
पुष्पभद्रं तथा पीठं वामनं यष्टिकौस्तुभम् ।। 31.341 ।।
बिन्दुं कलशचन्द्रार्धौ सूर्यार्धान्दुकलात्मनः ।
पन्नगाधिपतिं बन्धुं वरुणं यादसां मुखम् ।। 31.342 ।।
हुतान्तमुद्धरेन्मन्त्रमिति गारुडमुत्तमम् ।
स्यादिमं जगतस्साक्षात्प्रत्यक्षं पक्षिपुञ्गवः ।। 31.343 ।।
ब्रह्मकाशमथो पद्मं नासिक्यं भूधराह्वयम् ।
यष्टिं पापस्य हन्तरं बिन्दुं कमलमन्दरम् ।। 31.344 ।।
अर्धेन्दुकलशं बिन्दुं पश्चिमं पन्नगाशनम् ।
विक्रमाग्निमथो शत्रुं ककुभं मधुसूदनम् ।। 31.345 ।।
वायुं स्वाहान्तमित्येव (157) मन्यं गारुडमिरयेत् ।
आकाशारोहनं सिद्धिर्जपादस्य भविष्यति ।। 31.346 ।।
(157. धन्यं.)
एवं कृत्वाद्यमोङ्कार मादिदेवं खपश्चिम् ।
स्वच्छन्दं (158) च द्विरुच्छार्य गदिनं हव्यवाहनम् ।। 31.347 ।।
(158. द्वित्रिरुच्चार्य.)
भुवनं मेदिनीं च द्विर्मन्दरं मधुसूदनम् ।
वैराजं (159) विपुलं पश्चाद्वामनं च द्विरीरयेत् ।। 31.348 ।।
(159. पुलहं.)
पवित्रं पद्मकञ्जं च नागेन्द्रं वायुमादिमत् ।
एताद्विःकल्पयित्वाथो गोपनं यष्टिमन्तिमम् ।। 31.349 ।।
(160) तुष्टिबीजार्धशशिनं ठठान्तं कल्पयेन्मनुम् ।
सप्तार्णानादितः कृत्वा भास्करं हव्यवाहनम् ।। 31.350 ।।
(160. पुष्टिबीजाद्यशशिनो.)
गोपनं यष्टिमार्ताण्डौ हव्यवाहन (161) वामनौ ।
चन्द्रर्धौ द्वादशात्मानं हृषीकेशमथो ध्रुवम् ।। 31.351 ।।
(161. मारुतौ.)
वरुणं हृदयाह्लादं द्वन्द्वं कमलमाधवौ ।
वैराजं श्रीधरो भूयः पीठस्तु भुवनद्वयम् ।। 31.352 ।।
विजयं श्रीधरं वह्निं भुवनं पुनरीरयेत् ।
लोकनेत्रोर्ध्वनासिक्यं करालं ब्रह्मसाधनम् ।। 31.353 ।।
अनलं यष्टिमनिलं यष्टिं कुम्भो ध्रुवं तथा ।
हुतान्तमिति सर्वार्थं जानीयाद्गारुडं मनुम् ।। 31.354 ।।
सप्तार्णमुद्दृत्य पुनः कलशं बन्धुमस्तकम् ।
क्रोधरूपं प्रचण्डं च त्रिदशाहारमाधवौ ।। 31.355 ।।
चन्द्रं स्वाहापतिं चापि शशिनं बहुलं तथा ।
मृगाङ्कं श्रीधरं वह्निं भुवनं द्वि चतुष्टयम् ।। 31.356 ।।
भानुमत्पुलहद्वन्द्वं हुं फडन्तं हुता न्तिमम् ।
इत्यन्यं गारुडं मन्त्रमूहेन्मन्द्रविचक्षणः ।। 31.357 ।।
पवनेन हुताशेन महेन्द्रेण प्रचेतसा ।
एतैश्चतुर्बिः प्रत्येकं क्रमव्यस्तैर्विषं हरेत् ।। 31.358 ।।
समस्त्रैः प्रातिलोम्येन स्तम्भनादि समाचरेत् ।
व्यापिनं विघ्नुराजं च दामोदरमथो ध्रुवम् ।। 31.359 ।।
(162) एवमादिमिति ब्रह्मन् त्य्रक्षरं मनुमुद्धरेत् ।
(163) यैनैव साधितो मन्त्रः (164) यक्षराजोपलक्षितः ।। 31.360 ।।
(162. मेघ.)
(163. येनैष.)
(164. पक्षिराज इति साधु.)
त्रीणि तस्य भविष्यन्ति भुवनानि (165) विशेषताम् ।
आदिद्वितीयं भुवनं पञ्छान्तममृतं तथा ।। 31.361 ।।
(165. विधेस्तथा.)
गदिनं श्रीधरं वह्निमुदयं (166) चादिमम्बुजम् ।
वैराजं विक्रमं स्वाहा (167) और्वं च कमलाह्वयम् ।। 31.362 ।।
(166. भद्र.)
(167. ओणपं.)
भुवनं पर्वतं बन्धुं माहेन्द्रादि श्रियं तथा ।
विक्रमं तार्क्ष्यवाहं च मृगेशं मन्दरं तथा ।। 31.363 ।।
आदिसूर्यो गोपनं च मन्दरं भुवनं (168) दिशम् ।
अग्निं मृगाधिपं चापि स्वाहाकारावसानिकम् ।। 31.364 ।।
(168. दृशं.)
इति मुद्रामनुर्ब्रह्मन् कल्पयेदथ मण्डलम् ।
विस्तरेषु (169) निरीक्षन्तां तेषां सङ्ख्या न विद्यते ।। 31.365 ।।
(169. निरीक्ष्यान्तः.)
आत्मानं चिन्तयेन्मन्त्री गरुत्मन्तमनन्यधीः ।
* गरुडद्यानप्रकारः.*
अथ द्यानं प्रवक्ष्यामि पक्षिराजस्य पद्मज ।। 31.366 ।।
मेरुशृङ्गनिभाकारं रुक्मपक्षतिमण्डलम् ।
वैडूर्यनीलवासाग्रं वक्रतुण्डं भयङ्करम् ।। 31.367 ।।
वज्रकल्पन (170) खाकारं कल्पितोत्कटिकासनम् ।
(171) स्नगम्भूरनिर्ह्रदं शिलाघनभुजान्तरम् ।। 31.368 ।।
(170. कर्तारिं कल्पितोत्कटिसाधनम्.)
(171. भवनं भीम. घनगम्भीर, इति स्यात्.)
अनन्तकर्णाभरणं मूर्ध्नि वासुकिभूषणम् ।
महापद्मादरं पद्मदाम वेष्टितभूषणम् ।। 31.369 ।।
मस्तके बद्धकार्कोटं कलाभोः ? कटिवेष्टितम् ।
उपवीतकृतेनापि सङ्खपातेन भूषितम् ।। 31.370 ।।
जयेन कुलिकेनापि कल्पि (172) तानघमूपुरम् ।
धनङ्जयाभिनेधान विजयेन च भोगिना ।। 31.371 ।।
(172. तं नव.)
वामदक्षिणहस्ताभ्यां बिभ्राणं कलकद्वयम् ।
बालपल्लवताम्रेण वारवाणेन शोभितम् ।। 31.372 ।।
उद्भिन्नभ्रुकुटीबन्धं करण्डमुकुटं तथा ।
पक्षविक्षेपगम्भीर कृतोर्ध्वनयनभ्रमम् ।। 31.373 ।।
दंष्ट्राकरालवदनं ताम्रवर्तुलचक्षुमम् ।
इत्थं ध्यात्वा गरुत्मन्तमेकतानेन चेतसा ।। 31.374 ।।
साधयेत्साधनीयानि दुर्लभान्यपि नातिभीः ।
यथाक्तं जपतोमन्द्रमादित्येन्यस्तचक्षुषः ।। 31.375 ।।
ऊर्ध्वबाहोर्भविष्यन्ति दासा (173) इव फणीश्वराः ।
* विष्वक्सेनमन्त्रः.*
विष्वक्सेनमनुर्ब्रह्मन् कथ्यते सर्वसिद्धदः ।। 31.376 ।।
(173. एव.)
तारं सुधामयं रामं क्रोधरूपं सुधामयम् ।
करालं शशिनं पश्चान्माधवं कुञ्जराननम् ।। 31.377 ।।
गोपनं मारुतं चापि ठठान्तं मन्त्रमुद्धरेत् ।
तारेण बिन्दुना चापि बीजमेतस्य कल्पयेत् ।। 31.378 ।।
एतेनै वाङ्गमन्त्राणि कल्प्यानि कमलासन ।
विश्वनाथमृषिं प्राहुर्विराट्छन्दो निगद्यते ।। 31.379 ।।
देवता च मनोस्तस्य विष्वक्सेनो महाबलः ।
* मन्त्रान्तरम्.*
अथ्यान्यः कल्पितो मन्त्रो विष्वक्सेनस्य पद्मज ।। 31.380 ।।
उद्गीथं भद्रपाणिं च मन्दरं ब्रह्मसाधनम् ।
(174) सुभद्रं गदिनं कुम्भं सुमुखान्तं समाधवम् ।। 31.381 ।।
(174. सुभगं.)
स्पर्शादिं बिन्दुसहितं सध्रुवं कमलासन ।
दरान्तं गोपनं ब्रह्मन् धनदं रामशीर्षकम् ।। 31.382 ।।
पश्चिमं निगमादिं च वै राजं च समाह्वयम् ।
खड्गहस्तं सरामं च जयं वसुवरं तथा ।। 31.383 ।।
सुभदं सरोरुहं वैराजं विक्रममस्तकम् ।
पद्मपाणिं भद्रपाणिं पाशपाणिं च पश्चिमम् ।। 31.384 ।।
सोदयं शत्रुहननं मृगेशं वक्रतुण्डकम् ।
प्रचण्डं पुण्डरीकाक्षं मधुशत्रुं चतुर्गतिम् ।। 31.385 ।।
खड्गहस्तमचामादिं प्रचण्डं झषमर्पितम् ।
सुभद्रान्तं मधुद्वेषिं (175) वै राजं द्विर्वसु परम् ।। 31.386 ।।
(175. वैधरं गोपनं तथा.)
अचां द्वितीयं सुभगं पुण्डरीकविदर्भितम् ।
वैधरं विष्णुसहितं प्रचण्डं सवनालयम् ।। 31.387 ।।
(176) श्रीवत्सं सध्रुवं खड्ग हस्तहरं तथा ।
कमलं त्वृतधामं च सुभगं वसुगोपनौ ।। 31.388 ।।
(176. बहुषुकोशेषु त्रुटिर्दृश्यते. क्वचित् पाठान्तरमस्ति. यथा---खड्गहस्तमचामादिं गोपनं वैधरं तथा.)
चतुर्गतिमचामादिं वैधरं गोपनं तथा ।
विजयं श्वसनं दत्तं सूदनं मृगताञ्छनम् ।। 31.389 ।।
समाधवं द (177) धानं च कमलं माधवं ततः ।
पीतं च धनदं कुम्भमर्पितं सध्रुवं पुनः ।। 31.390 ।।
(177. यान्तं.)
कलानिधिं च पुरध ? मादि देवं चतुर्गतिम् ।
वैधरं वरुणं मायां खेटकं च समुद्धरेत् ।। 31.391 ।।
पश्चिमं पद्मनाभं च मावृतं शुभमालिनीम् ।
समन्दरं (178) दरान्तं च मधुद्वेषिं समन्त्रजित् ।। 31.392 ।।
(178. मन्त्रराजं.)
ऐन्दवं कतृतीयं च संमतं (179) माठराभिधम् ।
सुन्दरं वैधरं पञ्च बिन्दुकं भद्रकं तथा ।। 31.393 ।।
(179. माधवा.)
स्पर्शेषु षोडशं पद्मनाभं च चतुरासन ।
गोपनं (180) चैन्दवमथो चतुर्गतिमनन्तरम् ।। 31.394 ।।
(180. माधव.)
भान्तं मधुद्विषं यान्तं दरं च द्विस्समुद्धरेत् ।
(181) कद्वितीयं सूदनं च वैधरं च चतुर्गतिम् ।। 31.395 ।।
(181. कतृतीयं.)
द्विर्वक्तव्यं दिनकरं भद्रपाणिमनन्तरम् ।
वैधरं भास्करं चापि पश्चिमं वक्रतुण्डकम् ।। 31.396 ।।
मन्दरं सर्वरोधं च द्विर्गतीरिति ? संमितम् ।
गोपतिं सुमुखं चापि शुभदं ब्रह्मसाधनम् ।। 31.397 ।।
क्रोधं चतुर्गतिं (182) चापि आदिबीजं चतुर्मुख ।
आदिदेवं तथा कुम्भं संप्रसारणमक्षरम् ।। 31.398 ।।
(182. चद्विः.)
श्रीवत्सं पुरुषात्मानं मन्त्रविक्रमनिष्ठितम् ।
वरुणं शङ्खमपरं पश्चिमं पद्मनाभकम् ।। 31.399 ।।
सुभद्रं च मधुद्वेषिं कुंभं भद्रकरं तथा ।
वैधरं शुभदं चाग्निं चतुर्गितमनन्तरम् ।। 31.400 ।।
हुङ्कारं च वषट्कारमिरयेत्कमलासन ।
शुभदं वामनपरं क्रोधं चाग्निं मधुद्विषम् ।। 31.401 ।।
चतुर्गतिं सूदनं च वक्रतुण्डं समिरणम् ।
(183) माधवीं विजयं भद्रहस्तं च समतं ? पुनः ।। 31.402 ।।
(183. माधवम्.)
विधातारं मृगेशं च भागं यान्तं सविक्रमम् ।
सरोरुहं मधुद्वेषिं पश्चिमं रानुशीर्षकम् ।। 31.403 ।।
महेन्द्रममृतं बन्धुं कतृतीयं (184) मृगं तथा ।
भास्करं सूदनमथो शङ्खं खड्गधरं पुनः ।। 31.404 ।।
(184. मृतम्.)
वैराजं सोदयं चैव कतृतीयं वसुं परम् ।
द्वितीयं वासुदेवं च तृतीयं बन्धुसंहितम् ।। 31.405 ।।
माधवं वरुणं पार्श्वमेदरं ? दरगोपनौ ।
(185) चतुर्गतिं खड्गधरं सऋतं ब्रह्मसाधनम् ।। 31.406 ।।
(185. चतुर्थ्यन्तं.)
सबिन्दुं पश्चिमं चैव वाचां सप्तमसाधने ।
सध्रुवं चेन्धिराभीजं पुष्टिबीजं सहुंकृतिम् ।। 31.407 ।।
सुधारसं चौर्वपरं (186) माधवं च चतुर्मुख ।
वौषट्कारं तथा लक्ष्मीं दरान्तं पञ्चबिन्दुकम् ।। 31.408 ।।
(186. मयमर्धं.)
यान्तं च सूदनं मान्तं श्रीशब्दं भद्रपाणिनम् ।
विक्रमं पुलहं धूलिकेतनं सूरिनन्दनम् ।। 31.409 ।।
हुंकृतिं वैधरं भानुं विघ्नेशं मधुसूदनम् ।
खर्वदेहं सबन्धुं च पीतं भल्लायुधं तथा ।। 31.410 ।।
माधवं वरुणं भद्रहस्तं सर्गिणमब्जज ।
पवित्रं सूदनमथो वैराजं च समिरणम् ।। 31.411 ।।
ओंकारादि जयं पीतं सूदनं विधुरं पुनः ।
श्रीधरं (187) माणिभद्रं च द्विरदं विक्रमं तथा ।। 31.412 ।।
(187. मणिपुत्रम्.)
वक्रतुण्डधरं बिन्दुं पियूषं रामशीर्षकम् ।
अत्रिं च सूदनं यास्तं मन्दरं दरवैधरौ ।। 31.413 ।।
द्वयं वसुशिरश्शङ्खं कुम्भं विक्रममस्तकम् ।
पूर्णं घटं सध्रुवं च (188) वैधरं च चतुर्गतिम् ।। 31.414 ।।
(188. माधरं.)
शुक्लं घटं वह्निपरं वैधरं च मधुद्विषम् ।
सुभद्रं मधुविद्वेषं सरसीरुहसम्भव ।। 31.415 ।।
कपिलाक्षं हुतवहं नृसिंहं च समुद्दरेत् ।
बीजान्येतद्विरुच्चार्य शुक्लपीतान्तिमाक्षरम् ।। 31.416 ।।
शीर्षं च गोपनं चण्डं पश्चिमं जयतत्परम् ।
भल्लायुधं मारुतं च सर्गिणं चतुरासन ।। 31.417 ।।
कृपाकं करीरं च वसुतच्छिरसं तथा ।
सुभद्रमूर्ध्वलोकेशं विजयं संप्रसारणम् ।। 31.418 ।।
सुभद्रं पुरुषात्मानं (189) कलान्तं फट्कृतिं तथा ।
निगमादिं शशधरं माधवं वसुमाधवम् ।। 31.419 ।।
(189. कालान्तम्.)
भल्लायुधं तथासर्गं फट्कृतिं दक्षमक्षरम् ।
गोवतिं गोपनं कुम्भं विक्रमं क्रोधरूपिणम् ।। 31.420 ।।
प्रचण्डं सार्धममृतं माधवं घटविक्रमम् ।
उग्रात्मानं तथा कुम्भं कमलं (190) द्विविधुंतुदम् ।। 31.421 ।।
(190. द्विर्वसुं तथा.)
दत्तं भद्रं सूदनं च दक्षान्तं हुंफडन्तकम् ।
स्वाहावसानमित्येवं विष्वेक्सेनमहामनुम् ।। 31.422 ।।
उद्धरेद्बीजमस्याथ तारं कुम्भं मनुं ध्रुवम् ।
कल्पयेदमुनैवाङ्गमन्त्रं मन्त्रविचक्षणः ।। 31.423 ।।
द्रुपदो दृष्टवानेतच्छन्दोऽतिच्छन्द उच्यते ।
विष्वक्सेनो देवता च जपेल्लक्षत्रयं पुनः ।। 31.424 ।।
एतं महामनुं ब्रह्मन् जपतस्सिद्धि (191) काङ्क्षया ।
सुरासुरेभ्यस्सर्वेभ्यो भयं तस्य प्रणश्यति ।। 31.425 ।।
(191. काङ्क्षिणः.)
* विष्वक्सेनाराधनप्रकारः.*
अथेदानीं प्रवक्ष्यामि तस्याराधनसंयुतम् ।
कल्पयित्वा महापद्मं दलैर्द्वादशभिर्युतम् ।। 31.426 ।।
कर्णिकायां समासीनं (192) सैनान्यं सम्यगर्चयेत् ।
विष्वक्सेन नमस्तेऽस्तु (193) नमो मृत्युभयापह ।। 31.427 ।।
(192. तेनाद्यम्.)
(193. नेमो नुत्युभयानपि.)
नमः पारिष देशाय धुर्यय जगतां नमः ।
चराचराणामदिस्त्वं जन्म (194) नाशो न विद्यते ।। 31.428 ।।
(194. नादिर्न.)
(195) धुरमाधाय लोकानां त्वय्येव पुरुषोत्तमः ।
योगनिद्रा सुखवशश्शेते शेषे मनोहरे ।। 31.429 ।।
(195. विविधाय च.)
एकान्तिनां तपोभक्ति प्रकर्षक्षीणकर्मणाम् ।
भगवत्प्राप्तये द्वारदृष्टयस्त्वां प्रभूतये ।। 31.430 ।।
ब्रह्माणमाहुः कल्पादौ पालने मधुविद्विषम् ।
पतिं पशूनां संहारे जगतस्तस्थुषामपि ।। 31.431 ।।
पादेन मेदिनीं (196) विश्वां मध्येन परमम्बरम् ।
नाकं मूर्ध्ना त्वमाक्रम्यतिष्ठस्येको जगन्मयः ।। 31.432 ।।
(196. विश्वं.)
त्वं भूमिस्त्वमपां स्थानं तेजश्च त्वं समिरणः ।
आकाशस्त्वं त्वामियन्ते विभूतिर्वाप्य तिष्ठति ।। 31.433 ।।
त्वमेव भास्करो भूत्वा विश्वं तपसि विष्टपम् ।
आह्लादयसि तद्भूयस्सोमो भूत्वाकृपा (197) निधिः ।। 31.434 ।।
(197. निधे.)
सत्वरूपस्य ते रूपे गुणावन्यो रजस्तमः ।
(198) शुक्लरूपे यथा रूपे शुक्लरूपस्य वस्तुनः ।। 31.435 ।।
(198. कृष्ण.)
(199) त्वां सृष्ट्वा भगवानादौ (200) भङ्त्क्वा तैर्हेतुभिः पुनः ।
त्वां स्मृत्वा सत्तमं पश्चात्पुमानेति (201) त्वदात्मताम् ।। 31.436 ।।
(199. त्वां श्रुत्वा.)
(200. भुक्त्वा.)
(201. `त्वमात्मवान्')
वैभवे निजेनैव भिभ्राणेत्वयि विष्टपम् ।
(202) पितामहस्सुखं शेषे शेषेऽशेषजगत्पतिः ।। 31.437 ।।
(202. वीत भार.)
ऋग्भिः प्रातस्तुवन्ति त्वां यजुर्भिर्मध्यमेदिने ।
सायाह्ने सामभिः पुण्यैस्सूर्यात्मानं द्विजातयः ।। 31.438 ।।
प्रवृत्तिहेतुं विश्वस्य त्वामेव प्रकृतिं विदुः ।
पुमांसमप्युदासीनं तत्साक्षिणमकल्मषम् ।। 31.439 ।।
न किङ्चिदभि (203) रूपं यद्विश्वं ते विष्टवं पुनः ।
नास्तिते नामधेयं चत्वं नामाग्निं सुहृद्विदः ।। 31.440 ।।
(203. रूपेण.)
सङ्ख्या नास्ति गुणानां ते तेजसामपि भास्वतः ।
षड्गुणा इति उक्तत्वात्प्रमेयादीन् प्रचक्षते ।। 31.441 ।।
शक्नोषि बुध्यसे विश्वं भिभर्ति नविकारयम् । ?
ईशिषे द्विषतो हंसि त्वमेव भुवनत्रयम् ।। 31.442 ।।
हितैषी त्वं यथा स्वामिन् भक्तानां गतपाप्मनाम् ।
तथा च बान्धपास्तेषां साक्षादात्माहिकं बहु ।। 31.443 ।।
(204) त्वदानिनव ? सिन्धूनां दीधितीनामिवांशुमान् ।
स्वामिन्नाम्नायमूलानां विद्यानां प्रभवो भवान् ।। 31.444 ।।
(204. जलामामिन सिन्दुर्वै.)
न तु तिष्ठन्ति शास्त्राणि बहुनि कथयन्नपि ।
न च त्वद्भक्तिसाराणां कल्याणानि विचिन्तयन् ।। 31.445 ।।
भवेऽस्मिन् दुः खबहुले त्वामाहुर्योगिनां गतिम् ।
अपां शिवानामाधारमध्वगानां विवासिनाम् ।। 31.446 ।।
धन्यं तव प्रदेशेषु गत्यन्तरमपश्यताम् ।
निर्वापयसि नोचेच्च त्वं कटाक्षसुधारसैः ।। 31.447 ।।
दुःखदावाग्नि भिर्दग्धा जन्तवस्तं महीमयाः ।
विशालवक्षसं श्यामं पुण्डरीकनिभेक्षणम् ।। 31.448 ।।
सालाकारचतुर्बाहुं त्वा महं खरणं व्रजे ।
चक्रवाक इवादित्यं चातको वारिदं यथा ।। 31.449 ।।
चकोरा इव शीतांशु मार्तस्त्वामहयाश्रये ।
एतत्पठति यस्तोत्रं श्रुतिभिस्संस्थितं (205) त्विदम् ।। 31.450 ।।
(205. स्थिरम्.)
प्रीयते तस्य भगवान् सेनानीरविलम्बितम् ।
दद्याच्च सम्पदस्सर्वास्तस्मैभक्ताय दुर्लभाः ।। 31.451 ।।
इति श्रीपाङ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे (206) किरीटादिमन्द्रोद्धारणं नाम एकत्रिंशोऽध्यायः.
(206. "विष्वक्सेनोत्पत्ति किरीटादि" इति क्वचित्पाठः. विघ्नराजो त्पत्ति किरीटादि मन्द्रोद्धारो नाम." इति साधु.)
------ ****** ------


"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_३१&oldid=206998" इत्यस्माद् प्रतिप्राप्तम्