प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १० चर्यापादः
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-एकादशोऽध्यायः
एकादशोऽध्यायः
------
* महोत्सवविधौ अङ्कुरार्पणकालः.*
श्रीभगवान् :---
उत्सवारम्भदिवसादर्वागहनि सप्तमे ।
आङ्कुरानावपेल्लग्ने शोभने देशिकोत्तमः ।। 11.1 ।।
* पालिकासङ्ख्या.*
(1) अष्टोत्तर शतेष्वेव पालिकासु यथाविधि ।
(2) षट्त्रिंशत्स्वथ वा
* वीधीचत्वरपरिष्कारालङ्कारौ.*
पश्चादलङ्कारं समाचरेत् ।। 11.2 ।।
(1. अष्टोत्तरशतं वापि.)
(2. षट्त्रिंशद्भिस्तुवा.)
क्रमुकैर्दारुजैर्वापि तोरणै र्वीधिकामुखम् ।
चत्वाराणि तथा ग्रेषु गोपुराणामलङ्क्रिया ।। 11.3 ।।
फलभारावनम्राश्च कदलीक्रमुकादयः ।
पार्श्वेषु तोरणानां स्युः स्थाप्या गमनवीधयः ।। 11.4 ।।
समभूमितलाःकार्यास्सिकताभिश्च शोभिताः ।
दुकूलक्षौमपासोभि र्दर्भमालाशतेन च ।। 11.5 ।।
ध्वजैश्च सर्वतो दिक्षु शोभयेच्च प्रपादिभिः ।
शोधयेत्सर्वभूभागं गोमयोम्भोभिराप्लुतैः ।। 11.6 ।।
* प्रासादालज्कारः.*
प्रासदभित्तयः कार्याश्चित्रिता वर्णपञ्चकैः ।
(3) कम्भाभिः पूर्णकुम्भैश्च दीपिकावलिभि स्तथा ।। 11.7 ।।
(3. अम्भोभिः.)
मुक्तादामभिरन्यैश्च साङ्कुरैःपालिकाशतैः ।
* देशान्तरागतसेवार्थिभ्यः प्रपादिकल्पनम् *
देशाद्देशात्समेतानां वर्णानां च तदुत्सवे ।। 11.8 ।।
सेवितुं देवदेवेश मन्नाद्यैस्तुष्टिमावहेत् ।
प्रपापानीयशालाध्यै र्यजमानो दिवानिशम् ।। 11.9 ।।
* रोगार्तेभ्यः भैषज्यकल्पनम्.*
रोगार्तानथ भैषज्यैर्भिषजेद्धनराशिभिः ।
* यागमण्डपस्थानम्.*
प्रथमावरणे ब्रह्मन् कारयेद्यागमण्डपम् ।। 11.10 ।।
यद्वावकाशानुगुणं द्वितीयावरणे भवेत् ।
अन्तरालेषु सर्वत्र दिशामिष्टे क्वचिद्भवेत् ।। 11.11 ।।
* मण्डपायामिविस्तारौ.*
सप्तहस्तायतं यद्वा पञ्चहस्तायतं तु वा ।
विस्तारायामसदृशं यतुर्द्वारस मन्वितम् ।। 11.12 ।।
मण्डपं कारयेत्तस्य परितः कारयेत्प्रपाम् ।
* वेदीकल्पनम्.*
तस्य मध्ये त्रियंशे तु वेदीं हस्तसमुच्छृताम् ।। 11.13 ।।
विस्तीर्णां द्वित्रिहस्तेन
* अग्निकुण्ड निर्माणम्.*
वेद्याः प्राच्यां प्रकल्पयेत् ।
कुण्डमाहवनीयस्य चतुरश्रं यथोदितम् ।। 11.14 ।।
दक्षिणस्यां दक्षिणाग्नेर्दिशि चाप समाकृति ।
कुण्डं तु गार्हपत्यस्य प्रतीच्यां वृत्त मद्भुतम् ।। 11.15 ।।
सभ्यस्य कुण्डं कौबेर्यां त्रिकोणं तदनन्तरम् ।
ऐशान्या मग्निकोणे वा कुण्डं च चतुरश्रकम् ।। 11.16 ।।
अवसक्थ्यस्य शिखिनः पञ्चाग्न्युत्सव मुत्तमम् ।
* यजमानेच्छया अग्निषु विकल्पः.*
यद्वाऽऽवसक्थ्य रहितं चतुरग्निं चतुर्दिशि ।। 11.17 ।।
सभ्यावसक्थ्य रहितं यद्वाग्नि त्रयसंयुतम् ।
एकामाहवनीयं वा कल्वयेत्कत्कुरिच्छया ।। 11.18 ।।
अश्वत्थादिद्रुमैर्द्वारतोरणानि चतुर्दिशम् ।
स्रुक्स्रुवौ कारयेदष्ट मङ्गलानि यथापुरम् ।। 11.19 ।।
आसनं त्वृत्विजां होमपात्राणि विविधानि च ।
मण्डपानां च पुरतः प्रपास्यात्पार्श्वयोरपि ।। 11.20 ।।
दुकूलक्षौमकाशेयैर्विचित्रं मण्टपं प्रपाम् ।
वितानयेद्वेष्टयेच्च स्तम्भानन्तर्बहिस्थ्सितान् ।। 11.21 ।।
मुक्तादामानि सर्वत्र लम्बयेद्दीपमालिकाः ।
आरोपयेच्च स्तम्भेषु पताकावलिबन्धनम् ।। 11.22 ।।
मुक्तावितानं बध्नी यात्पुष्पमालाश्च सर्वतः ।
एवमादिपरिष्कारै र्भूषयेन्मण्डपादिकम् ।। 11.23 ।।
तिरस्करिण्यो विपुला बध्नीयाच्च विचित्रिताः ।
* वरणीयाचार्यादिसङ्ख्या.*
अग्रे चतुर्णां वरण माचार्याणां च ऋत्विजाम् ।। 11.24 ।।
षोडशा नां तथान्येषां स्वीकारः परिचारिणाम् ।
ते च भूष्या यथावित्तं भूषणैः कटकादिभिः ।। 11.25 ।।
वासोभिश्च नवैश्चित्रे रधिकारानु सारतः ।
उष्णीषैरुत्तरीयैश्च गन्धद्रव्यासु लेपनैः ।। 11.26 ।।
शोभनीयाः प्रयत्नेन यजमानेन सर्वदा ।
* उत्सवस्यारम्भे अन्तेच स्नपनं कार्यम्.*
स्नपनं चोत्सवा रम्भे तदन्ते च यथोदितम् ।। 11.27 ।।
* कौतुकस्य बन्धनकालः तत्संस्कारश्च.*
कुर्याद्देवस्य पूर्वेद्युः कौतुकं बन्धयेद्गुरुः ।
सौवर्णे राजते वापि पात्रे (4) विमलतण्डुले ।। 11.28 ।।
(4. कलमतण्डुलैः.)
खारिद्वयेन वार्धेन यद्वा पादेन सम्मिते ।
न्यस्येत्सूत्रं च सौवर्णं क्षौमं कार्पासमेव वा ।। 11.29 ।।
सप्तभिः पञ्चभिर्वापि सूत्रं क्षौमादितन्तुभिः ।
शतेन षष्ठ्यारूढेन फलैः क्रमुकजैरपि ।। 11.30 ।।
नागवल्लीदलैस्सार्धं फलसङ्ख्या चतुर्गुणैः ।
तदर्धैर्वा तदर्धैर्वा कदल्यादिफलैरपि ।। 11.31 ।।
* कौतुकस्य सविभवं ग्रामप्रादक्षिण्येन धामप्रवेशः.*
सार्धं तदनु तत्पात्रं (5) साधारं न्यस्य मूर्धनि ।
वस्त्रेणआच्छादितं छत्रचामरव्यजनान्वितम् ।। 11.32 ।।
(5. साधानम्.)
बहुदीपकसंयुक्तं सवितानं च मूर्तिपः ।
पठद्भिश्शाकुनं सूक्तं ब्राह्मणैर्वेद पारगैः ।। 11.33 ।।
तूर्य मङ्गलगीतैश्च सार्धं नीत्वा प्रदक्षिणम् ।
धाम विष्णोस्तथा तस्य बहिरावरणानि च ।। 11.34 ।।
प्रादक्षिण्येन वा ग्रामं प्रविशेद्देवता न्तिकम् ।
* उत्सवभेरस्य कौतुकबन्धः उपचाराश्च.*
देवस्य पुरतो भूमितले गोमयपारिणा ।। 11.35 ।।
आलिप्ते चतुरश्रेच शालिभारेण (6) पूरिते ।
पात्रं निधाय पुण्याहं वाचयित्वा यथाविधि ।। 11.36 ।।
(6. भूषिते.)
सभाजयित्वा त्त्सूत्र मन्त्रमन्त्रेण देशिकः ।
अङ्गुष्ठा नामिकाभ्यां तु गृहीत्वा हस्तयोर्द्वयोः ।। 11.37 ।।
अपराजितया सूत्रं चन्दनक्षोद वारिणा ।
आलिप्य दक्षिणे हस्ते बध्वा चोत्सवकौतुकम् ।। 11.38 ।।
स्पृष्ट्वा दक्षिणहस्तेन सूत्रं पारान् शतं जपेत् ।
अन्त्रमन्त्रं तथार्घ्यार्दैरिष्ट्वादेवं निवेदयेत् ।। 11.39 ।।
महापूवं तथापूपान् पृथुकांश्च फलान्यपि ।
केयं नृत्तं तथापाद्य माचरेद्देवतान्तिके ।। 11.40 ।।
त्रिभिर्भागवतैर्देवं स्थानेऽन्यत्र निवेशयेत् ।
स्नानान्तं क्षौमवसनमालिप्तं चन्दनादिना ।। 11.41 ।।
भूषितं भूषणैस्सर्वैस्स्रिग्विणं देवदैवतम् ।
अर्चयित्वा यथाशास्त्रं परमान्नं निवेदयेत् ।। 11.42 ।।
यथोदितं प्रतिष्ठायां यथाशयन कल्पनम् ।
भिम्बं चोपरि विन्यस्य (7) शयने स्थापयेच्छुभे ।। 11.43 ।।
(7.स्नपने.)
कोणेषु स्थापयेद्दीपान् पालिका स्साङ्कुरास्तथा ।
तूर्यघोषैस्तथावेदैस्तोत्रैस्तुत्वा मधुद्विषम् ।। 11.44 ।।
* निशायां जागरणम्.*
निशां नयोज्जागरेण समाहितमना गुरुः ।
* देवस्यो तत्थापनम्.*
श्वोभूते शोभने प्राप्ते मुहूर्ते भास्करोदये ।। 11.45 ।।
उत्तिष्ठे त्यादिमन्त्रेण त्रिभिर्भागवतैस्सह ।
दिक्षु शाकुनिकं सूक्तं पठत्सु ब्राह्मणेष्वपि ।। 11.46 ।।
उत्थाव्य शयनाद्देवं तं
* देवस्य शिभिकारोपणम्.*
इदंविष्णुरित्यृचा ।
आरोपयेयुश्शिभिकां सुवर्ण प्रभया सह ।। 11.47 ।।
* ब्राह्मणा एव यानं वहेयुः.*
वहेयु र्भूसुरा यानं ध्यायन्तो विहगाधिपम् ।
विकिरेत्सर्वतो दिक्षु पुष्पाणिसुरभीणि च ।। 11.48 ।।
लाजांश्च साकं मुक्ताभिस्तूर्यघोषैश्च नादयेत् ।
ईदृसैर्मङ्गलैरन्यैस्सर्वावरण भूमिकाः ।। 11.49 ।।
नीत्वा प्रदक्षिणं
* भगवतो भद्रासने उपवेशनम्.*
यानादवरोप्य प्रभान्विते ।
भद्रासने दुकुलादिचित्रास्तरणशोभिते ।। 11.50 ।।
पार्श्वेकल्पद्रुमच्छायाशीतले स्वर्णनिर्मिते ।
निवेश्य मण्टपे सर्वमुपचारं समाचरेत् ।। 11.51 ।।
* प्राभृतसमर्पणम्.*
प्राभृतं चाहृतं सर्वं द्रव्यमुत्सवकारणम् ।
देवाय दर्शयेत्सर्वं जनसंनदि देशिकः ।। 11.52 ।।
कृत्वोपचार मखिलं (8) ततस्स्नपनमण्टपे ।
स्नापयेद्देवदेवेशं यथापूर्वोदितैःक्रममैः ।। 11.53 ।।
(8. तद्बिम्बं स्नान.)
आचार्यो यजमानश्च समीक्ष्य विभवोदयम् ।
* स्नपनहविर्निवेदनानन्तरं देवस्य गर्भगृहनयनम्.*
महाहविर्निवेद्यान्ते हुत्वा हव्यैर्यथाविधि ।। 11.54 ।।
गर्भगेहं (9) विमानस्य नयेन्मङ्गलसंयुतम् ।
* अपराह्णे मृत्तिकासङ्ग्रहणबीजावापौ.*
ततोऽपराह्णसमये अङ्कुराधारमृत्तिकाम् ।। 11.55 ।।
(9. समासाद्य.)
आनेतुं बहिरुद्यान बूमेर्यद्वा नदीतटात् ।
यानमारोप्य गरुडं सेनान्यं (10) वा परिष्कृतम् ।। 11.56 ।।
(10. च.)
देवादेशं पुरस्कृत्य सर्वमङ्गल संयुतम् ।
वहद्भिःपालिकाःपूर्वं खनित्रं चापि भूषितम् ।। 11.57 ।।
ब्राह्मणैर्बहुभिर्वेदानधीयानैस्समन्ततः ।
नीत्वा प्रदक्षिणं (11) ग्रामं ततो निर्गत्य देशिकः ।। 11.58 ।।
(11. यानम्.)
दिशं प्राचीमुदीचीं वा प्रतिसङ्गृह्यमृत्तिकाम् ।
यथापूर्वोदितं धाम प्रविश्य रजनीमुखे ।। 11.59 ।।
प्रदोषे यागसदसि पालिका द्वादशावराः ।
शरावकुम्भसहितास्तद्वर्गा अपि षोडश ।। 11.60 ।।
ईशानभागे संस्थाप्य सोमकुम्भसमन्विताः ।
आवपेत्तासु बीजानि मुहूर्ते शोभने गुरुः ।। 11.61 ।।
* प्रार्थनापूर्वकं देवस्य यागमण्डपे निवेशनम्.*
ततः प्रविश्य सदनं यजमानो गुरुश्च तौ ।
प्रणम्य दण्डवद्भूमौ देवमुत्सव सम्पदम् ।। 11.62 ।।
याचेतां गुरुरन्वक्च बध्वा कल्याणकौतुकम् ।
उत्सवस्नानबल्यर्थ प्रतिमासु यथा क्रमम् ।। 11.63 ।।
सुदर्शने चशयने कल्पितेऽन्यत पूर्ववत् ।
बद्धप्रतिसरं सर्वमधिवास्य यथाक्रमम् ।। 11.64 ।।
उत्थाप्य सद्यश्चाराध्य प्रादक्षिण्येन मन्दिरम् ।
नीत्वा प्रवेश्य यागार्थमण्डपं तत्र (12) चासने ।। 11.65 ।।
(12. चानयेत्.)
नित्योत्सवा र्चां चक्रं च निवेश्य तदनन्तरम् ।
* वेदिकायां धान्यराशौ कुम्भस्थापनम्.*
वेदिकायां धान्यपीठं कृत्वा पुर्वेदितक्रमात् ।। 11.66 ।।
तत्र प्रक्षालितान् कुम्भान् सूत्रेण परिवेष्टितान् ।
गन्धोदकेन (13) सम्पूर्णा न्नवरत्नयुतान्नव ।। 11.67 ।।
(13. सम्पूर्य नवरत्नोदरान्नव.)
सर्वगन्धरजोमिश्रान् करकेण समन्वितान् ।
प्रत्येकं स्यस्तसौवर्णनिष्कानश्वत्थपल्लवैः ।। 11.68 ।।
कुशकूर्चेन सहितान् मुखेष्वपि समल्लकान् ।
मध्यमं वस्त्र युग्नेन शिष्टानेकेन वाससा ।। 11.69 ।।
वेष्टितान्वेदिकाभूमौ स्थापयेद्धान्यराशिषु ।
अयतं सप्तभिर्हस्तैष्षद्भिर्वा चाथ पञ्चभिः ।। 11.70 ।।
विस्तीर्णं वस्त्रमायाममानार्धेन नियोजयेत् ।
भगवन्मयविप्रैश्च पुण्याहमपि वाचयेत् ।। 11.71 ।।
* कुम्भेषु स्थानभेदेन यष्टव्यदेवताः.*
(14) द्वारतोरणकुम्भादीन् प्रतिष्ठायामि वार्चयेत् ।
मध्यकुम्भे मूलबेरं (15) करके च सुदर्शनम् ।। 11.72 ।।
(14. इदमर्धंक्वचिन्न.)
(15. करकेष्वस्त्रपूजनम्.)
पूर्वाद्याशागते कुम्भे वासुदेवादि (16) कान्यजेत् ।
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः ।। 11.73 ।।
(16. पूजनम्.)
(17) तधैव पुरुषस्सत्यः क्रमेणाच्युतदेवता ।
अनन्तश्चेति हविषा चतुर्णां च निवेदनम् ।। 11.74 ।।
(17. क्रमेण पुरुषस्सत्यस्तथैवा.)
(18) कुम्भे तथास्त्रे च बलिबिम्बे चै वाष्ट मङ्गलम् ।
वेष्टितं वाससा वेदे रधस्ताद्धान्य राशिषु ।। 11.75 ।।
(18. कुम्भे कुम्भे तथास्त्रे च विन्यसेदष्ट.)
न्यस्याभ्यर्च्य चतुर्दिक्षु वेदतूर्यादिघोषणे ।
* आहवनीयाद्यग्निषु होतव्यदेवताः.*
प्रवृत्ते जुहुयादग्नौ ध्यायन्नाहव नीयके ।। 11.76 ।।
वासुदेवं दक्षिणाग्नौ सङ्कर्षण मनन्तरे ।
प्रद्युम्नं पश्चिमे चाग्नावुदी चीनेऽनिरुद्धकम् ।। 11.77 ।।
आवसक्थ्ये मूलमूर्तिमिष्ट्वा तीर्थाव सानिकम् ।
सन्निधिं प्रार्थ कुण्डेषु जुहुया त्सर्पिरादिभिः ।। 11.78 ।।
* होमद्रव्याणि.*
सर्पिषा च प्रसूनैश्च धूपद्रव्यैश्च पद्मज ।
समिधा पयसा दध्ना तिलव्रीहि यवै स्तथा ।। 11.79 ।।
* होमसङ्ख्या.*
तत्तद्दैवतमन्त्रेण अष्टोत्तर शतं पृथक् ।
अष्टाविंशतिवारान्वा कुण्डेषु प्रागुपक्रमः ।। 11.80 ।।
पायसैःकृसरैर्गौल्यैर्हरिद्रान्नैश्च मौर्दिकैः ।
होतव्यं पौरुषै स्सूक्तैः पृथगग्निषु पञ्चसु ।। 11.81 ।।
* ब्रह्मादि स्थावरास्त सर्वदेवताहोमः.*
पञ्चमे परमान्नेन ब्रह्माद्युद्दिश्य देवताः ।
तत्तन्नाम चतुर्थ्यन्तं परिवारपदान्वितम् ।। 11.82 ।।
स्वाहान्तं मन्त्रमुच्चार्य ध्यात्वा ब्रह्मादिदेवताः ।
ब्रह्मा प्रजापती रुद्रस्सर्वे देवा यथाक्रमम् ।। 11.83 ।।
छन्धांसि वेदा ऋषयो गन्धर्वाश्च सरीसृपाः ।
यक्षाश्चप्सरसश्चैव मासाद्यैस्सह वत्सराः ।। 11.84 ।।
(19) सरितश्च समुद्राश्च पर्वताश्च तथापगाः ।
भूतानि पशवो वृक्षा स्तथैवौषधयःस्मृताः ।। 11.85 ।।
(19. सर्वा देव्यः.)
वनस्पतिश्चोद्भिदश्च स्वेदजाश्चाण्डजा स्तथा ।
जरायुजाश्च भूरादिसप्तलोकास्तथैव च ।। 11.86 ।।
अतलाद्यास्तथालोकास्सप्त चण्डादिदेवताः ।
इत्येतेभ्यो बलिद्रव्यं जुहुयान्मूलविद्यया ।। 11.87 ।।
इदं विष्णुरितिप्रोच्य पूर्णाहुति मथाचरेत् ।
न दहेत्परिधीन् दर्भान् देवान्नोद्वासयेत् स्थितान् ।। 11.88 ।।
प्रत्यहं धारयेदग्नीन् यावत्तीर्थदिनावधि ।
अहोरात्रं प्रतिदिनं जुहुयादुक्तवर्तना ।। 11.89 ।।
एकाग्नौवापि होतव्यं होमद्रव्यमशेषतः ।
त्रये चतुष्टये चैवमग्नीनां कमलासन ।। 11.90 ।।
* बलिदानया चक्रस्य अन्नमूर्तेश्च निष्क्रमणम्.*
बलिप्रदानं प्रथमं कुर्याद्यागस्य मण्टपे ।
चक्रं च बलिभिम्बं च समादायान्नमूर्तिना ।। 11.91 ।।
साकं निष्क्रम्य (20) सदनात्तद्द्वारे कुमुदादिकम् ।
अभ्यर्च्यपुरतो दद्याद्बलिं भूमितले शुचौ ।। 11.92 ।।
(20. सदसः.)
* उपकरण वाहिनामग्रे गमनम्.*
पात्रस्थं तद्बलिद्रव्यं घण्टां प्रसवभाजनम् ।
तोयपूर्णं च करकं दीपपात्रं च दीपिकाः ।। 11.93 ।।
धूपपात्रं गृहीत्वाग्रे गच्छन्तु परिचारकाः ।
* अग्रे अन्नमूर्तिः गच्चेत्.*
(21) अग्रे गच्छेदन्न मूर्तिस्ततश्चक्रमनन्तरम् ।। 11.94 ।।
(21. अन्वग्गच्छेत् अनुगस्छेत्.)
* तदनु नित्योत्स वार्चाया सयनम्.*
नित्योत्सवार्चां तदनु वितानादि समन्विताम् ।
ततश्चण्ड प्रचण्डादीन् द्वारेष्वा वरणेषु च ।। 11.95 ।।
* बलिनिक्षेपः.*
नित्योत्सवप्रक्रियाया बलिमभ्यर्च्य निक्षिपेत् ।
मध्यमारभ्य च ग्रामे ब्रह्मादीनां यथाविधि ।। 11.96 ।।
देशेष्वीशानपर्यन्तं दत्वाऽभ्यर्च्य बलिं ततः ।
* परिशिष्टबलिद्रव्यस्य महापीठे निक्षेपः.*
महापीठे बलिद्रव्यं परिशिष्टम शेषतः ।। 11.97 ।।
दद्यात्पारिषदान् सर्वानुद्दिश्य कमलासन ।
* उत्सवमूर्तेश्शयनादुत्थापनम्.*
मुहूर्ते शोभने प्राप्ते गुरुरुत्सव कौतुकम् ।। 11.98 ।।
शयनस्थं समुत्थाप्य मन्त्रमुत्तिष्ठ पूर्वकम् ।
उच्चारयन् स्वस्तिसूक्तं पठद्भिर्ब्राह्मणै स्सह ।। 11.99 ।।
निष्क्रम्य मन्दिरात्तस्मा दुच्चार्य च रथन्तरम् ।
* उत्सव मूर्तेर्हस्त्यादियुक्तरथेन परिभ्रमणम्.*
समारोप्य रथं युक्तं चतुर्भिर्हस्तिपुङ्गवैः ।। 11.100 ।।
वाजिभिर्वा बलीवर्दैश्शीघ्रगामिभिरुत्तमैः ।
कल्पकद्रुमसंयुक्तं हेमकुटै रलङ्कृतम् ।। 11.101 ।।
रथस्यो परिकृत्वा च नयेदास्थितसारथिम् ।
यन्त्रेण वा विप्रवर्यौ रधीयानै र्बलान्वितैः ।। 11.102 ।।
गजे वा स्यन्दनालाभे याने वा तदसम्भवे ।
* भगवतो यानारोपणे मन्त्रः.*
भद्रङ्कर्णेति मन्त्रेण यानमारोपयेत्तदा ।। 11.103 ।।
सपुष्पहेमप्रभयायुक्तं पुष्पैरलङ्कृतम् ।
हैमेन च (22) विमानेन युक्तं पुष्पादिशोभिना ।। 11.104 ।।
(22. वितानेन.)
कुटाकारेण वा युक्तं मयूरच्छदशोभिना ।
सर्वालङ्कार युक्तेन समनःपरिवेषिना ।। 11.105 ।।
* यात्रोपचारविधिः.*
याने तत्र समासीसमभ्यर्च्यन्यासपूर्वकम् ।
देवं निवेदयेत्तस्मै भक्ष्यं च पृथुकादिकम् ।। 11.106 ।।
नान्यं चरणयोर्न्यस्येन्निशाचूर्णानि सर्वशः ।
दीपैरुदग्रैर्बहुभिः परिषिक्तै र्घृतादिना ।। 11.107 ।।
परस्सहस्रै स्सर्वत्र दीपयेच्च शतावरैः ।
* परिवारवर्गः.*
द्विजेन्द्रमुख्यैर्बहुभि र्भूषितैर्धवलाम्बरैः ।। 11.108 ।।
कञ्चुकोष्णीषसहितै र्वालव्यजनपाणिभिः ।
तालव्यजनहस्तैश्च बर्हिबर्हकरैस्तथा ।। 11.109 ।।
मुक्तातपत्रहस्तै श्च मेघुडम्बरधारिभिः ।
भिभ्राणैर्धूपपात्राणि गन्धोद्गारीणी विश्वतः ।। 11.110 ।।
यानारुढेन पुरतो रचिताञ्जलिकर्माणा ।
(23) उच्छैर्ध्वजाधिरूढेन तथा तार्क्ष्येण पद्मज ।। 11.111 ।।
(23. मत्स्यध्वजाधिरूडेन.)
पृष्ठतश्च प्रणमता शिभिकां कलकोज्ज्वलाम् ।
आरूढेन विरिञ्चादीन् समुत्सारयता बहिः ।। 11.112 ।।
विष्वक्सेनेन देवेन वेद्रहस्तेन सेवितः ।
उपानहौ पादुके च पात्रे कनकनिर्मिते ।। 11.113 ।।
समारोप्य पुरो विप्रैर्धारयद्भिरलङ्कृतैः ।
राजचिह्नानि चान्यानि यातव्यमविलम्बितम् ।। 11.114 ।।
विप्रैस्त्रयी मधीयानै र्जवस्तुति परायणैः ।
नृत्यता गायता चापि गाणिक्येनानु सेवितम् ।। 11.115 ।।
वीणादिवादनपरैर्वन्दिभिश्च तथा परैः ।
षड्जदिगीतनिपुणै र्वाद्यवादनकोनिदैः ।। 11.116 ।।
गद्यं पद्यं तथा मिश्रं पठद्भिस्तोत्र मुज्ज्वलम् ।
भाषाश्च बहुधा भिन्ना भाषमाणै रित स्ततः ।। 11.117 ।।
वैतण्डि कै स्तथा जल्पनिपुणैर्वाद शिक्षितैः ।
तथा तत्वकथानिष्ठैः पदार्थज्ञैश्च तार्किकैः ।। 11.118 ।।
विमांसकैर्याज्ञिकैश्च च्छान्दसैस्साङ्ख्यकोविदैः ।
योगज्ञैश्च पूर्णज्ञै श्शाब्दिकौस्तत्व वेदिभिः ।। 11.119 ।।
मौहुर्तिकैश्च गणशःपरस्परजिगीषुभिः ।
तत्तच्छास्त्रोक्तमार्गेण प्रमेयं बहुधा स्थितम् ।। 11.120 ।।
उच्चैर्ब्रुवाणैर्व द्वद्भिः पञ्च रात्र परायणैः ।
पासुदेवस्य महात्म्यं कथयद्भिश्च सात्विकैः ।। 11.121 ।।
संस्कृतं प्राकृतं मिश्रमीर यद्भिरित स्ततः ।
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितु मुद्यतैः ।। 11.122 ।।
देवस्य पुरतःपृष्ठे पार्श्वतश्च स्थितैर्जनैः ।
सेनया सर्वतोदिक्षु चतुरङ्ग नलाढ्यया ।। 11.123 ।।
देवस्य पार्श्वयोःपूर्वे लाक्षा (24) रञ्चितमस्करैः ? ।
यन्त्रेर्दारु मयैश्चित्रैऋः पक्ष्याकारैरिति स्ततः ।। 11.124 ।।
(24. सर्जक.)
देवताकृति यन्त्रैश्च तथा यन्त्रैर्गजादिभिः ।
निषादिभिस्समारूढैस्त्रीभिश्च भरतोदितैः ।। 11.125 ।।
मार्गैर्बहुविधैर्नृत्तं दर्शयन्तीभिरद्भुतम् ।
(25) लेखायन्त्रे स्त्रियारूढै र्यन्त्रे रन्येस्तथाविधैः ।। 11.126 ।।
(25. डोलायन्त्रे.)
गतागतानि कुर्वाणैरनुयातस्समाकुलैः ।
इत्थमावरणं सर्वं परिक्रम्य बहि स्तथा ।। 11.127 ।।
ग्रामादिवीधि काश्छापि परिक्रम्य प्रदक्षिणम् ।
प्रवेशसमये (26) चापि प्राकारवलयं तथा ।। 11.128 ।।
(26. वापि.)
प्रादक्षिण्येन गत्वान्तः प्रविशेन्मण्ट (27) पावनिम् ।
तत्रावरोपयेद्देवं बलिबेरं तु मन्दिरे ।। 11.129 ।।
(27. नालयम्.)
चक्रं च यागसदने बलिपीठे बहिस्थ्तते ।
अन्नमूर्तिंक्षिपेन्नित्यं समाराधनकल्पितैः ।। 11.130 ।।
वस्तुभिर्द्वगुणैर्नित्यं द्रुवभेरं समर्चयेत् ।
* उत्सवबिम्बस्य प्रातस्सिंहासनेऽवस्थापनम्.*
रात्रिशेषे व्यतिक्रानै मण्टपे सिंहविष्टरे ।। 11.131 ।।
अवस्थाप्यौत्सवं बिम्बमर्चयेच्छान्त्रवर्त्मना ।
* तर्स्मिबिम्बे वा स्नपनबिम्बे वा स्नपनम्.*
स्नपनं तत्र वा बिम्बे यद्वान्नपरकौतुके ।। 11.132 ।।
* एकबेरविधाने मूलबिम्ब एव स्नपनम्.*
एकभेरविधाने तु मूलबिम्बेऽभिषेचनम् ।
* प्रत्यहं स्नपनं महाहविर्निवेदनं च.*
प्रत्यहं स्नपनं कुर्याद्यथाशक्ति (28) यथाविधि ।। 11.133 ।।
(28. यथावसु.)
मेहीहविर्नि वेद्याथ बिम्बे कल्याणकल्पिते ।
मण्डनालयमासाद्य शोभयोद्भूषणादिभिः ।। 11.134 ।।
बिम्बे तत्र स्थिते यागमण्टपं प्राप्य देशिकः ।
कुम्भादिकं समभ्यर्च्य निवेद्य च यथोदितम् ।। 11.135 ।।
हुत्वा च पूर्ववत्पीठे बलिं दत्वा यथाविधि ।
सर्वमन्यच्च
* बल्यर्चाया ग्रामवीधिषु नयनम्.*
बल्यर्चां नीत्वा ग्रामादिवीधिकाः ।। 11.136 ।।
यथानिशं विधायान्वगुत्सवार्चं नयेद्भहिः ।
* उत्सवार्चायाः दिवसानुगुणोपचारेण बहिर्नयनम्.*
यथापुरमलङ्कारं कृत्वा परिकरां स्तथा ।। 11.137 ।।
दिवसानुगुणानन्यान् ध्वजादीन्विष्वगुच्छृतान् ।
ताम्बूलवीटिकां दत्वा स्थाने स्थाने (29) समाहृताम् ।। 11.138 ।।
(29. समाहिताम्.)
पुथु कादीं स्तथा भक्ष्या न्नालिकेरफलानि च ।
पानीयाचमानादीन चोदितानि यथाविधि ।। 11.139 ।।
दत्वानैवेद्यमखिलमद्भिः प्रोक्ष्यास्त्रविद्यया ।
निवेदयेदपूपादीन् पक्वं तूष्णीं प्रदर्शयेत् ।। 11.140 ।।
पानीयं च तथा स्वादु पयःप्रभृति चाहृतम् ।
पिष्पमूलादि यच्चास्यच्चन्दनक्षोदभाजनम् ।। 11.141 ।।
भूषणं चाङ्गुलीयादि भक्त्या यत्प्रतिदीयते ।
प्रोक्ष्य सर्वं तथास्त्रेण देवङ्गे योजयोद्गुरुः ।। 11.142 ।।
* शिभिकया प्रदक्षिणानन्तरं स्नानमण्टपे समाराधनम्.*
ग्रामं प्रदक्षिणं नीत्वातधैवावरणानि च ।
प्रवेश्य धाम शिभिकामन्यामारोप्य मङ्गलाम् ।। 11.143 ।।
प्नानमण्टपभूभागे काञ्चने परमानने ।
सुखास्तरण (30) संयुक्ते यूनादेरवरोप्यतम् ।। 11.144 ।।
(30. कल्याणे.)
निवेश्याभीष्टदिग्भागे सम्मुखं मखकौतुकम् ।
* आराधकस्य कञ्चकोष्णीधारणम्.*
आराधयेद्भागवत स्सर्वालङ्कार संयुतः ।। 11.145 ।।
अहतेन सुसूक्ष्मेण वासना श्लक्ष्णतस्तुना ।
बद्दोष्णीषोत्तरासङ्गः कर्णकार्दौरलङ्कृतः ।। 11.146 ।।
सौवर्णवारवाणेन धवलेन विराजितः ।
बद्धस्वदेहसन्नाहः पवित्रतकरश्शुचिः ।। 11.147 ।।
* परिचारकाणां च तथा.*
समाराधनवस्तूनि नयद्भिः परिचारकैः ।
कञ्चुकोष्णीषवासोभिर्भवितव्यं समन्ततः ।। 11.148 ।।
* पूजकस्यदेवदक्षिणे उपवेशः.*
(31) देवस्य दक्षिणे पार्श्वे पूजरेन्द्रोपवेशनम् ।
* सेनार्थिनां भगवतः पार्श्वेपृष्ठतश्चोपवेशः.*
आस्थितव्यं भगवतः पार्श्वयोः पृष्ठत स्ततः ।। 11.149 ।।
(31. देवस्य वामपार्श्वेतु देशिकेन्द्रोपवेशनम्.)
एकाग्रेमानसैस्सर्वै रेकान्तिभिरुवासकैः ।
* त्रिदण्डिप्रभृतीनामुपासकावां स्थितिः .*
आस्थितव्यं यतिवरैस्त्रिदण्डैरेकदण्डिभिः ।। 11.150 ।।
ब्रह्मध्यान परैरन्व गाराधन विधिक्रमम् ।
अनुसन्धायि भिश्शश्व दुपवेष्टव्य मन्तिके ।। 11.151 ।।
बहिस्तेषां च कल्याणै र्वैष्णवै स्संयतेन्द्रियैः ।
आनस्दजाश्रु सलिलै राप्लुताङ्गैर्महीसुरैः ।। 11.152 ।।
* मण्डपाद्बहि रुपवेष्टव्याः.*
उपासितव्यमन्त्येस्तु सदस्यैर्मण्टपाद्बहिः ।
अधस्तात्सर्वतोदिक्षु प्रपाया मुपवेशनम् ।। 11.153 ।।
* नर्तकगायकादीनां स्थानम्.*
अधस्तादग्रतो नृत्तगीतवाद्यविशारदैः ।
नाट्यं बहुविधं वाद्यं प्रकृष्टं बहुधास्थितम् ।। 11.154 ।।
(32) गीतं च दिव्यं षड्जद्यैस्स्वरैःकालानुसारिभिः ।
प्रदर्शयद्भिर्लास्यानि (33) बन्धनानीतराणिच ।। 11.155 ।।
(32. गीतं च नृत्तं.)
(33. निबन्धानि.)
आविष्कुर्वद्भिरान्यांश्च श्रव्यं दृश्यं च तद्द्वयम् ।
दर्शयद्भिरधीयानैस्त्रयूं (34) स्वाध्यायकल्पिताम् ।। 11.156 ।।
(34. त्रैयन्तकल्पिताम्.)
इतिहासपुराणानि कथयद्बिर्यथायथम् ।
सन्निधातव्यमन्याभि (35) र्वाणिनीबिस्समन्ततः ।। 11.157 ।।
(35. सर्वाण्येभिः.)
* देवस्य सहस्रधारया स्नानम्.*
इत्थं संसेविते तत्र मण्डपे मधुविद्विषम् ।
अर्चयित्वा ततस्स्नानपीठे नीत्वा यथापुरम् ।। 11.158 ।।
सहस्रधारापर्यन्तं स्नापयेत्पुरुषोत्तमम् ।
* अलङ्कारानन्तरं यात्रा.*
अलङ्कारासने नीत्वा तत्र कृत्यम शेषतः ।। 11.159 ।।
कृत्वा यात्रासने देवमारोप्य सपरिच्छदम् ।
* भोजनवासने महाहविर्निवेदनम्.*
प्रवेश्य मण्डपं तत्र न्यसेत्तं भोजवासने ।। 11.160 ।।
महाहविर्निवेद्याथ पानकान्तं यथोदितम् ।
* देवस्य राजवदुपचारः.*
सुखासने (36) स्थापयित्वा राजवत्सर्वमाचरेत् ।। 11.161 ।।
(36. स्नापयित्वा.)
(37) अलङ्कारासनं नीत्वा यानमारोप्य मङ्गलम् ।
* महोत्सवनिगमनम्.*
(38) अवरोप्यासने तत्र मण्डयित्वा यथापुरम् ।। 11.162 ।।
(37. अलङ्कारालयं.)
(38. अवरोप्येत्येतदर्धं क्वचिन्न.)
होमादि बलिदानान्तं कृत्वा सर्वम शेषतः ।
औत्सवं बिम्बमादाय कुर्यादेवं महोत्सवम् ।। 11.163 ।।
* तीर्थदिनपर्यन्तं अपूर्ववस्तुभिरुपचारः.*
प्रत्यहं महमुक्तेन विधिना विहितं क्रमात् ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ।। 11.164 ।।
अपूर्वोद्यानयानाद्यैर्यथा कौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तीर्थदिनावधि ।। 11.165 ।।
* पूर्वानतिक्रमेण स्थानभोगादिकल्पनम्.*
यस्मिन्नास्थानभूभागे ये भोगाः कल्पिताः पुरा ।
तत्रेव ते विधातव्या देवस्य सति सम्भवे ।। 11.166 ।।
* श्रीभूमिभ्यां साकं विना पादेवस्य ग्रामादौ भ्रमणम्.*
श्रिया वसुधया सार्धं ग्रामादौ नित्यमुत्सवे ।
परिभ्रमणमीशस्य केवलस्यापि वा भवेत् ।। 11.167 ।।
* प्रथमदिनमारभ्य षट्सु दिनेषु निवेदनीयवस्तूनि.*
अहनि प्रथमादौस्या द्बलिदानमनुक्रमात् ।
पललं रजनीचूर्णं करम्भान् लाजसंयुतान् ।। 11.168 ।।
चरुणा सह संयोज्य बलिं तद्याद्यथाविधि ।
द्वितीयेऽहनि संयोज्य चरुणा तिलतण्डुलम् ।। 11.169 ।।
मिश्रितांश्चरुणा (39) लाजा धानान्यापूपकां स्तथा ।
तृतीये च चतुर्थे च नालिकेरजलैस्सह ।। 11.170 ।।
(39. लाजान् धान्यानाया.)
सक्तूंश्च शालिपिष्टं च संयोज्य चरुणा सह ।
पंचमे पद्मभीजानि पायसं शालितण्डुलम् ।। 11.171 ।।
षष्ठे त्वपूपान् संयोज्य चरुणा निक्षिपेद्बलिम् ।
* सप्तमादिषु दिनेषु निवेदनीयविशेषः.*
सप्तमादिषु सर्वत्र सार्धमन्नैश्चतुर्विधैः ।। 11.172 ।।
अपूपांश्च तथा सक्तून् प्रत्यहं निक्षिपेद्बलिम् ।
ब्रह्मादीशानपर्यन्तं स्थानेष्वष्टसु पूर्ववत् ।। 11.173 ।।
* गोमयशुद्धे बलिपीठे तोयपूर्वं बलिदानम्.*
विधाय बलिपीठानि गोमयालिप्तभूमिषु ।
तेषु वाद्यं तथा नृत्तं गेयं नित्येत्सवे यथा ।। 11.174 ।।
कृत्वा दद्यात्तोयपूर्वं बलिं तेयोत्तरं तथा ।
बलिमुद्रां दर्शयित्वा दर्शयेन्मङ्गलाष्टकम् ।। 11.175 ।।
* बलिप्रदक्षिणम्.*
बलिं प्रदक्षिणीकृत्य गच्छेयुर्बलिदायिनः ।
* आरम्भसमाप्तिदिनयोरेको बलिः मध्यदिनेषु बलिद्वयम्.*
आरम्भदिवसे रात्रौ समाप्तिदिवसेऽहनि ।। 11.176 ।।
बलिमेकां क्षिपेन्मध्यदिवसेषु बलिद्वयम् ।
* अहोरात्रं बलिदानम्.*
अह्नि रात्रौ च सर्वत्र बलिदानं यथाविधि ।। 11.177 ।।
* अन्तदिने ग्रहणादिसम्पाते बलिद्वयम्.*
अवसानदिने रात्रौ ग्रहणे विषुवेऽयने ।
प्राप्ते कुर्यादवभृथं यदि तस्मिन् बलिद्वयम् ।। 11.178 ।।
* ग्रामादिरहितस्थाने महपीठस्य पुरतोबलिः.*
ग्रामादिरहिते स्थाने मध्ये तु पुरतो बलिम् ।
महापीठस्य वितरेद्ब्रह्मणे देशिकोत्तमः ।। 11.179 ।।
* तीर्थदिनात्पूर्वेद्युर्मृगया.*
पुर्वेद्युस्तीर्थदिवसाद्देवस्य मृगया भवेत् ।
मृगयादिवसात्पूर्वं जलद्रोण्यवगाहनम् ।। 11.180 ।।
* तस्मिन् दिने सविभवं देवस्य निर्गमः.*
अवगाहदिनात्पूर्वदिवसे देवमर्चयेत् ।
श्रीभूमिभ्यां सहैकस्मिन् विष्टरे विपुले स्थितम् ।। 11.181 ।।
उद्यानादौ च देवीभ्यां सार्धं देवस्य निर्गमः ।
कीड्राश्च तत्र बहुधा दर्शये (40) च्चोपदाः पुनः ।। 11.182 ।।
(40. च्चोपधाः.)
* देसान्तरादाहृतप्रौभृतादिनिवेदनम्.*
देशाद्देशादाहृतानि प्राभृतानि गुरुस्स्वयम् ।
प्रदर्श्य देवदेवाय जनसंसदि मण्डपे ।। 11.183 ।।
इतो यातमिदं सर्व मितो यातमितीर्यच ।
देवादीनपि (41) चाहर्तॄन्काले विज्ञापये त्ततः ।। 11.184 ।।
(41. चाहर्तुं काले.)
* देशिकेन्द्रः देवानन मपलोक्यसर्वेषामनुग्रहंकुर्यात्.*
तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति (42) भावयन् ।
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम् ।। 11.185 ।।
(42. भावयेत्.)
* समीपस्थैरनुग्रहभावना.*
अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम् ।
ब्रुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम् ।। 11.186 ।।
* बल्यर्चया उत्सवेसुददर्शनान्नमूत्योर्विकल्पः.*
सुदर्शनान्नमूर्तिभ्यां सह ताभ्यां विनापि वा ।
सह बल्यर्चया कुर्याद्विना वा तं महोत्सवम् ।। 11.187 ।।
केवलोत्सवबिम्बेन दिनेष्ववभृथावधि ।
* अपराह्णे जलद्रोण्यव गाहनम्.*
जलद्रोणीं जलस्नानदिने कृत्वा यथापुरम् ।। 11.188 ।।
उत्सवं देवदेवस्य प्रातरारभ्य मङ्गळम् ।
अपराह्णे जलद्रोण्यामवगाहनमिष्यते ।। 11.189 ।।
सोपानदेशे सरसि जलद्रोणीं निवेशयेत् ।
कटाहं वापि सौवर्णं पूरयेद्गन्धवारिभिः ।। 11.190 ।।
मुक्ता (43) भान्यक्षतान्यत्र परितो विकिरेत् स्थले ।
जलेष्वावाह्य गङ्गाद्यास्सरितस्तास्सभाजयेत् ।। 11.191 ।।
(43. काराण्यक्षतानि.)
जलेऽभिमन्त्रिते मन्त्रैरब्लिङ्गैर्देवमर्चितम् ।
उपचारैर्यथापूर्वं (44) स्नानान्त्रैरवगाहयेत् ।। 11.192 ।।
(44. स्नातं तैरेव गाहयेत् )
* तस्मिन् काले वारुणसूक्त वाद्यादिघोषः.*
काले तस्मिन्नधीयूरन् सूक्तं (45) वारुणमुच्चकैः ।
तन्मया दिक्षु सर्वासु घोषयेत्तूर्यमुच्चकैः ।। 11.193 ।।
(45. शाकुन.)
* अवगाढस्य देवस्य यानेन मण्डपप्रापणम्.*
अवगाढं ततो देवं यानमारोप्य मण्डपम् ।
अन्यमानीय तत्रापि यथापूर्वं सभाजयेत् ।। 11.194 ।।
* तीर्थस्ननस्य ब्रह्मादिभिरनुष्ठितत्वम् *
अनुष्ठितमिदं तीर्थं ब्रह्मद्यैरपि दैवतैः ।
* तीर्थस्नानपानादिफलम्.*
एतैश्च तीर्थसलिलैःपीतैश्शिरपि धारितैः ।। 11.195 ।।
स्नानैर्निर्धूतपाप्मानो यान्ति ब्रह्म सनातनम् ।
* उत्सवात्पूर्वमनन्तरं वा मृगया.*
मृगयादिवसे वापि प्रातरारभ्य पूर्ववत् ।। 11.196 ।।
कृत्वोत्सवमशेषेण तस्यान्ते मृगया भवेत् ।
* मृगयाविधानम्.*
मृगयानुगुणैस्सर्वैर्भूषणैर्भूषितं ततः ।। 11.197 ।।
तद्योग्यायुधसन्नाहं हस्त्यादौ (46) परिकल्पिते ।
आरोप्य कृत्रिमे चाश्वे नयेद्ग्रामादि पूर्ववत् ।। 11.198 ।।
(46. साधु कल्पिते.)
देवीभ्यां सह सीमादौ सैन्यैर्हस्त्यादिभिर्युतम् ।
उद्यनमण्टपे चापि मध्ये सौवर्णविष्टरे ।। 11.199 ।।
* मृगयानिवृत्तस्य देवस्य रात्रौ मण्टपनयनम्.*
आसने तत्र चासीनं स्नानपूर्वं समर्चयेत् ।
मण्टपेऽन्यत्र विधिना निवेद्य च महाहविः ।। 11.200 ।।
यानमारोप्य तद्रात्रौ मन्द्रिरान्तर्भुवं नयेत् ।
* पश्चिमरात्रिभागे तीर्थभिम्बाधिवासनम्.*
नित्योत्सवं यथापूर्वं कुर्यात्तदनु मङ्गलम् ।। 11.201 ।।
पश्चिमे रात्रिभागे तु तीर्थभिमाबाधिवासनम् ।
बद्वा प्रतिसरं तीर्थबिम्बाभावे चतुर्मुख ।। 11.202 ।।
* तीर्थबिम्बाभावे उत्सवमूर्तेरेवकौतुकबन्धः.*
नित्योत्सवप्रतिकृतेरभावे त्वधिवासनम् ।
स्नानर्चायां भवेद्यद्वा बिम्बस्योत्सवकारिणः ।। 11.203 ।।
उत्सवं प्रातरारभ्य कुर्यात्पूर्वोदितक्रमात् ।
उत्थाप्य शायितं बिम्बं निवेश्य (47) मुखमण्टपे ।। 11.204 ।।
(47. स्नाममण्डपे.)
आदाय स्थापितान् कुम्भान् यागमण्डपभूमिषु ।
नीत्वा प्रदक्षिणं धाम तीर्थभिम्बस्य सन्निदौ ।। 11.205 ।।
स्थापयित्वा धान्यराशौ तीर्थबिम्बं यथाविधि ।
* एकबेरे मूलबेरस्यैव कौतुकबन्धः.*
वस्त्रान्तमर्चयित्वान्ते मुहूर्ते शोभने गुरुः ।। 11.206 ।।
एकभेरे मूलभेरमन्यथा तीर्थकौतुकम् ।
कुम्बौरभ्युद्धृतैर्देवं मूलमन्त्रेण मन्त्रवित् ।। 11.207 ।।
वूर्वादिमध्यकुम्भान्तमभिषिञ्चेद्यथाविधि ।
स्नानादिदीपपर्युन्तं प्रतिकुम्भं समर्चयेत् ।। 11.208 ।।
पठत्सु विप्रवर्येषु दिक्षु स्वाध्यायमुच्चकैः ।
घोषयत्सु च वाद्येषु मन्त्रैरब्दैवदैर्गुरुः ।। 11.209 ।।
नववस्त्रोत्तरीयाद्यैर्दीपान्तैरर्चिते हरौ ।
* निशाचूर्णविधिः.*
ध्वजपीठस्य पुरतः (48) क्षितौ गोमयपारिणा ।। 11.210 ।।
(48. क्षितिम्.)
आलिप्ते चतुरश्रे च शालिभारैर्विकीर्यच ।
वस्त्रपूर्वाद्यलङ्कारैरुलूखलमङ्कृतम् ।। 11.211 ।।
क्षालितं (49) स्थण्डिले पीठे स्थापयित्वा चतुर्मुख ।
श्रीनूक्तविद्यया लक्ष्मीं (50) ध्यात्वा मन्त्रितमर्चितम् ।। 11.212 ।।
(49. तण्डुले पीठे.)
(50. ध्यायन्.)
मुसलं क्षालितं चापि मन्त्रितं मूलविद्यया ।
आदाय मार्तिपैस्सार्धं देशिकेन्द्रस्समाहितः ।। 11.213 ।।
अवहन्यान्नि शाचूर्णं निक्षिप्तं तदुलूखले ।
गायन्त्यो गणिका गीतं (51) मन्दिरे देवदासिकाः ।। 11.214 ।।
(51.मङ्गलं.)
अवहन्युर्निशाचूर्णं यथासूक्ष्मतरं भवेत् ।
* देवस्य निशाचूर्णकुम्भाभिषेकः.*
निक्षिप्तचूर्णं तदनु कुम्भं वेष्टितवासनम् ।। 11.215 ।।
(52) सकूर्चमल्लकं पीठे तण्डुलैः परिकल्पिते ।
स्थापितं मूलमन्त्रेण गन्धादिभिरथार्चितम् ।। 11.216 ।।
(52. सकूर्चं, मल्लकम्. पल्लनं.)
(53) आदायकुम्भचूर्णैस्तैश्श्रीसूक्तेनाभिषेचयेत् ।
* अवभृथार्थं देवस्स सरित्तीर्थनयनम्.*
ऋत्विजो देशिकेन्द्रश्च देवं गत्वा प्रदक्षिणम् ।। 11.217 ।।
(53. आचार्यः आधार.)
अष्टाङ्गप्रणिपातेन प्रणिपत्य विकीर्य च ।
पुष्पाण्यञ्जलिभिर्देवं स्तुत्वा स्तोत्रे (54) रनेकशः ।। 11.218 ।।
(54. रनेकधा.)
अलङ्कृतैर्भागवतैश्छत्रचामरधारिभिः ।
तैरेव सर्वैर्बहुभिर्भाव्यं देवसमीपगैः ।। 11.219 ।।
अरोप्य देवं हास्त्यादौ तीर्थभिम्बमलङ्कृतम् ।
पश्चादुत्सवबिम्बेन नीयमानेन पूर्ववत् ।। 11.220 ।।
सहितं (55) सरित स्तीर्थं नीत्वा यद्वा सरित्तटम् ।
* समुद्रे अवभृथे नियमः.*
दर्शे च पौर्णमास्यां च अर्वाक्चेद्योजनावदौ ।। 11.221 ।।
(55. परित.)
समुद्रतीरमथवा मण्डपे तत्र कल्पिते ।
अवरोप्यासने याना न्निविष्टे तीर्थकौतुके ।। 11.222 ।।
* कलशस्थापनचक्राभिषेकौ.*
कलशानग्रतःपञ्च विंशतिं दश सप्त च ।
यद्वा यद्वा नव न्यस्य यथाविधि (56) यथाक्रमम् ।। 11.223 ।।
(56. यथापुरम्.)
कलशैरभिञ्चेत चक्रं शिष्टैश्च वारिभिः ।
* चक्रस्य चले मज्जनम्.*
सरितादौ च तीर्थेषु तीर्थान्यावाह्य नामभिः ।। 11.224 ।।
(57) निमज्जयेत्तत्र बिम्बं चक्रं च त्रिर्यथाविधि ।
तीर्थार्थमौत्सवे बिम्बे समानीते तु वारिभिः ।। 11.225 ।।
(57. निमज्जयेत्तत्र कुम्भं चक्रं च त्रिर्यथा विधि. निमज्जेत्तत्र तद्बिम्बं चक्रमन्त्रैः.)
प्रोक्ष्य कूर्चाग्रपतितैर्भिम्बं चक्रं निमज्जयेत् ।
* चक्राभावे कूर्चस्य विधानम्.*
चक्राभावे तु तत्कूर्चं केवलं देवसन्निदौ ।। 11.226 ।।
* देवेन सहमज्जतां शाश्वतलोकावाप्तिः.*
देवेन सह तत्काले निमज्जन्ति च ये नराः ।
ते निर्धूयाखुभं सर्वं महापातकमप्यथ ।। 11.227 ।।
यान्ति द्रुवं सुदुष्प्रापं स्थानमाचन्द्रतारकम् ।
* मण्डपे देवस्य महाहविर्निवेदनम्.*
मण्डपे देवमानीय पूजयित्वा यथापुरम् ।। 11.228 ।।
महाहविर्निवेद्याथ ब्राह्मणान् भोजयेत्ततः ।
* प्रत्यहं ब्रह्मणभोजनम्.*
प्रत्यहं भोजयेद्विप्रान् सहस्रं शतमेव वा ।। 11.229 ।।
* देवस्यालयाभ्यन्तरप्रापणम्.*
आलयाभ्यन्तरं यानमारोप्य प्रापयेत्ततः ।
तद्रात्रौ मण्डपे देवं नीत्वाभ्यर्च यथाविधि ।। 11.230 ।।
* प्रभाते चक्राब्जमण्डले पुष्पयागः.*
निवेद्य च यथान्यायं प्रभाते मण्डपान्तरे ।
भक्तैर्भागवतैश्चैव सेविते भूतेल क्वचित् ।। 11.231 ।।
चक्राब्जं वर्तयित्वोक्तवर्तना वरणान्वितम् ।
प्रसवैः कालजैश्श्यामैः कृष्णैश्च तुलसीदलैः ।। 11.232 ।।
न्यूवातिरेकरहितैर्वर्णैरेव सितादिभिः ।
विचित्रयेत्पञ्चवर्णैश्चित्रिते (58) तस्य मध्यतः ।। 11.233 ।।
(58. तत्र.)
भद्रपीठे प्रभायुक्तेन्यस्ते कल्याणकौतुकम् ।
निवेश्याराधयेदर्घ्यपाद्यादिभिरनुक्रमात् ।। 11.234 ।।
द्वादशाक्षरमन्त्रस्थान्यक्षराणि यथायथम् ।
उद्दिश्य भूषापर्यन्तैरर्घ्यार्द्यैर्नवभिःक्रमात् ।। 11.235 ।।
प्रत्यक्षरं समस्तानि पुष्पौ (59) रभ्यर्चयेद्धरिम् ।
हृदयादीनि चाङ्गानि समुद्दिश्याञ्जलिस्थितैः ।। 11.236 ।।
(59. रुपचरेद्धरिम्.)
फलं भवतु मे (60) पुष्पैर्नम इत्यवसानकम् ।
(61) तन्त्र मन्त्रं समुच्चार्य मन्त्रविद्देशिकोत्तमः ।। 11.237 ।।
(60. पुष्पं नम)
(61. तत्र मन्त्रं.)
भूषणानि तथोद्दिश्य श्रीवत्पादीन्यनुक्रमात् ।
आयुधानि च दिव्यानि चक्रादीनि यथाक्रमम् ।। 11.238 ।।
तथैवावरणस्थानां देवतानां समर्चनम् ।
मत्स्यादिमूर्तिदशकं केशवादीं स्तथा परान् ।। 11.239 ।।
चतुर्विंशतिसङ्ख्याता नुद्दिश्य कुसुमार्चनम् ।
पौरुषेण तु सूक्तेन प्रत्यृचं कमलासन ।। 11.240 ।।
नारायणानुवाकेन विष्णुसूक्तेन देशिकः ।
पुष्पाणि तद्याद्देवस्य चरणाम्बोजयोर्द्वयोः ।। 11.241 ।।
तथौपनिषदैर्मन्त्रेः ञ्चभिस्सर्वपापनैः ।
दिक्षु वेदांश्च चतुरः पठेयुर्मन्त्रवित्तमाः ।। 11.242 ।।
विदिक्ष्वेकायनां शाखां तन्मयूस्सुमुखा स्तथा ।
अधीयीरन् (62) तथा स्तोत्रेनृत्तैश्च सततोद्यतैः ।। 11.243 ।।
(62. तथातोद्यैः.)
तोषयेद्देवदेवेशं गेयैश्च बहुधा स्थितैः ।
(63) पुष्पाभिषेकं प्रहितैः पुष्पैरेव सितादिभिः ।। 11.244 ।।
(63. पुष्पाभिषेकसहितैः.)
देवस्य कृत्वा देवाय पायसादि चतुर्विधम् ।
अन्नं निवेद्य जुहुयाद्दिश्यग्नेर्मण्डपस्च च ।। 11.245 ।।
समिद्भिराज्यैश्चरु भिश्चतुभिर्नश्च पृथक्पृथक् ।
अष्टोत्तरशतं वारान् मूलमन्त्रेण मन्त्रवित् ।। 11.246 ।।
* देवस्य यानेन परिभ्रमणम्.*
ततःप्रदक्षिणं कृत्वा देवं स्तुत्वा च भूतले ।
प्रणयेद्दण्डद्यानमारोप्य शिभिकादिकम् ।। 11.247 ।।
* आगतानां ब्राह्मणादीनां निवर्तनानुज्ञा.*
प्रविशयेदावरणं प्रथमं तत्र च स्थितः ।
सेवानुभूतिविवशार्न भक्तान् भागवतांश्च सः ।। 11.248 ।।
(64) ब्रह्मादीनपि कल्याणमनुसन्धातुमागतान् ।
प्रणतानालयं स्वं स्वं गन्तुं सर्वेश्वरो हरिः ।। 11.249 ।।
(64. ब्रह्मन्नपि च.)
नियुज्यावरणं तच्च परिक्रम्य प्रदक्षिणम् ।
सार्धमभ्यन्तरै (65) र्निर्तैस्सेवकै (66) रनुयायिभि ।। 11.250 ।।
(65. र्नित्यं)
(66. रनपायिभिः.)
* शान्तिहोमः पूर्णाहुतिः.*
अभ्यन्तरं मन्दिरस्य प्रविशेन्जङ्गलान्वितम् ।
तदहर्निशि पूर्वस्मिन् (67) न्यस्येत्स्नसपनमण्डपे ।। 11.251 ।।
(67. यामे.)
उत्सवान्तोचितं स्नानं कलशैरा चरेत्क्रमात् ।
महाहविर्निवेद्यथ नीत्वातन्मण्डपान्तरे ।। 11.252 ।।
यागमण्डपमासाद्य होमं कुर्याद्यथाविधि ।
शान्तिहोमं ततःकुर्याद्यथा पूर्वोदितत्रमात् ।। 11.253 ।।
प्रायश्चित्तं तु जुहुयात्पञ्सोपनिषदा घृतम् ।
सहस्रं वाशतं वापि हुत्वा पूर्णाहुतिं चरेत् ।। 11.254 ।।
* अग्न्यादीनामुद्वासनम्.*
अग्नीन् विसर्जयेद्देवान् तत्रस्थां स्तोरणादिषु ।
* ध्वजोद्वासनम् यजमानाय ध्वज स्तम्भदानम्.*
ध्वज स्तम्भं समासाद्य पूजयित्वा खगाधिपम् ।। 11.255 ।।
हविर्नि वेद्य गरुडं परिक्रम्य प्रदक्षिणम् ।
तमुद्वसेत्पटात्तार्क्ष्यं संहारक्रममाश्रितः ।। 11.256 ।।
अवरोप्य ध्वजस्तम्भ मुत्पाट्य च महानिशि ।
(68) स्तम्भं ध्वजं चगृह्णीयाद्देशिकेन्द्रस्स्वयं ततः ।। 11.257 ।।
(68. सहध्वजं.)
ग्रहणं देशिकेन्द्रेण तार्क्ष्यतृप्तिकरं भवेत् ।
स्थाने चावाहितान् देवान् तत्र तत्र स्थितानपि ।। 11.258 ।।
बलिं दत्वा तूर्यघोषैः स्थाने स्थाने सकृत्सकृत् ।
घोषयित्वा चतुर्वक्त्र (69) समुद्वास्य स्वनामभिः ।। 11.259 ।।
(69. स्समुत्पाद्य.)
* देशिकस्य परिजनेन साकं मौनेनाष्टाक्षरजपः.*
मूकैः (70) परिकरैस्सार्धं गुरुरष्टाक्षरं जपेत् ।
प्रविश्य धाम देवस्य विज्ञाप्य शकटादिकम् ।। 11.260 ।।
(70. परिजनै.)
* यजमानादिभ्यः दक्षिणा.*
यानमारोप्य धामान्तः प्रापयेन्मखकौतुकम् ।
(71) प्रभातायां निशायां वाऽनुष्ठिते यागकर्मणि ।। 11.261 ।।
(71. प्रभाते तन्निशायां.)
यजमानो गुरुं वस्त्रे र्भूषमैःकटकादिभिः ।
सौवर्णैर्गन्धपुष्पाद्पैद्यैरलङ्कृत्याभिपूज्य च ।। 11.262 ।।
दक्षितामुत्तमां स्वर्णशतनिष्कां ततोऽधिकाम् ।
यथाविभूति दत्वान्या दक्षिणाः प्रतिपासरम् ।। 11.263 ।।
(72) दशनिष्कं तदर्धं वा तदर्धं वा यथावसु ।
निष्करूपां यथाश्रद्धमाचार्यय तदर्धकाम् ।। 11.264 ।।
(72. शतनिष्कं.)
तदर्धमृत्विजां दद्यात्तदर्धं परिचारिणाम् ।
हेमवस्त्रान्नयानाद्येस्तोषये (73) दुपचर्यया ।। 11.265 ।।
(73. दुपचर्यच.)
गायकाद्यान् जनान् सर्वानधिकारानुसारतः ।
कर्माङ्गभूतानन्यांश्च कल्याणं द्रष्टुमागतान् ।। 11.266 ।।
भर्क्ता भागवतांशैव सामान्यांश्चेप्सितैर्धनैः ।
अप्यल्पिकापि दातव्या दक्षिणा यागकर्मणि ।। 11.267 ।।
कर्मिर्भ्यो दक्षिणाहीनो निष्फलःकर्तुरब्जज ।
यज्ञःप्रत्युत कर्तॄणां प्रत्यवायाम कल्पते ।। 11.268 ।।
* उत्सवकारकस्य उपकुर्वाणानां च फलम्.*
तस्मादर्थानुगुण्येन दातव्या दक्षिणा भवेत् ।
श्रद्धया वासुदेवस्य साङ्गो पाङ्गं सदक्षिणम् ।। 11.269 ।।
उत्सवं देवदेवस्य यःकुर्यात्सकुलं स्वकम् ।
उत्तरयर्न स्वयं विष्णोस्सायुज्यं गच्छति द्रुवम् ।। 11.270 ।।
हयमेधसहस्रेण यजते यस्समाहितः ।
यश्चोत्सवेन यजते तयोस्तुल्यफलान्वयः ।। 11.271 ।।
यागानामपि सर्वेषां फलमुत्सव (74) कर्मणा ।
देवस्याश्नुवते सर्वं यष्टारो नास्तिसंशयः ।। 11.272 ।।
(74. कर्मणि.)
* राजराष्ट्रादीनामभ्युदयकथनम्.*
ुपकुर्वन्ति ये मर्त्यादेवस्योत्सव कर्मणि ।
कर्मणा मनसा वाचा तेऽपि यान्ति यथेप्सितम् ।। 11.273 ।।
ग्रामे वा नगरे वापि पत्तेने वा महोत्सवः ।
विष्णोः प्रवर्तते यत्र देशे राष्ट्रेऽपि वा भवेत् ।। 11.274 ।।
भयं न मृत्योर्सव्याधेर्न दुर्भिक्षादिसम्भवः ।
नस्यन्ति तस्करास्तत्र नाधर्मस्संप्रवर्तते ।। 11.275 ।।
धर्मयुक्तो भवेद्राजा जना धर्मपरायणाः ।
भवन्ति सुखिनस्सर्वे सर्वदुःखविवर्जिताः ।। 11.276 ।।
* सेवार्थिभ्यः पानीयादिदानस्य महाफलत्वम्.*
महोत्सवे वर्तमाने यतर्थिभ्यःप्रदीयते ।
पानीयमन्नं वस्त्रं वा तत्सवास्रगुणं भवेत् ।। 11.277 ।।
* उत्सवेऽधिकृतानां भगवत्प्रसादः.*
पुष्पमूलफलै रिज्या देवस्याभरणादिकैः ।
क्रियमाणा यथाशक्ति फलानन्त्याय कल्पते ।। 11.278 ।।
सेवस्ते तत्र ये देवमहर्निशमतन्त्रिताः ।
तेषामिदमियच्चेति फलं वक्तुं न शक्तते ।। 11.279 ।।
अलेपनं मार्जनं च रजःप्रशमनं तथा ।
वारिभिर्दीपिकारोपं क्ष्वेलनास्फोटनादिकम् ।। 11.280 ।।
कुर्वन्तिये ब्रह्मलोकं ते यान्त्यमरदुर्लभम् ।
यानं वहन्तिये विप्रास्ते यान्ति (75) ब्रह्मणःपदम् ।। 11.281 ।।
(75. परमं पदम्.)
रथं वहन्तिये (76) चाश्वास्तेऽपि यान्ति सुरालयम् ।
छत्रादिधारिणश्चापि मोदन्तेदिवि मानवाः ।। 11.282 ।।
(76. चान्ये तेZपि.)
देशिको मूर्तिपाश्चैत तथैव परिचारकाः ।
उत्सवेऽधिकृता विष्णोःप्राप्नुवन्ति यथेप्सितम् ।। 11.283 ।।
ऋचो यजूंषि सामानि ये तत्राधीयते जनाः ।
ते परे प्योम्नि देवस्य पार्श्वे (77) वर्तन्तिनिस्पृहाः ।। 11.284 ।।
(77. सर्तन्तीति श्रौतः प्रयोगः.)
* देवस्य कल्याणाराधनम्. सर्वक्षेमकरम्.*
सर्वशान्तिकरं सर्वदुःखोत्सादनमुत्तमम् ।
राज्ञो राष्ट्रस्य सुखदयायुरारोग्यवर्धनम् ।। 11.285 ।।
प्रजानां वासुदेवस्य कल्याणा राधनं महत् ।
इमं देवदयस्सर्वे विष्णोरुत्सवमुत्तमम् ।। 11.286 ।।
कृत्वा शाश्वतिकं स्थानं प्रापुरत्यन्तदुर्लभम् ।
* त्रिदिनै काहसाध्योत्सवयोर्विधेया विधयः.*
उत्सवे त्रिदिनै काहसाध्ये श्रद्धा प्रवर्तिते ।। 11.287 ।।
बलिप्रदानं समनोयजनं चाधिपासनम् ।
नवावामपि कुम्भानां तथा तीर्धावगाहनम् ।। 11.288 ।।
मृगया च जलद्रोणी वर्जनीयानि पद्मज ।
तावत्येवोत्सवदिने तीर्थान्ते ग्रामवीधिषु ।। 11.289 ।।
ब्रह्मादिदेवतास्सद्यस्समावाह्य बलिः क्षिपेत् ।
केनलोदनमग्नौ च होमो निश्यधिवासनम् ।। 11.290 ।।
स्नपनं विषुवाद्येषु नद्यादाववगाहनम् ।
पुष्पयागो जलद्रेणी मृगया च न युज्यते ।। 11.291 ।।
अन्यत्सर्वं यथापूर्वं कर्तव्यं फलकाज्ञ्क्षिभिः ।
इति गुह्यतमं ब्र्हमन्नुत्तमाराधनं परम् ।। 11.292 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायाम् चर्यापादे महोत्सव विधिर्नाम एकोदशोऽध्यायः.
------ ***** ------