प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३१ चर्यापादः
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
द्वात्रिंशोऽध्यायः.
----
* सुदर्शनमन्त्रकल्पः.*
ब्रह्मा :---
ऐहिकामुष्मिकं सर्वं मन्त्रं सौदर्शनं परम् ।
शुश्रूषोर्भगवन्नद्य रहस्यमपि पावनम् ।। 32.1 ।।
भक्ताय मह्यं दातव्यं प्रणताय यथातथम् ।
श्रीभगवान् :----
हन्त ते कथ यिष्यामि मन्त्रं सर्वार्थसाधनम् ।। 32.2 ।।
यथार्थनाम तेनायं नाख्येयो यस्य कस्य चित् ।
उद्गीथमुद्धरेत्पूर्वं चन्द्रमाद्यं नभोमणिम् ।। 32.3 ।।
(1) अत्रिं सितद्युतिं वह्निं गोपनं ज्वलनं मुखम् ।
(2) ऊष्माणमुदयं वीरं पुल्लाक्षं विष्णुमस्तकम् ।। 32.4 ।।
(1. अत्रिम्.)
(2. ऊष्मान्तमुदयं बिन्दुं.)
हृदयाह्लादमित्येव मन्त्रोद्धारश्चतुर्मुख ।
वह्निमादिमनुस्वारं बीजमुद्धृत्य कल्पयेत् ।। 32.5 ।।
षडङ्गमनुवर्णानामुद्धारः कथ्यते क्रमात् ।
अङ्गत्रयं चतुर्वक्त्र पूर्वमाविष्कृतं मया ।। 32.6 ।।
चतुर्थ्यन्तं चक्रपदमुद्गीथादि प्रयोजयेत् ।
अनन्तरं सूर्यपदं तद्विभक्ते च तत्पदम् ।। 32.7 ।।
पञ्चमं षष्ठमप्यङ्गं पदं तत्तद्विभक्तिकम् ।
उद्धार्यं च साहस्रादि ज्वालाधारादि पूर्वकम् ।। 32.8 ।।
एवमङ्गानि षड्ब्रह्मन्नुक्तानि गहनानि ते ।
अहिर्बुध्य्नोमनोर्द्रष्टा विराट्छन्दस्सुदर्शनः ।। 32.9 ।।
देवता मुनयश्चात्र प्रत्यक्षरमथाब्जज ।
व्यासः कण्वो नारदश्च वसिष्ठः परमो भृगुः ।। 32.10 ।।
अत्रिष्षडेते द्रष्टारश्छन्दांस्यक्षरशश्शृणु ।
उष्णिग्बृहत्यौ गायत्रं पङ्त्किश्च जगती विराट् ।। 32.11 ।।
वर्णाः कालाग्निवराणाभाः कालाश्चैवहिदेवताः ।
करयोर्न्यस्य तलयोरुभयोरक्षराणि षट् ।। 32.12 ।।
प्रथमान्तार्णशिष्टानामङ्गुष्ठादिषु पर्वसु ।
अङ्गुलीषु क्रमादेवमक्षरन्यास ईरितः ।। 32.13 ।।
देहे च मूर्ध्निचास्ये च हृदये गुह्यजानुनोः ।
पादयोर्न्यसनीयानि क्रमान्मन्त्राक्षराणि षट् ।। 32.14 ।।
श्रीसुदर्शनगायत्री मपरां न पराजिताम् ।
वक्ष्यामि तस्याश्चोद्धारः पदशः कथ्यतेऽधुना ।। 32.15 ।।
उद्गीथादि चतुर्थ्यन्तं सुदर्शनपदं ततः ।
वेत्तिं लुडन्तमपरं बह्वर्थं पद मिरयेत् ।। 32.16 ।।
महापूर्वं चक्रपदं तद्विभक्ति (3) र्विभूतिजम् ।
ध्यायन्ती पदमुच्चार्य पूर्ववत्तिङ्विभूषितम् ।। 32.17 ।।
(3. विभूषितम्.)
तत्पदं चास्मदादेशो नः पदं च द्विशीर्षकम् ।
प्रपूर्वं (4) चो दयान्तं च पदमित्युद्धरेन्मनुम् ।। 32.18 ।।
(4. च दयान्तं.)
अस्य बीजं तु पूर्वोक्तं वेदितव्यं चतुर्मुख ।
आशासु (5) दशसु स्थाप्य मन्त्रं तच्चक्रमुद्रया ।। 32.19 ।।
(5. दर्शनम्.)
तन्मध्येस्थितमात्मानमग्निज्वालापरीतवत् ।
* चक्रपङ्कजध्यानप्रकारः.*
ध्यायेत् क्षिततले शुद्धे सहस्रदलपङ्कजे ।। 32.20 ।।
कर्णिकायां चक्रधरं द्विभुजं वृत्तलोचनम् ।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ।। 32.21 ।।
महोदरं महाकायं जपाकुसमसन्निभम् ।
करण्डमुकुटोपेतं रक्ताम्बरविभूषितम् ।। 32.22 ।।
धारयन्तं शिखारत्ने चक्रमेकसमप्रभम् ।
नाभिनेमिसमायुक्तं ज्वालामण्डलदुस्सहम् ।। 32.23 ।।
ज्वलत् षडरसंयुक्तमयुतार्कसमप्रभम् ।
पद्ममेवं स्थितं धायेत्तन्नाभौ च सुविस्तृते ।। 32.24 ।।
चक्राभिमानिसं देवं द्विहस्तं पुरुषंस्थितम् ।
रक्ताम्बरधरं रक्तं रक्तचन्दनपङ्किलम् ।। 32.25 ।।
करण्डमुकुटोपेतं सर्वाकल्पपरिष्कृतम् ।
दंष्ट्राकरावदनं भ्रुकुटीकुटिलाननम् ।। 32.26 ।।
उद्गिरन्तं हुतवहं खरण्डैर्मारुतानुकम् ? ।
विष्फुलिङ्गान् दुर्विषहान्विसृजन्तमनेकशः ।। 32.27 ।।
कामरूप (6) सहस्रेभ्यः प्रलयाम्बदनिस्वनम् ।
तर्जनं वामतर्जन्या बिभ्राणं दक्षिणे करे ।। 32.28 ।।
(6. समूहेभ्यः.)
निपीडिताङ्गलिं शत्रुं प्रहरन्नि वभीषणम् ? ।
दहन्निव च नेत्राभ्यां पिबन्निव महोदधिम् ।। 32.29 ।।
ध्यात्वैवमर्चयेद्भोगैरर्घ्यादिभिरतन्द्रितः ।
सिद्धये मन्त्रराजस्य पुरश्चर्या यथोदिता ।। 32.30 ।।
देशे काले च मन्त्रस्य (7) रूपं सङ्ख्या च पूर्ववत् ।
* मन्त्रसाधननियमः.*
खाककन्दफलक्षीरसक्तुपिण्डान्न भक्षणः ।। 32.31 ।।
(7. जपसङ्ख्या.)
तोयैस्पर्पणमग्नौ च जुहुयात्समिदादिभिः ।
मन्द्रस्सिध्यति तस्यैवं कुर्वाणस्य यथाविधि ।। 32.32 ।।
सिद्धइं च सूचयत्यस्य स्वप्ने मङ्गलदर्शनम् ।
* शान्तिकपौष्टिकादिकर्मसु मन्त्रविनियोगविधिः.*
प्रयुञ्जीतततो मन्त्रं शान्तिकादिषु कर्मसु ।। 32.33 ।।
षोडशस्तम्भसंयुक्तं कल्पयेद्यागणमण्टपम् ।
स्थापयेत्तत्र विधिपत्कुम्भानां पञ्चविंशतिम् ।। 32.34 ।।
वेष्टितान् सूत्रवस्त्राद्यै र्धान्यराशिषु मङ्गलान् ।
एषु द्रव्याणि सङ्गृह्य न्यसेत्कमलसम्भव ।। 32.35 ।।
घृतमुष्णोदकं रत्नं फलदोक मनन्तरम् ।
लोहतोयं मर्जानाम्भो गन्धाम्भशाचक्षतोदकम् ।। 32.36 ।।
यपोदकं क्रमाधेषु कुम्भेषु नवसु क्षिपेत् ।
पाद्यं गुळोदकं चैव (8) दधि चेक्षुरसं तथा ।। 32.37 ।।
(8. मधु वेक्षु.)
अर्घ्यं च नालिकेराम्भः क्षीरं च तदनन्तरम् ।
सर्वौषधिबजलं तद्वदाचामं मङ्गलोदकम् ।। 32.38 ।।
मधुपूर्वं शान्तिवारि पञ्चगव्यमनन्तरम् ।
मूलोदकं (9) कषायाम्भः पुक्ष्पवारि चतुर्मुख ।। 32.39 ।।
(9. क्षालनाम्भः पुष्पन्दरि.)
द्रव्याण्ये तेषु कुम्भेषु बहिष्ठेषु विनिक्षिपेत् ।
प्रत्येकं शतकृत्वश्च मन्द्रेणै वाभिमन्त्रयेत् ।। 32.40 ।।
कुम्भे द्रव्याणि निक्षिप्य चक्रब्जं वर्तयेत्ततः ।
तन्मध्येमन्त्रराजेन यष्टव्यं तत्सुदर्शनम् ।। 32.41 ।।
कुण्डेवृत्तेच जुहुयात्समि (10) दन्नादिभिः क्रमात् ।
हुत्वा निशायां मानुना प्रभातेऽर्घ्यादिभिः क्रमात् ।। 32.42 ।।
(10. दन्नघृतादिभिः.)
अर्चयित्वा हेतिराजं हुत्वाग्नौ समिदादिभिः ।
भूर्जपत्रे लिखेच्चक्रं नाभिनेमिसमन्वितम् ।। 32.43 ।।
षडरं तत्र पूर्वादि (11) क्रमाच्चैव षडक्षरम् ।
लिखित्वच्छन्दसामादि तन्मध्यै साध्यनाम च ।। 32.44 ।।
(11. क्रमादेवम्.)
हेमसूच्यालिखेद्द्रव्यैर्मिश्रितैश्चन्दनादिभिः ।
चन्दनद्वयकाश्मिररोचनागुरु (12) मुख्यकैः ।। 32.45 ।।
(12. सम्मितौ । मुख्यद्रव्यै.)
गन्धद्रव्यैस्सुसंपिष्टैः पश्चात्तां भूर्जपत्रिकाम् ।
गुलिकां कारयेत्तां च शालितण्डुलराशिषु ।। 32.46 ।।
अधिवास्या (13) स्वहं कुम्भैस्स्नापयित्वा यथाविधि ।
बन्धयेत्तां मातुरङ्गेमन्द्रेणानेन मन्त्रवित् ।। 32.47 ।।
(13. तुरैः कुम्भैः स्थापयित्वा.)
गुलिकाबन्धनेनैव मुक्तोरोगादिभिर्नरः ।
तेजस्वी भवति क्षिप्रं त्वचा मुक्तो यथारगः ।। 32.48 ।।
ज्वलितस्य भवेच्छान्तिः प्रसूनैर्निम्बसम्भवैः ।
दूर्वाङ्कुरांश्चूतदलैस्सिक्तैर्मधुपयोघृतैः ।। 32.49 ।।
मनुना जुहुयादग्नौ सप्तरात्रमतन्त्रितः ।
प्रत्येहं दशसाहस्रसङ्ख्याया रोगिसन्निधौ ।। 32.50 ।।
अभिषिच्य तथा कुम्भै रोगिणं चक्रविद्यया ।
बध्वा च गुलिकां मन्त्रीमोचयेज्ज्वलितं ज्वरात् ।। 32.51 ।।
गोभूहिरण्यवस्त्राद्यैर्मन्त्रिणं तोषयेत्ततः ।
ब्राह्मणेभ्यो यथाशक्ति दद्याद्गोकम्बलादिकम् ।। 32.52 ।।
भूतग्रहि पिशाचादि (14) पीडितानां तथा नृणाम् ।
शान्तये जुहुयादग्नौ किंशुकोत्थैस्समिच्छतैः ।। 32.53 ।।
(14. गृहीतानां.)
त्रियहं त्रिसहस्रैश्च तेषां बध्वा शिखां ततः ।
गुग्गुलूत्थेन धूपेन धूपितान् गृहपीडितान् ।। 32.54 ।।
ताडयेन्मन्त्रजप्तेन दण्डेन लतयापि वा ।
पिशाचादिस्ततो ब्रूयान्मुञ्छामिति प्रपीडितः ।। 32.55 ।।
शपथं कारयित्वातु शिखाबन्धं च मोचयेत् ।
स्थापितैः कलशैः पश्चान्मन्त्रेण ग्रहपीडितम् ।। 32.56 ।।
स्नापयेद्बन्धयेच्छापि गुलिकामभिमन्त्रिताम् ।
ततो विमुच्य (15) तेरोगाच्छेतो वाग्भिरुपद्रवात् ।। 32.57 ।।
(15. गृह्णन्विचेतो वाभि रूपवान्.)
तेजस्वी शतमायुश्च भवेन्मन्त्रप्रभावतः ।
नारीच दुर्भगा चक्रधारणात्सुभगा भवेत् ।। 32.58 ।।
वन्ध्या च गर्भिणी सद्यस्सुप्रसूस्स्यादपप्रनूः ।
अनृतुस्स्यादृतुमती विमुखा सुमुखा भवेत् ।। 32.59 ।।
विरहे सङ्गता भर्ता भवेदचिरकालतः ।
स्त्रीप्रसूः पुंप्रसूतिश्च अन्तना स्तनमण्डिता ।। 32.60 ।।
कुमारपक्षिपीडादौ बालानां च यथोदितैः ।
विदिभिर्मुच्यते दुःखाल्लभते चायुरुत्तमम् ।। 32.61 ।।
* प्रासादादिषु ब्रह्मरक्षस्समुच्चाटनविधिः.*
प्रासादेपि नरेन्द्रस्य ब्रह्मरक्षोमुखैर्गृहैः ।
प्रवेशे सति तन्मध्ये कुम्भान् (16) रत्नसमन्वितान् ।। 32.62 ।।
(16. रक्त.)
स्थापयित्वा यथापूर्वं समिदाद्यैरतन्द्रितः ।
मन्त्रेण जुहुयान्मन्त्री द्वादशाहन् समाहितः ।। 32.63 ।।
प्रत्येकं दशसाहस्रसङ्ख्याया कमलासन ।
ताम्रपात्रे शिलायां वा चक्रमालिख्य तत्पुनः ।। 32.64 ।।
धान्यराशिषु संस्थाप्य निशायां प्रातरुत्थितः ।
प्रासादद्वारि निखनेद्दिक्षु चाष्टसु (17) मुद्रितम् ।। 32.65 ।।
(17. मन्त्रितम्.)
प्रोक्षयेत्कुम्भुतोयेन गृहं सर्वमशेषतः ।
(18) पलायन्ते ग्रहस्सर्वे दूरतस्सर्वतो मुखाः ।। 32.66 ।।
(18. उपासन्ते गृहास्सर्वे पुरतः.)
तद्रष्ट्रेपि न तिष्ठन्ति सर्वकालमसंशयम् ।
प्रासादवर्तिनस्सर्वे जीवन्ति निरुपद्रवाः ।। 32.67 ।।
धनधान्यसमृद्धिश्च यथा धनदवेस्मनि ।
* मूषिकादुर्निमित्तनिरावणविधिः.*
वस्त्रशय्यासानादीनां दंशने मूषिकादिभिः ।। 32.68 ।।
रक्तस्त्रीदर्शने वापि केशानां दहने तथा ।
अकस्मद्गोपुरादीनां (19) दहनेऽशनिपीडिते ।। 32.69 ।।
(19. भेदने.)
निशि शक्रधनुर्दर्शे निवाते चैत्यभूरुहः ।
भङ्गे वल्मीकजनने दुस्स्वप्नेऽन्यत्र तादृशे ।। 32.70 ।।
एवमादौ दुर्निमित्तै शान्तिमेतेन कारयेत् ।
यज्ञवृक्षसमिद्भिश्च होमः पूर्वोक्तसङ्ख्यया ।। 32.71 ।।
* पुष्टिविधिः.*
(20) कुर्याच्च शान्तिं पुष्ट्यादिकर्मणा कमलासन ।
* कर्मभेदेन कुण्डभेदविधिः.*
कथ्यन्ते तानि बहुधा नाभेदं यान्ति भेदतः ।। 32.72 ।।
(20. कुण्डानिशान्तिं पुष्पादि.)
सर्वाभ्युदयकर्माणि चतुरश्रेषु कारयेत् ।
पौष्टिकं पद्मकुण्डेषु शान्तिं वृत्ते सुखावहः ।। 32.73 ।।
त्रिकोणे मारणं कर्म कुण्डे चापाकृतौ पुनः ।
उच्चाटनं यक्षकन्यासाधने कोणपञ्चके ।। 32.74 ।।
षडश्रे स्तम्भनं कर्म सप्ताश्रे मोहनं भवेत् ।
विद्वेषणं नवाश्रेस्यादष्टाश्रे मारणं विधिम् ।। 32.75 ।।
एकादशाश्रे ब्रह्मादिवशीकरणमाचरेत् ।
कुण्डे दशाश्रे पश्यादि देवतातोषणोविधिः ।। 32.76 ।।
द्वादशाश्रेषु पुरुषं वैकुण्ठं द्रष्टुमाचरेत् ।
योन्याकारे विवाहार्थं (21) कन्यार्थं कमलासन ।। 32.77 ।।
(21. वश्यार्थं.)
चतुर्विंशत्यङ्गुले स्याद्विस्तारायामकल्पनम् ।
खातं तावद्भिरेव स्यात्कुण्डेषु नियतिं शृणु ।। 32.78 ।।
तदर्धं पादमथवा चतुरङ्गुलमेव वा ।
परितो द्व्यङ्गुलं हित्वा बहिस्तिस्रश्च वेदिकाः ।। 32.79 ।।
कार्यास्तासां च विस्तारश्चतुरङ्गुलसंमितः ।
तावत्ये पोन्नतिर्ब्रह्मन् कुण्डस्य धनुषः पुनः ।। 32.80 ।।
अङ्गुल्या नवतिष्षट्च ज्या च षट्त्रिंशदङ्गुला ।
शङ्कुं विधाय तन्मध्ये दशाङ्गुलसमायतम् ।। 32.81 ।।
भ्रामयेत्परितस्सूत्रं कुण्डं तद्वलयाकृतिम् ।
चतुरश्रस्य कुण्टस्य विभजेत्पञ्चधा भुजम् ।। 32.82 ।।
(22) द्वौ भागौ भुजमेकं चत्रिं शत्पञ्चाथवा पुनः ।
अङ्गुलीनां भवेदेषां त्रिकोणाङ्के भुजः स्मृतः ।। 32.83 ।।
(22. द्वौ भारौ.)
कुण्डे षडश्रे च भुजा अष्टाष्टैकादशाङ्गुलाः ।
एको भुजः पञ्चकोणे विंशत्यङ्गुलिसंमितः ।। 32.84 ।।
सप्ताश्रे च भूजायामो यवषट्काधिकः पुनः ।
तिस्रश्च दश चाङ्गुल्यः कुण्डे त्वष्टाश्रिभिर्युते ।। 32.85 ।।
द्व्यधिका दश वा भूमौ दशांगुल्यः प्रकीर्तिताः ।
अंगुल्योस्तु भुजायामो नलस्कन्दांश कीर्तितः ।। ? 32.86 ।।
(23) नावाश्रकुण्डेषु यवा पञ्चकोणे भुजायतिः ।
दश चाङ्गुलयः प्रोक्ता दशाश्रे च चतुर्मुख ।। 32.87 ।।
(23. नचाश्रकुण्डेषु यवा पञ्च एको.)
(24) यवाः पञ्च भुजायामो नव चाङ्गुलयः स्मृताः ।
एकादशाश्रेकुण्डे तु यवैरष्टाभिरन्वितः ।। 32.88 ।।
(24. नवाः.)
अष्टावङ्गुलयः कुण्डे द्वादशाश्रे भुजायतिः ।
अष्टादशांगुला फ्रोक्ता योनिकुण्डेषु चायतिः ।। 32.89 ।।
अष्टौ च चत्वारिंशच्च भवेदंगुलयोऽब्जज ।
गजोष्ठसन्निभा योनिर्यद्वाश्वत्थदलोपमा ।। 32.90 ।।
कुण्डा (25) न्युक्तान्यथेदानीं शान्त्यादिः प्रतिकल्प्यते ।
यत्कुण्डं यस्य कथितं शान्त्यादेस्तस्य तद्भवेत् ।। 32.91 ।।
(25. द्युक्ता यथेदानीम्.)
अश्ववारणशालासु चक्रयन्त्रं यथाविधि ।
लिखित्वा ताम्रदार्वादौ निशायामधिवासयेत् ।। 32.92 ।।
सहस्करृतः कर्तप्यो होमः (26) कुण्डे शुभे यतः ।
समिद्भिर्यज्ञ योग्याभिः स्थापयेत्कुम्भमर्चितम् ।। 32.93 ।।
(26. कुम्भे उभे-कुण्डे यथोदिते.)
अथ प्रभाते शालायां यन्त्रं खन्यान्महीतले ।
प्रोक्षयेत्कुम्भतोयेन गजानश्वान् पृथक्पृथक् ।। 32.94 ।।
सौदर्शनेन मन्त्रेण पुण्याहं पाचयेत्तथा ।
नश्यन्ति व्याधयस्तेषां गजाश्वानां चतुर्मुख ।। 32.95 ।।
बलं (27) स्यादधिकं तेषामिति सप्ताहमाचरेत् ।
ब्राह्मणेभ्यो धनं दद्या (28) द्यथाशक्ति च दक्षिणाम् ।। 32.96 ।।
(27. भवत्यधिकमिति सप्ताहं तु समाचरेत्.)
(28. दाचार्यय च.)
(29) ऊर्जस्वलमथो ब्रह्मन् गजाश्वंजायते भृशम् ।
तथा च प्रत्यहं होमस्स्यात्सुदर्शनविद्यया ।। 32.97 ।।
(29. मार्गस्थलमथो.)
इत्थं गोमहिषादीनां रक्षां कुर्वीत मन्द्रवित् ।
* पुररक्षाविधिः.*
पुररक्षामथब्रह्मन् प्रवक्ष्यामि यथातथम् ।। 32.98 ।।
स्तम्भैष्षोडशभिर्युक्तां दर्भमाला परिष्कृताम् ।
पुरमध्ये प्रपां कृत्वा जुहुयात्सर्पिषा पुनः ।। 32.99 ।।
पालाशीभिस्समिद्भिश्च दिनान्येकोनविंशतिः ।
दिक्ष्वाष्टासु तथा मध्ये पुरस्य कमलासन ।। 32.100 ।।
खन्यात्सौदर्शनं (30) यन्त्रं स्थापयेत्कुम्भमञ्जसा ।
तोयेन प्रोक्षयेद्विद्वान्नगरं चक्रविद्यया ।। 32.101 ।।
(30. मन्त्रं.)
ऋग्भिश्च पावमानीभिः प्रशस्तार्यथाक्रमम् ।
पुरद्वारेषु सौधेषु मण्टपेषु महीबृताम् ।। 32.102 ।।
सर्वत्र निखनेच्छक्रं जुहुया (31) त्समिदादिभिः ।
मरणव्याधिदुर्भिक्षज्वरादिव्याधयः पुनः ।। 32.103 ।।
(31. त्कमालादिना.)
नश्यन्ति बलवन्तश्च भवन्ति पुरवासिनः ।
ग्राममध्ये तथा दिक्षु विदिक्षु चतुरासन ।। 32.104 ।।
शृङ्गाटकेषु सर्वेषु निखनेदायुधा (32) धिपम् ।
गृहवेतालरक्षांसि व्याध (33) यश्चज्वरा दयः ।। 32.105 ।।
(32. दिभिः.)
(33. यो मकरादयः.)
न बाधन्ते पुरं ग्रममपस्मारादयस्तथा ।
न तस्करभयं किञ्छिदकालमरणं तथा ।। 32.106 ।।
पुरुषायुषवन्तस्स्युर्नरा धान्यधनान्विताः ।
सौभाग्यं कान्तिरारोग्यं तथा कुलविपर्धयः ।। 32.107 ।।
ब्रह्मवर्चस (34) मित्येतद्ब्राह्मणानां भविष्यति ।
पयस्विन्यो भविषन्ति गावः पीनपयोधराः ।। 32.108 ।।
(34. मन्यद्यत्.)
(35) तद्राष्ट्रेषु मनुष्याणां भद्रमेव भविष्यति ।
* पन्नगनिवारणम्.*
अथ वक्ष्यामि ते ब्रह्मन् पन्नगानां निवारणम् ।। 32.109 ।।
(35. तद्राष्टेपि.)
देवालये नदीतीरे नन्दनोपवनेषु वा ।
चतुस्तम्भसमायुक्तं चतुस्तोरणभूषितम् ।। 32.110 ।।
अभितो दर्भमालाभिश्शोभितं होम (36) मण्डलम् ।
कृत्वा तस्मि (37) न्नपां कुम्भान् स्थापयित्वा नवापरान् ।। 32.111 ।।
(36. मण्टपम्.)
(37. न्नवान्.)
प्राच्यां वेद्यां पुनः कुर्यात्कुण्डं पूर्वोक्तलक्षणम् ।
यजेदेतेषु कुम्भेषु नव (38) मूर्तिर्यजेत्क्रमात् ।। 32.112 ।।
(38. मूतीर्यथाक्रमम्.)
(39) निवेद्य पायसं तेभ्यः पश्चात्कुण्डे हुताशनम् ।
(40) आददीताथ ताम्रेण तालमात्रं भुजङ्गमम् ।। 32.113 ।।
(39. निवेद्यं पायसान्नं स्यात्.)
(40. आददीतं तथा.)
प्रकल्प्य शेषमन्त्रेण प्रतिष्टाप्य पितामह ।
तस्मिंश्चक्रं लिखेत्तस्य मध्ये मत्स्याकृतिं पुनः ।। 32.114 ।।
गरुडं शङ्खपालं च कृष्णमन्त्रं च वेष्टनम् ।
तन्नागयन्त्रं क्षीरेण घृतेन मधुनापि च ।। 32.115 ।।
दध्ना शकृद्रसेनापि स्नापयेच्चक्रविद्यया ।
पुष्पगन्धप्रदीपाद्यैरुपचारैस्तथापरैः ।। 32.116 ।।
इष्ट्वा नागं स्वमन्त्रेण चक्रं चक्रस्य विद्यया ।
कुण्डमध्ये पुनर्नागयन्त्रं खन्याद्विचक्षणः ।। 32.117 ।।
तस्य चोत्तानरूपस्य हुताश मुपरिस्थितम् ।
कृत्वा दध्ना घृतेनापि पयसा मधुनापि वा ।। 32.118 ।।
समिद्भिर्ब्रह्म वृक्षस्य जुहुयान्मन्त्रकोविदः ।
सहस्रकृत्वः प्रत्येकमथ गोपयसोक्षितैः ।। 32.119 ।।
(41) नीवारभागैस्सप्ताहं जुहुयादयुतैरपि ।
अपो नस्त्वितिमन्त्रेण जुहुयात्साधकोत्तमः ।। 32.120 ।।
(41. वानीरभङ्गैः.)
त्रिष्वहस्सु व्यतीतेषु पर्जन्यो मेघवाहनः ।
(42) द्वावयेदवनीं कृत्स्नां भूयोपि सलिलोदयैः ।। 32.121 ।।
* अतिवृष्टि प्रशमनम्.*
(42. प्लापये.)
अतिवृष्टि प्रशमनं प्रवक्ष्यामि चतुर्मुख ।
विङ्गलाकारमात्मानं ध्यात्वा (43) पियीषभावितम् ।। 32.122 ।।
(43. पि स्वकृतं तथा.)
शूलवज्र (44) धरं चापि मन्त्रवि (45) न्मन्त्रभूषणम् ।
तैलाज्यसिक्तै (46) र्जुहुयाल्लाजनर्षपलावणैः ।। 32.123 ।।
(44. करं चापि मन्त्रवित्कोपि भूषणः.)
(45. द्भूरिभूषयः.)
(46. मधु च राजसर्षपलानलैः.)
जुहुयाज्ज्वलिते वह्नावयुतं सप्तसागरात् ।
वृष्टिशब्दं पुरस्कृत्य स्तम्भयेति पदद्वयम् ।। 32.124 ।।
प्रयोक्तव्यमिदं ब्रह्मन्मन्त्रान्ते मन्द्रवेदिना ।
अथ शाम्यति सा वृष्टिर्महती चक्रविद्यया ।। 32.125 ।।
* राष्ट्रादीनां क्षोभशान्तिः.*
अथ राष्ट्रपुरादीनां क्षोभशान्तिं तथा शृणु ।
अक्षराष्ठगतं चक्रं प्रतिष्ठाप्य यथाविधि ।। 32.126 ।।
पुरे राष्ट्रे (47) तथा खन्यात्तत्काष्ठैर्जुहुयात्तथा ।
सहसा क्षोभमायान्ति वाजिवारणसंकुलम् ।। 32.127 ।।
(47. तथा चैव.)
राष्ट्रं च क्षुभितं ब्रह्मन्ननवस्थं भविष्यति ।
यति शान्तौ मतिं कुर्याच्चक्रमुद्वास्य तत्पुनः ।। 32.128 ।।
स्नापयेद्भगवन्तं च सहश्रकलशाम्बभिः ।
झडित्येव प्रशान्तं प्याद्दुरितं पुरराष्ट्रयोः ।। 32.129 ।।
* राष्टादिलम्भनम्.*
राष्ट्रादिलम्भनं तेऽद्य प्रवक्ष्यामि चतुर्मुख ।
उपेतं दलषट्कोणे कर्णिकाकेसरान्वितम् ।। 32.130 ।।
चक्राब्जं कारयेद्भूमौ मेध्यायां कमलासन ।
तद्बहिर्नाभिवलयं षडरं तद्भहिर्लिखेत् ।। 32.131 ।।
तद्बहिर्नेमिवलंय ज्वालामाला समन्वितम् ।
तद्बहिः कल्पयेत्पीठं चतुर्द्वार परिष्कृतम् ।। 32.132 ।।
(48) शोभोपशोभयुक्तं च कृत्वा मण्डलमिदृशम् ।
तस्मिन् सुदर्शनं ब्रह्मन् पूजयित्वा यथाविधि ।। 32.133 ।।
(48. भोगोप.)
समिद्भिरन्नै राङ्यैश्छ हुत्वा मन्त्रं प्रसीदतु ।
(49) शृङ्गे चक्रं देहराष्ट्रं देहराष्ट्रं तथा धनम् ।। 32.134 ।।
(49. मह्यं त्वङ्गे चक्रमेकं.)
इत्येतां (50) पावनीं गाधां जपान्ते प्रार्थयन्पठेत् ।
(51) अथ तस्य पुरं राष्ट्रं ग्रामं चक्रं प्रयच्छति ।। 32.135 ।।
(50. पावकीम्.)
(51. यदि तस्य.)
* प्रभ्रष्टराज्य प्राप्तिविधिः.*
अथ प्रभष्टराज्यानां (52) मनुजानां यथा श्रियः ।
तथा वक्ष्यामिते ब्रह्मन्नुवायं चक्रविद्यया ।। 32.136 ।।
(52. पुरा भूता.)
(53) अन्तस्थितस्य पद्मस्य (54) स्यात्पलाशचतुष्टयम् ।
(55) अथाष्टौ द्वादश ब्रह्मन् षोडशाथ चतुष्टयम् ।। 32.137 ।।
(53. अथ.)
(54. स्यात्पञ्चाशच्चतुष्टयम्.)
(55. तथा.)
विंशतिश्च तथा त्रिंशद्द्वौ क्रमेण बहिश्छदाः ।
इति षड्विध (56) पत्रस्य कर्णिकायां सुदर्शनम् ।। 32.138 ।।
(56. मन्त्रस्य.)
(57) येष्वथो षट्प्रकारेषु पलाशेषु यथाक्रमम् ।
मूर्तीश्चतस्रः प्रथमं तथाष्टौ द्व्यधिका दश ।। 32.139 ।।
(57. इष्ट्वाषत् यट्फ्रकारेषु.)
षोडशाथ सहस्रं च विंशतिश्च पितामह ।
अथ द्वात्रिंशतिं पश्चादन्तरालेषु (58) षट् स्वपि ।। 32.140 ।।
(58. सत्स्वपि.)
यथाक्रमं भूषणानि श्रीवत्सप्रभृतीन्यथ ।
अष्टौ शक्तीश्श्रिया सार्धं चक्रादिं होम (59) मण्डलम् ।। 32.141 ।।
(59. मण्टपम्.)
कवीन् सप्ताधिकान् पञ्च कुमुदादीननन्तरम् ।
इन्द्रादीनथ दिक्पालान् पूजयेन्मन्त्रकल्पवित् ।। 32.142 ।।
समिद्भिर्भिल्वरूपाभिस्तलैः पद्मैस्तथा घृतैः ।
सहस्रकृत्वः प्रत्येकं जुहुयाच्चक्रविद्यया ।। 32.143 ।।
इत्थं गते सप्तरात्रे प्रातरुत्थाय मन्त्रवित् ।
स्थापितैः पञ्चविंशत्या कुम्भैश्शालिकृतासनैः ।। 32.144 ।।
घृतादिपूरितैर्ब्रह्मन् चक्रविद्याभिमन्त्रितैः ।
राज्यभ्रष्टं (60) मन्त्रहीनं दन्युभिः परिपीडितम् ।। 32.145 ।।
(60. भाग्यहीनं.)
राजानं ब्राह्मणं वैश्यं तथान्यं दुरिताहतम् ।
अभिषिंचेत् स्मरन् चक्रं तन्मन्त्रेण विधानवित् ।। 32.146 ।।
तथा प्रकल्पयेत्यन्त्रं दापयेद्दक्षिणां गुरोः ।
इत्थं कृते चतुर्विक्त्रसौभाग्यं (61) राज्यलम्भनम् ।। 32.147 ।।
(61. राजलङ्घनं. राज्यलाभदम्.)
दस्युनाशो भवेद्भद्रं स्यात्सुदर्शनतेजसा ।
आदावन्ते तथा ब्रह्मन् (62) हंसमन्त्रवता पुनः ।। 32.148 ।।
(62. विश्व.)
नाशयेच्चक्रमन्त्रेण विषं स्थापरजङ्गमम् ।
* सङ्ग्रामविजयविधिः.*
अथ सङ्ग्रामविजयं वक्ष्यामि कमलासन ।। 32.149 ।।
कृपाणे तोरमे शक्तौ शरेषु वलये तथा ।
आयुधेषु तथान्येषु ललाटे वाजिहस्तिनाम् ।। 32.150 ।।
तथा द्वज (63) पठान्तेषु लिखित्वाचक्रमण्डलम् ।
प्रविश्य समरं भीमं रिपूणां रोमहर्षणम् ।। 32.151 ।।
(63. पताकेषु.)
हेषितेन तुरङ्गाणां बृह्मितेन विषाणिनाम् ।
हर्षनादेन योधानां रथनेमिस्वनैस्तथा ।। 32.152 ।।
तुरङ्गम खुरक्षुण्डैः पार्थिवैः पांसुमण्डलैः ।
तिरोहितनभस्सूर्यं कृतान्तसदनोपमम् ।। 32.153 ।।
(64) रुधिरास्राव संभ्रान्तं वेतालमिथुनोद्यतम् ।
मांससङ्ग्राह (65) णोड्डीनसहस्रश्येनसङ्कुलम् ।। 32.154 ।।
(64. रुधिरस्वमसं.)
(65. णासीन.)
ज्वालामालामयं चक्रं ध्यायन् जित्वा रिपूनपि ।
अक्षनागप्रहरणैर्निष्कृयेत्पृतनामुखम् ।। 32.155 ।।
अथ वा राज्यसीमासु शङ्कान् खदिरसम्भवान् ।
स्थापयेच्चक्रमेन्त्रेण हुतशिष्टघृतोक्षितान् ।। 32.156 ।।
अग्निप्रकाररूपस्तेन शक्यं प्रेक्षितुं परैः ।
प्रवेशे (66) कम्पनं ब्रह्मन् ब्रह्मविद्या प्रभावतः ।। 32.157 ।।
(66. किंपुनर्ब्रह्मन् चक्र.)
यत्र यत्र भयं पुंसां तत्र तत्राभयं भवेत् ।
चक्रमध्यस्तमात्मानं (67) ध्यायन्तं कुपितात्मनः ।। 32.158 ।।
(67. ध्यात्वान्तं.)
पर्वतारोहणेऽरण्ये सागरप्लवनादिषु ।
व्याघ्रसिंहवराहादि सन्निपातैः खिले पथि ।। 32.159 ।।
गच्छन्न (68) भयमाप्नोति चक्रमन्त्रमिमं जपन् ।
तं नच्छिन्दन्ति शस्त्राणि न तं दहति पापकः ।। 32.160 ।।
(68. यमवा.)
न चैनं क्लेदयन्त्यापो यस्यैष हृदये मनुः ।
ब्राह्मणक्षत्रवैश्यानां शूद्राणां कमलासन ।। 32.161 ।।
प्रतिलोमानुलोमानां कुर्यात्सं (69) वनसं पुनः ।
समिद्भिर्ब्रह्मवृक्षाणामश्वत्थवटवृक्षयोः ।। 32.162 ।।
(69. वननाम्बुज. वलनं पुनः.)
प्लक्षोदुम्बरजातीना (70) मपवर्गस्य पापके ।
होमं कुर्याद्यथासङ्ख्यं तथा तज्जातियोषिताम् ।। 32.163 ।।
(70. मापामार्गस्य.)
ब्राह्मणश्श्रियमाप्नोति होमेन श्वेतपङ्कजैः ।
रक्तपद्मैर्नरेन्द्रस्य वैश्यस्य श्वेतपाटलैः ।। 32.164 ।।
श्रीफलैराहुतिं कुर्वन् राष्ट्रस्याधिपतिर्भवेत् ।
अङ्गेन न्यस्तमन्त्रेण यां स्पृशेदङ्गनां नरः ।। 32.165 ।।
तस्य सा वशमायाति मृतं चाप्यनुगच्छति ।
* अपमृत्युनिवारणम्.*
अपमृत्युजयं वक्ष्ये यथातदवधारय ।। 32.166 ।।
होमशालागते कुण्डे सम्य (71) गाधाय पङ्कजम् ।
तस्मिन्नावाह्य (72) देवेशं दूर्वाकाण्डैर्यथोक्षितैः ।। 32.167 ।।
(71. गारा द्यपावकम्.)
(72. हेतीशं.)
जुहुयात्कोटिभिर्मन्त्रैर्यथाशक्त्यथवा पुनः ।
इति मासद्वयं रक्षेत्पावकं नियतेन्ध्रियः ।। 32.168 ।।
होमान्ते यदि भूपालस्तुलारोहणमाचरेत् ।
अन्यश्चेदात्मनोयत्स्वं दद्याद्ब्राह्मणसात्प्रति ।। 32.169 ।।
कलशैः पञ्चविंशत्या (73) स्नापयेच्चक्रविद्यया ।
एवं कृते चतुर्वक्त्र कालमृत्युं जयेन्नरः ।। 32.170 ।।
(73. स्थाप.)
अपमृत्युः कथं तस्य तज्जये नास्ति संशयः।
अथवा कालमृत्योश्च जयो पायोऽपगम्यताम् ।। 32.171 ।।
निष्टैस्सहस्रसङ्ख्यातैः प्रतिकृत्य पितामह ।
द्विभुजं पुरुषाकारं भ्रुकुटीकुटिलेक्षणम् ।। 32.172 ।।
दंष्ट्राकरालवदनं वराहरुधिरेक्षणम् ।
यष्टिं करेण सव्येन पाशं वामेन बिभ्रतम् ।। 32.173 ।।
प्रक्षाल्य पञ्चभिर्गवैः पञ्चोपनिषदा तथा ।
नवकैरभिषिच्याथ धान्यराशिषु निक्षिपेत् ।। 32.174 ।।
आवाह्य पश्चाद्व्याहृत्या पूजयित्वास्वनामभिः ।
होममग्नौ प्रकुर्वीत समिच्चरुघृतैरपि ।। 32.175 ।।
ऋग्भिः कृता न्तलिङ्गाभिर्ब्रह्मन् व्याहृतिभि स्तथा ।
ततः प्रभाते विप्राय तं पुमांसं हिरण्मयम् ।। 32.176 ।।
पूताय भगवद्भक्त्या पञ्चकालानुवर्तिने ।
दापयेत्काल (74) मृत्युं च जित्वास्यात्प्रायषं पदम् ।। 32.177 ।।
(74. मृत्युं वासजित्वा स्यायुषम्. इत्यस्ति.)
* मारणविधिः.*
अथ मारणमेतर्हि श्रूयितां चतुरासन ।
विविक्ते कल्पयेद्देशे होमशालां विधानवित् ।। 32.178 ।।
तन्मध्ये कल्पयेत्कुण्टचार्यो दक्षिमाणामुखः ।
गृहीत्वाक्षस्य फलकां हस्तद्वयसमायताम् ।। 32.179 ।।
तदर्धविस्त्रृतां ब्रह्मन् घनं च चतुरङ्गलम् ।
तस्या लिखित्वा द्वेष्यस्य वपुः प्रत्यक्षसंमितम् ।। 32.180 ।।
प्रतिकूलेऽथ नक्षत्रे रिपोरष्टमराशिषु ।
कृष्णपक्षे विशेषेण प्रकुर्यान्मरणक्रियाम् ।। 32.181 ।।
प्राच्यां भागेऽथ कुण्डस्य षडरं चक्रमालिखेत् ।
कृष्णसूत्रेरलङ्कृत्य तस्मिन् चक्रं प्रतिष्ठितम् ।। 32.182 ।।
कृष्णगन्धैः कृष्णपुष्पैः पूजयेत् कृष्णवारिभिः ।
(75) श्मशानाद्वा सुनिलयाद्वल्मीकान्मृदमाहरेत् ।। 32.183 ।।
(75. श्मशानादौ.)
तां रिपोः पादधूलीभिर्व्यामिश्रां कमलासन ।
उन्मत्तरसमिश्रेण खरमूत्रेण पेषयेत् ।। 32.184 ।।
विष्ठया वा मृदा वापि द्वेष्यस्य प्रतियातनाम् ।
तस्यां प्राणान् प्रतिष्ठाप्य मन्त्रेणानेन मन्त्रवित् ।। 32.185 ।।
उद्गीथमप्रमेयं च मन्दरं भुवनं तथा ।
क्रोधानिलौ पश्चिमास्यं हुताशं मधुसूदनम् ।। 32.186 ।।
प्रचण्डगोपनौ रामं भास्करं पश्चिमाननम् ।
नमध्यं गोपनद्वन्द्वममुष्येति पदं पुनः ।। 32.187 ।।
जीवा इह स्थिता शब्दं विष्णुदक्षोदयां स्तथा ।
क्रोधरूपं (76) तपस्यन्तं सर्वशब्दमनन्तरम् ।। 32.188 ।।
(76. नभस्वन्तं.)
विक्रमं विघ्नराजात्रिवह्नि बन्धू च गोपनम् ।
वनमालाधरं रामं पाङ्मनः काय इत्यपि ।। 32.189 ।।
(77) अथ माया तृतीयान्तं लोडन्तं (78) यानि यन्मुखम् ।
स्वाहावसानमुद्धृत्य प्रणवान्तानिकं ? मनुम् ।। 32.190 ।।
(77. प्रथमायां.)
(78. धान्यवान्मुखम्.)
तां च प्राणवतीं कुण्डे खन्यामत्तानशायिनीम् ।
फलकास्थितमाकामनु (79) लिप्य पातामह ।। 32.191 ।।
(79. लिख्य.)
पूर्वोक्तया मृदा पश्चात्प्राणिनं प्राणविद्यया ।
पादेनाक्रान्तहृदयो रोषलोहितलोचनः ।। 32.192 ।।
सहस्रकृत्वश्चक्रस्य मन्त्रं भाषेत मन्त्रवित् ।
(80) वृषवृक्षप्ररूढेन शङ्कुना नेत्रयोर्हृदि ।। 32.193 ।।
(80. अक्षवृक्ष-अथवा-विषवृक्ष-इति स्यात्किम्.)
हस्तयोः पादयोर्गुह्येश्रोत्रयोर्नासिकोदरे ।
अन्येष्वपि प्रतीकेषु (81) वधं कुर्याद्विचक्षणः ।। 32.194 ।।
(81. वेधं.)
तथा कृते रिपो स्ततद्गात्रं हीनं भविष्यति ।
अथ कुण्डेश्मशानाग्निं निदधीत पितामह ।। 32.195 ।।
दर्भैः परिस्तरे द्वेद्वां दक्षिणापश्चिमोन्मुखान् ।
परिधिं तद्वदाकीर्य कृत्वा राक्षां तथात्मनः ।। 32.196 ।।
ऋत्विग्भिष्षोडशोद्दिष्टैर्द्वारेष्वध्ययने कृते ।
ब्राह्मणेभ्यो धनं दत्वा हेतिराजमनुस्मरन् ।। 32.197 ।।
अक्षकाष्ठप्रक्लृप्ताभ्यां स्रुक्स्रुवाभ्यां यथाविधि ।
कृष्णपन्नगराजीव कृष्णोतु क्षतजोक्षितैः ।। 32.198 ।।
मरीचैस्सर्षपै (82) र्युक्तानष्टधान्याष्टधान्वितान् ।
समिधोऽक्षस्य जुहुयात्सहस्रं प्रतिवासरम् ।। 32.199 ।।
(82. र्मिश्रैस्तथान्यैश्चौषधान्वितैः.)
रिपुनक्षत्र वृक्षाणां समिधश्छापि मन्त्रवित् ।
मन्त्रान्ते शत्रुनामानं मारयेति प्रकीर्तयेत् ।। 32.200 ।।
(83) होतव्यं चावमानेन होमं कृत्वा दिने दिने ।
यावद्भवति कृत्याया दर्शनं जातवेदसि ।। 32.201 ।।
(83. होतव्यश्च प्रमाणेन.)
क्रमेणतावज्जु हुयाद्वासरावेकविंशतिम् ।
फलकामपि वेदस्थां होमधूपेन धूपयेत् ।। 32.202 ।।
अगुरुं गुग्गुलं चापि धूपार्थ मनले दहेत् ।
अथ सप्तस्वतीतेषु दिवसेषु पितामह ।। 32.203 ।।
सप्तस्वहस्सु मध्ये च यथाक्रमनुमि ज्वराः ।
आक्रोशो वेदना तीव्रा गात्राणामविधेयता ।। 32.204 ।।
हिक्का निश्वासविच्छेदो जिह्वाहानिस्तथारिपोः ।
भवन्तिहि प्रभावेन चक्रमन्त्रस्य निश्चितम् ।। 32.205 ।।
इति द्विसप्तकेऽतीते दिवसेऽनन्तरे पुनः ।
मध्यरेत्रे कृते होमे (84) कृत्या तस्माद्विभावसोः ।। 32.206 ।।
(84. कृत्यां तस्या.)
त्रिशूलभीषणैर्हस्तै (85) स्सप्तभिस्त्रिभिरङ्घ्रिभिः ।
जिह्वया रक्तवर्षिण्या लेलिहाना निजं मुखम् ।। 32.207 ।।
(85. स्सन्दर्शितशरादिभिः.)
उद्गिरन्ती स्वनेत्राभ्यामाज्वसिक्तं हविर्भुजम् ।
नरास्थिमालां बिभ्राणा (86) पुरीतत्कतमेखला ।। 32.208 ।।
(86. नूपुरीकृतमेखला.)
कपोलकुण्डलोपेता प्रहसन्ती भयानकम् ।
दण्डं घण्टां तथा शूर्पं मार्जनीं पाशमण्डलम् ।। 32.209 ।।
बिभ्रती लम्बमानाभ्यां (87) हस्ताभ्यां मुक्तमूर्धजा ।
अधिरूढापरस्कन्धमन्धकारनिभाकृतिः ।। 32.210 ।।
(87. स्तनाभ्यां.)
स्फुलिङ्गमण्डलस्थेव विमुक्ताटोपभीषणा ।
उत्थाय प्राञ्जलिर्भूत्वा किंकरोमिति भाषते ।। 32. 211 ।।
अभिधास्यत्यथाचार्यः प्राणान् हर रिपोरिति ।
आदिष्टा सा तथेत्युक्त्वा रिपुं तस्य महात्मनः ।। 32.212 ।।
अपि दूरस्थितं हत्वा गुरुं पुनरुपैष्यति ।
अथ (88) पूर्णाहुंतिं हुत्वा होतृभिस्सह मन्त्रवित् ।। 32.213 ।।
(88. पूर्व.)
(89) द्वाविंशे दिवसेलक्षं षडक्षरमिमं जपेत् ।
तथापराजितं मन्त्रं नारसिह्ममनुं तथा ।। 32.214 ।।
(89. द्वादशे.)
घृतादिपूरितैः कुम्भैर्विंशत्या पञ्चभिः पुनः ।
आत्माभिषेकं (90) कुर्वीत चक्रमन्त्राभिमन्त्रितैः ।। 32.215 ।।
(90. कुर्वन्ति.)
एनसो मुच्यते (91) तस्मात्तथा शान्तिर्भविष्यति ।
* उच्चाटनम्.*
उच्चाटनं प्रवक्ष्यामि यथावत्कमलासन ।। 32.216 ।।
निम्बदुत्तूरप्रत्राणां श्मशानाङ्गारमिश्रितैः ।
रसैरक्षस्य (92) काष्ठेन द्विहस्ते प्रेतवाससि ।। 32.217 ।।
(92. कामेन द्विहस्ते व्रत.)
षट्कोणे नाभिनेम्यज्के मण्डले क्रमशोलिखेत् ।
नामधेयं रिपोरन्तः (93) प्रोच्ययामे थ पश्चिमे ।। 32.218 ।।
(93. प्राच्ये याम्येथ पश्चिमे । ककारं भवनं ब्रह्मन्नीकार भवनं पुनः.)
यकारं भुवनं ब्रह्मन् झकारं (94) भुवनं तथा ।
शिष्टेषु त्रिषु कोणेषु (95) तथोष्टे मण्डलादयः ।। 32.219 ।।
(94. भवनम्.)
(95. सर्वकोशेष्वपि अशुद्धिः.)
तदारूढं रिपुं चापि कुणअडे चापाकृतौ पुनः ।
समिद्भिर्निंबवृक्षस्य तथा च विषभूरुहः ।। 32.220 ।।
जुहुयादभितो वह्नावमृतं प्लोषयन् रिपुम् ।
यत्र ध्वजं तं बध्नी यादुच्छ्रिते चैत्यपादपे ।। 32.221 ।।
अहोभिरेकविंशत्या रिपुस्तस्य महानपि ।
अधिष्टानं निजं हित्वा भार्यापुत्रादिभिस्सह ।। 32.222 ।।
पलायते दिगन्तेषु न क्वचिल्लभते स्थितिम् ।
* विद्वेषणम्.*
अथ विद्वेषणं ब्रह्मन् यथावदवधारय ।। 32.223 ।।
अक्षपादपकाष्ठेन स्निग्धयोराकृतिद्वयोः ।
कृत्वा तयोर्लिखेन्मन्त्रं नामधेयं तयोरपि ।। 32.224 ।।
विद्वेषय पदोपेत (96) मसृजाध्याङ्क्ष कारयोः ।
आखुमार्जारयोर्ब्रह्मन् तथा सर्वमयूरयोः ।। 32.225 ।।
(96. मसृजा ध्वांक्षतारयोः.)
तथान्येषां विरुद्धानां तिरश्चां पक्षिणामपि ।
निब (97) ध्य रज्जुमायामां मूर्धजैर्महिषाश्वयोः ।। 32.226 ।।
(97. ध्यारज्जु मायाया.)
तथा ते अकृती बध्वा (98) व्यस्तयोस्तुकृतं मुखम् ।
(99) अपिदध्यात्तयोरास्यं जपेन्मन्त्रं षडक्षरम् ।। 32.227 ।।
(98. व्यत्यस्तंयोः कृता मुखी-वास्तधोस्तु कृतामुखी ।)
(99. कृते खन्या - अथ खन्या.)
कुण्डे च होमं कुर्वीत समिद्भि (100) र्मृत्युबन्धयोः ।
अष्टोत्तरसहस्रेण (101) हुयादग्नौ सुदर्शनम् ।। 32.228 ।।
(100. र्मृणबालयोः.)
(101. ध्यायन्न.)
युध्येत स्निग्धयोर्द्वन्द्वं काकोलूकादिसंमितम् ।
इत्थं दश स्वतीतेषु दिवसेषु स मन्त्रवित् ।। 32.229 ।।
अपाकृष्यति दम्पत्यो (102) ममत्वं मित्रयोरपि ।
(103) क्षीरैस्नायात्तयोर्भूयः प्रीतर्भवति पूर्ववत् ।। 32.230 ।।
(102. ममृत्यं.)
(103. क्षीरस्नानात्.)
* स्तम्भनम्.*
अथाभिधीयते ब्रह्मन् स्तम्भनं तं निशम्यताम् ।
शिलातले लिखित्वाथ चतुष्कोण चतुष्टयम् ।। 32.231 ।।
तेषु प्रत्येकमालिख्य (104) पत्रैर्दिव्यैः पितामह ।
गृहं वामनमन्त्रं (105) तमिन्दुकान्तचतुष्टयम् ।। 32.232 ।।
(104. प्रीतै.)
(105. तमिंद्र.)
वज्राङ्कमपि पुष्पैस्तत्पूजयेत्कनकप्रभम् ।
स्थापयित्वा (106) स्थण्डिलेऽस्मिन्नासित्वा मन्त्रमिरयेत् ।। 32.233 ।।
(106. तले तस्मिन्.)
स्तम्भयेति पदं चापि जुहुयादर्कखण्डिकाः ।
(107) स्तम्भनं स्यात् झडित्येवं विवाहे गर्भलाभके ।। 32.234 ।।
(107. स्तम्भनस्य झडित्येव.)
वादजल्पवितण्डासु कथास्वपि च वादिनाम् ।
वक्ष्यामि (108) स्खलनं ब्रह्मन् लिखित्वा प्रतियातनाम् ।। 32.235 ।।
(108. तिलकं.)
(109) द्वेष्यस्यालयवैस्तल्या गोमयाङ्गारमिश्रितैः ।
तदङ्गेषु लिखेन्मन्त्रं तद्बीजेन समन्वितम् ।। 32.236 ।।
(109. द्वेष्यस्य वयमेवस्तु भिक्षागोमय कुम्भकैः। तदनैषु.)
अथ स्याच्छक्तिहीनं तु (110) मतिद्वेषस्य देहिनः ।
अथ ते ताडनं वक्ष्ये (111) दुत्तूरहयमारयोः ।। 32.237 ।।
(110. मयि द्वेष्यस्य.)
(111. दुर्धूरं भय.)
अर्कस्य च रसे ब्रह्मन् श्मशानाङ्गारमिश्रितैः ।
ळिखेत्प्रतिकृतिं बिल्व काष्ठे प्रेतस्य वासनि ।। 32.238 ।।
सङ्खकीलमथाधाय चतुरङ्गुलसंमितम् ।
अङ्गानि ताडये त्तस्य तेन कीलेन मन्त्रवित् ।। 32.239 ।।
षडक्षरस्य कुर्वीत नित्यं जप मतन्द्रितः ।
धनादिहानिस्तस्य स्यान्न्यस्ते द्वेष्टि स मन्त्रवित् ।। 32.240 ।।
* वशीकारः.*
वशीकारमहं ब्रह्मन् भूपतीनां ब्रवीमिते ।
(112) कुष्ठकुङ्गुमसिद्धार्धकर्पूरागुरुचन्दनैः ।। 32.241 ।।
(112. कुष्ठं च कुङ्गुमं लोध्रं.)
गोरोचनान्वितैश्चापि कुसुम्भरजसा सह ।
भूर्जपत्रे ळिखेच्चक्रं षडरेषु षडक्षरम् ।। 32.242 ।।
तद्बहिर्द्वादशारं च नाभिनेमिसमन्वितम् ।
द्वादशाक्षरमालिख्य द्वादशारं ततो बहिः ।। 32.243 ।।
अष्टाक्षरेण मन्त्रेण हंसमन्त्रेण चान्वितम् ।
तद्बहिर्द्वादशज्वालं पाशाङ्कुशमनुद्वयम् ।। 32.244 ।।
साध्यस्य नामधेयेन प्रणवेनान्तराङ्कितम् ।
आभिष्षोडशभिर्ब्रह्मन् विदर्भितमनन्तरम् ।। 32.245 ।।
तदेतद्गुलिकां कृत्वा पद्मसूत्रेण वेष्टिताम् ।
चक्राब्जे वा सितां कृत्वा पूजितां कुसुमादिभिः ।। 32.246 ।।
होमं पद्माकृतौकुण्डेकृत्वा कुसुमसर्पिषा ।
द्वादशाहानिकृत्वैवं (113) मङ्गाल्यादीनि साधयेत् ।। 32.247 ।।
(113. मङ्गलादिषु.)
राजदयो मुखं तस्य प्रेक्षन्तेविवशा इव ।
तस्य दूरात्पलायन्ते कूश्माण्डप्रमुखा ग्रहाः ।। 32.248 ।।
* पातालसाधनम्.*
रसादल प्रवेशं ते कथयामि चतुर्मुख ।
बिल्वदारुं समासाद्य कुसुम्भरजसा सुधीः ।। 32.249 ।।
लिखित्वा षडरं चक्रं बहिस्तस्याथ मन्त्रवित् ।
(114) यथोपदेशं पातालं पन्नगासुरसङ्कुलम् ।। 32.250 ।।
(114. यथोद्देशं च.)
लिखेत्कृत्वा पुनः कुण्डं तस्मिन्नाधाय पावकम् ।
जुहुयान्न रमांसेन जपेन्मन्त्रं च सर्वशः ।। 32.251 ।।
द्वादशाहेन ते पश्चात्पापालतलसंश्रयाः ।
उपस्थास्यन्ति तं भीता युवत्यः कामपीडिताः ।। 32.252 ।।
तं ग्रहिष्यन्ति भर्तारमहं पुर्वं शुचिस्मिताः ।
पाणिभिर्लोलवलयैः कामयानाः प्रियंवदाः ।। 32.253 ।।
रसायनादि दास्यन्ति तस्मै पातालवर्तिने ।
(115) तद्भक्षणेन दीर्घायुस्ताभिस्सह यथेप्सितम् ।। 32.254 ।।
(115. ततः प्रभावात्.)
रंस्यते रम्यदेशेषु यत्र वा जायते रुचिः ।
* खड्गसिद्धिः.*
खड्गस्य साधनं ब्रह्मन्निदानीं कथयामिते ।। 32.255 ।।
अश्वत्थपत्रा न्तरितं खड्गं शास्त्रोक्तलक्षणम् ।
(116) स्पृष्ट्वा षडक्षरं मन्त्रं जपेद्ध्यात्वा सुदर्शनम् ।। 32.256 ।।
(116. दृष्ट्वा.)
अथ खड्गस्य तापस्यात्सयक्ष्यादीनि जेष्यते ।
तस्मिन् धूमायमाने तु गन्धर्वाधिपतिर्भवेत् ।। 32.257 ।।
तस्मिन् ज्वालामुखे ब्रह्मन् विद्याधरपतिर्भवेत् ।
गृहीत्वा तं पुनः खड्गं यथेष्टं लोकमाप्नुयात् ।। 32.258 ।।
* परकायप्रवेशः.*
गोमयेनोपलिप्तेऽथ शून्यागारे पितामह ।
चक्रं लिखित्वा सुमनास्सितपुष्पौरलंकृतम् ।। 32.259 ।।
(117) व्रणहीनं शवं तस्मिन् ब्राह्मणस्य नृपस्य वा ।
प्राचीन शिरसं कृत्वा माहिषेन घृतेन तम् ।। 32.260 ।।
(117. प्राणहीनं.)
पादयोर्मन्त्रविल्लिम्पेदसहायोऽप्रमत्तधीः ।
तद्वक्षसि पदं कृत्वा मन्त्रराजमिदं जपेत् ।। 32.261 ।।
प्रत्यहं जुहुयादग्नौ समिद्भि (118) र्वेत्रभूरुहः ।
कृते सङ्ख्यं ? जपेन्मन्त्रं (119) जनहोमैः पितामह ।। 32.262 ।।
(118. र्नेत्र.)
(119. तत्तद्धोमैः.)
उत्थास्यति शवः प्राणी निशीथे कल्पिताञ्जलिः ।
सतस्मै मन्द्रसिद्धाय वक्ति दिव्यं रसायनम् ।। 32.263 ।।
पादुकामञ्जनं खड्गं प्रदास्यति यथेप्सितम् ।
यदिदं तेन खड्गेन हत्वा (120) श्नीयात्तदामिषम् ।। 32.264 ।।
(120. नीया.)
त्रैलोक्य (121) विषयं ज्ञानं लप्स्यते चतुरासन ।
वलीपलितहीनत्वममरत्वं च सेत्स्यति ।। 32.265 ।।
(121. विजयं.)
निधानान्यपि गूढानि प्रत्यक्षमिव पश्यति ।
* रससिद्धिः.*
रसं विमृज्य पाषाणे लिखेच्चक्रं षडक्षरम् ।। 32.266 ।।
रसं निधाय मूषायां बध्वाद्रव्यैर्यथोचितैः ।
कृत्वाभिमन्त्रित्रंब्रह्मन् चक्रमन्त्रेण कल्पवित् ।। 32.267 ।।
उपयुञ्जीत मेधावी जपेच्चापि षडक्षरम् ।
आरोग्यं बलमैश्वर्यं कालमृत्युव्यतिक्रमम् ।। 32.268 ।।
वाग्मित्वं बुद्धिमत्वं च रूपसंवननं वयः ।
सभस्थले गतिश्चापि साक्षादिव गरुत्मतः ।। 32.269 ।।
इत्यादयो गुणास्तस्य भविष्यन्तिन संशयः ।
* पादुकासिद्धिः.*
यथा न पादखेदस्स्याद्दूरं गत्वापि तच्छ्रुणु ।। 32.270 ।।
काकजङ्घामुपादाय कोकिलेक्षणसंहिताम् ।
बलां (122) मोटारसैस्तेषां सऱपुङ्खरसान्वितैः ।। 32.271 ।।
(122. मोटां.)
(123) सर्षपस्नेहंसमिश्रैश्चक्रमान्त्राभिमन्त्रितैः ।
(124) लिप्त्वा पादयुतं चक्रं कृत्वारण्यमहापथे ।। 32.272 ।।
(123. सहस्रस्तेन.)
(124. लिप्तपादयुतं चक्रं गत्वारणमहापथम्.)
योजनानां सहस्रे द्वे न खेदं समवाप्नुयात् ।
* यक्षीसाधनम्.*
यक्षीसिद्धिं प्रवक्ष्यामि तां लिखेत् क्षौम (125) पाससि ।। 32.273 ।।
(125. वाससीम्.)
न्य ग्रोधमाले तां (126) ध्यात्वा यक्षीविद्यां जपेद्बधः ।
आराध्य गुग्गुलूत्थेन धूपेन कमलासन ।। 32.274 ।।
(126. स्नात्वा.)
समिद्भिर्वटवृक्षस्य तथाशोक करञ्जयोः ।
रक्तपद्मैस्तिलैश्चापि जुहुयाज्जातवेदसि ।। 32.275 ।।
एकविंशति रात्रान्ते कम्पते स वटो मुहुः ।
दृढबुद्धिः पुनश्चापि मन्त्रमेवं जपेद्बुधः ।। 32.276 ।।
अथ प्रत्यक्षरूपा सा यक्षी कल्याणलक्षणा ।
स्निग्धेव जननी सिद्धिं (127) तस्मै दत्वा यथेप्सिताम् ।। 32.277 ।।
(127. रक्षेद्दत्वा.)
अमुनैव विधानेन यक्षा वैश्रवणादयः ।
प्रत्यक्षभूता दास्यन्ति साधकेन वृतं (128) वरं ।। 32.278 ।।
(128. वृतम्.)
यथा यथाऽधिको होमो जपे वा कमलोद्भव ।
अमुष्य चक्रमन्त्रस्य पञ्चकोटिर्यथोत्तरम् ।। 32.279 ।।
तथा तथा (129) पदान्येता न्यवधूयेत किल्बिषम् ।
आदित्यानां सशाङ्कस्य वसूनां मरुतामपि ।। 32.280 ।।
(129. वदान्येतान्यावेद्याविह.)
अश्विनोर्वासवस्यापि मन्वादीनां तपस्विनाम् ।
रुद्राणां ब्रह्मणश्चापि चक्रमन्त्रस्य वैभाव्त ।। 32.281 ।।
सहस्र कोटिसङ्ख्येन होमेन च जपेन च ।
तपसा चातितीव्रेण लभते वैष्णवं पदम् ।। 32.282 ।।
किं भूयसा प्रलापेन यत्रेष्टं यद्भविष्यति ।
स तेन तेन लभते पापे भ्योपि प्रमुच्यते ।। 32.283 ।।
इत्येतत्कथितो ब्रह्मन् षडक्षरमहामनोः ।
(130) कलास्संग्रहरूपेण रहस्यस्सर्वसिद्धिदः ।। 32.284 ।।
(130. कारस्संग्रह.)
इति श्रीपाञ्चरात्रे महोपनिदि पाद्मेतन्त्रे चर्यापादे (131) सुदर्शनमहामन्त्र वैभवो नाम द्वात्रिंशोऽध्यायः.
(131. क्वचित्कोशे. "ऐहिकामुष्मिकसुदर्शन" इति अक्षराणि कृश्यन्ते. तत्र " फलप्रद" इत्यपि पदं योजितं चेत् साधुसमन्वीयात्.)
------ *******--------