← अध्यायः २५ चर्यापादः
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे--षड्विंशोऽध्यायः.
षड्विंशोऽध्यायः.
------
* विष्णुगायत्रीकल्पः.*
श्रीभगवान् :----
गायत्रीं वैष्णवीं ब्रह्मन् चतुर्विंशाक्षरात्मिकाम् ।
शृणु वक्ष्यामि परमं रहस्यं कथ्यतेऽधुना ।। 26.1 ।।
मातृकाचक्रमभ्यर्च्यछन्दसामादिमुद्धरेत् ।
आदिदेवशिराश्चात्र विघ्नेशं तदनन्तरम् ।। 26.2 ।।
वह्न्यन्तं गोपनं पश्चाच्छङ्खं विष्णुशिरः (1) स्मृतम् ।
सुमुखं गोपनयुत (2) मन्यच्च मरुदादिमत् ।। 26.3 ।।
(1. तथा.)
(2. मन्वक्च.)
(3) मायाश्रितं सुधाधाम वैधरोऽन्वकच्छ मन्दरम् ।
विष्णुशीर्षो भास्करोऽथ माथवाधिष्ठितः क्रमात् ।। 26.4 ।।
(3. मायायुतं सुधाधाम विजयो.)
आदिदेवसमाक्रान्तः (4) कुम्भशुक्लोदयावहौ ।
वैधरो देवतान्तश्च पीयूषरुचिराशिराः ? ।। 26.5 ।।
(4. कुम्भं शुक्लोदयावुभौ । वैधरो देवदत्तान्तः पीयूष.)
अनिलः प्रणवाद्यन्तो महामायाशिराः क्रमात् ।
(5) धनदोनु ततो दक्षो विष्णुमूर्धाथ भास्करः ।। 26.6 ।।
(5. यादोदोनूतनो.)
मायाशिराश्च वैराजो विष्ण्वन्तो भद्रपाणियुक् ।
ओतदेहः परः कुम्भस्त्रिविक्रमपरस्स्मृतः ।। 26.7 ।।
क्रोधनं वनमाल्यन्तं तद्वयं भुवनावधि ।
वसर्गः पापहन्ता च वह्निश्चाद्यर्णसंयुतः ।। 26.8 ।।
चकारश्चोतदेहश्छ (6) द्वौ दृष्टिर्विष्णुमूर्धकः ।
दरश्च गोपनश्चोभौ (7) विजयोर्णस्समुद्धृतः ।। 26.9 ।।
(6. द्वौ वृष्टिर्विष्णु मूर्ध्वगः.)
(7. विजयोऽन्तः.)
* गायत्र्यक्षरन्यासवर्णदेवतादिः.*
चन्दश्छ देवी गायत्रमृषिर्ब्रह्माधिदैवतम् ।
विष्णुष्षडङ्गानि तथा क्रुद्धोल्कादीनि पद्मज ।। 26.10 ।।
मूर्धादिपादपर्यन्तमक्षरन्यसनं मतम् ।
मूर्ध्निफाले नयनयोर्नासिकापुटयोस्तथा ।। 26.11 ।।
श्रोत्रयोरास्यगलयोर्हृदये बुहुमूलयोः ।
न्यासः कूर्परयोश्चैव तथैव मणिबन्धयोः ।। 26.12 ।।
हस्तयोः कुक्षिमध्ये च गुह्येचोर्वोश्च जङ्घयोः ।
पादयोश्च क्रमादेवं न्यासःप्रोक्तश्चतुर्मुख ।। 26.13 ।।
पीतं कक्तं च धूम्राभं श्वेतं कृष्णं च लोहितम् ।
वलर्क्षं पीतकं रक्तं श्यामं शङ्खनिभं तथा ।। 26.14 ।।
पाटलं स्फटिकाभं च पीतं रजतसन्निभम् ।
चन्द्रदीधितिसङ्काशं पद्मकिञ्जल्कसन्निभम् ।। 26.15 ।।
ताराभं बन्धुजीवाभं नक्षत्राभं च पाटलम् ।
जपाकुसमसङ्काशं तप्तजाम्बानदप्रभम् ।। 26.16 ।।
रविप्रभं (8) चाक्षराणां वर्णभेदः प्रदर्शितः ।
* सन्ध्यात्रये ध्येयस्वरूपम्.*
कालमेघनिभं सौम्यं चतुर्बाहुं किरीटिनम् ।। 26.17 ।।
(8. चनर्णानाम्.)
शङ्खचक्रगदापाणिं गरुडारूढमच्युतम् ।
एवं ध्यात्वाऽर्चयेद्देवं प्रातः काले समाहितः ।। 26.18 ।।
स्फटिकोपलसङ्काशं गरुडारूढविग्रहम् ।
मध्यन्दिनेऽर्चयित्वा (9) तमाचरेज्जपमात्मवान् ।। 26.19 ।।
(9. माचरेत्.)
प्रदोषेषु चतुर्हस्तं वैनतेयोपरिस्थितम् ।
श्यामलं पुण्डरीकाक्षं ध्यायन्मन्त्र (10) मुदीरयेत् ।। 26.20 ।।
(10. मुदीरयन्.)
* सिद्धये जससङ्ख्या.*
कुर्यात्त्रिषवणस्नानं व्रतस्थस्संयतेन्द्रियः ।
चतुर्विंशति लक्षेण मन्त्रजापेन सिध्यति ।। 26.21 ।।
मन्त्रवित्साधकोवारितर्पणं होमकर्मच ।
कुर्वन्नाप्नोति सकलां सिद्धिमिष्टां सुदर्लभाम् ।। 26.22 ।।
गोमूत्रयावकाहारो जपेल्लक्षमतन्द्रितः ।
पातकेभ्यो महद्भ्योपि मुच्यते नात्र संशयः ।। 26.23 ।।
ब्रह्मकूर्चं पिबन् लक्षत्रयं मन्त्रं जपन्सुधीः ।
तत्समेभ्यः पातकेभ्यो (11) विमुक्तोमन्त्रवित्तमः ।। 26.24 ।।
(11. मुच्यते.)
* अष्ठाक्षरवदनुष्ठानम्.*
ब्रह्मादि देवतास्सर्वा निनीषुर्वशमात्मनः ।
(12) अणिमादिफलं प्रेव्सुस्तथैवाकर्षणोद्यतः ।। 26.25 ।।
(12. अणिमादिगुणान्.)
वशीकारे च सर्वेषां पातालगमने तथा ।
गन्धर्वयक्षप्रमुखान् प्रमुखानात्मनस्सदा ।। 26.26 ।।
चिकीर्षुरष्टाक्षरवदनुतिष्ठेच्छतुर्मुख ।
सकृदुच्चारयन्मन्त्रं विष्णुगायत्रिसंज्ञितम् ।। 26.27 ।।
(13) वेदानामसकृत्सर्व शाखाध्ययनपुण्यभाक् ।
केशकीटादिदुष्टानि हवींषि ध्यानमास्थितः ।। 26.28 ।।
(13. उदीरयन् सकृत्.)
* एतज्जपेन मन्त्रचतुष्टयप्रास्तिः.*
स्पृष्ट्वा जपेन्मन्त्रमिदं सद्यः शुद्धानि पद्मज ।
चतुर्णां मूलमन्त्राणां फलमेतेन सिध्यति ।। 26.29 ।।
* श्रीकराष्टाक्षरमन्त्रः.*
श्रीकरं मन्त्रमपरं वक्ष्ये सर्वार्थसाधनम् ।
अष्टाक्षरं चतुर्वक्त्र रहस्यं परमं शृणु ।। 26.30 ।।
(14) वर्णचक्रं लिखित्वादौ समभ्यर्च्य ततः पुनः ।
उद्धरेच्छ्रीकराष्टार्णं मन्त्रं मन्त्रप्रभाववित् ।। 26.31 ।।
(14. चक्रं लिखित्वा भूम्यादौ.)
आदौ समुद्धरैत्तारमुदयं तदनन्तरम् ।
द्विरेकनेत्रमायान्तं क्रोधनं कौस्तुभाक्षरम् ।। 26.32 ।।
विष्णुशीर्षं ततो लक्ष्मीमनलं तदनन्तरम् ।
महामायायुतं पद्ममप्रमेयमनन्तरम् ।। 26.33 ।।
अग्निमादिं (15) चतुर्वक्त्रठठेति श्रीकराह्वयम् ।
* तद्बीजादिनिर्देशः.*
भीजमस्य प्रवक्ष्यामि यथातत्वमुदीर्यते ।। 26.34 ।।
(15. चतुर्वक्त्रं पठेति.)
दीप्तिमाननलः पञ्च (16) बिन्दुरर्धेन्दुनिष्ठिता ।
बीजमङ्गानि षट्चापि क्रुद्दोल्कादीनि पूर्ववत् ।। 26.35 ।।
(16. बिन्दुर्विन्दुश्च निष्ठितम्.)
छन्धश्च देवी गायत्रमृषिरस्य प्रजापतिः ।
देवता देवदेवेशः प्रत्यर्णं पूर्ववत् स्मृतम् ।। 26.36 ।।
ऋषिश्छन्दोदैवतं च
* ध्येयदेवतास्वरूपम्.*
ध्यानं संप्रति कथ्यते ।
कल्पकानोकहच्छायामाश्रित्य सुखशीतलाम् ।। 26.37 ।।
गरुडस्य चतुर्बाहोस्सर्वालङ्कारधारिणः ।
स्कन्धदेशे सुखासीनमष्टबाहुं किरीटिनम् ।। 26.38 ।।
कुन्देन्दुधवलं सौम्यं सर्वाकल्पपरिष्कृतम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् ।। 26.39 ।।
पीताम्बरधरं नीलकुन्तलैरुपशोभितम् ।
चक्रं च मुसलं भाणमङ्कुशं दधतं भुजैः ।। 26.40 ।।
चतुर्भिर्दक्षिणैरन्येश्शङ्खं कौमोदकीं तथा ।
शार्ङ्गं पाशंच कल्याणैः प्रसन्नेन्दुनिभाननम् ।। 26.41 ।।
गरुडोपि च हस्ताभ्यामुभाभ्यां पादपङ्कजे ।
देवस्य धारयन् कुम्भं पूर्णं पीयूषवारिणा ।। 26.42 ।।
इतराभ्यां च हस्ताभ्यां स्पृशन्नास्ये स्थितं तथा ।
श्रियं च वामोरुतले रुक्माभां क्षौमवासिनीम् ।। 26.43 ।।
दिव्यगन्धविलिप्ताङ्गां सर्वाकल्पपरिष्कृताम् ।
सुभ्राललाटमुकुटां कर्णविश्रान्तलोचनाम् ।। 26.44 ।।
लावण्यामृततोयेन वर्षन्तीमिव सर्वतः ।
पाशाङ्कुशधरां लक्ष्मीं कन्दर्पशरपीडिताम् ।। 26.45 ।।
* तपोनियमस्तत्फलं च.*
ध्यात्वैवं पूजयित्वातु व्रतस्थस्संयतेन्द्रियः ।
द्वादशाहं जपेन्मन्त्रं ध्यात्वा पार्श्वे निधिद्वयम् ।। 26.46 ।।
ऊर्ध्वबाहुर्जलेतिष्ठन्नुरोदघ्ने समाहितः ।
आदित्याभिमुखो मन्त्री जुहुयाच्च समिच्छतम् ।। 26.47 ।।
बिल्वोद्भवैस्तथालक्ष्मीं कुसुमैः पायसोदनैः ।
शुद्धोदनैर्घृताक्तैश्च अष्टोत्तरसहस्रकम् ।। 26.48 ।।
एवं कृते विधानेन पुष्टिरुत्पद्यतेऽचला ।
(17) पौष्टिकादि च पूर्वोक्तफलं पूर्वोक्तसङ्ख्यया ।। 26.49 ।।
(17. पादुकादि च पूर्वोक्तं.)
शान्तिकं पौष्टिकं कर्ममन्त्रेणानेन साधयेत् ।
* लक्ष्मीनारायणमन्द्रकल्पः.*
लक्ष्मीनारायणाह्वानं मन्त्रं परमदुर्लभम् ।। 26.50 ।।
तस्योद्धारं प्रवक्ष्यामि शृणु वर्णक्रमेण (18) तम् ।
उद्गीथं मनुजेशानं विष्णुं मन्दर (19) मेव तत् ।। 26.51 ।।
(18. तु.)
(19. मोतवत् ।। सूक्ष्मदृङ्मुख्यम परं गदिनं मुख्यमर्पितं । आद्वर्णं विजयम्.)
सूक्तीन्दुमुख्यमपरं गदिनं कुम्भमर्पितम् ।
आद्यन्तं विजयं दत्तं माहेन्द्रं चाप्रमेयकम् ।। 26.52 ।।
गरुडं दक्षमपरं महामायां विनायकम् ।
आदिदेवं ततो वह्निं गोपनं च चतुर्गतिम् ।। 26.53 ।।
आद्यं प्रचण्डमाकारं शङ्खमादिं ठठेति च ।
उद्दृत्य षोडशार्णं तन्मन्त्रं (20) बीजश्च कथ्यते ।। 26.54 ।।
(20. बीजं तु.)
द्युमणिं (21) बिन्दुमपरं वामनं बिन्दुमुद्धरेत् ।
अङ्गानि पूर्वमुक्तानि छन्धो गायत्रमुच्यते ।। 26.55 ।।
(21. नह्नि.)
(22) विद्धि शुक्रो मुनिर्देवो लक्ष्मीनारायणस्स्मृतः ।
जपष्षोडशलक्षं तु तदर्धं वारितर्पणम् ।। 26.56 ।।
(22. दैवं शुक्रो.)
होमस्ततर्धोमन्त्रस्य फलान्याहुर्यथा (23) क्रमम् ।
* सङ्कर्षणमन्त्रः *
सङ्कर्षणादिमूर्दीनां तिसृणां मनुरुच्यते ।। 26.57 ।।
(23. पुरम्.)
आदितः पूर्ववत्सप्त वर्णानाममनुपूर्वशः ।
उद्धारश्शिष्टवर्णानां ब्रह्मन् संप्रति कथ्यते ।। 26.58 ।।
दीप्तिमान् वह्निरौर्वश्छ द्रुवश्शुक्लस्तथादिमान् ।
बिन्दुः प्रजापतिश्चाद्यो वह्निरुग्रो मुखं ततः ।। 26.59 ।।
(24) सुमुखं गोपनयुतं वायुराद्यं ठठान्तितम् ।
द्वादशार्ओणात्मको मन्त्रोबीजमङ्गं च पूर्ववत् ।। 26.60 ।।
(24. सुखं च.)
छन्दश्च देवी गायत्रमृषिस्यान्नीललोहितः ।
देवस्सङ्कर्षणो वर्णो देवता तत्वनिर्णयः ।। 26.61 ।।
द्वादशाक्षरवत् ज्ञेयः पुरश्चरणमीरितम् ।
फलानि पूर्वमुक्तानि वाक्सिद्धिर्महती भवेत् ।। 26.62 ।।
ज्ञानं च महदाप्नोति यच्चान्यदधिकाङ्क्षितम् ।
तत्सर्वमचिरादेव सिध्येन्मन्त्रप्रभावतः ।। 26.63 ।।
शङ्खगोक्षीरधवलं चतुर्भाहुं किरीटिनम् ।
वसानं वसनं क्षौमं पूर्णचन्द्रनिभावनम् ।। 26.64 ।।
मुक्तां भूयिष्ठमाकल्पं सौवर्णमतिशोभनम् ।
दधानं मुख्यहस्तेन ज्ञानमुद्रासमन्वितम् ।। 26.65 ।।
पुस्तकं वामहस्तेन बिभ्राणं भुजयोर्द्वयोः ।
(25) ऊर्ध्वयोस्स्फाटिकं शङ्खमक्षमालां यथातथम् ।। 26.66 ।।
(25. स्फाटिकीं दक्षिणे हस्ते अक्षमालां.)
धवलैः कालजैः पुष्पैश्शोभितं वनमालया ।
श्वेतपद्मे सुखासीनमेवं ध्यायीत मन्त्रवित् ।। 26.67 ।।
ध्यायतो बुद्धिरतुला भवेत् ज्ञानं च पुष्कलम् ।
शान्तिकं पौष्टिकं कर्म कुर्यादेतेन पद्मज ।। 26.68 ।।
बहुना किं प्रलापेन द्विषट्काक्षरवत्फलम् ।
सर्वमाप्नोति मनुना साधकः कमलासन ।। 26.69 ।।
* प्रद्युम्नमन्त्रः.*
प्रद्युम्नमन्त्रमधुना सर्वकामफलप्रदम् ।
ब्रवीमि तस्य चोद्धारं कथ्यतेऽक्षरशः क्रमात् ।। 26.70 ।।
आदित (26) स्सप्तवर्णानामुद्धारः पूर्वमीरितः ।
अस्यासाधारणार्णानां संप्रत्युद्धार उच्यते ।। 26.71 ।।
(26. सर्व.)
पाप्मानमनलं विष्णुमन्त्रं वायुमुकारवत् ।
मन्दरं भद्रपाणिं च मधुसूदनमारुतौ ।। 26.72 ।।
आग्नेयी दश चैकं चाप्यर्णस्संहननं मतम् ।
अनुस्वारपरो विष्णुर्भीज (27) मङ्गं च पूर्ववत् ।। 26.73 ।।
(27. मङ्गानि.)
ऋषिस्सनत्कुमारस्स्याच्छन्दो गायत्रमुच्यते ।
प्रद्युम्नो देवता मन्त्रस्साधनं फलमेव च ।। 26.74 ।।
पूर्वोक्तम्
* अनिरुद्धमन्त्रः.*
मन्त्रमपरमानिरुद्धमतः परम् ।
शृणु ब्रह्मन् यथापूर्वं सप्तार्णानामनुक्रमात् ।। 26.75 ।।
उद्धारः परिशिष्टानामार्णानां कथ्यतेऽ (28)धुना ।
प्रणवाद्योभद्रहस्तोमाया सप्तार्चिरेव च ।। 26.76 ।।
(28. क्रमात्.)
उदयौ द्वौ च सुभगो गोपनो वायुरादिमान् ।
बीजमस्याप्रमेयश्च विसर्गश्छावसानतः ।। 26.77 ।।
ऋषिश्च सनकश्छन्दः पूर्ववद्देवता तथा ।
अनिरुद्धो द्वादशार्णः क्रमेण समुदीरितः ।। 26.78 ।।
यथापुरं षडङ्गानि (29) साधनं फलमेव च ।
* चतुर्विंशतिमूर्तिमन्त्रनिर्देशः.*
चतुर्विंशतिमूर्तिनां समाख्या (30) द्वादशादिभिः ।। 26.79 ।।
(29. सासनम्.)
(30. द्वादशादितः.)
प्रसिद्धास्ताश्चतुर्थ्यन्तास्सप्ताक्षरपुरस्कृताः ।
मन्त्रब

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२६&oldid=206992" इत्यस्माद् प्रतिप्राप्तम्