प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २० चर्यापादः
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
             चर्यापादे--एकविंशोऽध्यायः
* अधिकारिव्यवस्थाप्रश्न प्रतिवचने.*
ब्रह्मा :---
सिद्धान्तानां श्रुतो भेदश्चतुर्णां भगवन्मुखात् ।
(1) इदानीं शोतुमिच्छामि व्यवस्थामधिकारिणाम् ।। 21.1 ।।
(1. साम्प्रतम्.)
श्रीभगवान् :----
अहं ते नियमं तेषां कथयिष्यामि शास्त्रतः ।
जातेषु (2) सर्वविप्रेषु मन्मुखात्कमलासन ।। 21.2 ।।
(2. विप्रजातेषु सर्वेषु.)
नानाचरणगोत्रेषु नानाकर्मपरेषु च ।
* औपगायनादीनां निर्देशः.*
तेषां मध्ये महाभागा ऋषयोऽष्टसहस्रिणः ।। 21.3 ।।
औपगायनपूर्वास्ते नानागोत्रा मुमुक्षवः ।
अधीयानाःकण्वशाखां तथा माध्यन्दिनाह्वयाम् ।। 21.4 ।।
तेषां बुद्धिस्समुत्पान्ना मोक्षैकफलदायिनी ।
ते सर्वे सह सङ्गम्य (3) ब्रह्माणं प्रोचुरव्ययम् ।। 21.5 ।।
(3. ब्राह्मणाः.)
मोक्ष्यमाणा वयं ब्रह्मन् मोक्षो पायविवित्सया ।
शरणं त्वामिहप्राप्ता जन्ममृत्युजिगीषवः ।। 21.6 ।।
औपगायन (4) मुख्यांस्तानुपासन्नां श्चतुर्मुख ।
* ब्रह्मणापाञ्चरात्रदीक्षादानम्.*
इति ब्रुवाणानाहूय तदनुग्रहकाम्यया ।। 21.7 ।।
(4. मुख्यानां तापसानाम्.)
पञ्चरात्रोक्त (5) मार्गेण मन्त्रसिद्धान्तवर्त्मना ।
दीक्षयित्वा यथान्यायं चक्रवारिज मण्डले ।। 21.8 ।।
(5. मार्गेषु मन्त्रसिद्धान्तमार्गतः.)
आहुतान् दीक्षितान् ब्रह्माकर्तव्यमिदमादिशत् ।
काण्वीं माध्यन्दिनीं शाखां शाखास्वन्तर्हिते उभे ।। 21.9 ।।
अधीध्वं मूलशाखे ते निषेकादींश्च संस्कृतीः ।
ताभ्यामेव त्वनुष्ठध्वं सोमयागादिकर्मच ।। 21.10 ।।
भगवद्ध्यानसहितं तत्समाराधनात्मकम् ।
कर्तव्यत्वेन वेदोक्तमित्येवं फलवर्जितम् ।। 21.11 ।।
कृषीध्व मिति कुर्वाणैः कर्मनिश्रेयसं परम् ।
प्राप्यतेऽनेन युष्माभिर्मन्त्रसिद्धान्तवर्त्मना ।। 21.12 ।।
* भागवतत्वनिष्पत्तिः.*
पञ्चकालं यथाशास्त्रं गृहे वा मन्दिरेऽपि वा ।
भगवत्पूजनं कार्यमद्यप्रभृति नान्यथा ।। 21.13 ।।
यूयं भागवतास्तेन जाता भगवदर्चनात् ।
भगवद्भक्तिकरणात् (6) वंशजाताश्चतुर्मुख ।। 21.14 ।।
(6. कारणाद्वंशजाश्च नः. वंशजानां महात्मनाम् । ते च भागवता स्सर्वे दीक्षयित्वा यथाविधि । इति क्वचित्पाठः.)
नाम्ना भागवतास्सन्तो दीक्षयित्वा यथाविधि ।
यथोक्तं कर्म कुर्वाणाः प्राप्नुवन्ति परं पदम् ।। 21.15 ।।
शाखान्तरेषु ये मन्त्राः पापनाः परमर्षयः ।
तानप्यधीध्वं तैर्मन्त्रै रर्चयध्वमधोक्षजम् ।। 21.16 ।।
* आत्मार्थयजनस्य मुख्यता.*
आत्मर्थयजनं विष्णोः कल्प तेऽभ्युद (7) यावहम् ।
* परार्थयजनप्रदेशाः.*
तथा परार्थयजनं ग्रामे वा पत्तने पुरे ।। 21.17 ।।
(7. याय च-याय हि.)
स्वगृहे वा स्वतन्त्रे वा कार्यं भागवतैर्नरैः ।
आत्मनश्च परेषां च तन्नि श्रेयसकृद्भवेत् ।। 21.18 ।।
* अभागवतवंश्यानांपरार्थयजननिषेधः.*
अभागवतवंश्यैस्तु (8) दीक्षितैरपि मानवैः ।
आत्मार्थमेव यजनं न परार्थं कदाचन ।। 21.19 ।।
(8. दीक्षितैश्शास्त्रवर्त्मना.)
परार्थयजनं तेषां गर्हितं विप्रसत्तमाः ।
* दीक्षया कुलीनत्वम्.*
अभागवतवंश्योपि दीक्षितश्शास्त्रावर्त्मना ।। 21.20 ।।
परार्थयजनं कुर्यादपि भागवताज्ञया ।
भगवानेव गोविन्दस्साक्षाद्भागवतस्म्सृतः ।। 21.21 ।।
तं दृष्ट्वा विद्यया हीनमपि दुष्कृतकारिणम् ।
निर्गुणं गुणिनं वापि प्रत्युत्तिष्ठेत्कृताञ्जलिः ।। 21.22 ।।
तानयाचत विश्वात्मा महर्षिरमितौजसः ।
यष्माभिः क्षितिलोकेषु कार्यं भगवदर्चनम् ।। 21.23 ।।
स्वार्थं परार्थमथ वा कर्तव्यं मम शासनात् ।
इति ब्रुवाणिस्तान् ब्रह्मा तत्रैवान्तरधीयत ।। 21.24 ।।
* ध्येयवस्तुनिर्देशः मूर्ति लक्षणं च.*
ध्येयं (9) वस्तुप्रवक्ष्यामि मन्त्रसिद्धान्तिनां नृणाम् ।
द्विभुजं चेद्वासुदेवं रेखाभिस्तलयोः करे ।। 21.25 ।।
(9. यत्तत्.)
लाञ्चितं शङ्खचक्राद्यैर्ध्यायेत्तद्द्विगुणैः पुनः ।
द्वाभ्यां कराभ्यां बिभ्राणं शङ्खचक्रे गदाम्बुजे ।। 21.26 ।।
मुख्याभ्या मथवाभीति दानं कट्यवलम्बनम् ।
इतोऽधिके भुजगमे बह्वायुधधरं हरिम् ।। 21.27 ।।
वर्णेन श्यामसुभगमथवा (10) धवलद्युतिम् ।
शैलादिवस्तुभिः क्लृप्तं बेरं चादिपदेस्थितम् ।। 21.28 ।।
(10. सरलद्युतिम्.)
आसीनं वा शयानां वा गरुडारूढमेव वा ।
ध्यायेयुरर्चयेयुश्च त्रयूमन्त्रैस्त्रयीविदः ।। 21.29 ।।
* आगमसिद्धान्तध्यानप्रकारः.*
(11) ध्यायेत्वागमसिद्धान्तस्थिते लम्बभुजद्वयम् ।
* बल्यादिदानरहितपूजा.*
वासुदेवादयस्सर्वे निराकल्पा निरायुधाः ।। 21.30 ।।
(11. ध्येयस्त्वागम---द्वयः.)
सि तास्सिताम्बरधराश्च त्वारस्समदिङ्मुखाः ।
एकविष्टरनिष्ठास्ते शयनासन वर्जिताः ।। 21.31 ।।
देवीभ्यां परिवारैश्च हीना योगासनेन च ।
समप्रधानषाड्गुण्य भाजो मन्त्रैर्बलादिभिः ।। 21.32 ।।
(12) प्रभवाख्यक्रमात्यूज्या नित्यं कमलसम्भव ।
बलिप्रदानरहिता नित्योत्सवविवर्जिताः ।। 21.33 ।।
(12. प्रभवात्तत्क्रमात्. प्रभवप्रक्रमात्.)
(13) पवित्रारोपणस्वाप शयनोत्थान वर्जिताः ।
* कर्मसन्यासिनां स्वरूपम्.*
कर्तव्यत्वेन भवने प्रासादे वा चतुर्मुख ।। 21.34 ।।
(13. इतमर्धं क्वचिन्नास्ति.)
काल्ये मध्यन्दिनेऽच्छिद्रपञ्च कालपरायणैः ।
निराशैः कर्मसन्यासकारिभिर्देवपूजनम् ।। 21.35 ।।
बलादिमन्त्रैरच्छिद्र पंचकालपरायणैः ।
एकाध्वना निषेकादि (14) संस्कारैश्च बलादिभिः ।। 21.36 ।।
(14. संस्काराश्च.)
चतुर्णां ब्राह्मणादीनां विहितं नयकर्मच ।
(15) द्वादशाक्षरविद्यैव तेषां विद्या न च त्रयी ।। 21.37 ।।
(15. द्वादशाक्षरमेतेषां विज्ञानं च त्रय् न च.)
न सावित्री न मन्त्रोन्यस्स्वाध्यायजप (16) कर्मणोः ।
बीजशक्त्यङ्गरहितमृषिच्छन्दोविवर्जितम् ।। 21.38 ।।
(16. कर्मणे.)
स्वरूपमेव मन्त्रस्य जपस्वाध्यायकर्मणोः ।
* वर्णचतुष्टयसंज्ञा.*
चतुर्णामपि वर्णानां संज्ञास्तेषां क्रमोदिताः ।। 21.39 ।।
(17) भागो हि द्विजमुख्यस्य संज्ञा वा विप्रवन्नृपे ।
वैश्यस्य वर्धिनी संज्ञा (18) मौद्गली वृषलस्य च ।। 21.40 ।।
(17. विशेषोद्विजमुख्यस्य संज्ञा वा विषुसन्नृपः.)
(18. लाङ्गली.)
सर्वे समानाश्चत्वारो गोत्रप्रवरवर्जिताः ।
उत्कर्षो नापकर्षश्च जातितस्तेषु संमतः ।। 21.41 ।।
फलेषु निस्पृहास्सर्वे द्वादशाक्षरचिन्तकाः ।
मोक्षैकनिश्चया (19) श्शावसूतकाशौ चवर्जिताः ।। 21.42 ।।
(19. स्सर्वे मूतकाशौच.)
* कर्षणादिष्वनधिकारः.*
नाधिकारो स्ति सर्वत्र कर्षणादिषु कर्मसु ।
मोहात्तानि प्रयुञ्जानाः पतन्त्यकृत बुद्धयः ।। 21.43 ।।
राजराष्ट्रमनुष्याणां यजमानस्य सद्मनः ।
क्षयो भवति तेनै ते न कुर्युः कर्षणादिकम् ।। 21.44 ।।
याचेत मन्त्रसिद्धान्ते दीक्षितं विप्रसत्तमम् ।
पूजर्थमात्मनो बिम्ब प्रतिष्ठाकरणादिषु ।। 21.45 ।।
सोपि बीजादिरहितं द्वादशा क्षरविद्यया ।
कुर्यात्प्रतिष्ठामाचार्यः पूजार्थं मन्त्रवित्तमः ।। 21.46 ।।
एकायन (20) स्तुतां मूर्तिं प्रतिगृह्य समर्चयेत् ।
(21) अर्चनं च चतुस्थ्साने वारिस्रग्बिम्बवह्निषु ।। 21.47 ।।
(20. श्चतुर्मूर्तिं.)
(21. अभ्यर्चनं.)
नाधिकारो स्तिमन्त्रेषु बीजषिण्डपदादिषु ।
* मौद्गलाद्येकायनानां दाहनिषेधः.*
चतुर्णां मौद्गलादीनां विदुषां द्वादशाक्षरम् ।। 21.48 ।।
प्राणानामपि निर्याणे नस्पृशेन्नदहेच्छवम् ।
पुत्रपौत्रादिरहितं सन्त्यजेत्काष्ठवद्बहिः ।। 21.49 ।।
* मूर्त्यन्तरार्चन निषेधः.*
मूर्त्यन्तरार्चनं तेषां प्रत्यवायाय कल्पते ।
सिद्धान्तान्तरमार्गेण स्थापितं बिम्बमालये ।। 21.50 ।।
अज्ञानादथ वा मोहादेकायनविधानतः ।
(22) अर्चयन्नापदं सर्वामाप्नोतीह परत्र च ।। 21.51 ।।
(22. अर्चयन्तं पदं सर्व.)
प्रदक्षिणप्रणामादि राद्धान्तेन्यत्र केवलम् ।
विहितं नार्चनं कार्यं राजराष्ट्रक्षयावहम् ।। 21.52 ।।
न दीक्षा नैव देहस्य दहनादिविशोधनम् ।
नाङ्गन्यासादि सकलं नेष्टमेकायनाध्वनि ।। 21.53 ।।
एकायने प्रविष्टानां त्रैविद्यानामयं क्रमः ।
* तन्त्रसिद्धान्तमार्गनिरूपणम्.*
तन्त्रसिद्धान्तमार्गेतु संप्रत्याचार उच्यते ।। 21.54 ।।
चतुर्णामपि वर्णानामितरेषां च (23) तद्भुवाम् ।
दीक्षासमैव सर्वेषा माचारस्तन्त्रवर्त्मना ।। 21.55 ।।
(23. तद्भवेत्.)
निषेकादिश्च संस्कारस्तेषां तन्त्रोक्तवर्त्मना ।
त्यक्त्वा त्रयीं तन्त्रमेव प्रपद्य शरणं स्थिताः ।। 21.56 ।।
सान्तरालमनुष्ठानं पंचकालोदितं तथा ।
(24) यतस्तन्त्रान्तरभुवां नृणां कमलसम्भव ।। 21.57 ।।
(24. मन्त्र.)
तत्वसंहारजनने न्यासश्च करदेहयोः ।
योगविष्टरक्लृप्तिश्च (25) नवपद्मप्रकल्पनम् ।। 21.58 ।।
(25. नवकल्प.)
(26) मूर्तयो नवपद्मेषु तास्वधिष्ठानमध्यमे ।
तामीक्षन्तेदिशो वापि मूर्तयोऽष्टौ यथायथम् ।। 21.59 ।।
(26. मूर्तयः । इत्यादि. द्विषत्काक्षर, इत्यन्तं क्वचिन्न.)
(27) यां दिशं मध्यमा मूर्तिरीक्षते सैश्वरीमता ।
यां च वा ऽऽ लोक्य पुरुषस्समाराधनकर्मणि ।। 21.60 ।।
आस्तेऽसौ पौरुषी ज्ञेया प्राजापत्याच वासवी ।
योगविष्टरपादानां धर्मादीनां प्रकल्पने ।। 21.61 ।।
(28) अथान्तः परिवाराणां सुपर्णीतनयस्य च ।
बलिप्रदानपीठस्य गोपुरस्य चतुर्मुख ।। 21.62 ।।
(28. तथान्तः.)
बाह्यनामपि चै तेषां प्राची स्यादैश्वरी हरित् ।
बाह्यानां परिवाराणामन्येषां परिकल्पने ।। 21.63 ।।
प्राजापत्यैव दिक्प्राची दिक्समूहे तु पौरुषी ।
प्राच्यादिकां समाश्रित्य परिवारप्रकल्पनं ।। 21.64 ।।
द्विषट्काक्षरपूर्वाणां बीजशक्त्यङ्गसंयुतम् ।
ऋषिच्छन्दो विहीनश्च मन्त्राणां जप इष्यते ।। 21.65 ।।
वर्णानामितरेषां च सममाराधनक्रमः ।
सवानामपि मूर्तीनां मूर्त्यन्तरगणस्य च ।। 21.66 ।।
प्रादुर्भावगणस्यापि वर्णास्त्रीव्यक्तयो मताः ।
न ध्वजारोहणं नापि मासाद्युत्सवसम्भनः ।। 21.67 ।।
केवलं शयनोत्थाने बलिहोमादिवर्जितः ।
प्रादक्षिण्येन गमनं ग्रामादेः कौतुकोत्सवः ।। 21.68 ।।
नैमित्तिकं चतुस्थ्साने स्वातन्त्र्येणार्चनं हरेः ।
* तन्त्रान्तरसिद्धान्ताचारव्यवस्था.*
चक्राब्जमण्डले कुम्भे प्रतिमायां च पावके ।। 21.69 ।।
तन्त्रान्तरे च सिद्धान्ते संप्रत्याचार उच्यते ।
त्रिवक्तं वा चतुर्वक्त्रमधिकाननमेव वा ।। 21.70 ।।
योगपीठेस्थितं देवं परिवारैश्च सेवितम् ।
पिण्डमन्त्रैः कलामन्त्रेर्भीजशक्त्यङ्गसंयुतैः ।। 21.71 ।।
ऋषिच्छन्दोविहीनश्च चत्वारो ब्राह्मणादयः ।
समर्चयेयुस्सर्वेषां निषेकाद्यखिलक्रियाः ।। 21.72 ।।
तन्त्रान्तरोक्तमार्गेण कार्या (29) त्रैय्यात्मनापि च ।
* सिद्धान्तसाङ्कर्यनिषेधः.*
सिद्धान्तनां चतुर्णां तु साङ्कर्यं व्यवसावहम् ।। 21.73 ।।
(29. स्तुल्यात्मना-त्रय्यन्तनर्त्मना.)
सिद्धान्तेषु चतुर्ष्वेकं पूवैन् र्नृभिरनुष्ठितम् ।
त्यक्त्वा समाश्रयेदन्यं नरो भवति किल्बिषी ।। 21.74 ।।
तस्माज्जन्मप्रभृत्येकराद्धान्तनियतो भवेत् ।
अन्यथा कुलमात्मानं सर्वं नाशयति स्वयम् ।। 21.75 ।।
मन्त्रमण्डलकुण्डादि क्रियामुद्रोपचारकैः ।
योगं नयति यो मोहत्स्वसिद्धान्तोक्तवर्त्मना ।। 21.76 ।।
सोपि स्वकुलजान् सर्वान् परमात्मनमञ्जसा ।
नयेन्निरयमत्युग्रं पुरुषान् पुरुषाधमः