प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १३ चर्यापादः
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे--चतुर्दशोऽध्यायः
चतुर्दशोऽध्यायः.
-----
* कालविभागनिबन्धनभगवदाराधननिरूपणम्.*
ब्रह्मा :---
मासि मासि प्रशस्तानि नक्षत्राणि जनार्दन ।
भगवन् कानि येषु स्यादर्चनं परमं स्मृतम् ।। 14.1 ।।
कानि चांशावताराणां जन्मर्क्षाणि युगे युगे ।
उच्यतां तानि देवेश श्रोतुमिच्छामि तत्वतः ।। 14.2 ।।
* श्रीरामजयन्ती.*
श्रीभगवान् :---
चैत्रे मासि पुनर्वस्वोर्जन्म रामस्य मङ्गलम् ।
तिथौ नवम्यां लग्ने च कुलीरे कमलासन ।। 14.3 ।।
राघवस्याप्रमेयस्य नक्षत्रे तत्र राघवम् ।
देव्याच सीतया सर्धमर्चयित्वा यथाविधि ।। 14.4 ।।
उत्सवश्च भवेत्तस्मिन् सर्वमङ्गलसंयुतः ।
* भरतादीनां जन्मकालपूजा.*
पुष्ये च मीनलग्ने च भरतस्समजायत ।। 14.5 ।।
तत्र स्यादर्चनं देव्या माण्डव्या सह पूर्ववत् ।
उत्सवश्च तथा सर्पे नक्षत्रे लक्ष्मणोऽपि च ।। 14.6 ।।
शत्रुघ्नश्च कुलीरे च लग्ने जातस्तदर्चनम् ।
उभयोस्तत्र दिवसे देव्या चोर्मिलया सह ।। 14.7 ।।
लक्ष्मणस्येतरस्यापि श्रुतकीर्त्या महोत्सवः ।
* रामजन्मनक्षत्रे वा भरतादीनां पुजा.*
रामस्य जन्मनक्षत्रे सर्वे वा भरतादयः ।। 14.8 ।।
अर्चनीया हनुमता सर्धं सर्वैर्महोत्सवः ।
* नृसिंहजयन्ती.*
तत्रैव श्रवणे चैव सायाह्ने नरकेसरी ।। 14.9 ।।
अर्चनीयस्स हि तदा हिरण्यमवधीद्रिपुम् ।
तस्मिन्नेव सिते पक्षे त्रयोदश्यां समर्चयेत् ।। 14.10 ।।
विष्णुं यद्वा पुनर्वस्वोः पौर्णमास्यामथापि वा ।
* वसन्तकालपूजा.*
वसन्तकालतृप्त्यर्थं तत्समृद्धिभिराहृतैः ।। 14.11 ।।
पुष्पैर्नानाविधैर्देवमर्चयेद्दक्षिणामुखम् ।
आसीनं मण्डपे क्लृप्ते वेदीमध्ये मनोरमे ।। 14.12 ।।
उद्याने मन्दिरे वापि कृत्रिमोद्यानशोभिते ।
नद्यादौ वा यथायोगं फलपुष्पोदकान्विते ।। 14.13 ।।
* दमनकोत्सवः.*
पौर्णमास्यां तथौ तस्मिन् मासे दमनिकादलैः ।
पुष्पान्वितैःप्रपां कृत्वा मण्डपे पूजयेद्धरिम् ।। 14.14 ।।
पुष्पोर्दमनिकाभिश्च सर्वालङ्कारमाचरेत् ।
उत्सवश्च भवेत्तस्मिन् होमो दमनिकादलैः ।। 14.15 ।।
* वसन्तोत्सवस्य मासविकल्पः.*
वैशाखे मासि वा कुर्याद्वसन्तोत्सवमब्जज ।
दमनीदलकल्याणमपि वा पूर्वमीरितम् ।। 14.16 ।।
* कह्लोरकुसुमोत्सवः.*
वैशाखे मासि वा चैत्रे सितपक्षे शुभे दिने ।
दमनीदलवत्कुर्यात्कल्हारकुसुमोत्सवम् ।। 14.17 ।।
स्थानेषु पूजयेद्देवं कुम्भादिषु चतुर्ष्वपि ।
महाहविर्निवेद्याथ होमं कृत्वा समापयेत् ।। 14.18 ।।
* ज्येष्ठे श्रावणे वा मासे भगवते फलसर्मणम्.*
फलान्यपि समाहृत्य वन्यजानपदान्यपि ।
ज्येष्ठे वा श्रावणे वापि देवाय विनिवेदयेत् ।। 14.19 ।।
सर्वालङ्कारसंयुक्तं विदध्याच्च महोत्सवम् ।
एवं यः कारयेत्पूजां श्रद्धापूतेन चेतसा ।। 14.20 ।।
सर्वान् कामानिहावास्य विष्णोलोकं स गच्छति ।
* त्रिविक्रमजन्मकालः.*
श्रावणे जन्म पूर्वह्णे वामनस्य त्रिविक्रमम् (1) ।। 14.21 ।।
(1. त्रयो विक्रमाः यस्य यस्माद्वा इदं जन्मविशेषणम्.)
मध्यं दिने च तत्कालद्वये पूजा मधुद्विषः ।
* पूर्वोक्तस्य अनुकल्पकालः.*
पौर्णमास्यां च वैशाख्यां हरे (2) रर्चनमिष्यते ।। 14.22 ।।
(2. रुत्सव इष्यते.)
* हनुमज्जन्मकालः.*
अनुराधे हनुमतो जन्म
* राघवेण सहैव हनुमतःपूजनम्.*
तस्मिन् सभाजयेत् ।
तं राघवेण सहितं सीतया (3) लक्ष्मणेन च ।। 14.23 ।।
(3. च विशेषतः.)
आञ्जनेयं तदत्यन्तप्रीणनं राघवात्मनः ।
अनूराधे पौर्णमास्यां कलशैस्स्नपनं हरेः ।। 14.24 ।।
* भगवतश्शयनोत्सवकालः.*
आषाढे शुक्लपक्षे च द्वादश्यां कमलासन ।
चक्राब्जमण्डले देवमर्चयित्वा यथाविधि ।। 14.25 ।।
कल्पिते शयनागारे मन्धिरे वा यथावसु ।
पर्यङ्के कल्पिते तत्र शाययित्वाथ कौतुकम् ।। 14.26 ।।
देवीभ्यां सह कूर्चं वा त्रितयं तदभावतः ।
तत्र नित्यार्चनं मासांश्चतुरो मङ्गलान्वितम् ।। 14.27 ।।
नयेच्चशयने नैव शाययोदन्यकौतुकम् ।
प्रतोपवासनियमान् कल्पयित्वा (4) तदादिकान् ।। 14.28 ।।
(4. तदात्मकान्.)
* चातुर्मास्यव्रतकालः.*
तदनुष्ठायिनस्तत्र चातुराश्रम्य माश्रिताः ।
आसीरंस्तत्र नियता (5) स्तरेयुर्नतरङ्गिणीम् ।। 14.29 ।।
(5. स्तरेयुस्ते तरङ्गिणीम्.)
देवस्य यावदुत्थानां भोगिपर्यङ्कशायिनः ।
* श्रीकृष्णजयन्ती.*
श्रावणे मासि कृष्णे च पक्षेऽष्टम्यां तथौ हरेः ।। 14.30 ।।
रोहिण्यां जन्म कृष्णस्य लोकानां मङ्गलावहम् ।
जयन्ती नाम सा (6) प्रोक्ता जयत्यशुभमित्यसौ ।। 14.31 ।।
(6. ख्याता.)
मध्यरात्रे ततस्तस्मिन् कल्याणं सर्वमाचरेत् ।
तिथ्ययोगेऽपि नक्षत्रे केवलेऽर्चनमिष्यते ।। 14.32 ।।
देवस्य देवकीसूनोरपरेद्युर्महोत्सवः ।
* पवित्रोत्सवः.*
नित्यं नैमित्तिकं काम्यं कर्मयच्छ्रुतिचोदितम् ।। 14.33 ।।
तत्कुर्वतामाश्रमेषु स्थितानामानुपूर्वशः ।
वर्णानां मन्त्रलोपादिशान्त्यर्थं प्रत्यहं हरेः ।। 14.34 ।।
आराधं भगवतः पूर्णहुत्या स्वयं मतम् ।
तस्य न्यूनातिरेकाभ्यां दुष्कृतं सकलं भवेत् ।। 14.35 ।।
कर्मजातं ततःपूर्णमाराधनमभीप्सितम् ।
प्रतिसंवत्सरं मासि श्रावणे तन्तुनिर्मितम् ।। 14.36 ।।
पवित्रभूषणं विष्णोरारोप्यं बहुमाल्यवत् ।
* पवित्रशब्दनिर्वचनम्.*
आराध्य विधिवद्भाद्रपदे वाश्वयुजेऽपि वा ।। 14.37 ।।
मन्त्रलोपादिना कर्म पतितं विहितं पुनः ।
प्रायश्छितैन यत्सर्म कर्तारं त्रायते (7) पुनः ।। 14.38 ।।
(7. यतः.)
तत्पवित्रं फलैर्भूयो रोहत्येव समाहितः ।
इति निर्वचनात्तत् ज्ञेःपवित्रारोहणं मतम् ।। 14.39 ।।
* पवित्रारोपणकालभेदाः.*
पूर्वोदितेषु मासेषु द्वादश्यां प्रतिपद्यपि ।
दशम्यां पौर्णमास्यां वा पङ्च म्यामधवा तिथौ ।। 14.40 ।।
एकादश्यां त्रयोदश्यां द्वितीयायामथापि वा ।
सितपक्षे शुभे वारे लग्ने शुभ (8) तरेऽथ वा ।। 14.41 ।।
(8. तरे तथा.)
श्रवणे पुष्यरोहिण्यां रेवत्यां भरणीषु च ।
स्वातौ हस्तपुनर्वस्वोरश्विन्यां मित्रदैवते ।। 14.42 ।।
ऋक्षेष्वन्यतम् कार्यं पवित्रारोपणं हरे ।
* पवित्रतन्तुर्माणम्.*
तन्तून् ब्राह्मणकन्याभिर्निर्मितान् दोषवर्जितान् ।। 14.43 ।।
कार्पासान्वाथ कौ शेयान् (9) क्रीतान्वा शउद्धवारिभिः ।
क्षालितान्मि श्रितांश्चूर्णै र्मौद्गिकैश्शोषयेद्भहिः ।। 14.44 ।।
(9. क्षालितान् शुद्धवारिभिः.)
आतपेषु ततश्शुथ्धान् शोषितां स्त्रिगुणीकृतान् ।
पुनस्तां स्त्रिगुणीकृत्य तावन्तोपि चतुर्गुणान् ।। 14.45 ।।
यद्वा त्रिगुणतां नीत्वा चतुर्गुण्यं चतुर्मुख ।
त्रिगुणांस्त्रिगुणीकृत्य यद्वा तानेकतां नयेत् ।। 14.46 ।।
* तन्तुसंस्कारः.*
गोमियालेपिते भूमितले मानानुसारतः ।
शङ्क्वोस्थ्सापितयोर्यज्ञद्रुमसम्भूतयो स्ततः ।। 14.47 ।।
आरोप्य भगवद्भक्ताः प्राङ्मुखा वाप्यु दङ्मुखाः ।
आसीना गुरुरन्यो वा तत्प्रयुक्तास्समाहिताः ।। 14.48 ।।
स्नाता निर्माणनिपुणा मनुष्या भगवन्मयाः ।
(10) कुर्याःपवित्र कल्याणं यथा स्याद्भूषणोत्तमम् ।। 14.49 ।।
(10. आयुःपवित्रम्.)
* अधिवासाद्युपयोगिपवित्रमानम्.*
पवित्रमधिवासार्थमाद्यं (11) नाभ्यवधिस्मृतम् ।
अष्टोत्तरशतैस्सूत्रैर्द्वात्रिंशद्ग्रन्थिभिर्युतम् ।। 14.50 ।।
(11. नाभ्यवधीहितम्.)
मूलबेरादिबेराणां (12) पवित्रमिदमिष्यते ।
* पूर्वापरदिनभेदेन पवित्रमानम्.*
पवित्रं मण्टले पद्मतुल्यमानं घटेऽपि च ।। 14.51 ।।
(12. प्रमाण.)
कुण्डे च मेखलामानं पुर्वेद्युर्मानमीरितम् ।
अपरेद्युःपवित्रेषु मानं संप्रति कथ्यते ।। 14.52 ।।
पद्मनाभ्यरनेमीनां चक्राब्जे मण्डले सताम् ।
तन्मानानि पवित्राणि बाह्यमानं बहिस्समम् ।। 14.53 ।।
* पवित्राणां तन्तुग्रन्थितारतम्यम्.*
ग्रन्थयस्तन्तवश्चैषां कथ्यनैच यथाक्रमम् ।
चतुश्सतानि सूत्राणि ग्रन्थयस्सप्तविंशतिः ।। 14.54 ।।
शतत्रयं तन्तुसङ्ख्या ग्रन्धयो द्विगुणा मताः ।
द्वेश ते (13) द्विगुणा ग्रन्थिशतमेक मनन्तरम् ।। 14.55 ।।
(13. त्रिगुणे क्रन्थि.)
चतुर्गुणा ग्रन्थिसङ्ख्या बाह्यसूत्रं चतुश्शतम् ।
ग्रन्थयःपञ्च गुणिताः कुम्भे चाष्टोत्तरं शतम् ।। 14.56 ।।
तन्तवो ग्रन्थिसङ्ख्या च सप्तविंशतिरिष्यते ।
एकाधिकाशीतिसङ्ख्यास्त न्तवः करके मताः ।। 14.57 ।।
सप्तविंशति सङ्ख्याश्छ ग्रन्थयःपरिकीर्तिताः ।
* पवित्रभेददशकनामानि.*
पवित्रसङ्ख्या भेराणां दश तानि पदामिते ।। 14.58 ।।
प्रामाण्यं (14) गन्धसंज्ञं चाप्यलङ्काराह्वयं तथा ।
उत्तमाधममध्याख्यं किरीटाह्वमनन्तरम् ।। 14.59 ।।
(14. ग्रन्थि.)
श्रीवत्सकौस्तुभाह्वानं वनमालाह्वयं तथा ।
(15) मानानि तेषां सूत्राणि ग्रन्थयश्च यथाक्रमम् ।। 14.60 ।।
(15. मानं च तेषां सूत्राणां.)
* मानानुगुणग्रन्थितन्तुसङ्ख्या.*
कर्थ्यनैनाभिमर्यादा सूत्राण्यष्टोत्तरं शतम् ।
द्वात्रिंशद्ग्रन्थयस्तस्य हृदयान्तमन न्तरम् ।। 14.61 ।।
सूत्राण्यशीति (16) तस्योक्ता क्रन्थयः पङ्च विंशतिः ।
जङ्घामध्यान्तमायामं निर्मितं शततन्तुभिः ।। 14.62 ।।
(16. सङ्खोक्ता.)
अष्टोत्तरैर्ग्रन्थिभिश्च द्वात्रिंशद्गुणतैर्युतम् ।
उत्तमाख्यस्य सूत्राणां भवेत्सङ्ख्या चतुश्शतम् ।। 14.63 ।।
शतमष्टौत्तरं सङ्ख्या ग्रन्थीनां जानुसीम तत् ।
शतानि त्रीणि तन्तूनां ग्रन्थयोऽशीतिरिष्यते ।। 14.64 ।।
आयतं चोरुमध्यान्तं द्वेशते तन्तवः पुनः ।
नाभ्यन्तं ग्रन्थयष्षष्टि (17) तन्तवोऽथ चतुश्शतम् ।। 14.65 ।।
(17. तन्तवश्च.)
किरीटमानं द्वात्रिंशद्ग्रन्थय स्तदन न्तरम् ।
शतानि त्रीणि तन्तूनां हाराकारप्रकल्पितम् ।। 14.66 ।।
ग्रन्थिभिस्सप्तविंशत्या द्वे शते (18) त न्तवः पुनः ।
द्वात्रिंशत् न्तसमर्यादं सहस्रं चाष्टभिर्युतम् ।। 14.67 ।।
(18. ग्रन्थयः.)
तन्तवश्चरणा () याममनेकग्रन्थिभिर्युतम् ।
विष्टरस्य सहोत्थस्य पवित्रं तत्समं मदम् ।। 14.68 ।।
तन्तवोऽष्टोत्तरशतं ग्रन्थयःपञ्चविंशतिः ।
प्रभावित्रं तत्तुल्यं ग्रन्थयो बहनःस्मृताः ।। 14.69 ।।
सर्वेषां च स्वतन्त्राणां बिम्बानामिदमीरितम् ।
* परतन्त्रबिम्बपवित्रविधिः.*
परतन्त्रेषु बिम्बेषु त्रितयं तू त्तमादिकम् ।। 14.70 ।।
* श्रियादिदेवीनां पवित्राणि.*
देवीनां च श्रियादीनां पवित्रं तद्वदिष्यते ।
* अग्निकुण्डादीनां पवित्राणि.*
अष्टोत्तरशतैस्सूत्रैर्ग्रन्थिभिर्बहुभिर्युतम् ।। 14.71 ।।
अग्निकुण्डे मेखलासु पवित्रं प्रतिमेखलम् ।
तन्तुभिस्सप्तविंशत्या तावद्भिर्ग्रन्थिभिर्युतम् ।। 14.72 ।।
अग्नेःपवित्रं हस्तेन समायामं प्रकीर्तितम् ।
मध्यमं पञ्चविंशत्या (19) द्वाविंशत्याधमे मतम् ।। 14.73 ।।
(19. द्वादशैवाध मे मताः.)
सूत्राणां पञ्चविंशत्या पवित्रं स्रुक्स्रुवादिषु ।
तदायामसमायामं ग्रन्थिभिर्बहुभिर्युतम् ।। 14.74 ।।
अर्घ्यपात्रे तथा धूपदीपपात्रे चतुर्मुख ।
घण्टायामक्षमालायां सर्वत्राष्टोत्तरैश्शतैः ।। 14.75 ।।
सूत्रैर्यथेप्सिताग्रन्थिर्द्वादशाङ्गुलमायतम् ।
* विष्वक्सेनतार्क्ष्यादीनां पवित्राणि.*
विष्वक्सेनस्य तार्क्ष्यस्य तथा दुश्च्यवनादिषु ।। 14.76 ।।
दिग्देवतासु द्रुहिणे दुर्गायां विघ्नुनायके ।
रुद्रे च परिवारेषु पवित्रं तस्तुभिःकृतम् ।। 14.77 ।।
शतेनाष्टोत्तरेण स्याद्द्वात्रिंशद्ग्रन्थिभिर्युतम् ।
हस्तमानायतं कार्यं चण्डादिषु च सर्वतः ।। 14.78 ।।
* कुम्भतोरणादीनां पवित्राणि.*
सप्तविंशतिसूत्रेण ग्रन्थिभिन्नेन निर्मितम् ।
हस्तमानं भवेत्कुम्भतोरणादिषु तादृशम् ।। 14.79 ।।
बलिपीठपवित्रं तु कर्णिकाया (20) मसंमितम् ।
* आचार्ययतियुत्विगादीनां पवित्राणि *
आचार्याणां यतीनां च पवित्रं तन्तुभिःकृतम् ।। 14.80 ।।
(20. स्समं मितम्.)
अष्टोत्तरशतै (21) स्सूत्रैर्ग्रन्थिभिःपर्वभिर्युतम् ।
ऋत्विजां पूजकानां च ब्राह्मणानां तथैव च ।। 14.81 ।।
(21. र्युक्तां ग्रन्धिभिर्बहुभिर्युतम्.)
एकाशीत्या कृतं सूत्रैर्नाभ्यन्तपरिलम्बितम् ।
राज्ञःपवित्रं सूत्रेण शतेनाष्टोत्तरेण तु ।। 14.82 ।।
यथेष्टग्रन्थिनिचयैस्तूलगर्भैश्चनिर्मितम् ।
(22) नाभ्यन्तमानमेतत्स्यात्तथा तदनुजीविनाम् ।। 14.83 ।।
(22. नाभ्यन्तं त्रयमेतत् स्यात्.)
एताशीत्या कृतं सूत्रैर्वैश्यादीनां च तन्तुभिः ।
चतुर्विंशतिभिस्तेषां पवित्रमुपवीतवत् ।। 14.84 ।।
* विभवानुरोधेन पवित्रमानम्.*
पवित्रेषु समस्तेषु विस्तारो विभवे सति ।
पादोनमर्धं पादो वा सङ्ख्या स्याद्विभवक्षये ।। 14.85 ।।
* मणिमुक्ताप्रवालादिभिरपि पवित्रग्रन्थियोगः.*
ग्रन्थींस्ततःपवित्राणां द्रव्यैः कस्तूरि कादिभिः ।
मणिमुक्ताप्रवालाद्यै रत्नैश्चापि यथावसु ।। 14.86 ।।
लोहैश्च कलधौताद्यैस्तूलैर्वा तदसन्निधौ ।
पूरयित्वा दृढं बध्वा ग्रन्थींस्तां स्तन्तुरज्जुभिः ।। 14.87 ।।
* पवित्रग्रन्थीनामाकारः.*
ग्रन्थयश्शङ्खसंस्थानसमानाकृतयोऽथ वा ।
धात्रीफल समाकारा यद्वा मुक्तादि सन्निभाः ।। 14.88 ।।
* पवित्रवर्णगन्धरचना.*
कुङ्कुमैरोचनाभिश्च तथा मलयजैरपि ।
लोहितैरप्यवश्यायैस्संपिष्टैःकर्दमीकृतैः ।। 14.89 ।।
ग्रन्थीनामन्तरालानि लिम्पेच्छोभा यथा भवेत् ।
ग्रन्थीनां पूरणं यद्वा मल्लिकाद्यैस्सुगन्धिभिः ।। 14.90 ।।
पुष्पौस्तदन्तरालानि निशाचर्चाभिरेव वा ।
रञ्जयेत्तन्तवश्चापि ग्रन्थयश्च यथेच्छया ।। 14.91 ।।
यथाविभवविस्तारं कल्पनियाश्चतुर्मुख ।
विभवे सति सङ्कोचो नैव कार्यस्तथाऽसति ।। 14.92 ।।
विस्तारो नैव कार्यस्यात्तदेव प्रीणनं हरेः ।
* पवित्राधिवासकालविकल्पः.*
सद्योऽधि (23) वास्य वा तस्मिन्नुपोष्याराधयेद्धरिम् ।। 14.93 ।।
(23. पासो.)
* श्रद्धाया आवश्यकता.*
गृहार्चने कौतुके वा मण्डले वा घटेऽपि वा ।
अर्चनं श्रद्धया कार्यं श्रद्धापूतमिदं जगत् ।। 14.94 ।।
* सिद्धे पवित्रे भगवदर्चनम्.*
विहितेषु पवित्रेषु यथोक्तेनैव वर्त्मना ।
आरभेतार्चनं विष्णोर्दशम्यां च निवेदनम् ।। 14.95 ।।
निशामुखे गुरुस्सार्धं मूर्तिपैस्सु समाहितः ।
* भगवति विज्ञापनीयगाधा.*
यजमानेन सहितःप्रविशेद्विष्णुमन्दिरम् ।। 14.96 ।।
प्रविश्य पूजयित्वातं गुरुस्तैस्सहितस्स्वयम् ।
विज्ञापयेदिमां गधा (24) मीरयन् प्राञ्जलिस्थितः ।। 14.97 ।।
(24. विरयेत्.)
न्यूवातिरेकशान्त्यर्थं पवित्रारोहणं परम् ।
अर्चनं भगवन् सर्वदुरुतोत्सारणक्षमम् ।। 14.98 ।।
संपदां चापि सर्वासामुत्पादनमनु तमम् ।
क्रियते तदविघ्नेन यथा स्यात्कर्म चोदितम् ।। 14.99 ।।
तथानुज्ञापयामि त्वा मनुजानीहि कर्मतत् ।
इति विज्ञाप्य निर्गत्य मन्दिरात्
* गुरोरुपवासः.*
मण्डपे पुनः ।। 14.100 ।।
संस्तीर्य दर्भान् प्रागग्रान् तेषु प्रागाननो गुरुः ।
उपविश्योपवासं च कल्पयित्वा समाहितः ।। 14.101 ।।
नयेत्तत्रेव तां रात्रिं जपध्यानपरस्सदा ।
* अपरेद्युरधिपासकालः.*
अपरेद्यु (25) र्निशीधिन्यामधिपासनकर्मतत् ।। 14.102 ।।
(25. र्निशायां स्यात्.)
आरभेत्तेकभेरेषु बध्वा तत्रेव कौतुकम् ।
* बहुबेरैकबेरस्थले कौतुकबन्धविधानम्.*
बहुबेरुषु कल्याणमिम्बे (26) कौतुकमङ्गलम् ।। 14.103 ।।
(26. कल्याण.)
* अधिवासविधिः.*
ततो निर्गत्य विपुले मण्टपे तोरणादिकम् ।
अर्चयित्वा यथापूर्वं दिक्षु चैव विदिक्षु च ।। 14.104 ।।
चतुर्वेदवितो विप्रानेकायनविदस्तथा ।
अधीयानान् स्थापयित्वा तुर्याघोषेषु सत्सु च ।। 14.105 ।।
मङ्गुलेष्वपि चान्येषु कल्पितेषु यथातथम् ।
पवित्रपात्राण्यादाय प्रागुदग्भुवि मण्डपे ।। 14.106 ।।
धान्यराशिषु संस्थाप्य पुण्याहं वाचयेत्ततः ।
दहनाप्यायनध्यानैः पात्रस्थानि विशोधयेत् ।। 14.107 ।।
धूपयेद्गन्धवद्द्रव्यैर्लिम्पेत्कस्तूरि कादिभिः ।
पुष्पाणि विकिरेत्तेषु गन्धवन्ति बहुनि च ।। 14.108 ।।
तानि भूषणपात्राणि वेष्टयेन्नववाससा ।
* चक्रमुद्राप्रदर्शनम्.*
दर्शयेच्चक्रमुद्रां च (27) पूजयेदस्त्रविद्यया ।। 14.109 ।।
(27. पूजयित्वा.)
* मण्डपसूत्रबन्धक्रमः.*
ऐशानीं दिशमारभ्य सूत्रेस्संवेष्ट्य मण्टपम् ।
मण्टपस्योपरि ध्यात्वा चक्रं भूमितले पुनः ।। 14.110 ।।
पद्मं गदां च द्वारेषु शङ्खमष्टनु दिक्षु च ।
* भूतेभ्यो माषान्नबलिदानम्.*
प्रत्यूहकारिणां तस्य छिद्रमन्विष्य धावताम् ।। 14.111 ।।
भूतानां राक्षसादीनां माषान्नेन (28) बलिं क्षिपेत् ।
* कल्याणबेरस्य उपवीतान्तमर्चनम्.*
बहुबेरेषु कल्याणबिम्बं स्नानासने बहिः ।। 14.112 ।।
(28. बलिर्बहिः.)
स्थापयित्वोपवीता (29) न्तमुपचर्य यथातथम् ।
* चक्राब्जमण्डपे महाहविर्निवेदनम्.*
चक्राब्जमण्डले भूयस्समानीय चतुर्मुख ।। 14.113 ।।
(29. द्यैरुपचर्य.)
हविर्निवेदनान्तेतु समाराधन कर्मणि ।
निष्ठिते करके कुम्भे देवमावाह्य पूजयेत् ।। 14.114 ।।
हविर्निवेदयित्वान्ते हुत्वाचाग्निं यथापुरम् ।
* एकबेरे कल्याणाराधननिषेधःम्.*
एकबेरे चु कल्याण कौतुकाराधनं विना ।। 14.115 ।।
अन्यत्सर्वमनुष्ठेयं यथा पूर्वोदित (30) क्रमात् ।
सम्भवे कौतुके तस्मिन् पवित्रं भूषणं पुनः ।। 14.116 ।।
(30. क्रमम्.)
निक्षिपेत्कुम्भकरके दहने तदनन्तरम् ।
चक्राब्जमण्डले मन्त्रमिदं विष्णुरिति ब्रुवन् ।। 14.117 ।।
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
मूलबेरं (31) समासाद्य पवित्रन्यसनं ततः ।। 14.118 ।।
(31. समाराध्य.)
* पवित्रतन्तूनां पञ्चवर्णत्वम्.*
पूर्वोदितेन मन्त्रेण (32) सर्वार्चासु यथाक्रमम् ।
पवित्रभूषणन्यासः पञ्च (33) रागैश्च तन्तुभिः ।। 14.119 ।।
(32. सर्वासु च.)
(33. रङ्गै.)
प्रासादं वेष्टयेद्रात्रौ सर्वमाम्नायघोषणैः ।
पाद्यैर्गेयैश्च नृत्तैश्च स्तोत्रैर्जागरिता जनाः ।। 14.120 ।।
* अपरेद्युरुपचारः.*
नयेयुरपरेद्युश्च कौतुकं मण्डलेस्थितम् ।
स्नानवेद्यां समानीय स्नापयित्वा यथाविधि ।। 14.121 ।।
अलङ्कृत्य च देवेशं मण्डले मार्जनादिभिः ।
शोधिते वर्तयित्वा च चक्राब्जं (34) पञ्चवर्णकैः ।। 14.122 ।।
(34. पर्णपञ्चकैः.)
द्वारादियजनं प्राग्वत्कृत्वावस्थाप्य मण्डले ।
देवमाराध्य (35) दीपान्तं कुम्भादीनपि पूजयेत् ।। 14.123 ।।
(35. धूपान्तम्.)
* देवे कुम्भे च चतुर्विधान्न निवेदनम्.*
अन्नं चतुर्विधं चापि (36) कुम्भे देवे निवेद्य च ।
अग्नौ च जुहुयादन्नं पायसादि चतुर्विधम् ।। 14.124 ।।
(36. कुम्भेदेवे.)
पौरुषेणै व सूक्तेन यवैश्च व्रीहि वेणुभिः ।
तिलैर्लाजैस्तथा पुष्पैस्तथा चागरुबिर्घृतैः ।। 14.125 ।।
समिद्भिर्मूलमन्त्रेण पृथगष्टोत्तरं शतम् ।
* शुभमुहूर्ते पवित्रेश्च क्राब्जमण्डलमण्डनम्.*
मुहूर्ते शोभने प्राप्ते दैवज्ञपरिशोधिते ।। 14.126 ।।
पवित्राणि समादाय चक्राब्जं भूषयेत्पुनः ।
* सर्वत्र मात्रैक्यम्. मूलबेरादिक्रमेण पवित्रारोपणम्.*
पद्मादीनि तदङ्गानि यथा स्वमिदमित्यृचा ।। 14.127 ।।
ततःकुम्भे चकरके देवे च तदनन्तरम् ।
स एव मन्त्रःकुण्डेऽपि हव्यवाहेऽपि तोरणे ।। 14.128 ।।
द्वारकुम्भेषु तत् स्थेषु पवित्राणि यथा (37) तथा ।
ततः प्रदक्षिणीकृत्य मण्डलस्थं जगद्गुरुम् ।। 14.129 ।।
(37. यथम्.)
प्रविश्य मन्दिरं सर्वैर्मङ्गुलैस्सह देशिकः ।
स्नपनादि विधायादौ समाराधन (38) मच्युते ।। 14.130 ।।
(38. मुच्यते..)
हविर्निवेदनान्तं तत्कृत्वा तत्रत्यदेवताः ।
मूलबेरं समारभ्य पवित्रै र्भूषयेत्स्वकैः ।। 14.131 ।।
* स्वतन्त्रपरतन्त्रबेरार्चनम्.*
परपन्त्रास्स्वतन्त्राश्च सर्वाःपूर्वोक्त (39) विद्यया ।
अभ्यर्च्यगन्धपुष्पाद्यैःपवित्राणि पृथक्पृथक् ।। 14.132 ।।
(39. सङ्ख्यया.)
देयानि
* परिपारैस्स्वस्वगीतपाद्यादिकाला प्रदर्शनम्.*
दानवेलायां वाद्यवादनकोविदाः ।
(40) नर्तका गायकाश्चैव तथा स्वाध्यायकोविदाः ।। 14.133 ।।
(40. इदमर्धं क्वचिन्नास्ति.)
सर्वे यथास्वनृत्तादि दर्शयेयुस्तदन्तिके ।
* अनुक्तपरिवारादिदेवतापवित्रारोपणमन्त्रः.*
चण्डादिपरानाराणामन्येषां (41) प्राङ्कणासिनाम् ।। 14.134 ।।
(41. प्राङ्कणे सताम्.)
पवित्राणि प्रदेयानि बलिपीठावसानकम् ।
ब्रह्मादि देवतानां च तार्क्ष्यसेनेशयोरपि ।। 14.135 ।।
(42) सर्वेषामप्यनुक्तानां पवित्राणि यथायथम् ।
मन्त्रश्च विष्णुगायत्री यद्वेदं विष्णुरित्ययम् ।। 14.136 ।।
(42. अन्येषामप्यनुक्तानां.)
यद्वाचाष्टाक्षरेणैव मन्त्रेण द्वादशात्मना ।
देशिको मूर्तिपैस्सार्धं यजमानेन संयुतः ।। 14.137 ।।
* पुष्पाञ्जलिः.*
प्रविश्य मन्दिरं विष्णो रत्नपूर्णाञ्जलिस्स्वयम् ।
हेमपुष्पाञ्जलिर्वापि यद्वा पुष्पभृताञ्जलिः ।। 14.138 ।।
स्तोत्रेस्तुवानो बहुभिर्विकिरेत्तानि पादयोः ।
कत्नानि हेमपुष्पाणि पुष्पाणि सुरभीण्यपि ।। 14.139 ।।
* सर्वपवित्राणां देवपादयोर्न्यासः.*
कल्पितानि मनुष्याणां पवित्राणि यथायथम् ।
न्यस्य देवेशपदयोः पुष्पवत्सुसमाहितः ।। 14.140 ।।
* पवित्रविभजनम्.*
क्षौमा (43) दीनि पवित्राणि देवं विज्ञाप्य देशिकः ।
स्वयं गृहीत्वा क्षौमादिपवित्रं चात्मनः कृतम् ।। 14.141 ।।
(43. दीनि च वस्त्राणि.)
दद्यात्पूजकमुख्यानामृत्विजां सहकारिणाम् ।
एकायनीयनिष्ठानामन्येषां विदुषामपि ।। 14.142 ।।
यथाधिकारं क्रमशो देवस्यालोक्य चाननम् ।
* भगवति क्षमाभ्यर्थना.*
स्पृष्ट्वा देवपदान्भोज (44) माचार्योथ जनान्तिके ।। 14.143 ।।
(44. माचार्येण पदान्तिके.)
न्यूनातिरेकशान्त्यर्थं गाधामेनामुदीरयेत् ।
(45) भगवन् देवदेवेश शङ्खचक्रगदाधर ।। 14.144 ।।
(45. इदमर्धं क्वचिन्नदृश्यते.)
संवत्सरोपचाराणां पूरणार्थं कृतं मया ।
आराधनं गृहाणत्वं भक्तानां हितकाम्यया ।। 14.145 ।।
नाहं स्वतन्त्रःकिञ्चिच्च करोमि विहितं हितम् ।
किन्तु त्वत्त्प्रेरितस्सर्वं करोमि तव यत्स्वयम् ।। 14.146 ।।
तत्क्षन्तव्यमशेषेण क्रियालोपाद्यनुष्ठितम् ।
* ब्राह्मणसन्तर्पणम्.*
समये यजमानस्तु गां भुवं काञ्चनं तथा ।। 14.147 ।।
वस्त्रादिकं तथा धान्यं भोजयित्वा महीसुरान् ।
दत्वा यथेप्ति तानर्थानाचार्याय च दक्षिणाम् ।। 14.148 ।।
शतनिष्कावरां गोभूवस्त्रधान्यादि काव्यपि ।
मूर्तिपेभ्यस्तथान्येभ्यस्तत्तत्क र्मानुसारतः ।। 14.149 ।।
यथातुष्टिकरं देयं यागे तत्रोपकुर्वताम् ।
* बहिर्ग्रामोत्सवकालः.*
अपराह्णे बहिर्ग्रामे कुर्यादेवं महोत्सवम् ।। 14.150 ।।
* पवित्रावरोपणावधिः.*
प्रोक्ष्य प्रत्यहमेतानि पूजाकालेषु पूजकैः ।
स्यसनीयानि दिवसां श्चतुर्दश चतुर्मुख ।। 14.151 ।।
(46) यद्वैकविंशतिं सप्त यदि वा दिवसानपि ।
त्रिरात्रमेकरात्रं वा पश्चात्तान्यपरोहयेत् ।। 14.152 ।।
(46. द्वयैकविंशतिस्सप्त.)
* पवित्रारोपणमन्त्राः.*
उच्चरन् पौरुषं सूक्तं साम यद्वा रथन्तरम् ।
त्रिसुवर्णं तथा मन्त्रं मूलमस्त्रमथापि वा ।। 14.153 ।।
* गुरुवे पवित्राप्रदाने दोषः.*
अवरोप्य पवित्राणि देयानि गुरवे ततः ।
कुरवे तानि दत्तानि प्रीणनाय मधुद्विपः ।। 14.154 ।।
अन्यथा कर्मनैष्फल्यं क्षयस्स्याद्ध्राजराष्ट्रयोः ।
* आवाहित देवताविसर्जनम्.*
मण्डलस्धं च कुम्भस्थमग्निस्थं च विसर्जयेत् ।। 14.155 ।।
* पवित्रावरोपणे कालोत्कर्षानवश्यकता.*
पवित्रारोहणदिने कालोत्कर्षोन युज्यते ।
* पवित्रावरोपणानन्तरं भगवतस्स्नपनम्.*
कृत्वा वरोहणं तेषां स्नपनं तदन न्तरम् ।। 14.156 ।।
कार्यं यथोक्तविधिना प्रविशेन्मन्दिरं ततः ।
* पवित्रोत्सवफलं.*
इत्येष कथितो ब्रह्मन् पवित्रारोहणेविधिः ।। 14.157 ।।
अनेन विधिना विष्णोःपवित्रारोहणं हरेः ।
कुर्वन् फलान्यनन्तानि प्राप्नु यान्नैव संशयः ।। 14.158 ।।
सुखं जीवति निर्व्याधि र्यावदायुस्समृद्धिमान् ।
आयुश्च विन्दति प्राप्तं धर्माथान् धर्ममाप्नुयात् ।। 14.159 ।।
कामानवाप्नुयात्कामी अर्थार्थीचार्थमाप्नुयात् ।
मोक्षार्थी मोक्षमाप्नोति प्रजार्थी लभते प्रजाः ।। 14.160 ।।
(47) बान्धवैर्लभतेचापि प्रवासिभिस्समागमम् ।
कीर्तिंचाप्नोति परमां कीर्तिकामो न संशयः ।। 14.161 ।।
(47. पान्थो वै लभते चापि बन्धुभिश्च.)
ज्ञानार्थी ज्ञानमाप्नोति शान्त्यर्थी शान्तिमाप्नुयात् ।
शत्रवस्तु प्रणश्यन्ति ग्रहभूताद्युपद्रवाः ।। 14.162 ।।
आरोग्यकामी चारोग्यं श्रीकामश्स्रियामाप्नुयात् ।
बहुनात्र किमुक्तेन फलं यद्यदभीप्सितम् ।। 14.163 ।।
तत्सर्वं तस्यहस्तथं नात्र कार्या विचारणा ।
भुक्त्वा भोंगांश्च विपुलान् ध्यात्वा चान्ते मधुद्विषम् ।। 14.164 ।।
तल्लोकं समवाप्नोति न चेहोजायते पुनः ।
धारयन्ति पवित्राणि येभक्ताश्श्रद्धयान्विताः ।। 14.165 ।।
तेपि निर्धूय पापानि मोदन्तेदिव देववत् ।
आचार्यो मूर्तिपास्सर्वे ये चान्ये परिचारकाः ।। 14.166 ।।
ये श्यण्वन्ति च पश्यन्ति कीर्तयन्ति च कर्म तत् ।।
ते सर्वेपि समृद्धार्थालभन्ते सर्वसंपदः ।। 14.167 ।।
* आग्रयणपूजायोग्य मासतिथिनक्षत्रादि.*
(48) आग्रयणं श्रावणे मासि मासि प्रोष्ठपदेऽपि वा ।
मासे चाश्वयुजे ब्रह्मन् कार्तिके मासिवा भवेत् ।। 14.168 ।।
(48. आग्रेणं श्रवणे.)
वर्षास्वेवं ततोन्यत्र तैषे माघेऽपि वा भवेत् ।
फाल्गुने मासि चैत्रे वा वैशाखे वा तदाचरेत् ।। 14.169 ।।
हस्ते च श्रवणे पौष्णे नैरृते च प्रजापतेः ।
नक्षत्रे वारुणे पुष्ये वायव्येदितिदैवते ।। 14.170 ।।
(49) मखासु मैत्रे चित्रायां श्रविष्ठायामथापि वा ।
सौम्ये त्रिषूत्तराख्येषु सम्भवानुगुणं भवेत् ।। 14.171 ।।
(49. मखे च चित्रे चैत्रायाम्.)
अयुग्मास्तिथयस्सर्वा नवमीपरिर्जिताः ।
युग्मास्तु तिथयो नेष्टा द्वितीयां दशमीं विना ।। 14.172 ।।
सोमो बृहस्पतिस्सौम्यो बृगुश्चेति ग्रहाश्शुभाः ।
मेषवृश्चिकमिने तु कन्याझषकुलीरके ।। 14.173 ।।
पूर्वपक्षे च कर्तव्यस्तत्रायं कर्मणःक्रमः ।
* ओषधिलवन धान्य ग्रहणादिविधिः.*
आदौ दध्यादनं क्षेत्रे क्षेत्रपालाय कल्पयेत् ।। 14.174 ।।
मुहूर्ते लवनस्योक्ते विधाय लवनं ततः ।
धान्यं (50) कणिशभारेण गृह्णीयाद्भूमिकर्षकैः ।। 14.175 ।।
(50. कणशहारेण.)
कदलीपनसादीनि तथादधिघृतादिकम् ।
धान्यभारासपि तथा (51) कन्दल्यादिदलानि च ।। 14.176 ।।
(51. कन्दलानि दलानि च.)
नयेयुर्नृत्तवादित्रगीतालङ्कारसंयुतम् ।
* धान्यानयनकाले रक्षा संविधानम्.*
पुरतः पृष्ठतश्चैव सेनेशविहगधिपौ ।। 14.177 ।।
अलङ्कृतौ कुञ्जरादियानारूढौ यथावसु ।
छत्र चामरसौशेयध्वजातिपरिबर्हकौ ।। 14.178 ।।
* ग्रामप्रादक्षिण्येन धान्यानां कोष्ठागारनयनम्.*
नीत्वा प्रदक्षिणं ग्राममालयं च मधुद्विषः ।
गोष्ठागारं प्रविश्यान्तर्धान्यं कणिशगोचरम् ।। 14.179 ।।
* भाण्डे धान्यनिक्षेपणे मन्त्रः.*
श्रीसूक्तेन समभ्यर्च्य भाण्डेष्वभिनवेषु तत् ।
निक्षिप्य सङ्ग्रहं तस्य कुर्यात्तत्राल येषु च ।। 14.180 ।।
* कर्मकरेभ्यो धान्यविभागः.*
कर्मिणां देवदेवस्य तथा देवं समर्चताम् ।
यथाधिकारं धान्यानि दद्याच्च समये शुभे ।। 14.181 ।।
* परिष्कृत हविर्निवेदनम्.*
तण्डुलान्नूतना (52) नामान् क्षालितांस्त्रिफलीकृतान् ।
मरिचैर्जीरकै र्युक्तान् गुळपाकेनुभावितान् ।। 14.182 ।।
(52. नन्यान्.)
नालिकेरफलोपेतानिक्षुखण्डसमन्वितान् ।
मूलबेरादिबेराणां मुहूर्ते शोभने गुरुः ।। 14.183 ।।
* नवतण्डुलहोमः.*
निवेदये
त्ततो मूलविद्ययाष्टोत्तरं शतम् ।
तण्डुलै र्जुहुयादग्नौ
* नवान्न निवेदनम्.*
(53) ब्राह्मणानां यथापुरम् ।। 14.184 ।।
(53. ब्रह्मादीनां.)
तस्मिन् दिने परेद्युर्वा नवान्नानि निवेदयेत् ।
प्रभूतस्स्कृता (54) नेकनिष्ठानि कदलीदले ।। 14.185 ।।
(54. न्नानि.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे (55) पवित्राद्युत्सवविधिर्नाम चतुर्दशोऽध्यायः.
(55. आग्रयणोत्सव.)
------ ******* -------