प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २४ चर्यापादः
अध्यायः २५
[[लेखकः :|]]
अध्यायः २६ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
              चर्यापादे-पंचविंशोऽध्यायः
पञ्चविंशोऽध्यायः.
------
* अष्टाक्षरकल्पः.*
ब्रह्मा:---
अष्टाक्षरस्य मन्त्रस्य महिमानमनुत्तमम् ।
(1) शुस्रूषितमतमथच्छन्दो विशेषं सर्षिदैवतम् ।। 25.1 ।।
(1. शुश्रूषितं मया.)
फलं तन्मन्त्र जापस्य रूपं वा कीदृशं मतम् ।
देवता साधनं चापि मदन ग्रहकाम्यया ।। 25.2 ।।
ब्रूहि सर्वमशेषेण मह्यं शुश्रूषवेऽच्युत ।
श्रीभगवान् :---
अष्टाक्षरस्य मन्त्रस्य फलानि न हि शक्यते ।। 25.3 ।।
वक्तुं वर्षशतेनापि तेषां दिङ्मात्रमुच्यते ।
धर्मार्थकाममोक्षाणामेकान्तफलदं शुभम् ।। 25.4 ।।
सिद्धयो बहुधा (2) जप्तुर्मन्त्रं चोदितसज्ञ्यया ।
अचिन्तनीयो महिमा देवस्येव मधुद्विषः ।। 25.5 ।।
(2. जप्तुं मन्त्रम्.)
* वर्णोद्धारक्रमः.*
शुचौ विविक्ते विजने सर्वदोषविवर्जिते ।
वर्णचक्रं समालिख्य भूमावर्घ्यादिसाधनैः ।। 25.6 ।।
अभ्यर्च्यच यथान्यायं ततो वर्णान् समुद्धरेत् ।
उद्गीथमादौ विघ्णेशः प्रयोज्यस्तदनन्तरम् ।। 25.7 ।।
ब्रह्मासाधनसंयुक्तो मन्दरस्स्यादनन्तरम् ।
आदिदेवो व्रतो भद्रबाहुःपश्पादुदीरितः ।। 25.8 ।।
वह्निर्गोपनसंवीतश्श्वपनो विष्णुशीर्षकः ।
वनमाली ततो योज्यो मधुसूदनसंयुतः ।। 25.9 ।।
प्रणवादिशिरो वायुरिति वर्णक्रमोदितः ।
* बीजच्छन्दोनिर्देशः.*
बीजं विष्णुरमस्वारस्सामर्थ्यं कथितं पुनः ।। 25.10 ।।
अङ्गानि षड्द्विषट्कस्य मन्त्रस्येव विदुर्बुधाः ।
(3) छन्दश्च देवी गायत्रमन्तर्यामी मुनस्स्मृतः ।। 25.11 ।।
(3. छन्दस्तु.)
देवो नारायणस्साक्षाद्दैवतं क्षेत्रमीरितम् ।
परमव्योम बुद्धिस्स्यात्तत्वं वर्णस्सित स्तथा ।। 25.12 ।।
प्रत्यक्षरमृषिर्ब्रह्मन् गौतमः प्रथमस्स्मृतः ।
भरद्वाजो विश्वामित्रो जमदग्निरनन्तरम् ।। 25.13 ।।
वसिष्ठः काश्यपः पश्पा (4) दत्रिस्यात्कुम्भसम्भवः ।
छान्दांसि गायत्र्यादीनि विराडवसितानि च ।। 25.14 ।।
(4. दत्रिःकुम्भसमुद्भवः.)
(5) धरोध्रुवश्च सोमश्च आपश्चाग्निर्जलाधिपः ।
प्रत्यूषश्च प्रभातश्च देवाः प्रत्यक्षरं तथा ।। 25.15 ।।
(5. गायत्र्युष्णगनुष्टप्च बृहती पङ्तिरेव च । त्रिष्टुप्च जगतीचेति विराडिति तथैव च ।। इति श्लोक एकः क्वचित्कोशे अधिकोदृश्यते.)
आकाशं परमं क्षेत्रमक्षरस्यावसानतः ।
सत्यादि लोकास्सप्तस्युः प्रातिलोम्येन भूमयः ।। 25.16 ।।
अक्षराणां पृथिव्यन्तास्सप्तानां सप्त पद्मज ।
अग्निर्भूर्वायुराकाशं सूर्यो द्यौरथ चन्द्रमाः ।। 25.17 ।।
नक्षत्राणि तथा राशिरेते तत्वान्यनुक्रमात् ।
* प्रणवनिरुक्तिः.*
निरुक्तमस्य मन्त्रस्य कथयामि यथातथम् ।। 25.18 ।।
(6) अविः क्विबन्तो व्याप्त्यर्थःस्मर्यते कर्तृसाधनः ।
ओंकारवर्णव्यत्यासस्स्यादकारस्य पद्मज ।। 25.19 ।।
(6. आपः कविश्च तौ व्याप्ता.)
(7) मकारवर्णाव्यत्यासो वकारस्याप्ययन्त्विदम् ।
अन्तर्बहिश्च यत्सर्वं व्याप्नोति तदुदीर्यते ।। 25.20 ।।
(7. मकारमस्मिन् व्यत्यासः पकार.)
अथवा तन्तुसन्तानं वृत्तेर्वाथ भविष्यति ।
टेश्च लोपो वकारस्य प्रसारणमतःपरम् ।। 25.21 ।।
पूर्वत्वं चोपसर्गेण स्यादन्तश्चाद्गुणः कृतः ।
यस्मिन्नोतमिदं सर्वं तदेवमभिधीयते ।। 25.22 ।।
अवते रक्षणार्थत्वा (8) दटि लेपे च वर्तते ।
वकारस्योपधायाश्च द्वयो (9) रूढागमःस्मृतः ।। 25.23 ।।
(8. दवलोपे.)
(9. रूर्ध्वागमः.)
गुणे च रूपं यत्सर्वं त्रायते तत्परं परम् ।
अभिधेयमितिप्रोक्ता निरुक्तिः प्रणवस्य सा ।। 25.24 ।।
* नमःपदनिरुक्तिः.*
सम्यते (10) देव एवैक स्तेषामेकं परायणम् ।
* नारायणपदनिर्वचनम्.*
नरो देवः परस्स्रष्टा सर्गादौ पाथसामथ ।। 25.25 ।।
(10. देवतावैक.)
तस्मान्ना राणि पाथांसि तान्येवायनमुच्यते ।
देवस्य हेतोश्चामुष्मान्नारायण समाह्वयः ।। 25.26 ।।
नारावाऽयनमावासः पुरुषस्य मधुद्विषः ।
अण्प्रत्ययः प्रकृत्यर्थे ततो वाससमाह्वयः ।। 25.27 ।।
एवं मन्त्रमिमं लब्ध्वा सम्यग्गुरुमुखात्ततः ।
* साधकनियमाः.*
गुरुशुश्रूषणपरस्सर्व मन्द्राणि साधयेत् ।। 25.28 ।।
ब्रह्मचर्ये स्थितो मौनी मेध्याहाराशनो प्रती ।
अशनीयानि मेध्यानि पक्षामि खृणु तान्यपि ।। 25.29 ।।
पयोयावकशाकाम्बफलमूलानि सक्तवः ।
आद्यं कुशोदकं मेध्यं दधि भिक्षान्नमेव च ।। 25.30 ।।
* मन्त्रजपकालः.*
साधने मन्द्रजापस्य शृणु कालं (11) यथोदितम् ।
मूर्गशीर्षे शुभे मासि द्वादश्यां चन्द्रवर्धने ।। 25.31 ।।
(11. यथोचितम्.)
अराध्य परया भक्त्या नारायणमनन्यधीः ।
* देवताध्यानम्.*
चाक्राब्जमण्डले देवं द्याये देवं समाहितः ।। 25.32 ।।
चतुर्भाहुमुदारङ्गं चक्राद्यायुध (12) सेवितम् ।
कालमेघप्रतीकाशं पद्म पत्रायतेक्षणम् ।। 25.33 ।।
(12. भूषणम्.)
पीताम्बरधरं सौम्यं प्रसन्नेन्दुनिभावनम् ।
चारुहासं सुताम्रोष्ठं रत्नोज्वलितकुण्डलम् ।। 25.34 ।।
सुभ्रा (13) ललाटं सुमुखं सर्वाभरणभूषितम् ।
ललाटतिलकं सौम्यं दीपवच्छ्वेतमृत्स्नया ।। 25.35 ।।
(13. ललाटमुकुटं.)
(14) धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुना ।
स्फुरत्कटककेयूरहारकौस्तुभभूषितम् ।। 25.36 ।।
(14. इदमर्धं क्वचि न्नास्ति.)
स्फुरद्भास्करवर्णाभं शोभितं वनमालया ।
प्रद्योतनसहस्राभभूषणै रपि (15) भूषितम् ।। 25.37 ।।
(15. मण्डितम्.)
दिव्य (16) चन्दनलिप्ताङ्गं दिव्यमाल्यविभूषितम् ।
श्रीभूमिभ्यां सुखासीनं स्वर्णसिंहासने शुभे ।। 25.38 ।।
(16. गन्धानुलिप्ताङ्गम्.)
ध्यात्वैवं देवदेवेशं मन्त्राजाप परो भवेत् ।
सुखासीनो यथाकालं शुचिर्भूत्वा समाहितः ।। 25.39 ।।
मन्त्रं जपेज्जगन्नाथं समाराध्य दिने दिने ।
* मन्त्रजपहोमादिसङ्ख्या.*
जपेल्लक्षाष्टकं प्रोक्तं तदर्धं (17) तिलतर्पणम् ।। 25.40 ।।
(17. जलतर्पणम्.)
तदर्धं जुहुयादग्नौ ततस्सिध्यति मन्त्रराट् ।
* सिद्धेमन्द्रे धर्मसाधनप्रकारः.*
अथ संसाधिते मन्त्रेण स्वप्ने जाहरणे तथा ।। 25.41 ।।
सिद्धिलिङ्गानि मन्त्रस्य मन्त्री पश्यति सन्ततम् ।
ततस्सिद्धेन मन्त्रेण साधयेद्धर्ममुत्तमम् ।। 25.42 ।।
अथमन्त्रवराद्धर्मसाधनं योऽभिवाञ्चति ।
(18) यः पितृणां च सर्वेषां तर्पणं मन्त्रवित्तमः ।। 25.43 ।।
(18. पितृणामपि.)
ऋणत्रयाद्विनिर्मुक्तिं सर्वस्मादभिवाञ्चति ।
उपोष्य स शुचिर्भूत्वा (19) कुम्भेचक्राब्जमण्डले ।। 25.44 ।।
(19. कुर्याच्च.)
आवाह्य देवमाराध्य सम्यगर्घ्यादिसाधनैः ।
गोहिरण्यादिभिर्द्रव्यैस्तितैश्चैव कुशोदकैः ।। 25.45 ।।
(20) दत्तैर्मन्त्रजपैर्युक्तः प्रापयेल्लोकमक्षयम् ।
पतृन् मन्त्रप्रासान नरकस्थानपि क्षणात् ।। 25.46 ।।
(20. दत्तैर्मन्त्रैर्जपे युक्तः.)
अतोऽन्यल्लुप्त पिण्डानां पतृणां तृप्तिकारणम् ।
* कल्याणविधिः.*
विधिं वक्ष्यामि कल्याणं चतुर्वक्त्र यथातथम् ।। 25.47 ।।
उपोष्य मन्त्रवित्पूर्वं पूर्वेद्युस्सु समाहितः ।
पञ्चम्यां माघमासस्य (21) मण्डलं चक्रपङ्कजम् ।। 25.48 ।।
(21. मण्डपम्.)
अर्चयित्वा ततस्तस्य मध्ये देवं जगद्गुरुम् ।
यजेत कृसरान्नेन होमं तेनैव कल्पयेत् ।। 25.49 ।।
समिदाज्यतितानापि मन्त्रेणाष्टोत्तरं शतम् ।
पित्रादि नाम संकीर्त्य तारयेति पदान्वितम् ।। 25.50 ।।
प्राचीनावितिको भूत्वा होमान्ते दक्षिणामुखः ।
दक्षिणाग्रान् कुशान् भूमापास्तीर्य ध्यानमास्थितः ।। 25.51 ।।
ध्वात्वा नारायणं देवं तर्पयेच्च तिलोदकैः ।
तदक्षयं जलं दत्तं पितृणां तृप्तिमावहेत् ।। 25.52 ।।
तर्पयित्वा सदाचारान् ब्राह्मणान् भगवन्मयान् ।
भोजयेत्षड्रसोपेतं भोजनं द्वादशावरान् ।। 25.53 ।।
दद्यात्तेभ्यस्तिलान्वस्त्रान् गोहिरण्यादिकं ततः ।
ततस्सव्ये भुजे न्यस्य ब्रह्मसूत्रं समाहितः ।। 25.54 ।।
अग्रे भगवतो दर्भान् दक्षिणाग्रान् धरातले ।
आस्तीर्य साग्रान् (22) सुषमानासीनू दक्षिणामुखः ।। 25.55 ।।
(22. सुसमाना.)
पात्रस्थमन्नं दधि च तिलांश्चबदरीफलम् ।
कबलीकृत्य तान् पिण्डान् समान्मन्त्रमुदीरयेत् ।। 25.56 ।।
मधुवातेति तिसृभिरृग्भिर्बर्हिषि निक्षिपेत् ।
गोत्रनाम समुच्छार्य पितृणां सेचनं जलैः ।। 25.57 ।।
पुण्डान् पितृब्यो मातृभ्यो भ्रातृभ्योगुरवे तथा ।
आचार्यय तथान्येभ्यो बन्धुभ्यो (23) ध्यानमास्थितः ।। 25.58 ।।
(23. बहुभ्यो. धर्ममास्थितः.)
अवसेचनपूर्वं तु मन्त्रेणानेन मन्त्रवित् ।
पिण्डान् दद्यादभिध्यायन् देवं नारायणं हरिम् ।। 25.59 ।।
आसेचनं प्रकुर्वीत पुनरेव विचक्षणः ।
एवं विधाय विधिवदृणान्मुक्तश्च तत्क्षणात् ।। 25.60 ।।
विमानं दिव्यमारुह्य याति ब्रह्म सनातनम् ।
* फलातिशयप्रतिपादनम्.*
उपवानान् बहुविधानक्षमः कर्तुमञ्ञसा ।। 25.61 ।।
देवं चक्राब्जमध्यस्थं यजेदर्घ्याधिसाधनैः ।
सिद्देनानेन (24) मन्त्रेण नैवेद्यैश्च चतुर्विधैः ।। 25.62 ।।
(24. मनुना.)
हुत्वाघृतेन ज्वलने समिधाष्टोत्तरं शतम् ।
तन्मयान्भोजयेद्विप्रान् दद्याच्च विभपोचितम् ।। 25.63 ।।
इष्ट्वेवं देवदेवेशं व्रस्थो नियतेन्द्रियः ।
चान्द्रायणं पराकं च कृच्छ्रं सान्तपनं तथा ।। 25.64 ।।
संवत्सरोपवासं च तथैकादुश्यु पोषितम् ।
कृष्णाष्टम्यां श्रावणे च जयन्त्यादि प्रतेष्वपि ।। 25.65 ।।
(25) एकादश्युपवासस्य यदुक्तं फलमुत्तमम् ।
तत्तच्छतगुणं विद्यात्फलं पूजाविधेरपि ।। 25.66 ।।
(25. एकैकस्योप.)
यज्ञधर्मफलाकाज्क्षीतत्तत्फलमवाप्नुयात् ।
तर्थाभिगमनस्यापि फलं सप्ताहपूजनात् ।। 25.67 ।।
पवित्रारोहणे वापि (26) प्रतादिपरिपूरणे ।
स्नवने चोत्सवे पञ्चकालाभिगमने तथा ।। 25.68 ।।
(26. घृतादि.)
गोपुरालय (27) सालादिनिर्माणे प्रतिमासु च ।
क्षेत्रारामतटाकादि प्रदाने च मधुद्विषः ।। 25.69 ।।
(27. शालादि.)
घृतदीपप्रदाने च यत्फलं तत्सहस्रधा ।
फलत्याराधनाद्विष्णोर्नात्र कार्य विचारणा ।। 25.70 ।।
* सङ्क्रान्तिपूजाविधिः.*
सङ्क्रान्तौ मण्डले कुम्भेज्वलने च मधुद्विषम् ।
आवाह्य पूजयेद्देवं परमान्नैश्छतुर्विधैः ।। 25.71 ।।
जुहुयान्मनुनानेन ज्वलनेऽष्टोत्तरं शतम् ।
तन्मयान्भूजयेच्छक्त्यादद्याच्चैव यथावसु ।। 25.72 ।।
यस्य यस्य च धर्मस्य फलं यद्यदुदीरितम् ।
तस्य तस्य फलं तत्तन्मन्त्राच्छतगुणं भवेत् ।। 25.73 ।।
* उत्तरायणपूजा.*
अयने चोत्तरे कुम्भे वह्नौ चक्राब्जमण्डले ।
सोपवासश्शुचिर्भूत्वा समावाह्य जगद्गुरुम् ।। 25.74 ।।
यजेत (28) पूर्ववत्पश्चाद्धोमं पूर्ववदाचरेत् ।
* अर्थसाधनम्.*
अथार्थासाधनं मन्त्रमभिवाञ्छति चेन्नरः ।। 25.75 ।।
(28. पूजने देनम्.)
भद्रकं मण्डलं कृत्वा तस्मिन्ना राध्य मन्त्रवित् ।
तिलैर्भिल्वैस्तथापद्मैर्निम्बपुष्पैश्च तण्डुलैः ।। 25.76 ।।
चम्पकै र्मल्लिकाभिश्च मालत्या करवीरजैः ।
नन्द्यावर्तैर्यूधिकाभिः प्रत्येकं शतसङ्ख्याया ।। 25.77 ।।
जुहुयाद्विद्यया विद्वान् सप्ताहं चतुरासन ।
धनमक्षयमाप्नोति मन्त्रस्यास्य प्रभावतः ।। 25.78 ।।
चन्दनं कुङ्कुमं कोष्ठं रोचना (29) लक्तकं तथा ।
घनसारं मृगमदं पिष्ट्वा तत्क्षोदवारिणा ।। 25.79 ।।
(29. लक्षणम्.)
धनदं विलिखेद्भूमौ सप्त (30) रात्रमनन्यधीः ।
यजेत गन्धप्रमुखैर्निवेद्य च गुळोदनम् ।। 25.80 ।।
(30. रात्रं जितेन्द्रियः.)
पादेनाक्रम्य हृदयं धनदस्य जपेत्ततः ।
अयुतं नियुतं वापि मन्त्रराजं जितेन्द्रियः ।। 25.81 ।।
ध्यात्वा नारायणं देवं तदनैमन्त्रवित्तमः ।
साक्षात्करोति धनदं तथैव धनमक्षयम् ।। 25.82 ।।
प्रयच्छति धनाध्यक्षैरानीतं (31) स्वाश्रयात्क्षणात् ।
माणिभद्रादिभिर्मन्त्रप्रभावेन चतुर्मुख ।। 25.83 ।।
(31. स्वाज्ञया. स्वेच्छया.)
सप्ताहमथवा यागं कृत्वा भद्रकमण्डले ।
हुत्वा हुतीस्तदन्ते च कुर्याद्ब्रह्मणतर्पणम् ।। 25.84 ।।
ध्यात्वा नारायणं देवमात्मानं साधकोत्तमः ।
पश्यन् महीतलं शुद्धमग्रहाराद्बहिस्थ्सितः ।। 25.85 ।।
भवन्ति चास्य निधयः प्रत्यक्षा बहवस्तथा ।
अञ्जनाञ्चितचक्षुर्वा मन्त्रेणानेन मन्त्रवित् ।। 25.86 ।।
निधीन् पश्यति दुष्प्रापानभीष्टां स्तत् क्षणादसौ ।
भद्रके मण्डले पूर्वमिष्ट्वा देवं जनार्दनम् ।। 25.87 ।।
यज्ञदारुं वृषस्कन्धे बध्वा तस्मिन् हलं पुनः ।
कर्षयेद्भूतलं शुद्धं सितासु मणिकाञ्चनम् ।। 25.88 ।।
महदाप्नोत्यभिप्रेतमथवा कमलासन ।
वल्मीकस्य तथाभ्यर्णे कृत्वा भद्रकमण्डलम् ।। 25.89 ।।
यजेत पूर्ववद्देवमन्त्रे वल्मीकभूमिषु ।
(32) नालिकेरजलैस्सार्धं पिष्टं नागबलिं क्षिपेत् ।। 25.90 ।।
(32. नालिकेरफलै ।।.)
खात्वा वल्मीकधिष्ण्यन्तं तत्र पश्येन्महद्धनम् ।
खनित्रं क्षालयित्वा तु निशायामधिवासयेत् ।। 25.91 ।।
मण्डले स्वस्तिके देवमिष्ट्वा हुत्वा तथाहुतीः ।
अष्टोत्तरशतं भूयः (33) प्रातर्निक्षिप्य भूतले ।। 25.92 ।।
(33. घृतं निक्षिप्य भूतले.)
शुचौ खनेत्खनित्रेण (34) लभते सुमहद्धनम् ।
साधितं पारदं कृत्वा हस्ते जप्त्वा मनुं पुनः ।। 25.93 ।।
(34. लभेत.)
नियुतं प्रयुतं वापि यथाशक्ति समाहितः ।
तद्रसस्पर्शमात्रेण सर्वं काञ्चनतामियात् ।। 25.94 ।।
पाषाणमथवा लोष्टमग्नितप्तं न संशयः ।
औषधानि च सर्वाणि रसयुक्तानि पद्मज ।। 25.95 ।।
लोहसंस्पर्शयुक्तानि सुवते कनकं महत् ।
इत्थं धनवतां कामस्समुत्रान्तः प्रवर्तते ।। 25.96 ।।
तत्प्राप्तये विधायाब्जमण्डलं तत्र संस्मरेत् ।
मन्त्रेशमर्चयित्वाग्रे यथापूर्वमनन्यधीः ।। 25.97 ।।
जुहुयाच्च यथोक्तेन मार्गेण दिनसप्तकम् ।
* स्त्रीभोगः.*
पद्मरागरुचं देवं स्मृत्वा मन्त्रं जपेत्सुधीः ।। 25.98 ।।
पूर्वोक्तसङ्ख्यया स्त्रीणां भोगं (35) चेच्छति दुर्लभम् ।
चिन्तयित्वाफलं होमकर्मण्यवसिते ततः ।। 25.99 ।।
(35. चेतसि दुर्लभम्.)
(36) अभीष्टसाधकं सर्वाः प्रार्थयन्तेवरास्त्स्रियः ।
यावज्जीवं न त्यजन्ति कामार्ता मन्त्रवित्तमम् ।। 25.100 ।।
(36. अभीष्टसाधकाः.)
कन्याकामः फलैः पक्वैः पुष्पैर्लाजैर्दिने दिने ।
सहस्रं जुहुयाद्देवमाराध्य गरुडध्वजम् ।। 25.101 ।।
लभते कन्य कामिष्टां तदन्तेन विचारणा ।
* वशीकारः.*
यन्त्रं वश्यकरं पक्ष्ये श्रूयतां तद्यथातथम् ।। 25.102 ।।
भूर्जपत्रे लिखे (37) च्चक्रमष्टारं रोचनादिकैः ।
चन्दनद्वयकाश्मीरशशिकस्तूरिकान्वितैः ।। 25.103 ।।
(37. त्पद्मचक्रमष्टाररोचनाः.)
हेमसूच्यालिखेदेतैर्गन्धद्रव्यैस्तथापरैः ।
(38) नाभिनेमियुतं चक्रमष्टारं ज्वालयान्वितम् ।। 25.104 ।।
(38. नाभि नेमिं खुभं.)
अष्टस्वरेषु विलिखेदक्षराण्यष्ट पद्मज ।
प्रादक्षिण्येन विस्पष्टं ह्रीङ्कारं मध्यमे पदे ।। 25.105 ।।
साध्यनामापि तत्रैव सोङ्कारं तदनन्तरम् ।
ह्रीङ्कारं नाभिवलये दिक्ष्वष्टासु समर्पयेत् ।। 25.106 ।।
ह्रीङ्कारं नेमिवलये वशीकरणमक्षरम् ।
तथैवाशानु सर्वासु वशं कुरु पदान्वितम् ।। 25.107 ।।
तस्मिन्नावाह्य देवेशमिष्ट्वा मन्त्रं (39) जपेद्बुधः ।
अष्टोत्तरसहस्रं तु हुहुया (40) दाहुती स्ततः ।। 25.108 ।।
(39. जपेत्ततः.)
(40. त्तावदाहुतीः.)
गुलिकां बिभ्रतस्तस्य वश्यं सर्वमनन्तरम् ।
अथवा पादयोः पांसून् रक्तचन्दनमिश्रितान् ।। 25.109 ।।
आदाय पुरुषाकारां स्त्रीरूपां वा यथेप्सिताम् ।
कृत्वा प्रतिकृतिं तस्मिन्नस्यात्मानं (41) स्मरेद्धरिम् ।। 25.110 ।।
(41. न्यसेद्धरिम्.)
ताडयेन्मूलमनुना रक्तैस्तु (42) हयमारजैः ।
प्रत्यहं मन्त्रजापस्स्यादष्टोत्तरसहस्रकम् ।। 25.111 ।।
(42. यमवारिजैः.)
पश्या नारी पुमान् वापि सप्ताहान्ते जपाद्भवेत् ।
यावज्जीवं धनैर्दत्तैरात्मना वा यथेप्सितम् ।। 25.112 ।।
तिलतण्डुलदूर्वाणामयुताहुतिभिः क्रमात् ।
ब्राह्मणक्षत्रियविशो वश्यमन्त्र प्रभावतः ।। 25.113 ।।
अपामार्गसमिद्भिर्वा होमाद्वार्णान् वशं नयेत् ।
औदुम्बरसमिद्भिर्वा पलाशसमिधापि वा ।। 25.114 ।।
होमेन ब्राह्मणा वैश्याः पूर्वोक्ताहुतिसङ्ख्याया ।
त्रिभिर्मधुरसैस्सिक्तैरपामार्गसमिच्छतैः ।। 25.115 ।।
दशभिर्जुहुयादग्नौराजा वश्यः क्षणाद्भवेत् ।
अश्वत्थैः खादिरै र्वापि वशीकरणमीरितम् ।। 25.116 ।।
वटवृक्षसमित्सङ्घैर्वैश्यास्सर्वे वशीकृताः ।
शूद्रस्तु प्लक्षसमिधामाहुत्या स्ववशः क्षणात् ।। 25.117 ।।
गन्धद्रव्यसमायुक्तमृत्स्नया तिलकं दधत् ।
दृष्टमात्रेण जनतां वशं नयति मन्त्रवित् ।। 25.118 ।।
ध्यात्वा करतले चन्द्रं तन्मध्ये विष्ठितं हरिम् ।
सुखासीनं पुण्डरीककर्णिकायां सितप्रभम् ।। 25.119 ।।
ध्यायन् करतलस्प र्शैस्सर्वं वश्यं क्षणाद्भवेत् ।
भक्ष्यं भोज्यं तथा पेयं फलं वा पुष्पमेव वा ।। 25.120 ।।
स्पृष्ट्वा सहस्रजापेन (43) दत्तं सर्वान् वशं नयेत् ।
* आकर्षणम्.*
अकर्षणविधिं वक्ष्येतं ब्रह्मन्नवधारय ।। 25.121 ।।
(43. दत्वासर्वं.)
भूर्जपत्रे लिखेच्चक्रमष्टारं पूर्ववर्त्मना ।
गन्धद्रव्यैर्लिखेन्मन्त्रं हेमसूच्या विचक्षणः ।। 25.122 ।।
वेष्टयेदुक्तसूत्रेण तद्यन्त्रमभिमन्त्रितम् ।
(44) शिखिचङ्चुपुटे न्यस्तं भावयित्वा जपेत्ततः ।। 25.123 ।।
(44. शिखिपिञ्छ.)
तन्नामसंयुतं मन्त्रं क्रुद्ध्यन्नाकर्षयेति च ।
युक्तं सहस्रं सप्ताहं जपेत्प्रतिदिनं सीधीः ।। 25.124 ।।
आत्मानं गरुडारूढं सायुधाष्टभुजं हरिम् ।
बन्धूकपुष्पसदृशं भावयित्वा जितेन्द्रियः ।। 25.125 ।।
वामोत्सङ्गे हरेर्देवीं निषण्णां कामविह्वलाम् ।
पाशाङ्कुशधरां लक्ष्मीं ध्यात्वा च तदनन्तरम् ।। 25.126 ।।
नृपं बध्वा गले पाशैस्ताडयित्वाऽङ्कुशादिभिः ।
आयुधैः वृष्ठतो मन्त्रमाकर्षय पदान्वितम् ।। 25.127 ।।
जप्त्वाऽयुतं सप्तदिनं योजनानां शते स्थितम् ।
अपि भूपं नयत्याशु साधको मन्त्रतेसजसा ।। 25.128 ।।
धनेन महता युक्तस्स्वयमेवागतोनृपः ।
वश्यो भवति कृत्वैवं विप्रादीनपि वा ऽऽनयेत् ।। 25.129 ।।
योषिदाकर्षणे (45) चापि कृत्वैवं कर्म मन्त्रवित् ।
पञ्चभाणेषुभिर्विद्धां सर्वाङ्गेषु स्त्रियं स्मरेत् ।। 25.130 ।।
(45. वापि कृत्वैवं मन्त्र मन्त्र.)
पाशबद्धं तथैवान्यैरायुधैप्ताडितां भृशम् ।
क्षिप्रमेवानयेन्नारीं सप्ताहाच्छरवेगवत् ।। 25.131 ।।
दूरस्थितामपि तथा राज्ञो वा महिषीमपि ।
सा सन्निधत्ते कामार्ता मदविह्वाललोचना ।। 25.132 ।।
समृद्धार्थात्मना वापि धनैर्वापि यथेप्सितैः ।
साधकं तोषयत्येषा मन्त्रजापाद्यथोदितात् ।। 25.133 ।।
मृतनारीकपाले वा रोचनाद्येन वस्तुना ।
पूर्ववच्च क्रमलिख्य तन्मध्येऽभीष्टयोषितः ।। 25.134 ।।
लिखित्वा नामधेयं त (46) त्कपाले ज्वलने पुनः ।
तापयित्वा जपेन्मन्त्रं सप्ताहं जूप्वसङ्ख्यया ।। 25.135 ।।
(46. त्पानके ज्वलिते पुनः । तर्प.)
ततस्सिध्यति सा नारी दूरस्थापि यथेप्सिता ।
* यक्षसाधनम्.*
यक्षाणामपि यक्षीणां साधनं शृणु कथ्यते ।। 25.136 ।।
वटवृक्षे कुटिं कृत्वा तत्र चक्रब्जमण्डले ।
आराध्य तेवं जुहुयाद्वटवृक्षसमिच्छतैः ।। 25.137 ।।
दशभिः प्रत्यहं मन्त्री सप्ताहे परिनिष्ठिते ।
पूर्वमेव वटे यक्षं यक्षीं वा कुङ्कुमादिभिः ।। 25.138 ।।
लिखित्वा कर्म तत्सर्वं कुर्यादभिमुखे स्वयम् ।
सप्तमेऽह्नि वटे रात्रौ कम्पितेऽभीतवत् स्थितः ।। 25.139 ।।
गुग्गुलुं घृतमिश्रं च धूपयेन्मन्त्रवित्तमः ।
वटाभिमुखमुत्थाय यक्षीं वा यक्षमेव वा ।। 25.140 ।।
साक्षात्करोति तां तं वा या चेताभीष्टमुत्तमम् ।
मातृत्वं वा स्वसृत्वं वा भ्रातृत्वं वा यथातथम् ।। 25.141 ।।
पितृत्वं वाथ भार्यात्वमिप्सितं सर्वमाप्नुयात् ।
प्रयच्छति यथायोगं यक्षी यक्षश्च मन्त्रिणे ।। 25.142 ।।
माता चेन्मातृवद्रक्षेत्पिताचेत्पितृतत्तथा ।
एवं भ्रात्रादयो प्यन्ये यथास्वत्राणतत्पराः ।। 25.143 ।।
* विद्याधरसाधनम्.*
विद्याधरवशीकारे विधानमपरं शृणु ।
असोकवृक्ष मूलोर्व्यां कुर्यात्पूजादि पूर्ववत् ।। 25.144 ।।
विद्याधरणे यच्छक्यं कर्तुमस्यापि तद्भवेत् ।
अन्येषां देवयोनीनामेवं कुर्याद्यथाविधि ।। 25.145 ।।
ते ते सर्वं प्रयच्छन्तिमन्त्रतुष्टा यथातथम् ।
* पातालसाधनम्.*
पातालसाधनं चापि शृणु गुह्यं यथातथम् ।। 25.146 ।।
होमावसानं पूजादि कर्म कृत्वा यथोदितम् ।
बिलद्वारसमीपे तु लक्षमष्टाक्षरं जपेत् ।। 25.147 ।।
क्षीरवृक्षशमीदुर्वातिलाद्यानामनन्यधीः ।
प्रत्येकमयुतं होमं कुर्याद्वै साधकोत्तमः ।। 25.148 ।।
निर्गच्छति बिलात्तस्मात्कामार्ता कन्यका स्वयम् ।
सहस्रपरिवारेण सार्धमायतलोचना ।। 25.149 ।।
गृहीत्वा मन्त्रिणं स्वेषु मन्दिरेषु यथासुखम् ।
रमते दिव्यभोगैस्सा विचित्रैरतिमानुषैः ।। 25.150 ।।
पातालद्वारपार्श्वे तु कारयेद्यागमण्टपम् ।
ध्वजतोरणसंयुक्तं द्वारकुम्भोपशोभितम् ।। 25.151 ।।
चक्राब्जं वर्तयेत्तत्र ध्यात्वा नारायणं प्रभुम् ।
यजेत पूर्ववद्धोमं कृत्वा पूर्वोक्तसङ्ख्याया ।। 25.152 ।।
अष्टलक्षं मिताहारो जितेन्द्रिय अनन्यधीः ।
तत्क्षणादेव नागेन्द्रकन्यका मन्त्रिणः पुरः ।। 25.153 ।।
स्थिता मनोभववशा सहस्रैः परिवारिताः ।
आत्मतुल्याभिरन्याभिः कन्यकाभिर्वशीकृताः ।। 25.154 ।।
गृहीत्वा मन्त्रिणं ताश्च नागालयपुरोत्तमे ।
प्रविश्य विविधैर्भोगैर्वशीकुर्वन्तिमन्त्रिणम् ।। 25.155 ।।
पीत्वा रसायनं चापि यावदाभूतसंप्लवम् ।
रमते भीरुभिस्सार्धं दिवि देवपतिर्यथा ।। 25.156 ।।
* खड्गसाधनम्.*
खड्गसाधनमाश्चर्यं शृणु वक्ष्यामि तद्यथा ।
देहजं लोहितं मन्त्रीश्मशानाङ्गारमिश्रितम् ।। 25.157 ।।
पेषयित्वालिखेद्खड्गं चतुस्तालायतं शुभम् ।
श्मशानदेशे तन्मूलं स्पृष्ट्वामन्त्रं जपेत्सुधीः ।। 25.158 ।।
निशीथे निर्जने तावद्या वज्ज्वालां विमुंचति ।
ज्वालाभिरस्य शोभन्ते दिशो दश चतुर्मुख ।। 25.159 ।।
नानाविधानि भूतानि भवन्ति भयहेतवः ।
अभीतो निश्चतो मन्त्रं जपे देवं समाहितः ।। 25.160 ।।
स्फुरन्तं पाणिना खड्गं गृहीत्वा दृढमुष्टिना ।
मन्त्रं जपेन्नभो याति यत्र विद्याधरादयः ।। 25.161 ।।
विद्यामहिम्ना तेषां स राजा भवति मन्त्रवित् ।
यक्षराक्षसदैत्यानां जेता मर्त्येषु किंपुनः ।। 25.162 ।।
खड्गहस्तस्यदा मन्त्रं जपन्याति त्रिविष्टपम् ।
तत्रापि भोगमतुलं लभते चाप्सरोगणैः ।। 25.163 ।।
खड्गं वाऽऽयसमादाय पर्णैः पिप्फलसंभवैः ।
अन्तर्हितं विधायाशु नियुतं जपमाचरेत् ।। 25.164 ।।
समिदाज्यैस्तथा बीजैर्जुहुयादयुतावरम् ।
नररक्तं गजमदं पित्तमाक्षं विमिश्रितम् ।। 25.165 ।।
राजवर्तेन तैः खड्गं विलिप्याराधयेद्धरिम् ।
तस्मिन् पूर्वोक्तमार्गेण खड्गं स्पृष्ट्वा जपःस्मृतः ।। 25.166 ।।
अष्टोत्तरसहस्रेण पश्चात्तापादिसम्भवः ।
तापे स्यादधमासिद्धिर्मध्यमा धूमजन्मनि ।। 25.167 ।।
उत्तमा ज्वलने दृष्टे पश्चाद्खड्गधरस्स्वयम् ।
चरेदभीप्सितान् लोकान् भोगांश्चाप्नोति पुष्कलान् ।। 25.168 ।।
* सिद्धकन्यासकाशात्सिद्धवस्तुलाभः.*
शङ्खकुक्त्यदरे मन्द्रं लिखेद्गोरोचनाम्बुभिः ।
जपेन्मन्त्रवरं स्पृष्ट्वा यावज्ज्वालावलोकनम् ।। 25.169 ।।
समुत्थिता च तन्मध्ये कन्या सर्ववरप्रदा ।
तिलकं चाक्षमालां च गुलु काञ्जनपादुकाः ।। 25.170 ।।
दिव्यैषधं रसेन्द्रं च कपालस्थं रसाञ्जनम् ।
ददादि सर्वं सा कन्या मन्त्रिणे मन्त्रवैभवात् ।। 25.171 ।।
तिलकं भिभ्रत स्तस्य नरनारी मृगादिकम् ।
स्मृतिमात्रेण पूरतो दृष्टं भवति तद्ध्रुवम् ।। 25.172 ।।
तया क्षमालया जप्तः पुरश्चरणवर्जितः ।
मन्त्रो यथेप्सितान् कामान् तस्मै शीघ्रं प्रयच्छति ।। 25.173 ।।
निधाय (47) गुलिकामास्ये निर्भयस्सर्वविष्टवे ।
चरत्येष यथाकामं दीर्घमायुश्छ विन्दति ।। 25.174 ।।
(47. शुक्ति.)
अञ्जनेनाक्तनयनस्स्याददृश्यस्सुरासुरैः ।
पादुकास्पर्शमात्रेण चारयत्यनले जले ।। 25.175 ।।
दूरं वा गमयेच्छीघ्रं यं यं देशमभीप्सति ।
दिव्यौषधेन भुक्तेन दुर्वाधिर्नश्यति क्षणात् ।। 25.176 ।।
अचिकित्स्योपि कुष्ठादिर्नात्र कार्या विचारणा ।
पाषाणादि रसेन्द्रिण स्पृष्टमाग्नौ प्रतापितम् ।। 25.177 ।।
हिरण्यं भवति ब्रह्मन् पीत्वा चापि रसायनम् ।
बलवानपि तेजस्वी वलीपलितवर्जितः ।। 25.178 ।।
* शत्रुमारणम्.*
कपाले चाश्म निक्षिप्य शत्रुमूर्धनि निक्षिपेत् ।
(48) उद्वासितो वा म्रियते सान्ववायस्सुहृङ्जनः ।। 25.179 ।।
(48. उछ्वासितो वा.)
* इन्द्रजालम्.*
दर्शयन्निन्द्रजालं चेन्मायादेवीं लिखेद्भुवि ।
कृष्णां च तुर्भुजां सौम्यां सर्वाभरण भूषिताम् ।। 25.180 ।।
सर्वाङ्गसुन्दरीं (49) मन्त्री पूजयित्वा जपेत्ततः ।
अयुतं नियुतं वापि (50) मन्त्रमष्टाक्ष (51) रान्वितम् ।। 25.181 ।।
(49. मन्त्रम्.)
(50. मन्त्रमष्टाक्षरद्वयम् ।।)
(51. राह्वयम्.)
सिद्धा तदन्ते सा देवी चतुरङ्गबलं महत् ।
भूमौ प्योम्नि बलं स्रवमुद्यतायुधमद्भुतम् ।। 25.182 ।।
दर्शयत्याशु मन्त्रेण म (52) न्त्रेणे मन्त्रसिद्धदा ।
त्रैलोक्यमपि सर्वं सा प्रदर्शयति तोषिता ।। 25.183 ।।
(52. मन्त्रिते मन्त्रसाधिता.)
* गुलिकाविधिः.*
गुलिका कध्यते ब्रह्मन् (53) निर्माण मधुनोच्यते ।
मनश्शिला तथा कुष्ठं हलितालं च कुंकुमम् ।। 25.184 ।।
(53. तन्निर्माणं मयोच्यते.)
गोरोचनां च (54) चक्राङ्गं सर्वं पिष्ट्वा मधुत्रिकैः ।
कृत्वा च गुलिकां चक्रपद्ममध्ये निवेशयेत् ।। 25.185 ।।
(54. सर्वाङ्गम्.)
एकादशीनिशायां वा यजेत हरिमव्ययम् ।
द्वादश्यामर्चयित्वा (55) तु जपेन्मन्त्रं यथापुरम् ।। 25.186 ।।
(55. सः.)
होममग्नौ प्रकुर्वीत सहस्रं सर्पिषा ततः ।
सिद्धेयं गुलिका (56) सर्वं साधयेत्साधकस्य हि ।। 25.187 ।।
(56. सद्य स्साधयेत्सर्वमीप्सितम् - पूर्वमिरितम्.)
* वेतालसाधनम्.*
वेतालसाधनं (57) ब्रह्मन् कथयामि यथातथम् ।
ब्राह्मणं क्षत्रियं वापि युवानं निर्व्रणं मृतम् ।। 25.188 ।।
(57. चापि.)
तत्क्षणादेव सङ्गृह्य शून्यागारे निवेशयेत् ।
क्षालयित्वा मलं सर्वं चक्रपद्मे निवेश्यतम् ।। 25.189 ।।
हृदयं तस्य चाक्रम्य पादेन ध्यानमास्थितः ।
जपेन्मन्त्रं दिवारात्रं निशीधे कम्पते शवः ।। 25.190 ।।
निर्भयस्ताडयेद्देहं सिद्धार्धैरभिमन्त्रितैः ।
कम्पमानं शरीरं तदुत्थायाग्रेऽवतिष्ठते ।। 25.191 ।।
किं करोमिति च ततोमन्त्रिणं संपुटाञ्जलिः ।
ब्रुवाणो मन्त्रिणे तस्मै प्रयच्छति यथेप्सितम् ।। 25.192 ।।
खण्डमुष्टिं तथा दिव्यमौषधं च रसायनम् ।
गुलिकां पादुके (58) सिद्धं रसं वेणुपुटे स्थितम् ।। 25.193 ।।
(58. सिद्धिम्.)
पादलेपं चाक्षसूत्रमन्यद्वा दुर्लभं नृभिः ।
पादलेपेन गमनमाकाशादिषु मन्त्रिणः ।। 25.194 ।।
खड्गेन शत्रुसैन्यानां वधः केसरिणामपि ।
दिव्यौषधानां (59) सर्वेषां फलं पूर्वमुदीरितम् ।। 25.195 ।।
(59. पूर्णानाम्.)
* आमयशान्तिः.*
आमयानामपस्मारमुखानां शान्तये विधिः ।
भूभागे शल्यरहीते कृत्वा मण्टपमादितः ।। 25.196 ।।
(60) निर्व्रणान् लक्षणोपेतान्कलशान् पञ्चविंशतिम् ।
पूरितान् द्रोणमात्रेण सर्पिराद्येन वस्तुना ।। 25.197 ।।
(60. निर्वाणान्.)
ससूत्रान् सकुशांश्चैव सापिधानान् सवस्त्रकान् ।
द्वारकुम्भान् चतुर्दिक्षु तोरणानि च कल्पयेत् ।। 25.198 ।।
प्रत्येकं कलशान् सर्वान् मन्त्रेणैवाभिमन्त्रयेत् ।
अष्टाक्षरेण प्रत्येकमष्टोत्तरशतावरम् ।। 25.199 ।।
निशाम्बना चन्दनेन श्वेतदूर्वाङ्कुरेण च ।
भूर्जपत्रोदरे पद्ममष्टपत्रं सकर्णिकम् ।। 25.200 ।।
नाभिनेमियुतं चक्रमष्टारं कमलाद्बहिः ।
प्रणवं कर्णिकादेशे साध्यनाम च मध्यतः ।। 25.201 ।।
अष्टाक्षराण्यष्टदले नाभौ स्पर्शाक्षरं लिखेत् ।
(61) नाभिक्षेत्रे यकारादीनष्टारेषु स्वरान् पुनः ।। 25.202 ।।
(61. नेमिक्षेत्रे.)
महामायाग्नि संयुक्तं भास्करं दण्डशेखरम् ।
नेमिभागे क्रमाद्दिक्षु विदिक्षु चतुरासन ।। 25.203 ।।
कृत्वैवं सितसूत्रेण परिवेष्ट्यनिरन्तरम् ।
गुलिकां तण्डुलद्रोणमध्यस्थे कलशे क्षिपेत् ।। 25.204 ।।
आवाह्य हृदयात्तस्मि (62) न्मन्त्रेशं चक्रपङ्कजे ।
चन्दनाद्यैस्सितैर्वस्त्रैः पुष्पैरन्येश्च तादृशैः ।। 25.205 ।।
(62. न्मध्ये चक्रं च.)
शाल्योदनेन च हरिं यजेत सुसमाहितः ।
पूर्णेन्दुमण्दलान्तस्थमुद्गिरन्तं सुधारसम् ।। 25.206 ।।
शशाङ्कशतसङ्काशं ध्यात्वा नारायणं हरिम् ।
शान्तिं प्रयच्छ महतीमित्यन्ते समुदीरयेत् ।। 25.207 ।।
शशिनो दशि वृत्तेऽथ कुण्डे क्षीराज्यतण्डुलैः ।
(63) गुग्गुलुं क्षौद्रबीजां श्चसप्ताहं होममाचरेत् ।। 25.208 ।।
(63. कुङ्कुमक्षौद्रनिम्बैश्च.)
पूर्वोक्तसङ्ख्यया कुम्भैः (64) स्थापितं चामयाविनम् ।
स्वापयेन्मूलमन्त्रेण ध्यायेच्चैव जनार्दनम् ।। 25.209 ।।
(64. स्थापिदैरामयान्वितम् । स्नापये.)
मूर्णेन्दुशतसङ्काशं स्यन्धमानं सुधारसम् ।
तदीयपादकमलात्सर्वतो व्याधिपीडितम् ।। 25.210 ।।
प्रविश्य ब्रह्मरन्ध्रेण प्लापयन्तमनन्यधीः ।
ध्यात्वा जपेन्मूलविद्यां मन्त्रविद्व्याधिपीडितम् ।। 25.211 ।।
उत्थापयति तन्मूर्ध्निन्यस्य तां गुलिकामथ ।
अपस्मारादयस्सर्वे शाम्यन्ति मनुतेजसा ।। 25.212 ।।
अथादाय च मृत्पात्रं पैत्तलं वाथ काष्ठजम् ।
तस्मिन्निक्षिप्य पीयूषं दधिसर्पिस्समन्वितम् ।। 25.213 ।।
ओदनं चैत्यवृक्षादिमूले भूतबलिं (65) हरेत् ।
भोजयेद्ब्राह्मणानै दद्यातैभ्यो यथावसु ।। 25.214 ।।
(65. क्षिपेत्.)
* पुष्टिविधिः.*
(66) पौष्टिं वक्ष्यामि ते कर्म मण्टपादि यथापुरम् ।
भूर्जपत्रे लिखेद्यन्त्रं प्राग्वत्पद्मादिसंयुतम् ।। 25.215 ।।
(66. पौष्टिकं वक्ष्यते.)
श्रीभूमिमन्त्रं च लिखेत्केसरेषु दलेषु च ।
गुलिकां वेष्टितां रक्तासूत्रैर्मधुघटे क्षिपेत् ।। 25.216 ।।
विद्रुमाभं च मन्द्रेशं समावाह्य च (67) सर्वगम् ।
सौम्याशायां पद्मकुण्डं कलशान् रक्तवाससः ।। 25.217 ।।
(67. सर्वदा.)
वस्तु सर्वं यथोक्तं तद्युक्तं स्यात्सति सम्भवे ।
बलिकर्मच कर्तव्यं कर्मान्ते कमलासन ।। 25.218 ।।
महती पुष्टिरेव स्यात्कृते कर्मणि (68) शान्तिके ।
* आयुष्कामविधिः.*
आयुष्कामस्तु दूर्वाभिर्घृताक्ताभि (69) र्यथोदितम् ।। 25.219 ।।
(68. शास्त्रिके.)
(69. र्यथो दितैः.)
जुहुयान्मण्टपादीनां विधानं पूर्ववर्त्मना ।
कर्मान्ते कलशैस्स्नानं साध्यस्य कमलासन ।। 25.220 ।।
एवं कृते यथाशास्त्रमायुर्विन्दति पुष्कलम् ।
* आरोग्यकामविधिः.*
आरोग्यकामस्सावित्रे मण्डले हरिमर्चयेत् ।। 25.221 ।।
रुक्माभं विद्ययार्घ्यादि साधनैरुक्तवर्त्मना ।
पूर्ववज्जपहोमादि होमो गुग्गुलुवस्तुभिः ।। 25.222 ।।
जपान्ते प्रणमेन्नित्यमङ्गैरष्टाभिरात्मवान् ।
यावदायुषमारोग्यं लभते मन्त्रवैभवात् ।। 25.223 ।।
ज्वरितस्य भवेच्छान्तिरमृताचूतपल्लवैः ।
पूर्वोक्तेन विधानेन सर्वमन्यद्यथोदितम् ।। 25.224 ।।
ज्वरशान्तिर्भवेदन्ते विद्यावीर्यप्रभावतः ।
चन्दनादिद्रुमैर्लोहैर्यद्वा प्रतिकृतिः कृता ।। 25.225 ।।
पूजिता पूर्ववत्सर्वान् कामानाशु प्रयच्छति ।
होमश्च कर्मानुगुणैर्द्रव्यैस्स्यात्कमलासन ।। 25.226 ।।
* अपमृत्युनिवारणम्.*
अश्वत्थं मन्दवारेषु स्पृष्ट्वा दक्षिणपाणिना ।
जपतो नापमृत्युस्स्यात्पूर्वमिरितसङ्ख्याया ।। 25.227 ।।
* वाक्सिद्धिः.*
घृतमिश्रं वचा (70) चूर्णं यद्वा ब्राह्मीं घृताप्लुताम् ।
ज्योतिष्मतीरसं वापि स्पृष्ट्वा लक्षं जपन् पिबेत् ।। 25.228 ।।
(70. पूर्वम्.)
मुहुर्ते भोभने प्राप्ते वाक्सिद्धिस्तस्य निश्चिता ।
औदुम्बरेऽथवा (71) पात्रे कपिलाज्यं चतुष्पलम् ।। 25.229 ।।
(71. पत्रे.)
मिश्रं श्वेतवचाचूर्णं यद्वा चन्ध्रे मघायुते ।
(72) पुण्ये सारस्वते योगे श्वेतवर्णं चतुर्भुजम् ।। 25.230 ।।
(72. पूर्णे.)
श्वेतपद्मे सुखासीनं चन्द्रमण्डलमध्यगम् ।
इष्ट्वा देवं गोघृतेन जुहुयाच्च यथाविधि ।। 25.231 ।।
पिबन् स (73) सुस्रवं पश्चाल्लभते वाचमुत्तमाम् ।
* प्रतिवादिवाग्बन्धनम्.*
अष्टबाहुं चन्द्रनिभमात्मानं शेषविष्टरे ।। 25.232 ।।
(73. संस्रनम्.)
सुखासीनं भावयित्वा (74) कोपिनं प्रतिवादिनम् ।
(75) पिधाय जिह्वा हृदयं मुसलेन शिरोऽङ्कुशैः ।। 25.233 ।।
(74. कौपीनम्.)
(75. विधाय.)
ताडयेद्गदया पृष्ठं पाशैर्बध्वा कलेभरम् ।
तस्यैव जिह्वामध्ये च माहेन्द्रं दण्ड शेखरम् ।। 25.234 ।।
विन्यस्य स्तम्भयेद्वाचमेवं ध्यायन् विचक्षणः ।
आत्मनो वादिनश्चैव मध्ये यवनिका भवेत् ।। 25.235 ।।
मन्त्रं शतगुणं जप्त्वा वादी वाचं समुत्सृजेत् ।
सद्यः परस्यापजयो विजयश्चात्मनो भवेत् ।। 25.236 ।।
* तत्र दोषाभावः.*
स्तम्भने नै पदोषस्स्या (76) द्बाह्याश्छेत्प्रतिवादिनः ।
* ब्रह्मवर्चसकामकल्पः.*
ब्रह्मवर्चसकामश्छेत्समिथो ब्रह्मवृक्षजाः ।। 25.237 ।।
(76. द्बाह्यश्चेत्.)
श्वेतपङ्कजहोमो वा राज्यकामस्य मन्त्रिणः ।
समिथो रक्त (77) वर्णास्स्युर्बिल्वपुष्पाणि पद्मज ।। 25.238 ।।
(77. पद्मास्स्यु.)
लक्ष्मीसुमनसो वापि यद्वा (78) बोधिसमुद्भवाः ।
चन्द्रमण्डलमध्यस्थं श्वेतपङ्कजविष्टरे ।। 25.239 ।।
(78. सन्नेन्दुवर्चसा.)
स्थितं (79) द्विहस्तं सुभगं बालभूषणभूषितम् ।
बालावस्थं प्रसन्नेन्दुवर्चसं नीलकुन्तलम् ।। 25.240 ।।
(79. त्रिहस्तं .)
राजतं पात्रमन्नेन पायसेन प्रपूरितम् ।
बिभ्राणं वामहस्तेन दध्यन्न कबलं पुनः ।। 25.241 ।।
(80) दधानमितरेणापि ध्यात्वा देवं समाहितः ।
अन्नेन जुहुयादग्नौ बह्वान्नत्वमवाप्नुयात् ।। 25.242 ।।
(80. इतरेण धारयन्तम्.)
* गोभूराष्ट्रादिकामकल्पः.*
गोकामो गोमयैः क्षीरैस्तदीयैर्होममाचरेत् ।
लभते धेनुकं सद्यो मन्त्रविन्मन्त्रवैभवात् ।। 25.243 ।।
भूमिकामो मृदा होमं दुर्लभां लभते भुवम् ।
फलैर्बिल्वसमुद्भूतैर्होमाद्राष्ट्रसमुद्भवः ।। 25.244 ।।
वस्त्रकामस्सुमनसां कालजानां चतुर्मुख ।
सितासितादिवर्णानां होमान्नियुतसङ्ख्यया ।। 25.245 ।।
नानाविधानि वस्त्राणि लभते नात्रसंशयः ।
यद्यत्कामयते मन्त्री धान्यजातिमनेकधा ।। 25.246 ।।
तत्तद्धोमेव तत्सर्वं लभतेमन्द्रवैभवात् ।
मन्त्राभिमन्त्रितं बीजमुप्तं बहुफलं भवेत् ।। 25.247 ।।
पुत्रकामो हविष्टाशी समाराध्य जगद्गुरुम् ।
चक्राब्जमण्डले कुम्भस्थापनादि विधाय च ।। 25.248 ।।
यथापूर्वं पायसान्नं होमान्ते स्थापितैर्घटैः ।
अभिषिच्य तदम्भांसि पाययेत् स्त्रियमागताम् ।। 25.249 ।।
सा पुत्रान् लभते त्विष्टान् बहुन् विद्याविचक्षणान् ।
इष्ट्वा नारायणं देवं चक्राब्जेप्रोक्तवर्त्मना ।। 25.250 ।।
अनुग्रहे निग्रहे च सर्वेषां शक्तिमान् भवेत् ।
* मन्त्रदेवताप्रभावः.*
कम्पने वसुधादीनां पर्वतानां च भेदने ।। 25.251 ।।
शोषणे वा समुद्राणां सर्वेषां स्तम्भने पि च ।
(81) सर्गस्थितिविनाशानामपि कर्ता यथा हरिः ।। 25.252 ।।
(81. सर्वस्थिति.)
ध्यानाच्च देवदेवस्य (82) जपान्मन्त्रस्य च क्षणात् ।
नश्यन्ति भूतवेतालप्रमुखानि चतुर्मुख ।। 25.253 ।।
(82. जपमन्त्रस्य लक्षणात्.)
दुष्टसत्वानि मन्त्रस्य प्रभावान्नात्र संशयः ।
* विषापहरणम्.*
विषदष्टमवस्थाप्य ध्यात्वाच (83) गरुडध्वजम् ।। 25.254 ।।
(83. गरुडस्थितम् ।)
देवं विद्यां समुच्चार्य तीक्ष्णतुण्डेन ताडयेत् ।
गरुडस्य तु पक्षाभ्यां विषदष्टस्य मूर्धनि ।। 25.255 ।।
एवं ध्यात्वा विषं सर्वं व्यपोह्योत्थापयेन्मृतम् ।
(84) भुक्तं विषेण संस्पृष्टमन्नं बीजं फलं तथा ।। 25.256 ।।
(84. `भुक्तं' `अक्षयश्च' इति श्लोकद्वयं `अनुक्ताः---भूयं प्रपद्यते' इत्यतः परं क्वचित्कोशेदृश्यते.)
जरयेद्विद्यया सद्यस्सर्वदोषं च नाशयेत् ।
* धनादिसिद्धयः.*
अक्षयश्चाभिवृद्धिश्च धनस्य यदि काङ्क्षितः ।। 25.257 ।।
संस्पृश्य विद्यया सर्वं निक्षिपेद्बहुजप्तया ।
बन्धूक कुसुमप्रख्यमात्मानं भगवन्मयम् ।। 25.258 ।।
ध्यायन्यायात्सभां तत्र क्रुद्धश्शाम्यति भूमिपः ।
अनुक्तास्सिद्धयः सर्वास्सिध्यन्त्यत्यन्तविस्तृताः ।। 25.259 ।।
शास्त्रे मन्त्रप्रभावेन देवभूयं प्रपद्यते ।
वृष्टिकामो बहिश्शालां पूर्वोक्तविधिना कृताम् ।। 25.260 ।।
चक्राब्जमण्ड्लादीनि कृत्वा कर्माणि पूर्ववत् ।
सप्ताहमाज्यसिक्ताभिस्समिद्भिर्जुहुयात्सुधीः ।। 25.261 ।।
वैतसीभिः प्रतिदिनं नियुतायुतसङ्ख्याया ।
वृष्टिर्भवति तद्राष्ट्रे तद्धेशे वा दिनत्रये ।। 25.262 ।।
मरीचिक्षुण्णसंमिश्रैस्सर्षपै राजसर्षपैः ।
पूर्वोक्तसङ्ख्यया होमादतिवृष्टिश्च शाम्यति ।। 25.263 ।।
देवतादिपदं प्रेप्सुर्विद्यया लोकमीप्सितम् ।
(85) स्वर्गाद्यभीष्टरोकस्य महिमानुगुणैर्जपैः ।। 25.264 ।।
(85. स्वर्ग्रादेरिष्ट.)
लभते तत्तदाश्चर्यं फलं नैवात्र संशयः ।
चिन्तारत्नं तथैवान् मणिमादि गुणं परम् ।। 25.265 ।।
लिप्सुर्मन्त्रजपैः कोटिसङ्ख्यैः प्राप्नोति मन्त्रवित् ।
* मन्त्रदेवतासाक्षात्कारः.*
मन्त्राधिदैवतं देवं द्रष्टुकामोजितेन्द्रियः ।। 25.266 ।।
षष्मासान्मन्त्रमनिशं जपेत्तध्यानमास्थितः ।
आगत्य देवदेवेशः पप्रत्यक्षो भवति क्षणात् ।। 25.267 ।।
वरांश्च दुर्लभांस्तस्मे प्रददाति यथेप्सितान् ।
मन्त्रिणे मन्त्रमहात्म्यादचिरेण चतुर्मुख ।। 25.268 ।।
* मन्त्रामाहात्म्यम्.*
मन्त्रान्तराणां यासिद्धिः कल्पे कल्पे समीरिता ।
सापि प्रसिध्येदस्यैव सकला वीर्यपत्तया ।। 25.269 ।।
षडङ्गानि च वेदाश्च मन्त्राश्चान्ये परश्शताः ।
अन्यच्च वाङ्मयं सर्वं मन्त्रेऽस्मिन् सुसमाहितम् ।। 25.270 ।।
अपुनर्भवलिप्सूनां गतिरष्टारं मतम् ।
जन्मन्यस्मिन्नतीते वा यतेनस्सञ्छितं महत् ।। 25.271 ।।
तन्मन्त्रजापमात्रेण प्रलयं याति (86) निश्चयम् ।
म्रियमाणश्शुचिर्भूत्वामन्त्रमेतमुदीरयन् ।। 25.272 ।।
(86. निन्तुषम्.)
प्राप्नोति वैष्णवं स्थानं दुष्प्रापम (87) विनाशनम् ।
किं तस्य बहुभिर्मन्त्रैः किं तस्य बहुभिश्श्रुतैः ।। 25.273 ।।
(87. विनश्वरम्.)
यस्यैषा वशमापन्ना विद्या सर्वार्थसाधनी ।
ये मन्त्रमाहात्म्यमिदं शृण्वन्ति च पठन्ति च ।। 25.274 ।।
तेषामपि फलान्याहुः पूर्वोक्तानि मनीषिणः ।
चतुर्मुखैश्च तुर्वक्त्रफलान्यस्य प्रदर्शयन् ।। 25.275 ।।
नान्तं जगाम विस्तीर्णं सङ्क्षेपोऽयमुदीरितः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे श्रीमदष्टाक्षरमन्त्रवैभवो नाम पंचविंशोऽध्यायः.
------ ****** ------