प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १४ चर्यापादः
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
पञ्चदशोऽध्यायः.
-----
* मासानुबन्धिप्रतेषु. वराहव्रतम्.*
श्रीभगवान् :----
(1) मासि भाद्रपदे देवं श्रवणे चादिपूरुषम् ।
वराहरूपं सुभगं हिरण्याक्षासुरद्विषम् ।। 15.1 ।।
(1. तस्मिन्.)
यजेत धरया देव्या सार्धं सर्वार्थसिद्धये ।
अन्येषां मूर्तिभेदानामपि तस्मिन् समर्चनम् ।। 15.2 ।।
* आश्वयुजमासव्रतम्.*
स्वातावाश्वयुजे मासि यजनं स्नपनादिभिः ।
* कार्तिकद्वादशीव्रतम्.*
कार्तिके मासि संप्राप्ते द्वादश्यां चासितेतरे ।। 15.3 ।।
पक्षे प्रबोधयेद्देवमर्चयित्वा यथावसु ।
मन्त्रश्चोदित्यमित्येष उत्तिष्ठेति च बोधने ।। 15.4 ।।
प्रबोध्य वार्चयेद्देवमुत्थितं विधिवर्त्मना ।
औत्सवं बिम्पमभ्यर्च्य मण्डपे मण्डले स्थितम् ।। 15.5 ।।
द्वारतोरणकुम्भादियजनं च यथापुरम् ।
ग्रामे महोत्सवः कार्यस्सर्वमङ्गलसंयुतः ।। 15.6 ।।
सर्वेचाश्रमिणः कुर्यार्व्रतानां च विसर्जनम् ।
दशनिष्कं तदर्धं वा दक्षिणां गुरवे तदा ।। 15.7 ।।
* कृत्तितादीपोत्सवः.*
कृत्तिकासु कार्तिक्यां पोर्णमास्यां मधुद्विषः ।
कृत्तिकाभिरयोगे वा केवलायां तिथौ भवेत् ।। 15.8 ।।
(2) दीवोत्सवं तथा सर्वं शोभयेन्मम मन्दिरम् ।
अरोप्य सर्वतो दीपान् स्तम्भेघाच्चैर्मधुद्विषः ।। 15.9 ।।
(2. दीपोत्सवस्त सर्वं शोधयेद्देनमन्दिरम् ।)
दिक्षु सर्वासु सर्वत्र तथा चावरणेषु च ।
कूटा काराःकल्पिनीयास्तेषां स्युर्दीपमालिकाः ।। 15.10 ।।
प्राकारभित्तिषु तथा मण्डपे गोपु रेषु च ।
बह्वीभिर्दीपमालाभिर्भाव्यं सर्वासु दिक्षु च ।। 15.11 ।।
दीवोत्सवाय पूर्वेद्युर्निशि कल्याणकौतुकम् ।
बध्नीयादौत्सवे बिम्बे सर्वमङ्गलसंयुतम् ।। 15.12 ।।
अपरेद्युश्च मूलादिबेराणामर्चनं भवेत् ।
नैमित्तिकं प्रदोषे तु कुर्याद्दीपाधिपासनम् ।। 15.13 ।।
पुरस्तान्मूलबेरस्य पात्रमारोप्य नूतनम् ।
धान्यराशौ ततस्तस्मिंश्चज्यमाढकसंमितम् ।। 15.14 ।।
कापिलं तैलमधवा निक्षिप्य परिशोधितम् ।
ऋजुवर्तिं तन्तुभिर्वा पाससा नूतनेन वा ।। 15.15 ।।
कल्पयित्वा समुद्धृत्य कुण्डाग्निं तेन दीपयेत् ।
वर्तिमाग्नेयमन्त्रेण अग्निमुद्रां प्रदर्शयेत् ।। 15.16 ।।
अभ्यर्च्य चाग्नि मन्त्रैस्तु मुहूर्ते शोभने गुरुः ।
आदाय पात्रं तत् स्थेन वह्निना वलजादिषु ।। 15.17 ।।
दीपयेद्दीपिकास्सर्वास्तूर्येषु विदिशो दिशः ।
घोषयत्सु तथा नृत्तगीतादीनां समुद्यमे ।। 15.18 ।।
अधीयानेषु विप्रेषु मन्त्राननवदैवतान् ।
औत्सवं बिम्बमादाय सर्वलङ्कारशोभितम् ।। 15.19 ।।
यानमारोप्य रथ्यासु नयेदावरणेषु च ।
दृश्यानि नाटकादीनि कृत्रिमाणीतराणिच ।। 15.20 ।।
दर्शयेद्देव देवाय (3) भाषाभेदान्यथोदितान् ।
आसाद्य मण्टपे तस्मिन्नि वेद्य च महा हविः ।। 15.21 ।।
(3. सर्वालङ्कारशोभितम्.)
पृथुकान् संस्कृतान् सक्तून् पललानग्नितृप्तये ।
अपूपान् समये तस्मिन्नि वेद्य मधुविद्विषे ।। 15.22 ।।
अभ्यस्तरं मन्दिरस्य गमयेन्मङ्गलान्वितम् ।
कृत्तिकादीपविधिना समाराधसमीरितम् ।। 15.23 ।।
विशां च राज्ञो राष्ट्रस्य सम्पत्करमनुत्तमम् ।
विपत्प्रश्रमनं ब्रह्मन् प्रीणनं जातवेदसः ।। 15.24 ।।
* मार्गशीर्षद्वादशीव्रतम्.*
मार्गशीर्षेसिते पक्षे मासि व्रतमनुत्तमम् ।
द्वादश्यां व्रतपूर्वत्वाद्व्रतमाराधनं हरेः ।। 15.25 ।।
आराधनं भगवतःकुर्वंस्तादृशमुत्तमम् ।
दशम्यां हरिमाराध्य भोजयित्वाच भूसुरान् ।। 15.26 ।।
दक्षिणां च यथाशक्ति दत्वा तेभ्यस्समाहितः ।
भगवत्सन्निदौ तेषां विज्ञाप्य द्वादशीव्रतम् ।। 15.27 ।।
अनुज्ञापूर्वकं पूजां व्रतपूर्वां महाफलाम् ।
सङ्कल्प्य दर्भेष्वासीनः प्राङ्मुखः प्रणिदानवान् ।। 15.28 ।।
हविष्याशी सकृत्कृत्वा सर्वं कर्माह्निकं तथा ।
रात्रौ च भगवद्योगमास्थाय च यथाविधि ।। 15.29 ।।
अपरेद्युःक्रियाजातमे कादश्यां यथाविधि ।
पूर्वं त्रिषवणन्नायी नियमं परमास्थितः ।। 15.30 ।।
अनश्नन् देवमाराध्य होमान्तं मौनमास्थितः ।
भगवद्ध्याननिरतो व्यवहारं च लौकिकम् ।। 15.31 ।।
असंस्पृशन् मनःकायकर्मभिश्चेङ्गितादिभिः ।
स्थितो मौनी तदा तद्वद्रात्रौ कौतुकमबन्धनम् ।। 15.32 ।।
बध्वा देवेशमाराध्य दर्भशायूनयेन्नि शाम् ।
ब्राह्मे मुहूर्तेचोत्थाय कृत्वा सन्ध्यां यथाविधि ।। 15.33 ।।
कर्मदेवान्तिकं गत्वा कुर्यात्पूजां यथापुरम् ।
चतुर्वेदविदो विप्रान् दिक्षु प्राच्यादिषु क्रमात् ।। 15.34 ।।
दर्भासनेष्वासयित्वा देवस्याभिमुखं यथा ।
कोणेषु च दिशां विप्रानेकायनविद स्तथा ।। 15.35 ।।
अध्यापयेदध्ययनं यथा स्वच्छन्दसां गुरुः ।
सामगानि तरालाभे केवलां स्तपसि स्थितान् ।। 15.36 ।।
एकायनविदो वापि हरेस्तत्प्रीणनं परम् ।
(4) प्राशयेद्प्राह्मणैस्सार्धं व्रतस्धःकायशुद्धये ।। 15.37 ।।
(4. पारये.)
कुशोदकं पञ्च गव्यं प्रापणं च यथा क्रमम् ।
दिवा स्वापं परान्नं च पुनर्भोजनकर्म च ।। 15.38 ।।
स्त्रीसेवां तैलसेवां च कांस्यभोजनमेव च ।
मांसाशनं त्यजेत्तस्मिन् दिवसे कर्म गर्हितम् ।। 15.39 ।।
भोजयेच्च यथाशक्ति तद्यादन्ते च दक्षिणाम् ।
उपवासाक्षमो नक्तमे कादश्यां समाचरेत् ।। 15.40 ।।
अज्ञानाच्चेत्त्रयोदश्यां पारणं राक्षसं भवेत् ।
वर्ज्याश्च वारा मन्दस्य भृगोरङ्गारकस्य च ।। 15.41 ।।
नक्षत्रं यमदैवत्यं व्रतारम्भे चतुर्मुख ।
पारणं चोपवासश्च न दोषाय तिथित्रये ।। 15.42 ।।
न सम्भाषेत पाषण्डवृत्तिभिर्गर्हितैर्नरैः ।
प्रमादादपिनैवान्यैर्नास्तिकैःप्रतिलोमजैः ।। 15.43 ।।
नाशौचवद्भिर्द्वादश्यां व्रतस्थो नावलोकयेत् ।
आर्द्रायामपि मासेऽस्मिन् जन्मर्क्षेच गरुत्मतः ।। 15.44 ।।
तत्प्रीतये समाराध्यो हरिश्शास्त्रोक्तवर्त्मना ।
पायसान्नं गुळान्नं च (5) प्रभाते विनिवेदयेत् ।। 15.45 ।।
(5. प्रभूतं.)
बिम्बं चौत्सवमाकल्प्य वीधिकावरणेषु च ।
(6) गरुडेनैव सहितं गमयेन्मङ्गलान्वितम् ।। 15.46 ।।
(6. उत्तरे गरुडेनैनसहितं.)
* उत्तरायणव्रतम्.*
उत्तरेचायने देवं स्नपनाद्यैस्समर्चयेत् ।
घृतेनाभ्यञ्ङयेद्देवं मज्जयेद्वा घृतादिषु ।। 15.47 ।।
घृते वा दध्नि पीयूषे यद्वा मधुनि सम्भृते ।
फलेषु वा फलरने पञ्च गव्यरसेषु वा ।। 15.48 ।।
पायसादिषु चान्नेषु कालपुष्पोच्चयेषु वा ।
दलेषु वा तुलस्यातेर्नवरत्नच येषु वा ।। 15.49 ।।
सुवर्णकलधौतेषु पुष्पाकारेषु शोभने ।
सुवर्ण (7) गोलकाःकृत्वा (8) कल्पितावयपोज्वलाः ।। 15.50 ।।
(7. गोलकशब्दस्धाने गोलिकेतिसाधु.)
(8. लिखिता.)
कल्पिताकल्पकल्याणप्रतिमाकारसंमिताः ।
पीठिकाकारतुलितास्ताभिराच्छाद्य भूषयेत् ।। 15.51 ।।
पञ्चायुधसमाकारा हस्तादिसतृशाकृतीः ।
कृत्वा वृथग्यथाशोभं गलकाः कञ्चुकाकृतीः ।। 15.52 ।।
भूषयेत्ताभिरङ्गानि चायुधानि च सर्वशः ।
आपादमस्तकं वान्यैर्व्रीह्यादिभिरधोक्षजम् ।। 15.53 ।।
छादयेन्मूलमन्त्रेण पूरणं सर्ववस्तुभिः ।
(9) तिस्रस्त्रिपादसहिता नपि वा द्विगुणां स्तथा ।। 15.54 ।।
(9. तिपादभारसहिता नाडिर्वा द्विगुणास्तथा.)
पूरयेत्कालमातोद्यनृत्तगीतादुमङ्गलम् ।
आचरेत्सर्वमेतस्मिन्यथाविभव विस्तरम् ।। 15.55 ।।
जुहुयात्सर्पिषा यावत्पूरणं मूलविद्यया ।
देया च दक्षिणा स्वर्णमाचार्यय यथावसु ।। 15.56 ।।
घृतादिपूरणं चैतत्सर्वकामसमृद्धिदम् ।
* पुष्यमासव्रतम्.*
पुष्ये च मासि नक्षत्रे पौर्णमास्यामथापि वा ।। 15.57 ।।
आराधनं भगवतस्सर्वपापविनाशनम् ।
* माघमासे तिलपद्मव्रतम्.*
माघमासे सिते पक्षे वञ्चम्यां मधुविद्विषम् ।। 15.58 ।।
समाराध्य यथाशास्त्रं देवस्याग्रे महीतले ।
गोमयालेपिते द्वाभ्यां हस्ताभ्यामपि संमिते ।। 15.59 ।।
चतुर्भिर्वा समायामविस्तारे च्छादि तेपुनः ।
वाससा नूतनेनैव सदशेन तथोपरि ।। 15.60 ।।
कृष्णाजिनेन शुद्धेन भेदनच्चेदनादिना ।
(10) वर्जितेन समाच्छाद्य वस्त्रं तदुपरि क्षिपेत् ।। 15.61 ।।
(10. लज्जिते च.)
तिलानां भारमेकं वा द्वौ वा कृत्वा च वेदिकाम् ।
त्रिमेखलां तिले तस्मिन् पद्माकारसमाकृतिम् ।। 15.62 ।।
निष्कत्रयात्मकं स्वर्णं लेखापद्मं तिलेषु वा ।
निक्षिप्य नवरत्नानि दिक्षु चाष्टासु निक्षिपेत् ।। 15.63 ।।
धान्यपूर्णानिपात्राणि द्वे द्वे प्रतिदिशं क्रमात् ।
प्रस्थतैलं तथा सर्पिर्धधि चापि चतुर्गुणम् ।। 15.64 ।।
पार्श्वयोःपुरतश्चापि पात्रस्थं न्यस्य भूतले ।
(11) तिलाज्याहारःपुरतस्त्रीण्यहानि जितेन्द्रियाः ।। 15.65 ।।
(11. तिलाज्यभारसहिता.)
उपोष्य वा गुरुःपूर्वमेकरात्रं चतुर्मुख ।
अभ्यर्च्य गन्धपुष्नाद्यैस्तिलान्यस्तान्यनन्तरम् ।। 15.66 ।।
अधीयानेषु विस्त्रेषु तूर्यवादित्रघोषणे ।
मङ्गलेषु तथान्येषु प्रवृत्तेषु यथायथम् ।। 15.67 ।।
तिलैस्सहस्रकृत्वोग्नौ जुहुयान्मूलविद्यया ।
अचर्यं पञ्च कालज्ञं भगवच्छास्त्रकोविदम् ।। 15.68 ।।
कल्याणाचारनिरतं सर्वेस्समुदितं गुणैः ।
तस्मे भागवतायेदमर्चयित्वा क्षतादिभिः ।। 15.69 ।।
तिलपद्मं प्रदातव्यं सन्निदौ वारिपूर्वकम् ।
प्रियतां भगवान् विष्णुरित्याचार्येण मन्त्रवित् ।। 15.70 ।।
तदन्ते देवमभ्यर्च्य (12) भोजयित्वा महासुरान् ।
दद्याच्च दक्षिणां तेब्यो गुरवे च यथोदिताम् ।। 15.71 ।।
(12. पूजयित्वा.)
इत्थं तिलसरोजं यो दद्याद्धान्यादिसंयुतम् ।
पूनाति स पितॄन् (13) सर्वानात्मानं च परावरान् ।। 15.72 ।।
(13. सर्वन्कुल्यानपि.)
मासर्क्षे पौर्णमास्यां च यजनं स्नपनादिभिः ।
* फाल्गुनमासे श्रीकामव्रतम् *
फाल्गुने मासि फल्गुन्यां श्रीकामो हरिमर्चयेत् ।। 15.73 ।।
उषोष्य पूर्वं नियतो ध्यायन्नित्थं समाहितः ।
विपुले बिल्वविपिने मध्ये पुष्करशोभिते ।। 15.74 ।।
महातटाके शिज्ञानपक्षिसङ्घसमाकुले ।
(14) मण्डपे तत्र माहेन्द्रे (15) रत्न प्राकारवेष्टिते ।। 15.75 ।।
(14. मण्डले.)
(15. प्रकारपरिवेषणे.)
चतुर्दिक्षु चतुर्द्वारे कल्पकद्रुममण्डिते ।
सौवर्णे बहुकल्याणरत्नस्तम्भसमन्विते ।। 15.76 ।।
सिंहासने वरे रत्न पद्मेऽष्टदलसंयुते ।
कर्णिकाकेसरोपेते सुखासीनं श्रिया सह ।। 15.77 ।।
पूर्वादिदिक्षु ध्यातव्या वासुदेवादयो दले ।
आग्नेयादिषु कोणेषु चत्वारो हस्तिनःक्रमात् ।। 15.78 ।।
गुग्गुलुश्च कुरण्डश्चदमकश्शलल स्तथा ।
शङ्खपद्मनिधी चापि संहविष्टरपार्श्वयोः ।। 15.79 ।।
अन्योन्याभिमुखौ भूरि वमन्तौ वसु सर्वदा ।
भूम्यादयोऽष्टौ पूर्वादिदिक्षु चामरपाणयः ।। 15.80 ।।
इन्द्रादयश्च पूर्वादि दिक्ष्वष्टावष्टसु (16) क्रमात् ।
(16. स्थिताः.)
स्थिताश्चतुर्षुद्वारेषु वेत्रहस्तास्सकङ्चु काः ।। 15.81 ।।
कुब्जवेषास्त्रियो द्वारि पालयन्त्योमनुहराः ।
बलाकिनी भीषि का च तथैव वनमालिनी ।। 15.82 ।।
शाङ्करी च क्रमादेताःपूर्वादिषु चतुर्मुख ।
द्वाराणि पालिकाभिश्च पूर्णकुम्भैर्ध्वजै स्तथा ।। 15.83 ।।
तोरणैर्दामभिर्मौक्तैर्दीपैरन्यैश्च मङ्गलैः ।
परिष्कृतानि ध्यात्वैवं देवीं देवं च पूजयेत् ।। 15.84 ।।
श्रियं वा केवलां पद्मे कर्णिकायामवस्थिताम् ।
मण्डपे तत्र पूर्वेक्ते परिवारसमन्विते ।। 15.85 ।।
लक्ष्मीप्रसूनकैःपद्मैर्होमो बिल्वादिपल्लवैः ।
समिदाज्यैश्च मन्त्रेण श्रियश्चाष्टाक्षरेण च ।। 15.86 ।।
श्रीसूक्तानि चतुर्दिक्षु पाठ्यानि पृथिवीसुरैः ।
आराध्याभिष्टुयादन्तेस्तोत्रैर्बहुविधैश्श्रियम् ।। 15.87 ।।
* लक्ष्मीस्तोत्रम्.*
समामि देवि लोकानां जनयि (17) त्र्यब्धिसम्भवे ।
सर्वलोकेश्वरेशेश वल्लभे (18) दुर्लभेऽधमैः ।। 15.88 ।।
(17. त्र्यब्ज.)
(18. दुर्लभे क्षमे.)
वासुदेवाङ्गसंस्पर्श सुखैकरसभाजने ।
नमस्ते (19) सुखदे देवि देवानामधिदेवते ।। 15.89 ।।
(19. शुभदे.)
यदृच्छयापि ते देवि कटाक्षाः पतितास्सकृत् ।
क्षुद्रेष्वपि प्रगल्भनैते त्रिलोकेश्वराःक्रमात् ।। 15.90 ।।
न स्पृशन्ति त्रिलोकेशानपि यान्वीक्षणानिते ।
संपाद्यन्ते क्षणात्क्षुद्रा नाकपृष्ठादपिच्युताः ।। 15.91 ।।
लावण्यादिगुणा यत्र काष्ठामश्नु वते पराम् ।
तानि त्वदीयान्यङ्गानि देवि कस्तोतुमर्हति ।। 15.92 ।।
त्वं माया त्वमविद्यासि त्वं शक्तिः कर्मणामपि ।
चैतन्यशक्तिस्त्वमसि प्रकृतिस्त्रिगुणात्मिका ।। 15.93 ।।
त्वमेव विद्यात्रैय्यन्ता त्रयी च त्वं परावरा ।
यस्यास्तवायुतांशांशे देव्यो वागादयस्थ्सिताः ।। 15.94 ।।
सच्चिदानन्दरूपस्य परस्य परमात्मनः ।
आनन्दादिमयी मूर्ति कविभक्ता भवत्यसि ।। 15.95 ।।
प्रभासि तस्य नित्या त्वं भास्वतः परमात्मनः ।
सन्ध्या त्वमसि विप्राणां वन्दनीया दिने दिने ।। 15.96 ।।
भूर्भुवस्स्वस्त्वयी च त्वं भूरसि त्वं भुवोसि च ।
स्वरसि व्याहृतिश्चापि ऋग्यगुस्सामकारणम् ।। 15.97 ।।
त्वमाहुतिस्त्वमिष्टश्च दक्षिणासि त्वमेव च ।
सिद्धिश्च कर्मणां त्वत्तो नान्यास्ति कमलालये ।। 15.98 ।।
नीतिरान्वीक्षकी वार्ता विद्या चाद्यासि लौकिकी ।
दृष्ट्वा देवि त्वया हीनं मृत प्रायं जगत्त्रयम् ।। 15.99 ।।
यत्नैरम्भोधिमथनप्रायैराविर्भभूविथ ।
अनुषङ्गिकमुत्पन्नं प्राप्तमप्सरसामपि ।। 15.100 ।।
तादृगेवामृतादन्यदिन्दिरे हरिमन्दिरे ।
हालाहलं विषं चापि जन्मनश्श्रेयसे तव ।। 15.101 ।।
प्रत्यूहरूपेणोत्पन्नं क्षीरपारिधिसम्भवे ।
अभ्यर्हिता तपोत्पत्ति रेवं नाम मधुद्विषः ।। 15.102 ।।
कुर्मादितिर्यग्योनित्वं यत्प्राप्तं परमात्मनः ।
त्वं सर्वलोकजननी जनको जगतां हरिः ।। 15.103 ।।
त्वया च विष्णुनाचैद्व्याप्तं स्थावरजङ्गुमम् ।
मानःकोशं तथा गोष्ठं मागृहं मा परिच्छदम् ।। 15.104 ।।
मा शरीरं कलत्रं च त्यजेथा मा च सन्ततिम् ।
श्रुतवान् शीलवान् दक्षो बुद्धिमान् वित्तवानृजुः ।। 15.105 ।।
वृत्तिवान् बन्धुमान् श्रीमान् पशुमान् धान्यवानपि ।
गुणवान् कीर्तिमान् लोके तथाभिजनवान् प्रभुः ।। 15.106 ।।
आयुष्मान् विजयी भूमांस्तथैपारोग्यवानपि ।
श्लाघ्यवान् देव पुरुषःकटाक्षविषयात्तव ।। 15.107 ।।
गुणैर्यथोक्तैरहितस्त्वद्दर्शनविवर्जितः ।
क्रीडाभूमिर्हरेर्यस्य वक्षोभूमिस्सनातनी ।। 15.108 ।।
आनन्त्यात्तनकल्याणि गुणानां वर्णने क्षमः ।
न वाचस्पतिरप्येष दूरे स्यान्मादृशां स्थितिः ।। 15.109 ।।
प्रसीद देवि पद्मे त्वं पद्महस्ते शुचिस्तिते ।
पद्मासने पद्मयोनेर्जनयित्रि हरिप्रिये ।। 15.110 ।।
पद्मप्रिये नमस्तुभ्यं विष्णोर्वक्षस्थ्सलालये ।
स्तुत्यन्तमित्थमाराध्या देव्यस्सर्वा श्श्रियादयः ।। 15.111 ।।
* देवीनामर्चने विशेषः.*
अर्हणं चोपवीतं च वर्ङयित्वोपचर्यया ।
ध्यात्वा यथोक्तमार्गेण यद्वा धूमध्वजार्चनम् ।। 15.112 ।।
उत्सवं च श्रिया देव्या सार्धं तस्मिन्मधुद्विषः ।
यावज्जीवं श्रियं देवीमर्चयन् संपदं पराम् ।। 15.113 ।।
इहानुभूय भूयोऽपि (20) परत्र श्रियमश्नुते ।
यद्वा कामयमानेन पुरुषेणार्चनं श्रियः ।। 15.114 ।।
(20. परतः.)
लभते तत्तदेवेह फलभेदैः किमीरितैः ।
* आरोग्य कामव्रतम् .*
आरोग्य कामस्सावित्रे मण्डले रत्नपङ्कजे ।। 15.115 ।।
असीनं विष्टरे पीतकौशेयवसनं हरिम् ।
निष्टप्ततपनीयाभं चतुर्भुजमधोक्षजम् ।। 15.116 ।।
प्रसादसुमुखं सर्वदिव्याभरणभूषितम् ।
देवीसहायं कल्याणं केवलं वा चतुर्मुख ।। 15.117 ।।
पूर्वाद्यष्टदलासीनशक्त्यष्टसमुपासितम् ।
एवं ध्यात्वार्चयेन्नित्यमारोग्यं परमश्नुते ।। 15.118 ।।
अनन्यलभ्यमारोग्यं सर्वं (21) लभ्येत्ततःपरम् ।
* दिनपञ्चकव्रतम्.*
दिनानि पञ्च शस्तानि वैष्णवानि चतुर्मुख ।। 15.119 ।।
(21. लभ्यमितः परम्.)
तेषु व्रतनुष्ठेयं सर्वाभिप्रेतसाधनम् ।
पक्षद्वये च द्वादश्यौ सिनीवाली कुहुस्तथा ।। 15.120 ।।
श्रवणर्क्षं दिनानि स्युर्मासेषु द्वादशस्वपि ।
* चैत्रादि द्वादशमासाधिव्रतानि.*
चैत्रादिषु द्वादशसु मासेषु द्वादशाधिपाः ।। 15.121 ।।
अर्चनीयाःक्रमाद्विष्णुस्तथैव मधुसूदनः ।
त्रिविक्रमो वामनश्च श्रीधर स्तदनन्तरम् ।। 15.122 ।।
हृषीकेशःपद्मनाभो दामोदरसमाह्वयः ।
केशवो नामधेयेन तथा नारायणःस्मृतः ।। 15.123 ।।
माधवोऽन्यश्च गोविन्दो द्वादशैते प्रकीर्तिताः ।
मासेचैत्रे (22) समारम्भोमार्गशीर्षेथवा भवेत् ।। 15.124 ।।
(22. प्रतारम्भो.)
(23) अश्नन् हविष्यं पूर्वेद्युरनश्नन्नपरेऽहनि ।
श्रवणे मध्यमे भागे शुचिर्दक्षस्समाहितः ।। 15.125 ।।
(23. अन्नं.)
चक्राब्जमण्डले यद्वा बिम्बे कुम्भेऽथ वा हरिम् ।
आराध्य मूर्तिं मासेशमुपचारैर्यथोदितैः ।। 15.126 ।।
आराधनान्ते वित्तानि दत्वा शक्त्यनुसारतः ।
ब्राह्मणेभ्यस्तथा दत्वा गुरवे दक्षिणादिकम् ।। 15.127 ।।
अपरेद्युस्तथा देवमर्चयित्वा यथाविधि ।
पारणं ब्राह्मणैस्सार्धं कुर्यान्नि यतमानसः ।। 15.128 ।।
एवं चतुर्षु चान्येषु दिनेष्वाराधनक्रमः ।
मासि मासि च यष्टव्या मासेशा मूर्तिरब्जज ।। 15.129 ।।
दिनेषु पञ्चसूक्तेषु सर्वाभिप्रेतसिद्धये ।
त्रिषु संवत्सरेष्वेवं कृत्वा मासेषु च त्रिषु ।। 15.130 ।।
व्रते समाप्ते स्नपनं कुर्यात्पूर्वोक्त वर्त्मना ।
(24) याचयेत व्रतफलं धान्यराशौ स्थितो द्विजः ।। 15.131 ।।
(24. वाचयेत व्रतफलं धान्यराशौ स्थितं द्विजम्.)
भोजयित्वा द्विजवरान् दत्वा तेभ्यश्च दक्षिणाम् ।
दक्षिणाभिस्तथाचार्यं तोषयेत्काञ्चनादिभिः ।। 15.132 ।।
पौर्णमास्यामपि ह्येष क्रमो मासाधिपार्चने ।
विशेषत स्त्रियामायां चन्द्रमस्यु दितेऽर्हणा ।। 15.133 ।।
कुह्वामपि तिथौ प्राग्वदर्चयेद्व्रतमास्थितः ।
आराधनं दिनेष्वेषु चतुर्वर्ग फलप्रदम् ।। 15.134 ।।
सर्वस्मिन् मासनक्षत्रे प्रादुर्भाव दिनेषु च ।
अर्चयित्वाङ्कुरान् पूजा कार्यास्नपनपूर्विका ।। 15.135 ।।
होमावसानिकान्विप्रांस्तर्पयेच्च यथावसु ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे "व्रतानुष्ठान क्रमो" नाम पञ्चदशोऽध्यायः.
------- ******* -------