चर्यापादः/अध्यायः ३
← अध्यायः २ | चर्यापादः अध्यायः ३ [[लेखकः :|]] |
अध्यायः ४ → |
पाद्मसंहितायाम्
चर्यापादे-तृतीयोऽध्यायः
तृतीयोऽध्यायः.
------
* भगवदाराधनविधिः.*
श्रीभहवान् :---
श्रूयतामभिधास्यामि ब्रह्मन्नाराधनं हरेः ।
येन विष्णोः पदं मर्त्यः प्रोप्नोत्यमरदुर्लभम् ।। 3.1 ।।
* स्नानभेदाः.*
स्नानमूलाः क्रियास्सर्वाः स्नानं च बहुधा श्रुतम् ।
वारुणं दिव्यमाग्नेयं वायव्यं पार्थिवं तथा ।। 3.2 ।।
मान्त्रं मानसमित्येवं स्नानं सप्तविधं स्मृतम् ।
निरीक्ष्य चात्मनश्शक्तिं समयं देशमेव च ।। 3.3 ।।
एतष्वेकतरं कुर्यात्समाराधनतत्परः ।
* वारुणास्नानस्वरूपम्.*
अवगाहन मप्स्वन्तर्वारुणं स्नानमिष्यते ।। 3.4 ।।
सहातपेन वर्षेण स्नानं दिव्यमनन्तरम् ।
समिधां दीपितानां च गोमयस्य हुतस्य च ।। 3.5 ।।
सितेन भस्मनाऽङ्गेषु ललाटादिषु चक्रमात् ।
यदूर्ध्वपुण्ड्रकरणं मन्त्रोच्चारणपूर्वकम् ।। 3.6 ।।
तदाग्नेयं भवेत् स्नानं शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु (1) पादोत्थैरजोभिर्भूमिसम्भवैः ।। 3.7 ।।
(1. वातोत्थैः.)
स्पर्शनं वपुषस्स्ननं वायव्यं तदुदाहृतम् ।
प्रशस्ते वर्वताग्रादौ जातया स्वेतमृत्स्नया ।। 3.8 ।।
उच्चार्य केशवादीना नामान्यङ्गे यथाक्रमम् ।
ललाटादौ यद्विधान मुर्ध्वपुण्ड्रस्य तद्भवेत् ।। 3.9 ।।
(2)पार्थिवं स्नानमब्लिङ्गैर्मन्त्रैर्विप्रकरेरितैः ।
(2. अत्र "ऊर्ध्वपुण्ड्रं मृदा धार्यं सान्तरालं त्रियङ्गुलम् । लक्ष्म्यासार्धं सुखासीनो कमेZहं तत्र निर्वृतः ।।" इति पद्यं क्वचिद्दृश्यते.)
अम्भोभिः प्रोक्षणं ब्रह्मं स्तन्मास्त्रं स्नानमिष्यते ।। 3.10 ।।
* मानसस्नानम् *
त्रिराचम्याऽहतं वासः परिधाय सुखानसः ।
प्राणान यम्य मां ध्याये द्धृदयाम्भोरुहे स्थितम् ।। 3.11 ।।
ध्यानेनानेन निर्द्धूतकल्मषो जायते पुमान् ।
स्नानं मानसमेतत्स्यात् स्नतश्च हरिमर्चयेत् ।। 3.12 ।।
आजानु पादौ प्रक्षाल्य हस्तौ चामणि बन्धनात् ।
आचम्य च द्वारपार्श्वं गत्वाङ्गन्यासपूर्वकम् ।। 3.13 ।।
* भगवन्मन्दिरकवाटोद्घाटनम् *
तालत्रयं च हस्ताभ्यां कृत्वाऽभिवलजं स्थितः ।
(3)कवाट मुद्घाट्य ततो वायमन्त्रेण (4) मन्त्रेवित् ।। 3.14 ।।
(3."फण्टायाश्चालनं कुर्यात्कपाटोद्घाटनादिषु" इदमर्धं क्वचिदधिक मस्ति.)
(4.पद्मज.)
साम्ना देवव्रतेनान्तः प्रविशेद्दक्षिणाङ्घ्रिणा ।
प्रणमेच्छिरसा देवं पुण्डरीकाक्ष विद्यया ।। 3.15 ।।
आरोपितेषु दीपेषु माल्ये चापि निरासिते ।
वेद्यां पात्रेषु बिम्बेषु शोधितेषु यथातथम् ।। 3.16 ।।
द्वारपूजामुखे सर्वपरिवारसमर्चने ।
कृते शिष्येण वाऽन्येन परिचारपरेण वा ।। 3.17 ।। (9)
(9. "परिवाराननभ्यर्च्य तथैवाग्नि समीडनम् । भोगैरकृत्वा देवस्य पूजास्यान्निष्प्रयोजना । तस्माद्यथोक्तमार्गेण पूजनं स्थान वृद्धिदम् ।" इति क्वचि दधिकं दृश्यते.)
* पूजकपरिकर्मा.*
पूजकोऽलङ्कृतस्स्रग्वीशुक्लाम्बरधं श्शुचिः ।
शुक्लोपवीतोत्तरीयश्च न्दनाद्य नुलेपनः ।। 3.18 ।।
(6) चन्दनश्वेतमृत्स्नाम्बु तल्पिता ग्रोर्ध्वपुण्ड्रकः ।
(7) आरभ्य नासिकामूलं ललाटान्तं लिखेत्क्रमात् ।। 3.19 ।।
(6.श्वेतमृत्स्नाम्बुकल्केन धारयेदूर्ध्व पुण्ड्रकम्. इदमर्धं चन्दनेत्य र्धस्थानेक्वचिद्दृश्यते.)
(7.इदमर्धं क्वचिन्नास्ति.)
* आत्मशुद्धिः.*
देवपार्श्वां समासाद्य पार्श्वे (8) सव्येतरे स्वयम् ।
(9) आसीनो विष्टगे शुद्धे ॠस्यादौ स्वस्ति कासने ।। 3.20 ।।
(8.सव्योत्तरे.)
(9.आसीत.)
बध्वा पद्मासनं वापि दूर्याघोषे प्रवर्तिते ।
तिरस्करिण्याच द्वारे निश्छिद्रं च्छादिते ततः ।। 3.21 ।।
अस्त्रमन्त्रेण ककुभो बध्वा धूमध्वजं बहिः ।
प्राकारवत् स्थितं ध्यायेत्तेजो मन्त्रेण मन्त्रवित् ।। 3.22 ।।
चक्रमुद्रां च खे न्यस्य चक्रमन्त्रेण साधकः ।
गोपयन्नित्थमात्मानं प्राणायामैस्त्रिभिः क्रमात् ।। 3.23 ।।
युक्तः कृत्वा योगमुद्रां नाभिकन्टे स्थितं पुनः ।
वेद्याकारं वायुबीजं ध्यात्वा तज्जेन वायुना ।। 3.24 ।।
धूम्रेण देहपाप्मानं शोषयित्वा निरन्वयम् ।
त्रिकोणमग्निभीजं च रक्तवर्णं हृदम्बुजे ।। 3.25 ।।
ध्यात्वा तदुत्थसप्तार्चिश्शिखाभिः कल्मषं दहेत् ।
माहेन्द्र बीजं विन्यस्य पीताभं चतुरश्रकम् ।। 3.26 ।।
कण्ठे सहस्पर्शनेन स्तम्भयेदग्निमुत्थितम् ।
वायुना कुम्भकेनैव वृत्तं स्फटिकसन्निभम् ।। 3.27 ।।
विन्यस्य वारुणं बीजं मूर्ध्नि तज्जामृताम्भसा ।
क्षालयेत्सर्वतो देहमापादतलमस्तकम् ।। 3.28 ।।
पृथिव्यादीनि तत्वानि समाधिपरया धिया ।
परमात्मनि संहृत्य प्रलयक्रममास्थितः ।। 3.29 ।।
पृथिवीं पञ्चगुणकां पीताभां चतुरश्रकाम् ।
घ्राणोपस्थेन्द्रिययुतां तन्मात्रालक्षणे ततः ।। 3.30 ।।
गन्धे संहृत्य योगेन (10) गगनेन विचक्षणः ।
कसना पाय्वीन्द्रियाभ्यां सहापश्च (11) चतुर्गुणाः ।। 3.31 ।।
(10.गहनेन.)
(11.सह पश्चाच्चतु.)
अर्धचन्द्राकृति (12) श्चैता स्तन्मात्रालक्षणे कसे ।
(12. श्श्वेता.)
गन्धं च तन्मात्रात्मानं ततोग्निंत्र्यश्रपाटलम् ।। 3.32 ।।
त्रिगुणं दृष्टिचरणस्त्रोतोभ्यां सुसमाहितः ।
तन्मात्रालक्षणे रूपे रसं तन्मात्रया सह ।। 3.33 ।।
संहरेद्द्विगुणं वायुं स्पर्शेतन्मात्रलक्षणे ।
धूम्रं वृत्तं तत्कराभ्यां रूपं तन्मात्रया सह ।। 3.34 ।।
(13) वायुना संहरेद्योगी खं च शब्दगुणं पुनः ।
तन्मात्रालक्षणे शभ्दे नीलोत्पल दलप्रभम् ।। 3.35 ।।
(13.युञ्जानः.)
स्पर्शं च तन्मात्रात्मानं श्रुतिपाक्सहितं ततः ।
संहृत्य शब्दतन्मात्रां स्वान्ते स्वान्तमहङ्कृतौ ।। 3.36 ।।
अहङ्कृतिं बुद्धितत्वे बुद्धिं च प्रकृतौ पुनः ।
जीवे च प्रकृतिं जीवं वासनाविवशं ततः ।। 3.37 ।।
सुसूक्ष्मं नाभिचक्रे स्वे भास्कराभमवस्थितम् ।
नुषुम्नया नाडिकया पद्मसूत्रसुसूक्ष्मया ।। 3.38 ।।
उपर्यारोहयेद्देहे कुम्भकेन सभस्वता ।
भित्वा च ब्रह्मणो रन्ध्रं बहिर्देहाद्विनिर्गतम् ।। 3.39 ।।
प्रविश्य भास्करस्यापि मण्डलान्निर्गतं बहिः ।
अशरीरं तथा जीवं परस्मिन् ब्रह्मणि द्रुवे ।। 3.40 ।।
स्थितं ध्यायेत् स्थितं तत्र स्वदेहं योनिजं दहेत् ।
न्यस्तेन शिखिभीजेन पादाग्रेज्वलनं द्विषा ।। 3.41 ।।
पादादिमूर्धपर्यन्तं दग्धे देहे निजे ततः ।
निवृत्तिबीजं खे ध्याये त्पूर्ण चन्द्रायुतो पमम् ।। 3.42 ।।
तदुत्थपीयूषनिधौ जा ते पाण्डर पङ्कजे ।
स्मरेज्जीवं समुत्पन्नं सकाशाद्भ्रह्मण स्तदा ।। 3.43 ।।
जीवात्प्रधानं तस्माच्च बुद्धिं बुद्धेरहङ्कृतिम् ।
ततो मनस्ततश्शब्दं तन्मात्रां खं ततस्सह ।। 3.44 ।।
पाक्छ्रुतिभ्यां शब्धगुणं तन्मात्रां स्पर्शलक्षणाम् ।
वायुं स्पर्शगुणं सार्धं त्वचा हस्तेन चस्मरेत् ।। 3.45 ।।
(14)तन्मात्रां स्पर्शरूपां तां ततोग्निं सह चक्षुषा ।
पद्भ्यां रूपगुणं (15) रूपतन्मात्रां च रसं (16) ततः ।। 3.46 ।।
(14.तन्मात्रां च स्पर्शनाम्नाम्. ततश्च स्पर्शतन्मात्राम्. तन्मात्रां च ततोरूपाम्. इति च पाठान्तरम्.)
(15.तस्मात्तन्मात्राम्.)
(16.पुनः.)
अपो रसगुणाः पायुरसनाभ्यां सहाब्जज ।
गन्धं च तन्मात्रात्मानं सहगन्धगुणां भुवम् ।। 3.47 ।।
समुत्पन्नं स्मरेद्विद्वान् फ्राणोपस्थयुतं तथा ।
इत्थं शरीरमात्मीयं सृष्टं मह्यादिभूतजम् ।। 3.48 ।।
विचिन्त्य पङ्कजं बुध्या प्रबुद्धं तद्विनिस्सृतैः ।
शातकुम्भमयैःकुम्भैः पूर्णैरमृतवारिभिः ।। 3.49 ।।
स्नापितं शुद्धमनघं चिन्तयित्वा निजं वपुः ।
आराधने हरे र्योग्यं परस्य परमात्मनः ।। 3.50 ।।
* मन्त्रन्यासविधिः.*
ध्यायन्नष्टाक्षरं मन्त्रं द्वादशाक्षरमेव वा ।
सृष्टिस्थितिलयव्यासै र्हस्तन्यास पुरस्सरम् ।। 3.51 ।।
न्यस्येदङ्ग्रषु मूर्धादि पादान्तेषु यथा तथम् ।
* प्रणवन्यासः.*
तलं पृष्ठं चकरयो श्शोधयुत्वास्त्र विद्यया ।। 3.52 ।।
अङ्ग्रलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु ।
इष्यते प्रणवन्यासो मध्यमेषु च पर्वसु ।। 3.53 ।।
* अष्टाक्षरस्य सृष्टिलयस्थितीनां न्यासः.*
(17)मन्त्राक्षराणि विन्यस्ये न्न्यास एष सनातनः ।
पर्वदक्षिण तर्जन्याः (18) प्रक्रम्याङ्गुलिपर्वसु ।। 3.54 ।।
(17.मन्त्राक्षराणां विन्यासो.)
(18.प्रक्रम्याङ्ग्रुष्ठ.)
दक्षिणेतरतर्जन्याः पर्वान्तं साधकोत्तमः ।
सृष्टिन्यासमिमं कुर्या (19) द्व्यत्यासेन तु संहृतौ ।। 3.55 ।।
(19.द्विन्यासेन)
प्रक्रम्य तर्जनीपर्व कनिष्ठापर्व विश्रमः ।
स्थितावष्टाक्षरस्येष मन्त्रस्य न्यास ईरितः ।। 3.56 ।।
* द्वादशाक्षरमस्त्रस्य सृष्टिलयस्थितीनां नासः *
द्वादशाक्षर मन्त्रस्य न्यासस्सम्प्रति कथ्यते ।
न्यासस्तवले मध्यमया तर्जन्याऽङ्गुपर्वणि ।। 3.57 ।।
कृत्वा प्रदक्षिणं पर्नस्वङ्गुष्ठेनेतरेषु तु ।
सव्ये तले तु विश्रान्ति स्सृष्टानपरधा लये ।। 3.58 ।।
तलयोःप्रक्रमस्थाने दक्षिणेतरयोर्द्वमयोः ।
कनिष्ठयोश्च विश्रान्तिः पर्वणो रुभयोरपि ।। 3.59 ।।
द्वादशाक्षर मन्त्रस्य न्यासोऽयं कमलासन ।
* अष्टाक्षर स्थानानि.*
हृदयादीनि चाङ्गानि ध्यात्वाऽङ्गुष्ठादि पञ्चसु ।। 3.60 ।।
न्यस्येन्नखमुखे नेत्रे तले सव्ये गदा (20) धरौ ।
सव्येतरे पद्मचक्रेन्यस्येस्न्यासः करद्वये ।। 3.61 ।।
(20. दरौ इतिक्वचित्.)
ईरितस्तलयोर्मन्त्रं ध्यात्वा तेजोभिरु ज्वलम् ।
ताभ्यां मूर्द्धादिपादान्तं देहे न्यस्ये (21) त्समूहितः ।। 3.62 ।।
(21.त्समन्तः.)
व्यापकं कञ्चुकं यद्वा (22) मन्त्रमक्षरशस्ततः ।
मूर्द्निनेत्रे मुखे चित्ते नाभ्यां गुह्ये च जानुनि ।। 3.63 ।।
(22. मन्त्रस्त्वक्षरश)
चरणौ क्रमशस्सृष्टौ न्यासो मन्त्रस्य इष्यते ।
विपरीतक्रमोज्ञेय स्संहृतौ पालने पुनः ।। 3.64 ।।
नाभ्यादि पृदयान्तेषु न्यासोङ्गेषु प्रकीर्तितः ।
अष्टाक्षरस्य मन्त्रस्य स्थानान्येतानि तानि च ।। 3.65 ।।
* द्वादशाक्षर स्थानानि.*
शिरसः पश्चिमं पूर्वं दक्षिणं चोत्तरं ततः ।
चत्वारि च चतुर्वक्त्रस्थानानि द्वादशाक्षरे ।। 3.66 ।।
* अष्टाक्षर न्यासभूमयः.*
मूर्ध्नि मध्यमयाऽङ्गुल्या तर्जन्या सह चक्षुषोः ।
न्यस्येन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित् ।। 3.67 ।।
अङ्गुष्ठ तर्जनीभ्यां तु हृदये न्यसनं भवेत् ।
तथाङ्गुष्ठ कनिष्ठाभ्यां नाभौ न्यासः प्रशस्यते ।। 3.68 ।।
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः ।
समस्ताभिश्चरणयो रित्यष्टाक्षरभूमयः ।। 3.69 ।।
* द्वादशाक्षर न्यासभूमयः.*
प्राग्भागे शिरसोङ्गुल्या न्यासोऽङ्गुष्ठेन दक्षिणे ।
तर्जन्या पश्चिमे भागे न्यासोऽनामिक योत्तरे ।। 3.70 ।।
कनिष्ठयातधैतास्स्युर्द्वादशाक्षरभूमयः ।
* मन्त्राक्षराणां वर्णाः *
रूपं क्रम्णाक्षराणां न्यासकाले विचिन्तयेत् ।। 3.71 ।।
शुक्लं हिरण्ययं कृष्णं रक्तं कुङ्कुम सन्निभम् ।
(23) पद्मकिञ्जल्क सदृशं सर्ववर्ण कमष्टकम् ।। 3.72 ।।
(23. पद्मकिञ्जल्कनीलं च.)
सितं कृष्णं च धूम्राभं श्यामं तारानिभं ततः ।
स्फटिकाभं च शज्खाभं कक्तं शुक्लं च लोहितम् ।। 3.73 ।।
तमोरूपं पीतवर्णं ध्वात्वामन्त्रद्वयाक्षरम् ।
* षडङ्गन्यासः *
स्थाने यथोक्ते विन्यस्य षडङ्गन्यासमाचरेत् ।। 3.74 ।।
हृदयं च शिरश्चेव शिखा कवच मेव च ।
नेत्रमस्त्रं षडेतानि हृदये मस्तके तथा ।। 3.75 ।।
शिखायामानुपूर्व्येण स्कन्थस्योभय पार्श्वयोः ।
नेत्रयोर्दिक्षु सर्वासु न्यसनीयानि भूमिषु ।। 3.76 ।।
* षण्णां रूपाणि.*
रूपाणि षण्णां कुमुदं बन्धूक मसितोत्पलम् ।
अब्जकेसर मम्भोज मतसी (24) सून सन्निभम् ।। 3.77 ।।
(24. रूपसम्पदम्.)
दिव्यायुधधरं दिव्यवस्त्रमाल्यानु तेपनम् ।
कौस्तुभं वनमालां च श्रीवत्सं दिव्यलक्षणम् ।। 3.78 ।।
बिभ्राणं भावयेत्साक्षादात्मानं परमेश्वरम् ।
अर्चयेन्न्यासबीजानि गन्दपुष्पादिभिः क्रमात् ।। 3.79 ।।
मानसैरूप चारैश्च हृदयाम्भोरुहे स्धितम् ।
(25) होमान्तमर्च येत्पूर्वं पासुदेवं सनातनम् ।। 3.80 ।।
(25. होमन्तैर.)
* मन्त्रशुद्धिः *
आत्म शुद्धिरियं प्रोक्ता मन्त्रशुद्धिस्तु कथ्यते ।
षद्विंशे (26) नार्णबीजेन मन्त्रबीजानि (27) शोषयेत् ।। 3.81 ।।
(26.नास्त्रभीजेन.)
(27.तोषयेत्.)
सप्तविंशेन बीजेन दहेदेतानि वर्णशः ।
अष्टाविंशेन बीजेन (28) खे च स्तम्भ नमाचरेत् ।। 3.82 ।।
(28. तेषु.)
एकोनत्रिंशबीजेन तान्येव क्षा लयेत्पुनः ।
हुङ्कारेण प्रबुद्धानि फट्कारेण विचक्षणः ।। 3.83 ।।
कुर्यादभिमुखान्य (29) न्वक्प्रणवेन विशोधयेत् ।
तमक्षमालया शुद्धं जपेन्मन्त्रं समाहितः ।। 3.84 ।।
(29.द्वा प्रणवेन.)
अष्टोत्तर शतं वारा नष्टाविंशति मेव वा ।
अष्ठौ वामन्त्रविन्मन्त्रं बीजाद्यन्त पुठीकृतम् ।। 3.85 ।।
पूजाद्रव्याणि सर्वाणि क्षालयेच्चाम्बु पूरिताम् ।
(30) दक्षिणे वामपार्श्वेवा विनिवेश्य गल न्तिकाम् ।। 3.86 ।।
(30.दक्षिण स्थापयीत्वातु वामे पार्श्वे.)
अर्घ्यादि पात्राण्यादाय गायत्र्या विष्ठुपूर्वया ।
प्रक्षाल्य पादेष्पादध्याद्देवस्याग्रेऽथ (31) पद्मज ।। 3.87 ।।
(31.पात्मनः.)
पाद्यं मध्ये दक्षिणेऽर्घ्यं पामे चाचमनीयकम् ।
तस्य (32) पार्श्वस्य पार्श्वेतु वामे स्नानीयपात्रकम् ।। 3.88 ।।
(32. तत्पार्श्वयोश्च शुद्दापा पात्रम्.)
पूर्णानि गालिताम्बोभिः पात्राणि निगमादिना ।
* अर्घ्यादिषु क्षेवणीयद्रव्याणि.*
संस्पृश्यार्घ्यादि पात्रेषु द्रव्याणि विनिवेशयेत् ।। 3.89 ।।
कुशाग्रमक्षतं पुष्पं फलं मलयजं तथा ।
तिर्ला सिद्धार्थसहितान् यवा (33) न र्घ्यस्य भाजने ।। 3.90 ।।
(33. नर्घ्ये विनिक्षिपेत् )
तिलान् दूर्वां विष्णुपर्णीं श्यामाकं पद्ममक्षतम् ।
प्राद्यपात्रे षडेतानि द्रव्याणि विनिवेशयेत् ।। 3.91 ।।
एलालवङ्गकर्पूरं जातीतक्कोल चन्दनम् ।
पुष्पाण्याचमनीये तु पात्रे द्रव्याणि कल्पयेत् ।। 3.92 ।।
(34) सन्धं सर्वैषधी रत्नफलबीज कुशानि च ।
तिलानि चाक्षतं चैव दधिक्षीरघृतानि च ।। 3.93 ।।
(34. `गन्धम्' इत्यादि `द्वादशारम्' इत्यन्तं क्वचिन्न.)
रजनी द्वादशाङ्गानि (35) स्नानीये च विनिक्षिपेत् ।
कोष्ठं मांसीहिरिद्रे द्वे मुराशैलेयचम्पकाः ।। 3.94 ।।
(35. स्नानीयद्रव्यमुच्यते.)
वचाकचोरमुस्ताश्च सर्वौषध्यः प्रकीर्तिताः ।
(36) तिलानि तुलसी चैव निक्षिपेच्छान्ति वारिणि ।। 3.95 ।।
(36. तिलैश्च तुलसीभिश्च भवेच्छान्त्युदरं तथा. इतिक्वचित्)
* द्रव्याणां दहनशोषणप्लावनादि *
द्वादशारं भासमानं चक्रं (37) मध्येतु भास्करम् ।
हस्ते पामेतरे ध्यात्वादीप्तौस्तद्रश्मिभिः पुनः ।। 3.96 ।।
(37.मध्यग.)
द्रव्याणि दग्ध्वानिश्शेषं भस्मीभूतानि तानि च ।
दक्षिणेतरहस्तस्थेसिते पद्मे विकस्वरे । 3.97 ।।
दलैष्षोडशभिर्युक्ते चन्द्रं पीयूषकश्मिभिः ।
ह्लौदयन्तं स्थितं ध्यात्वा तदुत्थैरमृताम्बुभिः ।। 3.98 ।।
सिक्तानि जातानि पुन र्यागयोग्यानि भावयेत् ।
हस्तयोरुभयोर्देवं ध्यायेन्ना रायणं प्रभुम् ।। 3.99 ।।
ताभ्यामर्घ्यादिपा त्रेषु स्पृष्ट्वा द्रव्याणि विश्वतः ।
सकृत्सकृत्सम्भृतानि गायत्र्या विष्णुपूर्वया ।। 3.100 ।।
अभिमन्त्र्य ततो मुद्रां सौरभेयीं प्रदर्शयेत् ।
तद्दुग्धेन च पात्राणि पूरितानि विचिन्तयेत् ।। 3.101 ।।
ओमर्घ्यमित्यादि पूर्वं कल्पयामीति (38) चोच्चरन् ।
स्पृशेत्पात्राणि हस्तेन पात्रेऽन्यस्मिन्नन न्तरम् ।। 3.102 ।।
(38. चोच्चरेत् )
अर्घ्यपात्राज्जलं किञ्चद्गृहीत्वा विनिवेशयेत् ।
(39) दक्षिणएतरहस्ते तत् पात्रं संस्थाप्य मन्त्रयेत् ।। 3.103 ।।
(39. "श्रीरर्घ्यस्य भवद्देवी वागीशाचमनीयके । पाद्यस्य पितरो देवा स्नानीये वरुणस्तथा...कस्य शान्तिस्स्यात्पात्रेष्वेतास्समर्चयेत् ।।" इत्यधिकमेकत्र दृश्यते.)
मन्रैण मूलभूतेन वारान् सप्ततदम्बना ।
पठंसैनास्त्र मन्त्रेण द्रव्याण्यात्मानमेव च ।। 3.104 ।।
* योगपीठकल्पनम्.*
प्रोक्ष्य कूर्चेन देवस्य योगपीठं प्रकल्पयेत् ।
अभिन्ने सहजे पीठे प्रतिमायाश्चतुर्मुख ।। 3.105 ।।
आधारं प्रथमं रूर्मं कालाग्निं तदनन्तरम् ।
उपरिष्टाच्च भोगीन्द्रं पणाभिर्भूमिमण्डलम् ।। 3.106 ।।
चतुरश्रं सहस्रेण बिभ्राणं बलवत्तरम् ।
भुवश्चोपरि धर्माद्याः कल्प्या योगासनाङ्घ्रयः ।। 3.107 ।।
आग्नेयादिषु चत्वारश्चतसृष्वेव पद्मज ।
अधर्माद्याश्च तावन्तः (40) प्रागाद्यासु यथाक्रम् ।। 3.108 ।।
(40. प्रागादिषु.)
आशासु तावतीष्वेव पुरुषाकृतयस्थ्सताः ।
चतुर्भुजास्सिंहवक्त्रास्सिताः पूर्वऽरुणाः परे ।। 3.109 ।।
हस्ताभ्यामपि मुख्याभ्यां रचिताञ्जलि सम्पुटाः ।
अवराभ्यां च बिभ्राणा हस्ताभ्यां योगपीठिकाम् ।। 3.110 ।।
मध्ये सदा शिवो देव स्तद्वदेव प्रतिष्ठितः ।
अथवा पुरुहूताद्या दिक्षु प्रागादिषु क्रमात् ।। 3.111 ।।
अष्टावष्टनु पीठस्य पादरूपेण धारकाः ।
ईषाश्चतस्रः पूर्वाद्याः (41) तस्य वेद चतुष्टयम् ।। 3.112 ।।
(41. तासु देव चतुष्टयम्.)
अहङ्कारास्त्रयः पाशा गुणास्सत्वादयो गुणाः ।
तूलिका पञ्चभूतात्मा जीवात्मास्तरणं तथा ।। 3.113 ।।
अग्ने स्सोमस्य सूर्यस्य मण्डलान्यु परिक्रमात् ।
अम्भोजमुपरिष्टाच्च वलर्क्षंद्वादशच्छदम् ।। 3.114 ।।
(42) स्मेरकेसरसम्पूर्णं मध्ये विपुलकर्णिकम् ।
भद्रासनं कल्पयीत्वा यथो क्तेनैव वर्त्माना ।। 3.115 ।।
(42. स्मरेत्केसर.)
* पीठपार्श्वदेवताः.*
अर्चयेद्गन्धपुष्पाद्यैः पीठपार्श्वैतु दक्षिणे ।
ब्रह्माणं विष्णु (43) मीशानं समाराध्य तथोत्तरे ।। 3.116 ।।
(43. मीशां च.)
सनत्कुमारं सनकं सनन्दं च सभाजयेत् ।
पार्श्वेच पश्चिमे दुर्गां विघ्नेशं नारदं तथा ।। 3.117 ।।
आत्मनश्च गुरून् ध्यात्वा प्रारभेताच्युतार्चनम् ।
* भगवदाराधनाम्भः.*
आवाहनपदं पात्रं प्रक्षालितमथाम्बभिः ।। 3.118 ।।
पूरमेस्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ।
ललाटसममेतस्मिन्नन्तरावाह्य केशवम् ।। 3.119 ।।
मूलबिम्भा द्यथादीपं दीपादविकृतं तथा ।
यतुरुच्छारयेन्मन्त्रमागच्छ पदसं युतम् ।। 3.120 ।।
तेनतोयेन कर्मार्चांसिञ्केत्कूर्चेन मूर्धनि ।
तत्र सन्निहितं देवं कर्मार्चायां विचिन्तयेत् ।। 3.121 ।।
प्रणम्यकिञ्चदुत्थाय स्वागतो कैरनन्तरम् ।
* मुद्राप्रदर्शनम्.*
दर्शयेत्प्रतिमामुद्रां कल्पयीत्वा च सन्निधिम् ।। 3.122 ।।
* यावद्यागं स्थिति प्रार्थना.*
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितम् ।
* सम्मुखीकरणम्.*
सम्मुखीकरणं कुर्यात्पुण्डरीकाक्षविद्यया ।। 3.123 ।।
* सपर्यासनम्.*
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः ।
* देहवदर्चायां मन्त्रेन्यासः.*
यथा देहे (44) तथार्चायां मन्त्रन्यासं समाचरेत् ।। 3.124 ।।
(44. तथा देवे.)
* हस्तन्यासं विना मुद्राप्रदर्शनम्.*
हस्तन्यासं विना शङ्खचक्रमुद्रां प्रदर्शयेत् ।
* सुरसिद्धाद्यवतारितभिरे आवाहननिषेथः.*
(45) नावाहयेदेकबेरे सुरसिद्धावतारिते ।। 3.125 ।।
(45. आवाहयेत्.)
ऋषिभिर्मनुजैर्वापि स्थापिते निश्चले (46) हरै ।
* सुस्थितेऽभिमुखीभाव एवावाहनं.*
सुस्थतेऽभिमुखीभावस्त देवावाहनं हरेः ।। 3.126 ।।
(46. निश्चिते.)
यथाग्निमाहितं कुण्डे यथा वा पुरुषं स्थितम् ।
काले प्रबोधयेदेवमर्चने बोधयेद्धरिम् ।। 3.127 ।।
* पूजारम्भे स्थिरबिम्बे योगपीठादीनां अवश्यकर्तव्यता.*
कल्पनं योगपीठस्य मन्त्रन्यसनमेव च ।
बिम्बे स्थिरे सदा कार्यं पूजारम्भे चतुर्मुख ।। 3.128 ।।
* पाद्याचमनयोः स्थितं हरिंध्यायेत् *
अर्घ्यवस्त्राम्बराकल्प पुष्पगन्धानुलेपनैः ।
(47) प्रत्यर्चितं स्थितं ध्यायेत्पाद्यचमनयोःपुनः ।। 3.129 ।।
(47. प्रदिक् स्थिते.)
* स्नोननै वेद्यकालयो स्सुखासीनं ध्यायेत्.*
आसीनं स्नानकाले च पद्मासनसुखासने ।
नैवेद्यधूपदीपादापासीनं स्वस्तिकासने ।। 3.130 ।।
* अन्यतोप्रचारे स्थितमासीनं वा ध्यायेत् *
उपचारेषु चान्यत्र तत्तत्कर्मानुसारतः ।
स्थितमासीनमथवा देवं ध्यायेत पूजकः ।। 3.131 ।।
* पुष्पाञ्जलिः *
अर्चयामीति साम्नातु क्षिपेत्पुष्पाञ्जलिं हरेः ।
विभो सकललोकेश विष्णो जिष्णो प्रभो हरे ।। 3.132 ।।
त्वां भक्त्या पूजयाम्यद्य भोगै रर्घ्यूदिभिः क्रमात् ।
(48) दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि ।। 3.133 ।।
(48. दिव्येनेत्येकः श्लोकः क्वचिदेवास्ति.)
अर्चयिष्यामि समये भगवन्तं जनार्दनम् ।
इति विज्ञाव्य देवेशं यजेदर्घ्यादिभिःक्रमात् ।। 3.134 ।।
* अर्घ्यादिदानकाले ध्यानप्रकारः *
भक्तिनम्रेण शिरसा दद्यादर्घ्यंच मूर्धनि ।
पादारविन्दयोर्दद्यात्पाद्यं पाद्यप्रतिग्रहे ।। 3.135 ।।
ध्यायेदाचमनीयस्य दानकाले जगर्दुरुम् ।
आचामन्तमिवाम्भोभि स्साक्षादम्भः प्रतिग्रहे ।। 3.136 ।।
उपचर्योपचारेण मधुपर्कादिना हरिम् ।
* प्रणामः *
हस्ताभ्यां शिरसा पद्भ्यां मनसा चधिया तथा ।। 3.137 ।।
अहङ्कारेण चात्मानं निपात्य धरणी तले ।
अनेन प्रणिपातेन प्रणिपत्य जनार्दनम् ।। 3.138 ।।
* प्रार्थना *
दसोऽहं ते जगन्नाथसवुत्रादिपरिग्रहः ।
प्रेष्यं प्रशाधि कर्तव्ये मां नियुङ्क्ष्वहिते सदा ।। 3.139 ।।
इति विज्ञाप्य देवेशं परिवाराम् प्रकल्पयेत् ।
* योगासनाब्जपत्रेषु शक्तयः *
योगासनाब्जपत्रेषु पूर्वादिषु यथाक्रमम् ।। 3.140 ।।
द्वादश द्वादशस्वेव शक्तीश्श्रीवत्सपूर्विकाः ।
श्रीवत्सं वनमालां चमायां योगात्मिकां तथा ।। 3.141 ।।
वैष्णवीं विमलां सृष्टिं (49) शक्तिमुत्कर्षिणीमपि ।
प्रज्ञां सत्यां तथेशानामनुकम्पांपितामहीं ।। 3.142 ।।
(49.पुष्टि.)
* प्रथमावरणे शक्तयः *
प्रथमावरणे चापि दक्षु प्रागादिषु क्रमात् ।
व्याप्तिं कान्तिंचतृप्तिंचश्रद्धां विद्यां जयां क्षमाम् ।। 3.143 ।।
शान्तिंच शक्तीरष्टैताः कृत्वा चामरधारिणीः ।
* द्वितीयावरणस्थाः *
ततो द्वितीयावरणे सङ्खद्यायुधधारिणः ।। 3.144 ।।
पुरुषानष्ट पूर्वादिष्वानु (50) पूर्व्येण कल्पयेत् ।
(50. रूप्येण.)
* तृतीयावरणस्थाः *
तृतीयावरणे स्वासु दिक्ष्विन्द्रादीन् प्रकल्पयेत् ।। 3.145 ।।
* बहिरावरणस्थाः *
बहिरावरणे तार्क्ष्यं भगवत्प्रमुखं तथा ।
विष्वक्सेसं तधै शान्यां (51) द्वितीयावरणाद्बहिः ।। 3.146 ।।
(51.तृतीयावरणे.)
* परिपाराणां भगवदभिमुखं स्थितिः *
परिवारा निरीक्षेरन् सर्वे प्राञ्जलयो हरिम् ।
* स्नानासनम् *
दद्याच्च पादुके स्नातुमुत्थानसमये हरेः ।। 3.147 ।।
इदंविष्णुरिति द्वाभ्यां पादुकारोहणं (52) हरेः ।
उद्धरेच्च हरिं स्नातुमुत्तिष्ठ ब्रह्मणस्स्पते ।। 3.148 ।।
(52. स्मरेत्.)
इतिमन्त्रेण देवेशं प्रापयेत् स्नानपीठिकाम् ।
मन्त्रस्तु भद्रंकर्णेभिरिति स्नानासनासने ।। 3.149 ।।
सावित्र्या वितरेदर्घ्यं पाद्यं त्रीणिपदेति च ।
आपः पुनन्त्वित्येतेन मन्त्रेणाचमनक्रिया ।। 3.150 ।।
(53) दन्तधावन काष्ठं च तद्विष्णोरिति निर्वपेत् ।
अभ्यङ्गं पामदैव्येन कुर्यादुद्वर्तनं पुनः ।। 3.151 ।।
(53. जिह्वानिर्लेखनं चैन विष्णु गायत्रि विद्यया. इतीदमर्धंक्वचिदधिकमस्ति.)
कार्यं विष्णोर्नुकमिति मन्त्रेणामलकादिकं ।
(54) प्रतद्विष्णुरिति क्षाल्यमभिषेक विधिस्ततः ।। 3.152 ।।
(54. नतेविष्णुरिति.)
अपाहिष्ठेति तिसृभिरतोदेवा अवन्त्विति ।
कङ्कतेन मृजेत्केशान् कलशैस्स्नपनं ततः ।। 3.153 ।।
हिरण्यवर्णां हरिणीमिति लेपो हरिद्रया ।
हिरण्यवर्णां श्शुचयःपावकेति चतसृभिः ।। 3.154 ।।
क्षाल्यो सन्धाम्बुना देहः पुनस्तं कुञ्कुमेनतु ।
आलिप्य विष्णुगायत्र्या क्षालमेत्पावमानीभिः ।। 3.155 ।।
ब्रह्मजिज्ञानमिति च कयानश्चित्र अभुवत् ।
इत्येव मर्घ्यपाद्याद्यै (55) र्यजेदाद्यं महेश्वरम् ।। 3.156 ।।
(55.र्धूपदीपान्तमर्चयेत्)
परिषिच्य तु सावित्र्या सूक्तेन पुरुषात्मना ।
सहस्रधारया स्नानं यद्वाकुम्भेन तद्भवेत् ।। 3.157 ।।
अग्निर्मूर्द्धेतिमन्त्रेण प्लोतेनाङ्गाम्बु निर्हृतिः ।
विष्णुगायत्रिया दद्या द्वस्त्रे द्वे धौतनिर्मले ।। 3.158 ।।
* अलञ्कारासनम्.*
प्रणवेन ब्रह्मसूत्रमुत्तरीयं च कल्पयेत् ।
अचान्तमन्वधिष्ठाय पादुके मण्डनासने ।। 3.159 ।।
सुखासीनाय देवाय प्राग्वदर्घ्यादि नर्वपेत् ।
धूपेनागुरुजे (56) नार्द्रामूर्ध्रानं दिवइत्यृचा ।। 3.160 ।।
(56. नार्द्रां.)
केशान् संशोष्य शुचिना चन्दनेन सुगन्धिना ।
इदं विष्णुरिति श्रुत्या लेपनं वपुषिस्मृतम् ।। 3.161 ।।
जितं त इतिमन्त्रेण मण्डनैरपि मण्डयेत् ।
पुष्पाणि दद्यात्त द्विष्णो रितिमन्त्रेण मन्त्रवित् ।। 3.162 ।।
इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत् ।
अञ्जनं विष्णुगायत्र्याव्याहृत्यादर्वणेक्षणम् ।। 3.163 ।।
जितं त इति धूपैश्च धूपयेदगुरूत्थितैः ।
उद्धीप्यस्वेति मन्त्रेण दीपारोपण मिष्यते ।। 3.164 ।।
तिलान् वस्त्रं तथा हेम ताम्बुलं तण्डुलानपि ।
फलानि गव्यमाघारं गाश्चध्यानं यथावसु ।। 3.165 ।।
गोग्रासं देशिकायैव दद्याद्देवस्य सन्निधौ ।
अधिपस्य तथा राज्ञो राष्ट्रस्य सकलस्य च ।। 3.166 ।।
प्रजानां ब्राह्मणादीनां दानमभ्युदयावहम् ।
अपनीते यवनिकापटे भक्तानुकम्पया ।। 3.167 ।।
घोषयेत्तूर्यघोषेण नृत्तं गीतं तथाचरेत् ।
स्तोत्राणि च कथाश्चित्रा वेदनाङ्गानि षटे तथा ।। 3.168 ।।
पठेयुरग्रे देवस्य सर्वमन्यच्च मङ्गलम् ।
* भोज्यासनम् *
आचरे त्पादुके दत्वा गमयेद्भोजनासनम् ।। 3.169 ।।
दत्वार्घ्यं पाद्यमाचामं मधुपर्कं निवेदयेत् ।
प्रणवेन ततो दद्या त्ताम्बूलीमास्य शोधनीम् ।। 3.170 ।।
(57) ह विर्नवेदयेत्सिद्धं भोज्यभक्ष्यादिकं तथा ।
मधुराति कसोपेतं विध्युक्तं सुसमाहितेः ।। 3.171 ।।
(57. हविर्निवेदयेत्पश्चाद्भोज्य भक्ष्यादि संयुतम्. इतिपाठः)
सुसंस्कृतैश्च (58) निष्पन्नैर्यक्तमन्यैःफलादिभिः ।
अपक्तैरपतिपक्वैश्च यथा योगं प्रकल्पयेत् ।। 3.172 ।।
(58. मृष्टान्नैः)
राजोपचार (59)वत्सर्वमुप चारे प्रकल्पयेत् ।
प्रोक्षितं चास्त्रमन्त्रेण परिषिच्य च मर्मणा ।। 3.173 ।।
(59. त्पूर्वमुपचारैः प्रकल्पिते.)
प्रणवेनार्हणे दत्ते दहनाप्लावनादिके ।
कृते च सुरभीमुद्रां दर्शयित्वाच देशिकः ।। 3.174 ।।
न्यस्तेऽर्घ्यपुष्टे संस्पृष्टे विष्णुहस्ते समाधिना ।
(60) अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु (61) ।। 3.175 ।।
(60. विधाय दक्षिणं जानुं भूमिसंस्पर्शगं पुनः. इति क्वचिदधिकमस्ति.)
(61. अन्नम्य पामपृष्ठेन दक्षिणेन करेण तु. इद मर्धमन्वारब्धेत्यस्य प्रतिनिधितया क्वचिद्दृश्यते.)
प्रगृही तार्घ्यपुष्पेण दर्शितग्रासमुद्रया ।
देवस्य त्वेति मन्त्रेण नै वेद्यं तद्यथोदिशम् ।। 3.176 ।।
देवस्य दक्षिणे हस्ते निर्वपेत्साधरस्स्वयम् ।
* ताम्भूलसमर्पणम्.*
दत्तेऽन्नपानके हस्ते पानीये च सुसंस्कृते ।। 3.177 ।।
कृते चाचमने दद्यात्ताम्भूली मास्यशोधिनीम् ।
क्रियाकलापं पूजादै कर्मार्चायां यदीरितम् ।। 3.178 ।।
तत्सर्वं ध्रुवबेरादौ यथासम्भवमाचरेत् ।
अर्घ्यादिषूपचारेषु कर्तव्येषु यथातथम् ।। 3.179 ।।
मन्त्रपूर्वेषु सर्वषु वाचमेनामुदीरयेत् ।
दिव्येनार्घ्योपचारेण यथाशक्ति यथाविधि ।। 3.180 ।।
अर्चयिच्यामि समये भगवन्तं जनार्दनम् ।
इत्यादिकामवितथां पूजकस्सुसमाहितः ।। 3.181 ।।
चतुर्भिरेवगन्धाद्यैः परिपारार्चनं मतम् ।
सर्वस्मिन्नुपचारे च स्तुत्यन्तेऽपुष्ठिते पुनः ।। 3.182 ।।
जपेच्च पूजको मन्त्रं यथोदीरितसञ्ख्यया ।
द्वादशाक्षरमन्यं वा तदन्ते हुहुयाद्बहिः ।। 3.183 ।।
भूतेभ्यो बलिदानं च कुर्यान्नित्यं महोत्सवम् ।
विज्ञाप्य देवदेवेशं पूजकः (62) प्रणमेत्स्वयम् ।। 3.184 ।।
(62. प्रणतः.)
आददीतावशिष्टानि पूजावस्तूनि कृत्स्नशः ।
तैरात्मपूजनं कुर्यात्तुष्येत्तेनापि केशवः ।। 3.185 ।।
मन्त्रैर्यथोक्तैराराध्य सूक्तेन पुरुषेण वा ।
अथवाद्वादशार्णाद्यैर्मन्त्रैर्बिम्भमुखे हरिम् ।। 3.186 ।।
प्रपद्यते परं श्रेया निष्कामो यदि पूजकः ।
(63) कामनायास्तु काम्यानि फलानि प्रति पद्यते ।। 3.187 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मेतन्त्रेचर्यापादे नित्ययागविधिर्नमा तृतीयोऽध्यायः ।।
(63. कामानवाप्नुयात्कामि.)
-------******-------