← अध्यायः २९ चर्यापादः
अध्यायः ३०
[[लेखकः :|]]
अध्यायः ३१ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
त्रिंशोऽध्यायः
----
* तिथिदेवतामन्त्राः.*
श्रीभगवान् :---
(1) तिथियागं चतुर्वक्त्र ब्रवीमि सुखपाधनम् ।
* काम्यकर्मणः कालः.*
काम्यस्य कर्मणः कालश्शुक्लपक्षस्तथा तिथिः ।। 30.1 ।।
(1. तिथियोगं.)
जपहोमार्चनैस्सम्यक्कालेष्वाराधयेत्सुधीः ।
* तिथिदेवताः.*
(2) अग्निर्ब्रह्माधनेशानौ विघ्नेशश्श्रीष्षडाननः ।। 30.2 ।।
(2. अग्निः प्रजेनश्चेशानो.)
भानुर्वृषध्वजो दुर्गा यमो वलनिघादनः ।
विष्णुः कामोऽश्विनौ चन्द्र इत्युक्तास्तिथि देवताः ।। 30.3 ।।
* अग्नेर्मन्त्रः.*
प्रणवं नवबिन्दुं च वरुणं श्रीधरं ततः ।
गदध्वंसं भद्रहस्तं पावनं माधवं ततः ।। 30.4 ।।
ठठान्तमुद्धृत्य मनुः कथितो जातवेदसः ।
अग्निमाद्यमनुस्वारं बीजं तेनाङ्गपद्धतिः ।। 30.5 ।।
छन्दो विराट् देवलश्च द्रष्टाग्निरथिदेवता ।
चतुर्थ्यन्तं स्वाभिधानं नत्यन्तमसरो मनुः ।। 30.6 ।।
ऋषिश्छन्दो देवतापि मनोरस्यापि पूर्ववत् ।
प्रत्यक्षरं लक्षजपस्साधनं मन्त्रयोर्द्वयोः ।। 30.7 ।।
काम्यस्य लाभस्सर्वस्य फलमत्यन्तदुर्लभम् ।
* ब्रह्मणोमन्त्रः.*
निगमादिं कालनेमिमृतधामविदर्भितम् ।। 30.8 ।।
मार्ताण्डमन्दरयुतं प्रचण्डं माधवं नतिम् ।
इत्युद्धरेद्ब्रह्ममनुमुद्धारोऽन्यस्य कथ्यते ।। 30.9 ।।
चतुर्थ्यन्तं ब्रह्मपदमाग्नेयीनिष्ठितं मनुः ।
वै राजमक्षप्रथमं विजयं रोहिणीपतिम् ।। 30.10 ।।
अकारमेकनेत्रं च बीजं प्रणवसंयुतम् ।
एतदेवाङ्गसन्तानस्स्वरश्छन्दश्छलोहितः ।। 30.11 ।।
मुनिर्ब्रह्माच देवश्च यष्टव्यं पङ्कजोतरे ।
* कुबेरस्य मन्त्रः.*
प्रणवं सूक्ष्मदृष्टिं च भद्रपाणिं सबिन्दुकम् ।। 30.12 ।।
उद्धृत्यैकाक्षरो मन्त्रः कुबेरस्य समिरितः ।
उष्णिक्छन्दो मुनिर्वह्निर्धनेशानश्च देवता ।। 30.13 ।।
आरम्भं (3) नतिमन्वक्च सुभगं विघ्ननायकम् ।
पवित्रं विजयं पश्चाद्ध्वंसनं माधवं तथा ।। 30.14 ।।
(3. मत्वं च.)
कमलं चोदयं प्रोच्य जृम्भलं मृगवल्लभम् ।
पावकं गोपनयुतं सदागतिमनन्तरम् ।। 30.15 ।।
कुम्भं शशाङ्कं (4) भुवनं हेरम्बं रामसंयुतम् ।
वक्रतुण्डं जगत्प्राणं मन्दरं पश्चिमाननम् ।। 30.16 ।।
(4. पवनं हेरम्बं कामसंज्ञितम् ।)
आग्निमाद्यं मारुतं च प्रथमं प्रेतनायकम् ।
अचामादि मथाग्नेयीमुद्धृत्य मनुरीरितः ।। 30.17 ।।
धनदस्य नभो द्रष्टा छन्दोगायत्रमिरितम् ।
दैवं धनाधिपो देवो बीजं पूर्ववदीरितम् ।। 30.18 ।।
अङ्गष्ठे माणिभद्राख्यं तर्जन्यां पूर्णभद्रकम् ।
(5) कलिमालिं मध्यमायां विकुण्डलमनामिकाम् ।। 30.19 ।।
(5. कलिमादिं मध्य माया विजृम्भलमनामिका ।।)
मूले कनिष्ठकायां च मध्ये च मणिबन्धयोः ।
मखेन्द्रं पाणितलयो (6) रङ्गन्यासे धनाधिपं ।। 30.20 ।।
(6. र्दहेन्यं सेर्धनासिकम् ।।)
(7) स्नात्वाजृम्भलमन्त्रेण प्रक्षिपेदुदकाञ्जलिम् ।
अम्भोजकर्णिकामध्ये महाकायं महोदरम् ।। 30.21 ।।
(7. ज्ञात्वा.)
द्विभुजं पीतवसनं चिन्तारत्नं रके स्थितम् ।
धारयन्तं मनः कान्तं मन्त्रिभ्यो पीप्सितं वसु ।। 30.22 ।।
यक्षयक्षीपरिजनं ध्यायन्नर्घ्यादिभिर्यजेत् ।
ऋद्धिं गुप्तिं च तत्पार्श्वे चतुर्थ्यन्तं स्वसंज्ञया ।। 30.23 ।।
(8) अर्घ्याद्यैरर्चयित्वातु ततो जृम्भलमब्जज ।
कलिमालिं माणिभद्रं (9) चरेन्ध्रं पूर्णभद्रकम् ।। 30.24 ।।
(8. नत्यन्तेनार्चयित्वातु.)
(9. वरेन्द्रम्.)
(10) मुखेन्द्रं शिखिपूर्वं च कुण्डलं नलकूबरम् ।
अम्भोजकर्णिकामध्ये दलेष्विन्द्रादिषु क्रमात् ।। 30.25 ।।
(10. मुखेन्दुं खिपूर्णं.)
अर्चयेत्पुरतश्शङ्खनिधिं पद्मनिधिं तथा ।
(11) शबलां पुरतो न्यस्येत्पृष्ठतः कल्पकद्रुमम् ।। 30.26 ।।
(11. शंबरं.)
जपहोमौ तर्पणादि फलं मूलमनोर्यथा ।
* जृम्भलमन्त्रः.*
वक्ष्यामि जृम्भलमनुमर्णोद्धारेण संप्रति ।। 30.27 ।।
ओमादिं सुभगं भद्रहस्तं वैधर (12) मक्षरम् ।
आदिदेवं मारुतं च धनदं भद्रबाहुकम् ।। 30.28 ।।
(12. राक्षसम्.)
पवित्रं विजयं चैव मारुतं माधवं तथा ।
जन्महन्तृ तथाम्नायं माधवं सूक्ष्मदर्शनम् ।। 30.29 ।।
विक्ष्कम्भमादिदेवं च स्पर्शं स्वाहया युतम् ।
बीजमाद्यक्षरं भर्गो द्रष्टा च्छन्दो विराण्मनोः ।। 30.30 ।।
देवता जृम्भलः कार्यः फलं सर्वं प्रयच्छति ।
* विघ्नेशमन्त्रः.*
विघ्नेशमन्त्रमुद्धृत्य वर्णान् वक्ष्याम्यनुक्रमात् ।। 30.31 ।।
उद्गीथं च तृतीयं च स्पर्शेषु (13) पुलहं मनुमम् ।
दण्ड इत्युद्धृतो मन्त्रो गणिकाष्षड्विराट्तथा ।। 30.32 ।।
(13. सुलभं मनुम् । दग्धमित्ययुतो मन्द्रोगणना.)
देवता विघ्नु राजश्च जपो लक्षत्रयं स्मृतम् ।
(14) भूतं भव्यं भविष्यं च स्वप्ने पश्यति मन्त्रवित् ।। 30.33 ।।
(14. भूतं भनद्भ विष्यं च.)
आरब्धं कर्मनिर्विघ्नं फलं दुग्धे यथेप्सितम् ।
तृतीयादिं च सुमुखमाद्यं (15) पश्चिमसंज्ञितम् ।। 30.34 ।।
(15.पंचम.)
अचां मुखं च विजयं प्राणं माधवमन्वतः ।
सत्यन्तमादौ पूर्वोक्तं मनुं च मनुरीरितः ।। 30.35 ।।
अजो मुनिश्छन्द उष्टिग्देवता विघ्ननायकः ।
सप्तलक्षं जपेन्मन्त्रं सिद्धयः पूर्वमिरिताः ।। 30.36 ।।
एकाक्षरं नतिशिरो मनुरन्यस्समिरितः ।
निगमादिं दिनकरं ज्वलनं पञ्छबिन्दुकम् ।। 30.37 ।।
सानुस्वारं गदध्वंसं पद्मनाभं च वामनम् ।
यष्टिं सहस्रकिरणं पावकं दण्डशेखरम् ।। 30.38 ।।
त्रियक्षरमनुर्ब्रह्मन् कथितस्सर्वसाधनः ।
अङ्गादि गदितं वर्णमकारादिस्वरान्तकम् ।। 30.39 ।।
प्रयुञ्जीत मनुश्चान्यो वक्ष्यते कमलासन ।
उद्गीथमादिं कमलं पावकं पञ्चबिन्दुकम् ।। 30.40 ।।
(16) अर्धेन्दुसहितं भद्रमनलं बिन्दुवामनम् ।
सरोरुहं समाहेन्द्रं महामया सयष्टिकम् ।। 30.41 ।।
(16. आद्येन्दुसहितं भद्रं बाहुलं.)
बीजं च तत्स्वराद्यर्णं गदध्वंसं प्रचण्डकम् ।
पश्चिमाननवैराजौ (17) मायां च वसुधारसं ।। 30.42 ।।
(17. मायाश्चैव.)
आदिमग्नि (18) मकारं च फट्पदद्वयमिरयेत् ।
शशिनं (19) वरुणं वह्निं ककुभं भद्रबाहुकम् ।। 30.43 ।।
(18. मनादिं च.)
(19. कलशं.)
मन्दरद्वयमेकारं वरुणं कमलामुखम् ।
अचां दक्षं गोपनं च विघ्नेशं (20) श्वसनं तथा ।। 30.44 ।।
(20. सवनम्.)
ठठान्तमत्थमुद्धारो बीजादि कथितं पुरा ।
ऐहिकामुष्मिकफलं सर्वमेतेन साधयेत् ।। 30.45 ।।
श्रियं पूर्वोक्तमार्गेण देवीमर्घ्यादिभिर्यजेत् ।
तत्कटाक्षनिपातेन लभते श्रियमुत्तमाम् ।। 30.46 ।।
* षण्मुखमन्त्रः.*
तारं नतिं क्रोधरूपं प्रचण्डं दक्षमन्वतः ।
उदयं (21) खर्वदेहं च गोपनं च प्रभञ्जनम् ।। 30.47 ।।
(21. सर्व.)
शशाङ्कं श्रीधरं ह्रस्वमृतधामसमाह्वयम् ।
दिनेशं माधवीमन्वक्प्रचण्डं मधुसूदनम् ।। 30.48 ।।
श्वसनं स्वाहया सार्धं मनुरेषसमिरितः ।
जृम्भलं पुलहं चोर्ध्वलोकेशं यष्टिमस्तकम् ।। 30.49 ।।
एतद्बीजसमुद्धारस्तदेवाङ्गमृषिः पुनः ।
वर्णात्मा कथितश्छन्दो गायत्रं देवता गुहः ।। 30.50 ।।
दाडिमिकुसमप्रख्यां तन्मन्त्रेण समर्चयेत् ।
एवं कृतवतो वंशे सुब्रह्मण्यादयो ग्रहाः ।। 30.51 ।।
न पीडयन्ति तद्वंश्यान् भवन्ति चिरजीविनः ।
* भानुमन्त्रः.*
निगमादिं चोषधीशमनुनासिक्यमुद्धरेत् ।। 30.52 ।।
एकाक्षरोऽयं कथितो मन्त्रस्सर्वार्थसाधकः ।
हारितो मन्त्रदृच्छन्दो विराट् सूर्यश्च देवता ।। 30.53 ।।
ब्रह्मकोशं पद्मपाणिमृतं सुमुखसंज्ञितम् ।
(22) रामबिन्दुं हृषी केशमग्निं वायुमचां मुखम् ।। 30.54 ।।
(22. माया-रामबिन्दुं.)
वैधरं बिन्दुवैराजं वायुं तारं समुद्धरेत् ।
इत्थमष्टाक्षरो मन्त्रो बीजमेकाक्षरं स्मृतम् ।। 30.55 ।।
ऋषिकत्रिश्च (23) देवश्च पूषा चैवाधिदेवता ।
(24) परं सप्ताक्षरं मन्त्रं मन्त्रैरुद्धृत्यवर्ण्यते ।। 30.56 ।।
(23. दैनं च देवतापुरुषस्तथा.)
(24. पुषातथापरं.)
सप्तार्णाः पूर्ववद्ग्राह्यस्सुभद्रं मधुसूदनम् ।
भद्रहस्तं च कलशं माधवं पूर्वमिरितम् ।। 30.57 ।।
बीजमभ्यन्तरीकृत्वा द्विरुक्तं ककुभं तथा ।
अप्रमेयं गन्धवहमाद्यमेतदनन्तरम् ।। 30.58 ।।
पादद्वितयमापाह्य मादिदेवमनन्तरम् ।
पावकं विक्रमयुतं वैधरं ऋतधाम च ।। 30.59 ।।
मारुतं (25) चापि नासिक्यं विघ्नेशं गोपनाह्वयम् ।
कमलामादिपवनमाद्यं (26) द्विः पदमिरियेत् ।। 30.60 ।।
(25. चानुनासिक्ये.)
(26. द्विः पाद.)
माधवीमादिसहितमक्षरं (27) द्विरदं पठेत् ।
(28) पवित्रं गोपनयुतं पठेमं ? स्वरसंयुतम् ।। 30.61 ।।
(27. द्विरुदं पदम्.)
(28. पश्चिमं.)
विघ्नेशं दहतिं धातुं लोडन्तं द्विस्समुद्धरेत् ।
शान्तरोगं सुखपदं (29) पूर्वलोडन्तमध्यमम् ।। 30.62 ।।
(29. प्रपूर्वेलोटि मध्यमम्.)
(30) यमं चण्डं द्विरुच्चार्य त्रिरन्वक्प्रणवं पदम् ।
स्वनाम्ना प्रणवान्तेन मनुरेवं समुद्धृतः ।। 30.63 ।।
(30. यमं चण्डाद्वि.)
बीजमङ्गानि चोक्तानि सिन्धुद्वीपश्च दृष्टवान् ।
अतिच्छन्दस्स्वयं छन्दस्सूर्यश्चानेन कथ्यते ।। 30.64 ।।
पद्म (31) मध्ये कर्णिकायामादित्यं दलभूमिषु ।
प्राच्यादिषु ग्रहानन्यां (32) स्तदानीं बिम्बमर्चयेत् ।। 30.65 ।।
(31. पत्रे.)
(32. नद्यादिनि समर्चयेत् - अर्घ्यादिषु तथार्चयेत्.)
क्रमात् षडृतवस्सर्वे गृहास्सानुग्रहास्तदा ।
आयुरारोग्यसौन्दर्य समृद्धि (33) मुखसंपदः ।। 30.66 ।।
(33. सुख.)
सप्तजन्मसुवंशेऽस्य भवन्तिनि रवग्रहाः ।
* ईशानमन्त्रः.*
प्रणवं नतिमन्वक्च शुभदं च त्रिविक्रमम् ।। 30.67 ।।
वरुणं गोपनं वायुमादिमुद्दृत्य मन्त्रवित् ।
मनुः पञ्चाक्षरः कार्यो बीजं संप्रति कथ्यते ।। 30.68 ।।
गोपतिं विष्णुसहित मनुस्वारं समुद्धरेत् ।
बीजमेतच्चतुर्वक्त्र षडङ्गानामुदाहरेत् ।। 30.69 ।।
उपमन्युऋषिश्छन्धो देवं गायत्रमुच्यते ।
प्रतिपाद्यो महाशानो जपस्स्याल्लक्षपञ्छकम् ।। 30.70 ।।
अष्टाक्षरवदस्यापि फलसाधनमेव च ।
रक्ताम्बुजासनासिनमर्चयेत्तद्दलेषु च ।। 30.71 ।।
प्रागादिषु षडङ्गानि पार्वतीनन्दिकेश्वरौ ।
क्रमाद्विन्यस्य पुरतो वाहनं सम्यगर्चयेत् ।। 30.72 ।।
दिक्ष्वष्टानु सुरेन्द्रादीनष्टावर्घ्यादिनार्चयेत् ।
सृष्ट्यादिन्यसनं कृत्वा प्रथमं तदनन्तरम् ।। 30.73 ।।
अक्षरस्यसनं कुर्यात् स्थानेष्वेतेषु पद्मज ।
मूर्ध्नि चास्ये च हृदये गुह्ये पादतले तथा ।। 30.74 ।।
वर्णानां क्रमशो वर्णाः पञ्चानां कथ्यतेऽधुना ।
स्फटिकं पाटलं पीतं श्वेतं नीलमितिस्मरेत् ।। 30.75 ।।
शिवोऽहमिति चात्मानं भावयेन्मन्त्रवित्तमः ।
(34) ध्यायन्तं देवदेवेशमाराध्य वृषभध्वजम् ।। 30.76 ।।
(34. ध्यायन्नेनं समाराध्य देवेशम्.)
त्यक्त्वा संसारिकं दुःखमेति स्थानमनश्वरम् ।
भोगानप्यैहिकान् भुक्त्वा दुर्लभानमरैरपि ।। 30.77 ।।
ओमादिसप्तवर्णानामुद्धारः पूर्वमिरितः ।
वैधरं नृहरिं मायां प्रचण्डं मधुसूदनम् ।। 30.78 ।।
मन्दरं चोर्ध्वलोकेशं वैराजं द्विश्चतुर्मुख ।
पावकं पवनं देवदत्तं पाटलमन्वतः ।। 30.79 ।।
गोपतिं मारुतमथो (35) मन्दरं माधवीं तथा ।
माधवं धनदं ब्रह्मन् मधुसूदनसंज्ञितम् ।। 30.80 ।।
(35. मधुनं माधवी.)
नासिक्यं पश्चिमं पद्मनाभं च पवनाह्वयम् ।
खड्गं द्विरुच्च रेत्स्वाहा इति मन्द्रं समुद्धृतम् ।। 30.81 ।।
मनुमन्यं प्रवक्ष्यामि तमर्णैरुद्धराम्यहम् ।
(36) तारमत्रिं गरुत्मन्तं रामं (37) सुमुखमन्वतः ।। 30.82 ।।
(36. तारमादिम्.)
(37. सुखमुखं ततः.)
गोपवं मन्दरं चोर्ध्वलोकेशं (38) विजयं पुनः ।
तमर्णं चाभिशङ्खं च माधवं वारुणाभिधम् ।। 30.83 ।।
(38. भुवनं.)
गोपनं च करालं च कमलं जृम्भलं ततः ।
श्रीधरं सुभगं मायां जन्मध्वंसमनन्तरम् ।। 30.84 ।।
पाशपाणिं चादिदेवं भद्रहस्तं च पश्चिमम् ।
ऋताह्वयं वैधरं च मधुभिन्मारुतं ततः ।। 30.85 ।।
(39) सतिमुद्धृत्य कथितो वर्णान् षोडश संज्ञितान् ।
मन्त्रयोरनयोर्ब्रह्मन् जीवो द्रष्टाभिधीयते ।। 30.86 ।।
(39. अग्नि.)
धर्मवर्त्तीमहेशानो देवता दक्षिणातनुः ।
दिनेश रामसहितं श्वसनं (40) मतिबिन्दुमत् ।। 30.87 ।।
(40. मनुबिन्दुमत्.)
बीजमेतदतो ध्यानमिशानस्य ब्रविमिते ।
कुन्देन्धुमुक्ताशङ्खाभं सर्वाकल्पपरिष्कृतम् ।। 30.88 ।।
वैयाघ्रचर्मवसनं जटामण्डलमण्डितम् ।
नासाग्रन्यस्तनयनं शशिखण्डविराजितम् ।। 30.89 ।।
प्रसन्नवदनं देवं चतुर्भुजमभीष्टदम् ।
वामजानुनि विन्यस्तवामेतरपदाम्बुजम् ।। 30.90 ।।
प्फटिकामक्षमालां च बिभ्राणं दक्षिणेकरे ।
वामे कराम्बुजे स्वीये धृतविज्ञानपुस्तुकम् ।। 30.91 ।।
दर्शयन्तं ज्ञानमुद्रां महर्षिगणसेवितम् ।
ध्यायतो मन्त्रिणस्त्वैवं सिध्वन्ति सकलाः कलाः ।। 30.92 ।।
गङ्गाप्रवाहवत्तस्य वाक्प्रसारः प्रवर्तते ।
चतुर्वर्गफलावाप्तिस्तस्य हस्ते स्थिता ध्रुवम् ।। 30.93 ।।
जपभूयस्तयो कामान् दुर्लभान् सुखमश्नुते ।
* दुर्गामन्त्रः.*
तिथौ भगवतीं दुर्गां नवम्यां सम्यगर्चयेत् ।। 30.94 ।।
निगमादिं वैधरं च भुवनं च विसर्जनम् ।
मनुरेकाक्षरः प्रोक्तस्समुद्धृत्य यथातथम् ।। 30.95 ।।
स्वीकृत्यैकाक्षरं पूर्वं गदध्वंसं हुताशनम् ।
स्पर्शनं (41) गोधनाह्वानं नतिं च मनुरीरितः ।। 30.96 ।।
(41. गोपनाह्वानम्.)
बीजमस्योद्धरिष्यामि गोपतिं पावकं ततः ।
वामनं यष्टिशिरसमस्य कात्यायनो मुनिः ।। 30.97 ।।
छन्दश्च देवि गायत्रं वनदुर्गा च देवता ।
* मर्गाया मन्त्रान्तरम्.*
मन्त्रमन्यं प्रवक्ष्यामि दुर्गाश्रयमनुत्तमम् ।। 30.98 ।।
निगमादिं विष्णुसंज्ञं कपिलं जृम्भलाह्वयम् ।
माधवं च सुरेन्द्रादिं प्रद्युम्नं कालनेमिजम् ।। 30.99 ।।
मधुसूदननमानं पुलहं माययावृतम् ।
करालं देवदत्ताख्यं शशाङ्कं (42) कमलानुगौ ।। 30.100 ।।
(42. कलशानुजौ.)
पवित्रमादि (43) देवान्तं नृहरिं स्पर्शनं तथा ।
ब्रह्मणमग्निं चोद्धृत्य पञ्चबिन्दुमनन्तरम् ।। 30.101 ।।
(43. देवंतम्.)
आदिं श्रीवत्समुदयं सुभद्रं नासिकाह्वयम् ।
भास्करं भद्रबाहुद्वौ वैधरं गोपतिद्वयम् ।। 30.102 ।।
पवित्रखड्गनामानौ द्वौ च दक्षमनन्तरम् ।
सुप्रतिष्ठं द्विरुच्चार्य दिनकृन्माधवीध्रुवौ ।। 30.103 ।।
फट्कारमग्न्यादिमन्वगित्युद्धृत्य जपेन्मनुम् ।
(44) अर्णोद्धारक्रमादन्यं मन्त्रं वच्मि चतुर्मुख ।। 30.104 ।।
(44. अस्योद्धारः.)
प्रणवं वैधरं पश्चाच्छ्रीधरं गदिनं तथा ।
वैश्वानरं मृगपतिं तमेवार्णमनन्तरम् ।। 30.105 ।।
(45) यान्तं नृसिंहं सुमुखं रामं स्वाहं समुद्धरेत् ।
(46) उद्धृतोऽयं मनुश्चान्यो बीजमङ्गानि पूर्ववत् ।। 30.106 ।।
(45. यान्तं नासिक्यसुमुखं नामस्वाहान्तमु.)
(46. इत्युद्धृतो.)
ऋषिर्जयमतिश्छन्दो गिरिदुर्गाच देवता ।
उद्गीथं श्रीधरं चैव दृष्टिद्वन्द्वं त्रिविक्रमम् ।। 30.107 ।।
क्रोधरूपि च जीमूतं पश्चिमं भुवनाह्वयम् ।
बहुलं श्रीधरं क्रोधं विक्रमं सरसीरुहम् ।। 30.108 ।।
विक्रमं धर्मशीतांशुं शशाङ्कं च सुधामयम् ।
पश्चिमं (47) रामशिरसं क्रोधरूपं सविक्रमम् ।। 30.109 ।।
(47. राजशिखरम्.)
भल्लायुधं तथा शङ्खमाधवीद्वयमाधवम् ।
शुक्लमादिं मृगपतिं श्रीधरं पश्चिमाननम् ।। 30.110 ।।
नीहारदीधितिं सर्वरोधं विक्रमशीर्षकम् ।
वैराजं कपिलं शङ्खं वैधरं बन्धुमस्तकम् ।। 30.111 ।।
शुभदं कमलं (48) वायुं मन्दरं वित्तवर्थनम् ।
आदिं करालमनिलं नासिक्यं यादसां पतिम् ।। 30.112 ।।
(48. वासुं मदनम्.)
गोपनं विजयं विघ्नुनायकं दक्षमाधवौ ।
सुभद्रं च गदिं (49) कुम्भं वैराजं बन्धुशीर्षकम् ।। 30.113 ।।
(49. घोरं.)
शुभदं मन्दरं शङ्खं ठठान्तो मनुरीरितः ।
षोढा विभज्य तं मन्त्रं हृदयाद्यङ्गकल्पनम् ।। 30.114 ।।
द्रष्टा वरेण्यको नाम ह्यनुष्ठुप्छन्द ईरितः ।
देवता वनदुर्गास्यात्तदष्टाक्षर (50) वत्फलम् ।। 30.115 ।।
(50. वद्भवेत्.)
सर्वदाह्वयदुर्गाया मन्त्रमुद्धारयामि ते ।
उद्गीथं (51) नतिमन्वक्च सूक्ष्मदृग्दृष्टिशीर्षकम् ।। 30.116 ।।
(51. तिथि.)
गदध्वंसमकारं च कुम्भनाद्यं चतुर्मुख ।
वैराजं राजमानं वै वैधरं श्रीधराह्वयम् ।। 30.117 ।।
(52) गदिनं बन्धुसंज्ञं च स्वाहाशीर्षं श्रियः पतिम् ।
गदिनं पावकं चैव दृष्टिमिकारमन्वतः ।। 30.118 ।।
(52. माधवं स्वाहा धनं दृष्टिं.)
(53) देहं च विक्रमं चण्डं रामं मन्दरसंज्ञितम् ।
मधुसूदं गन्धवहं माधवं (54) माधराह्वयम् ।। 30.119 ।।
(53. देवम्.)
(54. मन्दरा.)
आदित्यं गोपनं दक्षमादिदेवं च मारुतम् ।
मृगेशं मन्धरं भानुं मधुसूदनसंज्ञितम् ।। 30.120 ।।
पुलहं देवदत्तं च दक्षं च यदभास्करम् ? ।
राम (55) मुग्रात्मनात्मानं मधुसूदनमन्वतः ।। 30.121 ।।
(55. मुग्रात्मनामा.)
शशाङ्कं श्रीधरं सप्त (56) जिह्वं कुम्बं त्रिविक्रमम् ।
कजाननं गोपतिं च लक्ष्मीं भद्रं त्रिविक्रमम् ।। 30.122 ।।
(56. जिह्वा कुम्भं च.)
वैधरं भुवनाह्वानमुग्ररूपं च खेटकम् ।
भल्लायुधं तथा ब्रह्मन् श्वसनं नासिका (57) भुवम् ।। 30.123 ।।
(57. ह्वयम्.)
विधातारं हुतवहं विक्रमं च सुधारसम् ।
रामं च भद्रं सुभगमनिलं विघ्ननायकम् ।। 30.124 ।।
रामं महेन्द्रसुभगं महेशं गगनाह्वायम् ।
मार्ताण्डमादिदेवं च शशाङ्कं श्रीधरं तथा ।। 30.125 ।।
चित्रभानुं तथा दक्षं वैधरं हव्यवाहनम् ।
विघ्नेशं विक्रमं दृष्टिं देवदत्तमपां पतिम् ।। 30.126 ।।
मधुसूदननामानं कलात्मानमतः परम् ।
भुवनं पावकं दृष्टिं (58) गोपनं विजयं तथा ।। 30.127 ।।
(58. गोधनं.)
वायुं (59) पवित्रमाकारं मुसलं विक्रमं पुनः ।
एकनेत्रं माधवं च कलशं पापकाह्वयम् ।। 30.128 ।।
(59. पवित्रमाकारं कमलम्.)
वैधरं देवदत्तं च विघ्नेशं मधुसूदनम् ।
दहनं गोपनं चैव मारुतं वनमालिनम् ।। 30.129 ।।
मायां च वैधराह्वानं मधुसूदनमन्धरौ ।
ओतदेहं दृष्टिमग्निं पश्चिमाननमन्वतः ।। 30.130 ।।
ऋतधामं विक्रमं च श्वसनं मृगनायकम् ।
पुष्टिभीजं त्रिरुच्चार्य सहस्रकिरणाह्वयम् ।। 30.131 ।।
गुहालयमनुस्वारं बीजमेतत्त्रिरुद्धरेत् ।
(60) भद्रं गुहालयं चैव विजयं गदिनं तथा ।। 30.132 ।।
(60. सुभद्रं गुहालयं चक्रम्.)
पद्मनाभं गोपतिं च कलशं मृगराट् तथा ।
वै राजमादिदेवं च डुण्डुभं लोचनोदयौ ।। 30.133 ।।
उग्रात्मखेटकौ वह्निं (61) गोपतिं विहगाधिपम् ।
श्वेतांशु पश्चिमं लक्ष्मीमादिदेवमनन्तरम् ।। 30.134 ।।
(61. गोपनं.)
वक्रतुण्डं गोपनं च भद्रपाणिमनन्तरम् ।
विजयाकारमादिं च शशाङ्कं च सदागतिम् ।। 30.135 ।।
द्विरभ्यसेत्कालनेमिं भद्रं पुण्यं द्विरुच्छरेत् ।
मन्दरं चादिदेवं च दहनं श्वसनं तथा ।। 30.136 ।।
द्विर्ब्रूयात्सूक्ष्मदृग्ब्रह्मन् करालं विजयं पुनः ।
पीयूषमादिं विजयं वसुमस्तकनिष्ठितम् ।। 30.137 ।।
निहारदीधितिमचामादिं पीतं समाधवम् ।
सुभद्रं कमलं चैकदृष्टिं च चतुरासन ।। 30.138 ।।
पवित्रमृतधामानं त्रिविक्रममतः परम् ।
पुरुषात्मानमेणेशं पश्चिमं (62) पुरतस्तथा ।। 30.139 ।।
(62. पुरुषंत.)
ध्रुवं ध्रुवं तथा ह्रस्वं माहेन्द्रं मन्दरं ततः ।
सर्वरोधं गजास्यं च मायां कमलमन्दरौ ।। 30.140 ।।
एकनेत्रमृतं (63) शुलं बहु कुक्षिं त्रिविक्रमम् ।
करालं पद्मनाभाख्यं विघ्नेशं विजयं तथा ।। 30.141 ।।
(63. शीलं बहुकुक्षिम् . शीलं लम्बकुक्षिम्.)
भद्रहस्तं तथा रामं शशाङ्कं मनुमन्वतः ।
सुभद्रं गोपनं पश्चात्पञ्चान्तिकमथानिलम् ।। 30.142 ।।
पश्चिमं पद्मनाभाख्य (64) मृतधामानमस्वतः ।
जृम्भलं पुलहं (65) पापहननं पद्मनाभकम् ।। 30.143 ।।
(64. मत्रिधाम समन्वितम्.)
(65. पश्चात् पावकम्.)
दृष्टिं मृगेशममृतमार्यां च द्विर्गुहालयम् ।
पवित्रमृतधामानं वैधरं माधवं ततः ।। 30.144 ।।
(66) मारुतं कमलां पद्मपवित्रमृतधाम च ।
अत्रिं मृगपतिं लक्ष्मीं बहुलं पञ्चबिन्दुकम् ।। 30.145 ।।
(66. माधवम्.)
पवित्रमृतधामानं (67) वै राजं विक्रमं तथा ।
पश्चिमं पद्मनाभाख्यं वैधरं मृगवल्लभम् ।। 30.146 ।।
(67. मुखं वैराजविक्रमम् । तं तथा पश्चिमं पद्मं वैधरं मृगवल्लभम्.)
दक्षं रविं गोपनाख्यं सुभद्रं भुवनं तथा ।
ककुभं माधवं पश्चान्माधवीं भास्कराह्वयम् ।। 30.147 ।।
गोपनं मतिमन्तं च पुलहं माधवं रविम् ।
यष्टिं च व्याहरेद्ब्रह्मन् तथैव मधुसूदनम् ।। 30.148 ।।
ध्रुवं नभोमणिं गोपं बिन्दुं च चतुरासन ।
(68) एवं त्रि र्व्याहरेदर्णं सुगतं सागरोत्तमम् ।। 30.149 ।।
(68. यन्त्रितम्.)
मन्दरं भास्करं पश्चाद्गोपनं माधवीं तथा ।
आदिदेवं जगत्प्राणं माधवं नतिमुद्धरेत् ।। 30.150 ।।
इत्येवमुद्धृतो मन्त्रो ब्रह्मन् सर्वार्थसिद्धदः ।
(69) शतेन संमितो वर्णो रश्मीत्यादिभिरेव ? सः ।। 30.151 ।।
(69. नतेन.)
भास्करं (70) मन्धरं पञ्चबिन्दुं यष्टिमनन्तरम् ।
उद्धृत्य बीजमेतेन षडङ्गानि प्रकल्पयेत् ।। 30.152 ।।
(70. दहनं.)
द्रष्टा ककुत्स्थश्छन्दस्स्यादतिच्छन्दो (71) त्र देवता ।
सर्वदाह्वानमन्त्रस्य चतुर्लक्षोजपःस्मृतः ।। 30.153 ।।
(71. धिदेवता.)
ज्ञानाद्ध्यानाज्जपान्मन्त्रस्सिद्धिं सर्वां प्रयच्छति ।
मन्त्रिणो नित्ययुक्तस्य प्रत्यहं प्रयतात्मनः ।। 30.154 ।।
आमुष्मिकं चैहिकं च फलं सर्वं प्रयच्छति ।
* यमस्य मन्त्रः.*
दशम्यामर्चयेद्ब्रह्मन् कृतान्तमभयप्रदम् ।। 30.155 ।।
(72) निगमादिं गन्धवहं हृषीकेशमन्तरम् ।
दण्डं प्रभञ्जनं दक्षं चादिदेवं सदागतिम् ।। 30.156 ।।
(72. उद्गीथमादिम्.)
(73) नितिमुद्धृत्य कथितो मनुर्वैवस्वता (74) श्रयः ।
बीजमर्णान् समुद्धृत्य श्वसनं यष्टिशीर्षकम् ।। 30.157 ।।
(73. मनुद्धारोऽपि.)
(74. ह्वयः.)
उदितं तेन बीजेन हृदयाद्यङ्गकल्पनम् ।
ऋषिस्सत्यतपाश्छन्दो गायत्रं दैवमिरितम् ।। 30.158 ।।
मन्त्रश्च पितृदैवत्यो जपः स्यात्पञ्चलक्षकः ।
तेनाराध्य श्राद्धदेवमभीष्टं सर्वमश्नुते ।। 30.159 ।।
*इन्द्रस्य मन्त्रः.*
प्रथमं छन्दसामादिं विक्रमं मानुषेश्वरम् ।
वैधरं वह्निमपरं गोपनं पवनं मुखम् ।। 30.160 ।।
सतिमुद्धृत्य माघोनः कथितो मनुरब्जज ।
वैधरं चोर्ध्वलोकेशं नासिक्यं बीजमुद्धृतम् ।। 30.161 ।।
(75) ऋषिर्देवो विराट् छन्दो देवता वलसूदनः ।
एतेनेष्ट्वा तुरासाहं साम्राज्य फलमश्नुते ।। 30.162 ।।
(75. ऋषिर्जीवो.)
* विष्णोर्मन्त्रः.*
द्वादश्यां मालमन्त्रेण पूजयेदुक्तवर्त्मना ।
भगवन्तं श्रियः कान्तं फलमिप्सन् सुदुर्लभम् ।। 30.163 ।।
* कामस्य मन्त्रः.*
निगमादिं च नत्यन्तं पश्चिमोदयनं तथा ।
क्रोधरूपं पवित्रं च श्रीवत्सं पावकं ततः ।। 30.164 ।।
आदिदेवं च पननं गोपनं (76) यष्टिमन्वतः ।
(77) गोपतिं बहुलं पञ्छबिन्दुं नरहरिं ततः ।। 30.165 ।।
(76. यष्टिमस्तकम्.)
(77. गोपनम्.)
और्वं यष्टिं च (78) कमलं गोपनं मन्दराह्वयम् ।
वैधरं देवदत्तं च कमलं गोपनं तथा ।। 30.166 ।।
(78. कलशम्.)
शङ्खं ठठान्तमुद्धृत्य मनुरेष समिरितः ।
(79) स्वर्गादिं पुलहं बन्धुं नासिक्यं बीजमुद्धरेत् ।। 30.167 ।।
(79. स्पर्शादिं.)
ऋषिश्श्रीनिधिरस्योक्तो विराट् छन्दश्च देवता ।
मन्मथस्तेन यष्टव्यस्स सर्वफलकाङ्क्षिभिः ।। 30.168 ।।
एकार्णमपरं मन्त्रमुद्धरिष्यामि पद्मज ।
तारं गरुडमौर्वं च सबिन्दुं मनुरीरितः ।। 30.169 ।।
लक्षमेकं जपेन्मन्त्री कर्मण्याकर्षणादिके ।
समर्थं कामदैवत्यं मनुमन्यं ब्रवीमि ते ।। 30.170 ।।
उद्गीथं कमलं पीतं (80) मायामर्धेन्दुशेखम् ।
करालं गोपनं दक्षं वैधरं तदनन्तरम् ।। 30.171 ।।
(80. मास.)
मृगेन्द्रं वरुणं चादि (81) देवं श्वसनसंज्ञितम् ।
शुक्लं सुधामयं वह्निं ककुभं सविनायकम् ।। 30.172 ।।
(81. श्वेतं.)
शशाङ्खं माधवं ब्रह्मसाधकं भास्कराह्वयम् ।
हैरम्बं गोपनं वायुं ककुभं यादसां पतिम् ।। 30.173 ।।
पुलहं निगमादिं च तद्द्वयं (82) तद्विरुच्छरेत् ।
पश्चिमं त्वृतधामानं (83) पूर्णं पर्वभिरुच्छरेत् ।। 30.174 ।।
(82. च द्विरुद्धरेत्.)
(83. मर्णपूर्णं द्वि.)
शशाङ्कमादिं जलजं (84) पीतं वरुणमब्जज ।
ककुभं विष्णुविघ्नेसौ प्रथमं तग्मदिधितिम् ।। 30.175 ।।
(84. मया. माया इति स्यात्.)
पद्मनाभं वैधरं च वायुमाद्यं च मन्दरम् ।
मन्दराद्यद्वयं भूयस्तदेव समनन्तरम् ।। 30.176 ।।
वरुणं विष्णुमब्जां च यष्टि (85) मब्जोदयौ तथा ।
दहनं श्रीधरं वर्णं पुलहं ब्रह्मसाधनम् ।। 30.177 ।।
(85. मब्जौ जयम्.)
करालमाद्यं (86) कलशं मुखं श्रीवत्समन्वतः ।
प्रभञ्जनं गोपनं च स्पर्शमाद्यमपां पतिम् ।। 30.178 ।।
(86. सयशम्.)
ठठास्तमुद्धृत्य मनुः कथितः कमलासन ।
ऋषिः कलिङ्गोऽतिच्छन्धश्छन्दः कामश्च देवता ।। 30.179 ।।
जपेद्द्विरष्टौ लक्षाणि नासाध्यं तेन मन्द्रिणा ।
रतिश्च विरतिश्चोभे तस्य पार्श्वे स्थिते सदा ।। 30.180 ।।
(87) मन्त्र स्तयोश्छतुर्थ्यन्तं नाममात्रं त्रिशीर्षकम् ।
(88) मदनः प्रथमो भाणस्तथैवोन्मादनोऽपरः ।। 30.181 ।।
(87. मन्त्रोद्वयोश्चतुर्थ्यन्तनामनीति विशीर्षकम् त्रिशीर्षकम्.)
(88. मादन इति स्यात् । प्रच्छाद इत्यपि क्वचित्पाठः.)
मोहनं द्वेषणं च द्वे दीपनं पञ्चमं स्मृतम् ।
मल्लिका केतकी जातिः पङ्कजं यूधिका तथा ।। 30.182 ।।
पुष्पाणि क्रमशो भाणान्या हुस्तेषां मनुः पुनः ।
संविद्यर्णाश्च सहिताश्चतुर्थ्यन्तास्समाह्वयाः ।। 30.183 ।।
तेषां सत्यन्तसहितं तैस्तेषामर्चनं विधुः ।
धनुरङ्कशपाशाश्च तस्यास्त्राणि मनोभुवः ।। 30.184 ।।
मन्त्राश्च पूर्ववत्तेषां नामान्येव चतुर्मुख ।
कल्पकानोकह (89) प्राय पुष्पितद्रुमशोभिते ।। 30.185 ।।
(89. श्रात.)
उद्याने मञ्जु (90) शिञ्जानपक्षिसङ्घिनिषेविते ।
मध्ये महाह्रदे पूर्णे सरोजैश्च विकस्वरैः ।। 30.186 ।।
(90. गमन.)
विष्टरे काञ्चने न्यस्ते शुभा स्तरणसंयुते ।
आसीनं सह देवीभ्यां सर्वाभरणभूषितम् ।। 30.187 ।।
रक्तचन्दनलिप्ताङ्गं रक्तमाल्योपशोभितम् ।
चारुकुण्डलिनं कान्तं युवानं क्षौमवासनम् ।। 30.188 ।।
वसानमप्सरोमुख्यै स्त्रीगणैः परितो वृतम् ।
ध्यायन्ननेन मनुना क्रमादर्घ्यादिभिर्यजेत् ।। 30.189 ।।
(91) कामगायत्रिया वापि यजेत मकरध्वजम् ।
जपादि पूर्ववत्सर्वं वश्यं च भुवनत्रयम् ।। 30.190 ।।
(91. सामगायत्र्या.)
मन्त्रिणो नित्ययुक्तस्य किमन्यैरतिसिस्तरैः ।
* अश्विनोर्मन्त्रः.*
अश्विनोर्मन्त्रमधुना ब्रवीमि कमलासन ।। 30.191 ।।
उद्धृत्य पूर्वमुद्गीथं विघ्नेशं पाटलप्रियम् ।
ब्रह्मसाधननामानं श्रीवत्सं च सुधामयम् ।। 30.192 ।।
मायां सुभद्र (92) माकारमश्विनोरीरितो मनुः ।
आदिमर्धेन्दुसहितं बीजं तेनाङ्गकल्पना ।। 30.193 ।।
(92. मुद्धृत्य. अश्विनो.)
भृगुर्द्रष्टा बृहच्छन्दः प्रतिपाद्यौ तथाश्विनौ ।
जपन्वैपञ्चलक्षेण सिद्धिस्सर्वार्णसाधनः ।। 30.194 ।।
राजयक्ष्मादयो रोगा न तिष्ठन्ति तदन्वये ।
औषधानि च दक्षाणि व्याधीनामपनोदने ।। 30.195 ।।
तत्करस्पर्शमात्रेण सर्वं वस्त्वौषधंभवेत् ।
* सोमस्य मन्त्रः.*
पौर्णमास्यां तथा सोमं यजेत मनुवित्तमः ।। 30.196 ।।
निगमादिं पूर्णचन्द्रमोतदेहं समन्दरम् ।
(93) मधुमारुतविघ्नेशं माधवीं च विसर्जनम् ।। 30.197 ।।
(93. मधुद्विण्मारुतं विघ्नो.)
सोमस्य कथितो मन्त्रो बीजमुद्धारयामिते ।
सितमादिमनुस्वारं कुर्यात्तेनाङ्गसन्ततिम् ।। 30.198 ।।
द्रष्टा कौमोदको नाम पङ्त्किच्छन्दस्स देवता ।
जपः पूर्ववदेवास्य गायत्र्या वा समर्चयेत् ।। 30.199 ।।
फलं च सर्वं पूर्वोक्तं चन्द्रसालोक्यमप्यथ ।
इत्युक्तास्तिथमो देवास्तेषां मन्त्रास्समर्चनम् ।। 30.200 ।।
फलानि च समस्तानि (94) क्रमेणाप्युदितानि ते ।
(95) नाराध्यं तिथियोगैस्तैरैहिका मुष्मिकात्मकम् ।। 30.201 ।।
(94. क्रमेणोदीरितानि.)
(95. नासाध्यं.)
फलं मन्त्रप्रसाधेन तद्देवानां महत्तया ।
नुकृतान्यपि कर्माणि विना विघ्नेशपूजया ।। 30.202 ।।
न फलन्त्यन्तरायेण निहतानि चतुर्मुख ।
तदादौ कर्मकुर्वाणैराराध्यो विघ्ननायजः ।। 30.203 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मेतन्त्रे चर्यापादे तिथिदेवतामन्त्रोद्धारो नाम त्रिंशोऽध्यायः.
----- ***** -----

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_३०&oldid=206997" इत्यस्माद् प्रतिप्राप्तम्