प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १ चर्यापादः
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
द्वितीयोऽध्यायः
---------
* द्विक्षास्वरूपप्रश्नः.*
ब्रह्मा :--
ये दीक्षायामधिकृता ये च तत्र बहिष्कृताः ।
ते यथावदशेषेण कथिताः पुरुषोत्तम ।। 2.1 ।।
दीक्षा स्वरूपविषये बुभुत्सा मम सम्प्रति ।
विजृम्भते तत्स्वरूपमुपदेष्टुं त्वमर्हसि ।। 2.2 ।।
* दीक्षाविधि निरूपणम्.*
* तत्र स्थानोपकरणादि. *
श्रीभगवान् :---
प्रतिष्ठाविधिवत्सर्वं दीक्षामण्डपमादितः ।
कारयित्वा शुचौ देशे तद्वदेव चतुर्मुख ।। 2.3 ।।
देशे च पश्चिमे वेद्याः गुण्डं तालत्रयाद्बहिः।
कारयित्वाद्विजेन्द्रादि वर्णानामनुपूर्वशः ।। 2.4 ।।
अनुकूलं चतुष्कोणं तालद्वयमितान्तरम् ।
वृत्तं गोकर्णयुग्मेन विस्तीर्णं तदनन्तरम् ।। 2.5 ।।
चापाकारं वितस्तिभ्यां विस्तारायाम सम्मितम् ।।
त्रिकोणमितरत्कुण्डं प्रादेशद्वयविस्तृतम् ।। 2.6 ।।
आयामस्स्रुक्स्रुवादीनामीदृशो ब्राह्मणादिषु ।
* यजनकालः.*
दशम्यां यागसम्भारास्सम्भूर्यान्समिधादयः ।। 2.7 ।।
एकादश्यां तु सायाह्ने तिथौ स्यादधिवासनम् ।
* चक्राब्जमण्डले कुम्भन्यासः.*
मण्डपे यजने स्थाप्यं द्वारकुम्भादि पूर्ववत् ।। 2.8 ।।
धारणाशोधिततनुश्चक्राब्जं वर्तयेद्गुरुः ।
कुम्भं च हेमादिमयं करकं चापि तादृशम् ।। 2.9 ।।
गालितोदकसम्पार्णं न्यस्तरत्नसुवर्णकम् ।
सूत्रवेष्टितनर्वाङ्ग्रं प्रक्चन्दन परिष्कृतम् ।। 2.10 ।।
अहताभ्यां च पासोभ्यां च्छादितं दोषवर्जितम् ।
अस्त्रेण शतवारं तु करकं चाभिमन्त्रयेत् ।। 2.11 ।।
अच्छिन्नधारया सिञ्चे द्वेदिकां परितो गुरुः ।
प्रादक्षिण्येन करकं नीत्वा कुम्भं च पृष्ठतः ।। 2.12 ।।
ऐशाने चक्रपद्मस्य भागे धान्ये निवेशयेत् ।
दक्षिणे कलशं वामे करकं मूलविद्यया ।। 2.13 ।।
कुम्भे च हरिमावाह्य पूजयेच्छास्त्रवर्त्मना ।
यजेत देवं चक्राब्जमण्डले कमलासन ।। 2.14 ।।
साङ्ग्रं सपरिवारं च यथाविधि यथाक्रमम् ।
मथित्वाऽष्टाक्षरेणाग्निं गुण्डे तं विनिवेशयेत् ।। 2.15 ।।
* चरोश्चातुर्विध्यम्.*
तत्र सिद्धं चरुं कृत्वा चतुर्धैकं निवेदयेत् ।
मण्डलस्थाय हरये कुम्भे भागमथेतरम् ।। 2.16 ।।
अग्नौ चैकं स्वयं चैकमुप युञ्जीत देशिकः ।।
समिधश्शतमष्टा च जुहुयाद्देशिकोत्तमः ।। 2.17 ।।
आज्यहोमोऽपि तद्वत्स्यान्मूलमन्त्रेण मन्त्रवित् ।
चरुं नृसूक्तेन तथा पूर्णाहुत्यन्त मन्यतः ।। 2.18 ।।
* सिष्यलक्षणं तत्संस्काराश्च.*
शिष्यं स्नातं जितक्रोधं मदाद्येर्वर्जितं शुचिम् ।
(1) अहतक्षौमवसनं सोत्तरीयमलज्कृतम् ।। 2.19 ।।
(1.दधतं क्षौमवसनम्.)
आहूय पाससा बध्वा गुरुर्नेत्रे स्व विद्यया ।
आत्मनो दक्षिणेपार्श्वे निवेश्य प्राङ्मुखं यथा ।। 2.20 ।।
तेन दर्भैश्छ संस्पृष्टः पुण्डरीकाक्ष विद्यया ।
द्वादशाहुतिमाज्येन जुहुयाच्चरुणा तथा ।। 2.21 ।।
समित्पुष्पतिलैश्चापि ततः प्रसृति मुद्रया ।
त्रिर्मूर्ध्नि शिष्यमालभ्य प्रादक्षिण्येन देशिकः ।। 2.22 ।।
अष्टाक्षरेण मन्त्रेण ततो भस्म (2) समिद्भवम् ।
(2.समुद्भवम्.)
पाण्डरं मूर्ध्नि शिष्यस्य विनिवेश्योर्ध्व पुण्ड्रकम् ।। 2.23 ।।
अस्त्रमन्त्रेण भध्नीया त्सूत्रं प्रतिसरं करे ।
पीत्वा शिष्यः पञ्च गव्यं प्रणवेन चरुं ततः ।। 2.24 ।।
भुञ्जीत कायशुद्ध्यर्थं दर्ना काष्ठेन धावयेत् ।
* दन्तकाष्ठाग्र निमित्तपरीक्षा.*
दन्तकाष्ठं च भूभागे निपात्याग्रं विलोकयेत् ।। 2.25 ।।
नैरृते मारुते याम्ये यद्यग्रमशुभं भवेत् ।
शुभमन्यत्र दिग्भागे काष्ठाग्रे प्रतिते भवेत् ।। 2.26 ।।
अशुभं शान्तिहोमेन शाम्येच्छु भकरश्चसः ।
नारसिंहेन मन्त्रेण तिलैकष्टोत्तरं शतम् ।। 2.27 ।।
होमः कार्यस्ततश्शिष्यमाचान्तं देपवन्निदौ ।
करे गृहीत्वा दे वेशं प्रणम्य गुरुरात्मवान् ।। 2.28 ।।
विज्ञापयेदिमां गाधामुच्चार्य कमलासन ।
* गुरुणा भगवते शिष्यसमर्पणम्.*
संसारपाशबद्धानां पशूनां पाशमोक्षणे ।। 2.29 ।।
त्वमेव शरणं देव गतिकन्यान विद्यते ।
वाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः ।। 2.30 ।।
तेनेमान् जन्मपाशेन पाशितान् पशुजन्मनः ।
विपाशयादिदेवेश तदनुज्ञातुमर्हसि ।। 2.31 ।।
इति विज्ञाप्य शिष्यं तं मायासू त्रेणवेष्टयेत् ।
* मायासूत्र स्वरूपम्.*
शुक्लं कक्तं च कृष्णं च त्रिवर्णं त्रिगुणीकृतम् ।। 2.32 ।।
सूत्रं पुनश्चत्रिगुणं कृत्वा सूत्रेण तादृशा ।
* मायासूत्रेण शिष्य कायवेष्टनम्.*
शिखां प्रक्रम्य पादान्तं पञ्चविंशति सङ्ख्यया ।। 2.33 ।।
वेष्टयेन्मूलमन्त्रेण कायं शिष्यस्य सर्वतः ।
जुहुयात्तेन मन्त्रेण शिष्यं संस्पृश्य देशिकः ।। 2.34 ।।
सर्पिषाष्टोत्तरशतं पारान् पूर्णाहुतिं ततः ।
* स्वप्नार्थं होमः.*
स्वप्नाधिपतिमन्त्रेण सर्पिषाष्टोत्तरं शतम् ।। 2.35 ।।
स्वप्नदर्शनसिद्ध्यर्थं जुहुयाद्देशिकोत्तमः ।
माषोदनेन भूतेभ्यो बलिं दद्यात्समाहितः ।। 2.36 ।।
* मायासूत्रमोक्षणम्.*
विमुक्तनेत्रबन्धस्य शिष्यस्य तनुबन्धनम् ।
मायासूत्रं समादाय शरावेन्यस्य निक्षिपेत् ।। 2.37 ।।
कुम्भपार्श्वेशरावेण पिधायान्येस देशिकः ।
* शिष्यस्वापनम्.*
दर्भानास्तीर्य तत्तल्पे शिष्यस्वापनमाचरेत् ।। 2.38 ।।
मण्डलस्थं च कुम्भस्थं देवं नूद्वास येत्तदा ।
* शुभस्वप्ने दीक्षानुज्ञा.*
ततः प्रभाते शिष्यस्य शुभं चेत्स्वप्न दर्शनम् ।। 2.39 ।।
* अशुभस्वप्ने शान्तिहोमः.*
दीक्षेत नूचेदशुभं शान्तिहोमं समाचरेत् ।
* दीक्षाविधिः.*
स्नात्वा शिष्येण सहितः प्रविसेद्याग मण्डपम् ।। 2.40 ।।
ध्वाजतोरण कुम्भादिपूजा पूर्ववदिष्यते ।
चतुर्विधं निवेद्यान्नं समस्कृत्य प्रदक्षिणम् ।। 2.41 ।।
शिष्यं तु पूर्ववन्नेत्रे बध्वा नूतनवाससा ।
निवेश्य वूर्ववत्पार्श्वे जुहुयात्समिधादिभिः ।। 2.42 ।।
प्रत्येकमष्टोत्तर शतं मूलमन्त्रेण देशिकः ।
मायासूत्रं ततश्छित्वा संहारक्रम मास्थितः ।। 2.43 ।।
तत्वान्यादिश्य जुहुयात्प्रकृत्यन्तानि देशिकः ।
प्रत्येकमष्टोत्तर शत मष्टकृत्वोऽथवागुरुः ।। 2.44 ।।
(3) हृत्पद्मे परमं ज्योति र्ध्यात्वा परमपूरुषम् ।
तस्मिन् जीवं च शिष्यस्य संहरेन्मन्त्रवित्तमः ।। 2.45 ।।
(3.स्पहृत्पद्मे परंज्योतिऽ.)
शोषणादीनि देहस्य शिष्यसम्भन्धिन स्तथा ।
कृत्वा तत्र स्मरेदण्डं ततस्स्व हृदयाम्बुजात् ।। 2.46 ।।
सज्क्रमय्य पुनर्जीवं प्रकृत्यादि क्रमात्सृजेत् ।
सर्गकाले च जुहुयात्तत्वानि क्रम (4) मूस्थितः ।। 2.47 ।।
(4.माश्रितः)
सृष्ट्वा स्थूलशरीरान्त मण्डभेदं विचिन्तयेत् ।
तन्मध्ये पुरुषं ध्यात्वा जातमात्मान मात्मना ।। 2.48 ।।
प्रोक्षयेन्मूलमन्त्रेण नेत्रबन्धं च मोचयेत् ।
शिष्यस्तु परिधायान्यद्वासःपादौ प्रसाद्य च ।। 2.49 ।।
अचम्य पाससाऽन्येन बद्धनेत्रो (5) न्तिके गुरोः ।
असीत प्राङ्मखस्तस्मिन् (6) शोधयेच्च षडध्वाना ।। 2.50 ।।
(5.निजे गुरौ.)
(6.च्छादयेत्.)
* अध्वषट्कम्.*
कलाध्वा च पदाध्वा च भुननाध्वातथैव च ।
मन्त्राध्वा मन्त्रवर्णाध्वाषडध्वानः प्रकीर्तिताः (7) ।। 2.51 ।।
(7. अत्र तत्वाध्वनः नाम निर्देशः अभ्यूह्यः.)
*पूर्वविधि शेषः.*
पूर्नमाज्याहुतिं हुत्वा महाव्याहृतिविद्यया ।
हुतशेषेण शिष्यस्य पादौस्पृष्ट्वा ततस्तिलैः ।। 2.52 ।।
हुत्वा नाभिं समालभ्यततो हुत्वाकुशेशयैः ।
स्पृष्ट्वा च हृदयं हुत्वा चरुणा मूर्धनिस्पृशेत् ।। 2.53 ।।
अष्टोत्तर शतं होमः प्रत्येकं मूलविद्यया ।
होमन्तेच गुरुश्शिष्यं गृहीत्वा दक्षिणे करे ।। 2.54 ।।
नीत्वा प्रदक्षिणं कुम्भं मण्डलं च यथोदितम् ।
द्वारे तिष्ठंश्चतुर्णां तु द्वाराणां कमलासन ।। 2.55 ।।
मणिमुक्ताप्रवालैर्वा (8) पुष्पैर्वाकेवल्तेर्गुरुः ।
अञ्जलिं पूरयेदन्ते ततस्तस्य विकस्वरैः ।। 2.56 ।।
(8.केसलैर्गुरु रात्मवान्.)
* दीक्षितस्य नामनिर्देशः *
पुष्पादि विकि रेत्तस्मिन् मण्डले गुरुचोदितः ।
यस्मिन् पतति भूभागे पुष्पाणामुत्करस्स्वयम् ।। 2.57 ।।
तद्भागाधिपमूर्तीनां नामान्यस्य विनिर्दिशेत् ।
शिष्यस्य केशवादीनि पदं भागवतेति च ।। 2.58 ।।
नाम्नामन्ते प्रयोक्तव्यं यद्वा भट्टारकेति च ।
ब्राह्मणच्चेत् क्षत्रियस्य देह नं नामनिर्दिशेत् ।। 2.59 ।।
वैश्यस्य (9) पालशब्दान्तं दासान्तं पादजन्मनः ।
ततो विमुच्य दृग्बन्धं दर्शयेच्चक्रमण्डलम् ।। 2.60 ।।
(9.बालशब्दान्तम्.)
शिष्येण सहितो वेद्यां ध्यायेन्ना रायणं गुरुः ।
* मन्त्रोपदेशः.*
ध्यात्वाच दक्षिणे कर्णे शिष्यस्य प्रणवान्वितम् ।। 2.61 ।।
मन्त्रं दद्यादृषिच्छन्धो दैवतं चाङ्ग्रमेव च ।
द्वादशाक्षरमादौ तु पश्चादष्टाक्षरात्मकम् ।। 2.62 ।।
मूर्तिमन्त्रांश्च तदनु समध्याप्य यथाविधि ।
* स्त्रीशूद्राणां मन्त्रोपदेसे विशेषः.*
केवलं वैष्णवं नाम नमः प्रणववर्जितम् ।। 2.63 ।।
हुं फढादिवषट् स्वाहावर्जितं केशवादिकम् ।
अध्याप्यं स्त्रीषु शूद्रेषु तद्वदेवानुलोमजे ।। 2.64 ।।
* शिष्येण कुम्भमण्डलस्थदेवतार्चनम्.*
कुम्भस्थं मण्डलस्थं च हरिं शिष्यस्समर्चयेत् ।। 2.65 ।।
*गुहुणा शिष्यनियमोपदेशाय संविधानम्.*
आराध्य हरिमुत्थाय तस्थुषः प्रञ्जले स्तथा ।
मूर्ध्नि शिष्यस्यस गुरु (10) र्हस्तेध्यात्वाब्जमण्डलम् ।। 2.66 ।।
(10. स्ततो.)
हस्तं न्यसे द्विष्णुहस्ते ततश्शिष्यस्य देशिकः ।
(11) आचारान्नि यमान् सर्वान् बोधयेदग्नि सन्निधौ ।। 2.67 ।।
(11.आचारं नियमान्.)
* शिष्यानुष्ठेया बाह्यनियमाः.*
मन्त्रः परस्य नाख्येयो नाक्षसूत्रं प्रदर्शयेत् ।
न च मुद्रां नापि सिद्धिं मन्त्रस्य कथयेत् (12) स्वयम् ।। 2.68 ।।
(12. स्वरम्.)
आचार्यनाम नवदे (13) न्नि योगान्नास्य लङ्घयेत् ।
(13.न्नियैगम्.)
शयनादींश्चन गुरोराक्रमेन्न च लङ्घयेत् ।। 2.69 ।।
न गुरुं दूषयेद्वाचा नाचरेत्तस्य विप्रियम् ।
गुरुवद्गुरुदारेषु वर्तितव्यमसन्निधौ ।। 2.70 ।।
आचार्यमच्युतं शात्त्रं त्रयं सम्मान येत्सदा ।
* नास्तिकादि सहवास निषेधः.*
नास्तिकान् भिन्नमर्यादान् देव ब्रह्मणदूषकान् ।। 2.71 ।।
नस्पृशेन्नैव तैस्सार्धं संवसेद्दुर्दशान्वपि ।
* गुरुदेवादिसन्निधौ वृत्तिः.*
प्रसारयेन्नैव पादौ गुरुदेवाग्नि सन्निधौ ।। 2.72 ।।
* नियमविशेषाः.*
वेदितव्यं जगत्सर्वं वासुदेवमयं सदा ।
अनर्चयीत्वा देवेशं नात्मपोषण माचरेत् ।। 2.73 ।।
जवस्तोत्रप्रणामादीन् सन्ध्याकाले समाचरेत् ।
भगवद्ध्यानतत्कर्म (14) कीर्तनेषु सदा कमेत् ।। 2.74 ।।
(14. कर्तन्येषु)
वैष्णवं च यतिं चैव दृष्ट्वातं प्रणमेत् क्षितौ ।
पुत्रदारगृहक्षेत्र पश्वादि धनमात्मनः ।। 2.75 ।।
व्यपदेश्यमशेषेण नाम्ना भगवतो भवेत् ।
समस्सर्वेषु भूतेषु कामक्रोधौ विपर्जयेत् ।। 2.76 ।।
शनैश्शनैरिन्द्रियाणि विषयेभ्यो निवारयेत् ।
संसारविमुखैस्सार्धं शास्त्राभ्यासं समाचरेत् ।। 2.77 ।।
श्रौतस्मार्तादिकर्माणि सदि सेवेत नेतरत् ।
स्वनूत्रोक्तेन विधिना निषेकादिक्रिया भवेत् ।। 2.78 ।।
कुर्यात्सर्वाणि कर्माणि भगवद्ध्यानतत्परः ।
गुह्यं नाम च गोत्रं च प्रकृतं नान्यदिष्यते ।। 2.79 ।।
आसीनो वा शयानो वा गच्छन् भुञ्जान एव वा ।
सज्कीर्तयेत् स्मरेद्वापि वासुदेवं सनातनम् ।। 2.80 ।।
* शान्तिहोमान्ते अग्निकुम्बादीनामुद्वासः.*

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२&oldid=206966" इत्यस्माद् पुनः प्राप्तिः