प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ३ चर्यापादः
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चतुर्थोऽध्यायः
------
* नित्योत्सव होमः.*
ब्रह्मा :---
भगवन्नुत्सवो नित्यो होमश्चाग्नौ पुरोदितः ।
स कथं पूजकैःकार्यः कथयस्व यथातथम् ।। 4.1 ।।
श्रीभगवान् :---
द्वारस्थानग्न्यगारस्य चण्डादीन र्चयेत्क्रमात् ।
अन्तः प्रविश्य शकृदालिप्ते कुण्डेऽक्षतार्चिते ।। 4.2 ।।
* पात्रासादनम्.*
उपविश्यात्मनः पार्श्वे दक्षिणे पुष्पभाजनम् ।
अन्यानि होमद्रव्याणि वामपार्श्वेतु निक्षिपेत् ।। 4.3 ।।
(1) कुण्डस्योत्तरपार्श्वेतु प्रागग्रेषु कुशेषु च ।
आज्यपात्रं चरुस्थालीं प्रोक्षणिं समिधःकुकान् ।। 4.4 ।।
(1.`कुण्डस्य' इत्यर्धं क्वचिन्न.)
प्रणीतां तण्डुलान् तोयं परिधीन् स्रुक्स्रुवै तथा ।
दर्वीमग्नेर्विहरणं व्यजनानि च मेक्षणम् ।। 4.5 ।।
शुष्कं च काष्ठं घण्टां च गन्धद्रव्यं च साक्षतम् ।
द्वन्द्वानि च प्रयोज्यानि न्यञ्चि सत्येव सम्भवे ।। 4.6 ।।
कुण्डमध्ये ततस्तिस्रोरेखाःप्रागायताः पृथक् ।
तथोदगायतास्तिस्रोलिखित्वा मूलविद्यया ।। 4.7 ।।
दर्भस्तम्बद्वयेनाद्भि रुभ्युक्ष्यादाय पावकम् ।
मथितं लौकिकं यद्वा निधाय च विहृत्य च ।। 4.8 ।।
(2) अद्भिः परिसमूह्याग्निं परिस्तीर्य त्रिभिस्त्रिभिः ।
प्रागग्रैरुदगग्रैश्च दर्भैः पञ्चभिरेव वा ।। 4.9 ।।
(2. वासुदेवादिभिर्मन्त्रैः)
(3) सप्तभिर्नव भिर्वापि यद्वैकादशसम्मितैः ।
ग्रन्थीकृताग्रैरद्वन्द्वैःपञ्चविंशतिनिष्ठितैः ।। 4.10 ।।
(3. पञ्चभिर्ननभिः.)
(4) तत्राग्निमध्येऽपां पूर्णां प्रणीतामक्षतार्चिताम् ।
निधाय दर्भयुग्मेन कूर्चं प्रादेशसम्मितम् ।। 4.11 ।।
(4. द्रव्याग्नि मध्ये.)
निर्मायाच्छादनं तस्य त्रिभिर्दर्बैः पवित्रितैः ।
कू र्चेन तेन प्रोक्षण्यां प्रणीताजलमावपेत् ।। 4.12 ।।
प्रोक्षणी मात्मनश्चाग्रे सरूर्चां न्यस्य मन्त्रवित् ।
अङ्गुष्ठानामिकाभ्यांतुकूर्चंतत्करयोर्द्वयोः ।। 4.13 ।।
पुनराघारमुत्पूय त्रिःप्रोक्ष्य प्रोक्षणीं पुनः ।
होमद्रव्याणि सर्वाणि प्रोक्षयेत्तेन वारिणा ।। 4.14 ।।
स्पृशेच्च तानि द्रव्याणि नामादेशं यथा तथम् ।
स्रवापयेत्प्रोक्षणीवारि प्रादक्षिण्येन तां पुनः ।। 4.15 ।।
कृत्वाम्भः पूरितां देवं प्रणीतायां सभाजयेत् ।
अग्नेर्दक्षिणतो दर्भकूर्च तन्मयविष्टरे ।। 4.16 ।।
आवाह्य बुद्ध्या ब्रह्माणमिष्ठ्वा प्रक्षाल्य वारिणा ।
विष्णुगायत्रिया स्थालीमाढकं तत्र तण्डुलान् ।। 4.17 ।।
प्रक्षिप्य हृदयाद्यङ्गैः प्रक्षाल्याग्नावधिश्रपेत् ।
आज्यस्थाल्यां निरूप्याज्यं द्रावितं गालितं तथा ।। 4.18 ।।
तत्र प्रत्यस्य दर्भाग्रद्वयं मन्त्रेण मन्त्रवित् ।
अङ्गारेषु निधायाग्नौ तां दीप्तेनाथ बर्हिषा ।। 4.19 ।।
पर्यग्निकुर्यादुत्तार्य यथास्थानं निवेशयेत् ।
उत्पूयोत्ल्पवनं कूर्चमद्भिस्पृष्ट्वा ह्युषर्बुधे ।। 4.20 ।।
प्रहृत्य चामृतीकृत्य घृतं सुरभिमुद्रया ।
अवकुण्ठ्य च दिक्पाला निन्द्रादीन् पूजयेत्क्रमात् ।। 4.21 ।।
उष्णोदकेन प्रक्षाल्य स्रुक्स्रुवै कुशपञ्चकम् ।
कूर्चमादाय तौ तेन मूले मध्ये च मूर्धनि ।। 4.22 ।।
सम्मृज्य कूर्चमूलेन मध्येनाग्रेण चक्रमात् ।
निष्टप्याग्नौ निधातव्यै तावुदीच्या मथात्मनः ।। 4.23 ।।
सुव्रेणाज्यं समादाय होमवस्तूनि सेचयेत् ।
चरुं चाज्येन संसिच्य पार्श्वेतमवरोपयेत् ।। 4.24 ।।
* चरोश्चातुर्विध्यम्.*
केवलान्नं तथा मौद्गं पायसान्नं गुलोदनम् ।
चतुर्विधश्चरुर्ज्ञेयः पाकश्चुल्यामपीष्यते ।। 4.25 ।।
यादृङ्नि वेद्यते बिम्बेहोतव्यश्चापि तादृशः ।
उदक् संस्थाः परिधयः प्रत्यगारम्भणा स्तथा ।। 4.26 ।।
निधातव्याश्शिखीशानकोणयो स्समिधौ तथा ।
ऊर्ध्वे निधाय मनसा ध्यायन्निध्मान् प्रजापतिम् ।। 4.27 ।।
एकतोग्रान् (5) सकृत्सञ्चदशोक्तान् मुष्टिमुद्रया ।
आदध्यादाज्यपात्रं च कुशमार्चेन वेष्टिते ।। 4.28 ।।
(5. समित्पञ्च.)
वामे करे निधायाग्नावाघाराहुतिमाचरेत् ।
प्राजापत्यं तथाचैन्द्रमाज्य भागमथाचरेत् ।। 4.29 ।।
आग्नेयं दक्षिणे भागे सौम्यं भागमथोत्तरे ।
मध्येव्याहृतिभिर्हुत्वास्मरेदग्नि मनन्तरम् ।। 4.30 ।।
* अग्निध्यानम्.*
द्विशीर्षकं सप्तहस्तं त्रिपादं सप्तजिह्वकम् ।
वरदं शक्तिपाणिं च बिभ्राणं स्रुक्स्रुवै तथा ।। 4.31 ।।
अभीतिदं चर्मधरं वामे चाज्यधरं करे ।
* जिह्वाभेदेन होमफलभेदः.*
जिह्वायां दक्षिणे वक्त्रेधूम्रायां मारणादिकम् ।। 4.32 ।।
लोहिन्यां तु वशीकारः काल्यां कर्म च शान्तिकम् ।
सर्वसिद्धि स्स्फुलिङ्गिन्या मानने दक्षिणेतरे ।। 4.33 ।।
विश्वरूपरसज्ञाया मणिमादि महाफलम् ।
करालिका विजयदा पुष्टिदा च मनूजवा ।। 4.34 ।।
कार्ष्ण्यं लौहित्यमेतासां वर्णश्यामत्वमेव च ।
स्फुलिङ्गरूपं चततो वर्णस्स्फटिक सन्निभः ।। 4.35 ।।
तपनीयनिभः (6) फ्रोक्तो जिह्वानामानु पूर्वशः ।
तिलानाघार (7) समिधो जुहुया (8) ज्जातशान्तये ।। 4.36 ।।
(6.निभा.)
(7.सम्मिश्रान्.)
(8.ज्जड.)
अष्टोत्तरशतं वारान् द्वादशाक्षरविद्यया ।
पूर्णाहुत्यवसाने तु ध्यात्वा ज्वलसमर्चयेत् ।। 4.37 ।।
गन्धाद्यैरात्मनू दद्यादक्षतानि च वर्मणा ।
परिषिञ्चेज्जलेनाग्निं तन्मध्ये योगपीठिकाम् ।। 4.38 ।।
कल्पयीत्वा च तन्मन्त्रैर्जुहुयात्सर्पिषा सकृत् ।
अत्रावतार्य हृदयाच्चि द्रूपं परमेश्वरम् ।। 4.39 ।।
सकलीकृत्य मन्त्रस्य न्यासं कुर्याद्यथाविधि ।
अर्घ्यपूर्वं (9) निवेद्यान्नं नर्पिषा जुहुयात्सकृत् ।। 4.40 ।।
(9.निवेद्यान्तम्.)
जपार्थं च सकृन्मन्त्रैर्जुहुयात्सर्पिषा ततः ।
समिद्भिर्वा (10) दलैः पुष्पैर्बीजैर्वाप्यथ वाफलैः ।। 4.41 ।।
(10. तिलैः पुष्पैः.)
परिवारार्थमप्येवं सर्पिषा जुहुयात्सकृत् ।
आराधनं हरेरेतत्सप्तार्चिषि चतुर्मुख ।। 4.42 ।।
आराधनं चेदन्यत्र प्रतिमादावनन्तरम् ।
जुहुयात्समिदाद्यैस्त्रेर्वक्ष्यमाणेन वर्त्मना ।। 4.43 ।।
* समिधामायामनहनादि स्वरूपविपर्यासे फलम्.*
आयामस्समिधां तालं कनिष्ठा नहनं क्रमात् ।
चर्महीने विनाशस्स्याद्भेदे क्षीणं कुलं भवेत् ।। 4.44 ।।
आर्द्रासु बन्धुनाशस्स्यात्पुत्रनाशः पुरातने ।
क्षतासु भार्यामरणं कलहाय च शाखिनी ।। 4.45 ।।
उद्वेगाय भवेत् स्थूला ह्रास्वाऽवग्रहकारिणी ।
दीर्घाति (11) वृष्टि जननी त्याज्या दोषयुता समित् ।। 4.46 ।।
(11. पुष्ठिकरणी.)
* समिधां सङ्ख्या.*
शतं तदर्धं पादं पा समिधोऽष्टौ यथोदिताः ।
तदर्धं वा घृताक्तास्ता जुहुयान्मूलविद्यया ।। 4.47 ।।
आज्यावसिक्ताश्चत्वारः प्रत्पृचं ग्रासमुद्रया ।
नृसूक्तेन च होतव्या मूलमन्त्रेण सर्पिषा ।। 4.48 ।।
शतादिसङ्ख्यया होमो ध्यात्वा परमपुरुषम् ।
स्रुवेण जुहुयादाज्यं हस्तेव समिधं पुनः ।। 4.49 ।।
चरुं पलाशपात्रेण यद्वा हस्तादिना भवेत् ।
हुत्वा पुर्णाहुतिं पूर्वं ततश्शान्तिं प्रकल्पयेत् ।। 4.50 ।।
* होमद्रव्याणां फलम्.*
यज्ञवृक्षोद्भवैश्शान्निस्सौभाग्यं कुसुमैश्शुभैः ।
धूपद्रव्येस्सदारोग्यं पुष्टिं दध्ना पयश्शुचि ।। 4.51 ।।
अन्नेन विविधान् कामानाज्येनायुष्मतीः प्रजाः ।
श्वेतपद्मैस्तु जुहुयादिच्छन् ब्रह्मश्रियं नरः ।। 4.52 ।।
लक्ष्मीपुष्पैस्तु जुहुया ल्लक्ष्मीकामोऽथ वारुणैः ।
पद्मैर्बिल्व समिद्भिर्वा ज्ञानकामस्तु सर्पिषा ।। 4.53 ।।
कन्याकामः कालपुष्टै र्गोकामो गोमयैः पुनः ।
आयुष्कामस्तु दूर्वाभिर्भूतिकामस्तु मृत्स्नया ।। 4.54 ।।
यवाग्वेन्द्रियकामस्तु तिलैस्सर्वजनप्रियः ।
ब्रह्मवर्चकामस्तु ब्रह्मवृक्षसमुद्भवैः ।। 4.55 ।।
वेणुभिश्च यवैश्चैव नीवारैश्शालिभि स्तथा ।
सर्वे कामाःप्रसिद्ध्यन्ति होतुर्भीजैर्यथोदितैः ।। 4.56 ।।
लाजहोमेन सिध्यन्ति सर्वे कामा न संशयः ।
अन्तेकन्नादिकामस्तु पुत्रकामस्तु पायसैः ।। 4.57 ।।
निम्बपुष्पै र्हिरण्यार्थी सर्वं सिध्यति सर्पिषा ।
* होमार्थद्रव्यपरिमाणम्.*
होमे सर्पर्मधुक्षीरधारा स्याच्चतुरङ्गुला ।। 4.58 ।।
शुक्तिर्दध्याहुतिर्ग्रासं पायसाज्याहुतिर्भवेत् ।
(12) भक्ष्याहुति स्तदर्धं स्यात्फलैः पुष्पैरखण्डितैः ।। 4.59 ।।
(12. भक्ताहुति.)
निष्पावबीजमाना तु धूपद्रव्याहुतिर्भवेत् ।
तिलव्रीहि यवाद्येस्तु मुष्ट्यर्धार्धाहुतिः क्रमात् ।। 4.60 ।।
अष्टाङ्गुला तदर्धावा समिद्धूर्वा षडङ्गुला ।
मृद्वीकाऽक्षप्रमाणा तु गोमयाहुतिरिष्यते ।। 4.61 ।।
पूर्णाहुतिर्घृतस्य स्यात्कुडुबेन चतुर्मुख ।
न्यूनाधिकप्रमाणां तु हव्यकव्याहुतिं कृताम् ।। 4.62 ।।
भुञ्जन्ति दानवा दैत्या न फलाय च कल्पते ।
कुक्कुटाण्ड प्रमाणं तु चरोः पिण्डं घृताप्लुतम् ।। 4.63 ।।
निक्षिप्य चस्रुचोर्गते अभिघार्य स्रुवेण च ।
ससमिद्दर्भकुसुमं जुहुयान्मूल विद्यया ।। 4.64 ।।
प्रायश्चित्तार्थमाज्येनपढञ्चोपनिषदा पुनः ।
स्रुचमाज्येन सम्पूर्य सदर्भं समिधान्वितम् ।। 4.65 ।।
उद्धृत्य नासिकाग्रान्तमभिघार्य स्रुवेण च ।
जाहुयान्मूलमन्त्रेण पूर्णाहुत्यातु साधकः ।। 4.66 ।।
स्रुचं जलेन सम्पूर्य बहिः कुण्डात्प्रदक्षिणम् ।
सेचयेद्वा विशेषं तु निनयेच्छिरसि स्वयम् ।। 4.67 ।।
भस्मना तिलकं कृत्वा हरिमग्ने स्समुत्सृजेत् ।
गृहित्वार्घ्यं प्रदद्याच्च धाम्नि देवाय पूजकः ।। 4.68 ।।
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि ।
आराधनं तदेवति गृहाणि वरमेश्वर ।। 4.69 ।।
अग्नि कार्यविधिर्ह्येष सङ्क्षेपात्कथितोमया ।
विधिनानेन यःकुर्या दग्निकार्यं दिने दिने ।। 4.70 ।।
सयाति ब्रह्मण स्थ्सानं भुक्त्वा भोगान्यथेस्सितान् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे अग्नि कार्यविधिर्नाम चतुर्थोऽध्यायः.
------******------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_४&oldid=206968" इत्यस्माद् पुनः प्राप्तिः