← अध्यायः ८ चर्यापादः
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
नवमोऽध्यायः.
----
* ब्रह्मणा भगवन्तं प्रतिप्रजासर्ग शक्ति प्रार्थना.*
ब्रह्मा :---
नियक्तोऽहं प्रजास्स्रष्टु त्वया कैटभसूदन ।
मुह्यामि च प्रजास्स्रष्टुं कथं कर्तव्य मित्यहम् ।। 9.1 ।।
* भगवता सहस्रकलशाभिषेककरणानुज्ञा *
श्रीभगवान् :---
देवराज्यात्परिभ्रष्टो देवेन्द्रो ब्रह्महत्यया ।
मां समाराध्य विधिना प्राप्तवानात्मनःपदम् ।। 9.2 ।।
एवमन्ये च राजानो ममाराधनमुत्तमम् ।
कृत्वा निर्धूय पापानि पातकानि महान्त्यपि ।। 9.3 ।।
प्रापुर्लोकान् सुदुष्प्रा पानिष्टानत्ययवर्जितान् ।
एकोत्तरेण कलशैस्सह स्रेणाभि षेचनम् ।। 9.4 ।।
पवित्रवस्तुसहितैः पवित्रजलपूरितैः ।
आराधनं मम ब्रह्मन् प्रीणनं परमं मतम् ।। 9.5 ।।
पापापनोदनैकान्तं सर्वाभ्युदयसाधनम् ।
प्रजानामपि राष्ट्रस्य राज्ञश्चायुर्विवर्धनम् ।। 9.6 ।।
अनुष्ठितं पुत्रकामैस्तथा विजयकाङ्क्षिभिः ।
दुर्भिक्षदुर्निमित्तादि घोराणां शमनं परम् ।। 9.7 ।।
सर्वसंपत्करं सर्व पुरुषार्धैकसाधनम् ।
आराधनेन तेन त्वं मामाराध्य यथाविधि ।। 9.8 ।।
निर्मुक्तमोहो निष्पापः प्रजास्स्रष्टुमपीशिषे ।
ब्रह्मा :---
(1) सहस्रकलशस्नानविधिःकीदृक्कथं भवेत् ।। 9.9 ।।
(1. सहस्रकलशानां च .)
पवित्राणि च वस्तूनि कानि को वा विधेःक्रमः ।
स्थापनं कलशानां च को वा स्थापक इष्यते ।। 9.10 ।।
श्रीभगवान् :---
* सहस्रकलशाभिषेक विधानम् *
द्वात्रिंशद्धस्त (2) विस्तारं द्विगुणेनायतं शुभम् ।
कलशास्पदभू (3) भागवैपुल्यानुगुणं महत् ।। 9.11 ।।
(2. विस्तीर्णम्.)
(3. भागे.)
मण्टपं कल्पयित्वान्यद्द्वाराणि च यथाविधि ।
कलशस्थापनाभूमिं पञ्चविंशतिधा समम् ।। 9.12 ।।
* स्थानभेदेन कलशानां सङ्ख्या.*
विभज्य (4) सूत्रमार्गेण मध्यमे ब्रह्मणःपदे ।
एकाशीतिघटा स्थ्साप्यादिव्ये तु तदनन्तरे ।। 9.13 ।।
(4. सूत्रपातेन.)
भागे प्रत्येकमाशासु पूर्वादिचतसृष्वपि ।
एकाशीतिघटाः स्थाप्याः कोणेऽपि च चतुष्टये ।। 9.14 ।।
(5) स्थाप्याश्चै कोनपञ्चाशत्प्रत्येकं मानुषे पुनः ।
भागे षोडश दिक्षु स्यात्प्रत्येकं पञ्चविंशतिः ।। 9.15 ।।
(5. ऊना चैकोनपञ्चाश.)
विधिकाश्च यथायोगं कल्पनीयाः पदे पदे ।
ब्राह्मे भागे तु नवके मध्यमे (6) च महाघटे ।। 9.16 ।।
(6. मध्यमे मध्यमे.)
सर्वलोहानि रत्नानि सर्वाणि च फलानिच ।
सर्वैषधींश्च सर्वांश्च गन्धपूर्णांश्च निक्षिपेत् ।। 9.17 ।।
श्रीवत्साद्याः प्रतिकृतीः कृत्वा निष्कप्रमाणिकाः ।
स्वर्णं ताम्रं च रजयं (7) केवलं चैव निक्षिपेत् ।। 9.18 ।।
(7. केनलेनैव.)
* भगवतोष्टौ चिह्नानि.*
श्रीवत्सं वनमालां च शङ्खं चक्रं गदां तथा ।
पद्मं शार्ङ्गं तथा खड्ग मष्टौ चिह्नानि शार्ङ्गिणः ।। 9.19 ।।
वासोभ्यां वेष्टिते कुम्भे वासुदेवं समर्चयेत् ।
ब्राह्म एव च भूभागे परितो नवकाष्टके ।। 9.20 ।।
प्राचीन कुम्भनवके मध्यमे कलशे क्षिपेत् ।
नूर्याकान्तं पद्मरागं पुरुषस्तस्य देवता ।। 9.21 ।।
* कुम्भानां देवताः द्रव्याणि च .*
(8) नवकानां तथान्येषां क्रमाद्द्रव्यं च देवताः ।
कुम्भस्य वक्ष्यते ब्रह्मन् मध्यमस्य पृथक् पृथक् ।। 9.22 ।।
(8. नवानां च.)
वैडूर्य (9) मिन्द्रकान्तं च द्वयं (10) द्रव्यं तु देवता ।
वासुदेवश्चेन्द्र नीलोऽप्ययस्कान्तश्च तद्द्वयम् ।। 9.23 ।।
(9. मिन्दुकान्तं च द्वयं)
(10. द्रव्यस्य.)
देवता सत्यमूर्तिस्स्यात्प्रवालो वस्तु गारुडम् ।
सङ्कर्षणो देवता स्यात्पुष्यकं स्फटिकद्वयम् ।। 9.24 ।।
द्रव्यं देवोऽच्युतः पद्मरागः कनकमेव च ।
प्रद्युम्नो देवता तस्य वज्रं रजतमेव च ।। 9.25 ।।
अनन्तो देवता तस्य ताम्रं मुक्ता च वस्तुनि ।
देवता चानिरुद्धस्स्या त्सर्वकुम्भेषु मौक्तिकम् ।। 9.26 ।।
दिव्ये भागे दिशि प्राच्यामेकाशीतिघटास्पदे ।
नवके मध्यमे मध्यकलशे कदलीफलम् ।। 9.27 ।।
पनसाम्रं मातुलङ्गं (11) हव्यजम्बाककेसराः ।
बदराणि च तत्वात्मा देवता तस्य कथ्यते ।। 9.28 ।।
(11. भव्य.)
देवताऽद्रव्यमन्यत्र नवकेष्वष्टसूच्यते ।
क्रमान्मध्ये घटे द्रव्यं मातुलङ्गं सदाडिमम् ।। 9.29 ।।
पृथिवी देवता तस्य जम्बा नारङ्गमेव च ।
देवताऽपामदिष्ठात्री तक्कोलैला फलद्वयम् ।। 9.30 ।।
तेजस्वी पुरुषो देवः क्षीरिकामलकद्वयम् ।
द्रव्यं देवो जगत्प्राणो द्राक्षा खर्जूरजं फलम् ।। 9.31 ।।
द्रव्यं विष्णुपदं देवचूतं (12) पारा च दाडिमम् ।
देवो मनःफलं क्षुद्रपनसं वस्तु देवता ।। 9.32 ।।
(12. पाराव तान्वितम्, वासुदेवो मनः क्षुद्रपनसस्तु स देवता.)
अहङ्कारःफलं बिल्वकदल्योर्वस्तु देवता ।
बुद्दिस्सर्वेषु कुम्भेषु बदराणि च निक्षिपेत् ।। 9.33 ।।
अष्टाक्षरेण मन्त्रेण पञ्चोपनिषदा पुनः ।
कुम्भानामपि सर्वेषा मभिमन्त्रणमिष्यते ।। 9.34 ।।
उशीरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् ।
ह्रीबेरमगुरुं पिष्ट्वा कुम्बे तत्र विनिक्षिपेत् ।। 9.35 ।।
त्रैलोक्यमोहनं देव (13) मर्चयेन्मन्त्रवित्तमः ।
नवकेषु तथा न्येषु प्राच्यादिषु यथाक्रमम् ।। 9.36 ।।
(13. मच्युतम्.)
(14) जलतो वीरणीमूलं बभ्रुर्देवस्स (15) भाज्यते ।
कर्पूरकाश्मीरमुभौ द्रव्यं शौरिश्च देवता ।। 9.37 ।।
(14. जलदो वीरणी, जलजो विदारिणी, ततो विदिरणी.)
(15. भाष्यते.)
चम्पकं मुकुलं मांसी दासार्हश्चाधिदेवता ।
चन्दनं चन्दनं रक्त मन्नाधिपतिरच्युतः ।। 9.38 ।।
नुरपर्णी (16) रजो मौरं कर्दमो वस्तु देवता ।
(17) वैकुण्ठो गिरिजं मूलं प्रियङ्ग्वाश्च रजःकणाः ।। 9.39 ।।
(16. रजो मूरं.)
(17. वैकुंठगिरिजं मूलम्.)
पुरुषोत्तमदैवत्यं कुष्ठे द्वे द्रव्यमुच्यते ।
(18) मुकुन्दःकृष्णधवलो वक्ररूपी वृषाकपिः ।। 9.40 ।।
(18. मुकुन्दकृष्णधवलानगुरुश्च.)
तमालपत्रं सर्वेषु निक्षिपेत्पुरुषात्मना ।
पवमानादिभिर्मन्त्रेर्मन्त्रेयेत्तान् सकृत्सकृत् ।। 9.41 ।।
त्रत्येकं गन्ध (19) वस्तूनि फलन्यष्टै यथोदितम् ।
एकाशीति (20) घटग्रामे वारुणे ब्रह्मणः पदे ।। 9.42 ।।
(19.वस्त्राणि.)
(20.घटाग्रामे.)
*कुम्भेषु पूरणीया आपः.*
घटे वापीसरित्कूप ह्रदवृष्टि हिमापगाः ।
पत्युः पाथांसि चाहृत्य (21) तटाकस्य च निक्षिपेत् ।। 9.43 ।।
(21. तारकेषु च निक्षिपेत्.)
नवकानामथान्येषा मष्टानां मध्यमे घटे ।
पूर्वोक्तान्येव वाप्यादि नीराणि (22) क्रमशःक्षिपेत् ।। 9.44 ।।
(22. कलशे क्षिपेत्.)
(23) मध्यमार्न द्रव्यकलशान् सर्वानेव प्रपूरयेत् ।
नलिनीनिर्झराम्भोभिः मत्स्यकूर्मावपि द्वयम् ।। 9.45 ।।
(23. मध्यमान्, इत्यादि श्लोकद्वयं क्वचिन्नदृश्यते.)
निष्कद्वयपरिच्छिन्न काञ्चनेन विनिर्मितम् ।
कलशेष्वेव नवसु मध्यमेषु विनिक्षिपेत् ।। 9.46 ।।
मत्स्यादि रूपिणं (24) देवं वर्जयित्वाच भार्गवम् ।
यथोक्तकुम्भनवके क्रमेणैव सभाजयेत् ।। 9.47 ।।
(24. देवमर्चयित्वा च भार्गपम्. भाजनमिति च.)
* मध्यम नवककुम्भेषु नव धान्यानि.*
एकाशीति पदे सौम्ये मद्ये नवकमध्यमे ।
यमगोधूमकव्रीहि शालिमुद्गप्रियङ्गुकान् ।। 9.48 ।।
माषश्यामाकनीवारान् क्षिपेत्तत्र च पूजयेत् ।
देवेशं गरुडारूढं पद्मनाभं यथाविधि ।। 9.49 ।।
धान्यानि तानि चैकैक मन्येष्वष्टसु निक्षिपेत् ।
घटेषु मध्यभूतेषु क्रमात्सर्वत्र शालयः ।। 9.50 ।।
पूजयेद्वनमालां च शङ्खं चक्रं च कौस्तुभम् ।
पद्मं शार्ङ्गं गदां खड्गं क्रमादुक्तं घटाष्टके ।। 9.51 ।।
* आग्नेयादिदिक्कुम्भेषु पूरणीयद्रव्याणि.*
पङ्छा(25) शत्सुटेष्वग्नेरेकोनेषु तथा दिशि ।
मध्यमं कुम्भनवकमाघारेण प्रपूरयेत् ।। 9.52 ।।
(25. शीतिघटे.)
षट्स्वेन्द्रेषु च गोमूत्रं क्षीरं याम्येषु पुरुणे ।
दधि षट्सु तथा सौम्ये गोमयं षट्सु निक्षिपेत् ।। 9.53 ।।
चतुर्षु कुम्भेष्वाग्नेये कोणे वाप्युष्णमुच्यते ।
नैरुते पञ्चगव्यानि पञ्चामृतमथानिले ।। 9.54 ।।
ऐशाने सक्तुभिस्तेषु नारायणसभाजनम् ।
नैरृत्तौकोनपञ्चाशद्घटेषु ब्रह्मणःपदे ।। 9.55 ।।
तैलेन नवकं पूर्य (26) गन्धाद्भिष्षट्पुरस्थ्सिताः ।
घटसारद्रवैर्याम्ये लाजैःकुम्भेषु वारुणे ।। 9.56 ।।
(26. मांस्याद्भिः, प्राच्यां स्यात् इत्यपि पाठः.)
सौम्ये भिमन्त्रिताम्भोभिः कोणेषु गुळवारिभिः ।
यजेत तेषु कुम्भेषु वासुदेवं जगद्गुरम् ।। 9.57 ।।
मारुदैकोनपंचाञ्चाशद्घटेषु नवकं पुनः ।
पूर्य सर्षपतैलेन प्राच्यां षट्पाद्यपारिभिः ।। 9.58 ।।
याम्येषडर्घ्यैष्षट्कुम्भाः प्रतीच्याचमनाम्बुभिः ।
षट्सैम्ये (27) मङ्गलाम्बोभिः पूरयेत्कमलासन ।। 9.59 ।।
(27. मज्जनाम्बोभिः.)
कोणेष्विक्षुरस्तेस्तत्र समाराध्योऽनिरुद्धकः ।
एशानैकोनपंचाशद्घटेषु ब्रह्मणः पदे ।। 9.60 ।।
नवकं मधुभिःपूर्य प्राच्यां षट्सर्वगन्धकैः ।
शान्तिवारिभिरन्यत्र षट्कं (28) कोणे च नैरुते ।। 9.61 ।।
(28. कोणेषु.)
आग्नेये च स्थिताः कुम्भा नालिकेरजलैरपि ।
शार्वे च वायवीये च पीयूषैर्नालिकेरजैः ।। 9.62 ।।
यष्टप्यो हरिरेतेषु कुम्भेषु कमलासन ।
भागे तु मानुषे प्राच्यां कुम्भानां पञ्चविंशतिः ।। 9.63 ।।
मध्यमं पुरयेन्मृद्भिर्वक्ष्यमाणाभिरष्टभिः ।
क्षेत्रतीर्थाब्धिशैलेषु गजसूकरयोरपि ।। 9.64 ।।
वल्मीकवृषमोर्मृत्स्नान्यस्यते मध्यमे घटे ।
अष्टास्वन्येषु (29) कलशेष्वेकै कां तां विनिक्षिपेत् ।। 9.65 ।।
(29. ननकैष्वेकैकां.)
(30) अर्च्यश्च केशवस्तेषु क्रमादन्यत्र चोच्यते ।
सहदेवी वचा चैव शतमूला शतावरी ।। 9.66 ।।
(30. अभ्यर्च्यः.)
कुमारी च गुलूची च सिंही व्याघ्रीति चाष्टमी ।
मूलानि मध्ये चै तेषां कलशे मध्यमे क्षिपेत् ।। 9.67 ।।
एकैकमष्टास्वन्येषु तेषु नारायणार्चनम् ।
न्यग्रोधोमम्बराश्वत्थ जम्बुभिल्व (31) त्वचां रसाः ।। 9.68 ।।
(31. त्व चस्समाः.)
तथापलाशमधुक शिरीषाणामपि त्वचः ।
न्यसनीया घटे मध्ये प्रत्येकमितराष्टके ।। 9.69 ।।
पूज्यश्चमाधवस्तेषु तरूणां पल्लवा इमे ।
पलाशबिल्ववकुल कदम्बाम्रशिरीषजाः ।। 9.70 ।।
न्यग्रोधाश्वत्थजाश्चापि न्यसनीया विधेःपदे ।
एकैकमित रेष्वर्च्यो गोविन्दो जातिमल्लिकैः ।। 9.71 ।।
प्रियङ्गु पद्मवकुल नन्द्यावर्तक चम्पकाः ।
(32) कुन्दं चैतानि पुषाणि न्यसनीयानि मध्यमे ।। 9.72 ।।
(32. कुन्दं च, पुष्पाण्येतानि---पुष्पाण्येतेषाम्.)
सिद्धार्थो राजसिद्धार्थो वंशो गोरोचनापि च ।। 9.73 ।।
इन्द्रवेणुर्यवष्षष्ठश्शमी च चणक स्तथा ।
(33) एतानि मध्यमे कुम्भे एकैकमिति (34) रेषु तत् ।। 9.74 ।।
(33. एकैकं मध्यकुम्भेषु.)
(34. रेष्वपि.)
तेषु (35) पूज्यो मधुरिपुसरस्सी रुहसम्भव ।
तिलमारण्यं कं (36) ग्राम्यं जीरकद्वयमेव ।। 9.75 ।।
(35. पूजा मधुरिपोः.)
(36. ग्राह्यं.)
अतसीसम्भवं (37) चैव शतपुष्पं (38) कुमारकम् ।
ऋषिबीजं च कलशे मध्यमेऽन्यत्र पूर्ववत् ।। 9.76 ।।
(37. सम्भवच्छन्नं सम्भवं चिह्नं.)
(38. कुठाकरम्.)
तेषां त्रिविक्रमो देवो यष्टव्य स्साङ्गपीठकः ।
श्यामाकष्षाष्टिकश्शाली नीवारस्य च तण्डुलाः ।। 9.77 ।।
दुर्वाकुशेन्द्र वल्लीनामङ्कु राः पिप्पलस्य च ।
न्यस्यन्ते मध्यमे कुम्भे कुम्भेष्व न्यत्र पूर्ववत् ।। 9.78 ।।
देवता वामनस्तेषु कुशा (39) दिव्यौषधास्त्रयः ।
काशा मूलमुशिरस्य शरपुङ्खस्य मूलिका ।। 9.79 ।।
(39.दिव्येष्टुनः दिव्येषुनः.)
मूलिकास्त गरस्यापि तथापामार्गमूलिका ।
ते मध्ये च घटे (40) सर्वे घटेष्वन्यत्र पूर्ववत् ।। 9.80 ।।
(40. पूर्व.)
देवता श्रीधरस्तेषां तुलस्यौ च सितासिते ।
वेणुकेसरिणोःपत्रे पत्रे केतकबिल्वयोः ।। 9.81 ।।
शमीपर्णं तथा जातेर्मध्यमेऽन्यत्र पूर्ववत् ।
देवता च हृषीकेशो (41) द्वयं मुस्ताकचोरकम् ।। 9.82 ।।
(41. द्विधिमुस्ता.)
कुमुदोत्पलयोः कन्दं कह्लोरं शीतलीयकम् ।
न्यस्येन्मध्ये कुवलयं कुम्भेष्वष्टसु पूर्ववत् ।। 9.83 ।।
तेषां देवः पद्मनाभो मुद्गमाषयवाङ्कुराः ।
निष्पावतुवरीव्रीहिकुलुत्थानामथाङ्कुराः ।। 9.84 ।।
आढकस्य च कुम्भानां मध्यमेऽन्यत्र पूर्ववत् ।
दामोदरार्चनं तत्र शङ्ख (42) पुष्पी बला तथा ।। 9.85 ।।
(42. पुष्पफलं.)
विष्णुक्रान्ता सदाभद्रा पद्ममेकदलं वरम् (43) ।
सहा च सह (44) देवा च न्यसनीयाःविधेःपदे ।। 9.86 ।।
(43. मुरम्. खुरम्.)
(44. देव्यै.)
अन्यत्र (45) पूर्ववत्पूज्यो यज्ञनारायणो भवेत् ।
स्वेतार्कश्च तथैवाग्निभद्रा ब्रह्मसुवर्चला ।। 9.87 ।।
(45. देनवत्पार्वो.)
सरसा च (46) विरक्ता च पृश्निपर्णी स्थिरा तथा ।
एरण्डकं घटे मध्ये अन्यत्र स्याद्यथा पुरम् ।। 9.88 ।।
(46. विकर्ता च. सरक्ताच.)
अर्चनीयो हरिस्तत्र (47) सूरभिः पद्मकेसरं ।
पत्रमेला लवङ्गत्व ङ्नागकेसरमेव च ।। 9.89 ।।
(47. सुरभिः.)
लताजातिफले मध्ये न्यसनीया विधेःपदे ।
एकैकमितरेषु स्यात्तेषु कृष्णश्च देवता ।। 9.90 ।।
सुवर्णं रजतं ताम्रं प्रत्येकं निष्टपञ्चकम् ।
कृत्वा पद्माकृतिं कांस्यं दर्पणं चषकानि च ।। 9.91 ।।
अयोलवित्राद्याकारं त्रपुं सीसकपित्तले ।
त्रयं प्रकृतिरूपेण न्यस्यते मध्यमे घटे ।। 9.92 ।।
प्रत्येकमितरेष्वेतद्धय ग्रीवोऽधिदैवतम् ।
कुम्भेष्वन्येषु सर्वेषु पूरणं गन्धपारिभिः ।। 9.93 ।।
सहस्रकलशस्स्नाने देशिका बहवः स्मृताः ।
चत्वारो द्विगुणं वापि तेषां षोडश ऋत्विजः ।। 9.94 ।।
पुण्याहं वाचयित्वान्वगधिदेवार्चनं भवेत् ।
पञ्चोपनिषदैर्मन्त्रैस्सहस्रं सर्पिषाहुतीः ।। 9.95 ।।
शान्त्यर्थं मूलमन्त्रेण जुहुयात्समिदादिभिः ।
यावद्रजोभिर्हारिद्रैस्स्नपनं मधुविद्विषः ।। 9.96 ।।
मृत्स्नाभिर्मानुषे भागे प्रक्रम्य ब्रह्मणःपदे ।
रत्नोदकान्तं कलशैस्सहस्रेणाभिषेचनम् ।। 9.97 ।।
मृदा विष्णोर्नुकमिति स्नपनं मूलवारिभिः ।
तद्विष्णोरिति देवस्य कषाय कलशाम्बभिः ।। 9.98 ।।
(48) प्रथद्विष्णुरितीशस्य विद्यया पल्लवाम्बभिः ।
देवस्य त्वेति कुसुमैस्तवामित्यपिसर्षपैः ।। 9.99 ।।
(48. प्रविष्णुरिति मन्त्रेति.)
द्रुवः पात्विति मन्त्रेण स्नपनं तिलवारिभिः ।
भद्रं कर्णेतिमन्त्रेण षाष्टिकाम्बुभिराप्लवः ।। 9.100 ।।
न ते विष्णुरिति स्नानं कुश मूलाम्बभिर्हरेः ।
इरावतीति मन्त्रेण तुलसीदलवारिभिः ।। 9.101 ।।
मुस्ताम्बुभिरतो देवा अवन्त्विति चतुर्मुख ।
इदं विष्णुरिति स्नानं (49) उष्णैस्त्रीणिपदेति च ।। 9.102 ।।
(49. मुद्गेस्त्रीणि.)
शङ्खपुष्पाम्बुभिश्चे तैर्विष्णोः कर्माणि पश्यत ।
तद्विष्णोः परमिति सुरभ्यादिजलै स्तथा ।। 9.103 ।।
तिद्विप्रास इतिस्नानं लोहौर्भागे नृणामपि ।
दिव्ये भागे तु पौरस्त्ये एकाशीति घटास्पदे ।। 9.104 ।।
प्रागादि ब्रह्म भूम्यन्तं क्रमेण स्नानमिष्यते ।
* स्नपने दिक्कलशभेदेन मन्त्रभेदः.*
ऐन्ट्रे फलाम्बुभिः स्नानं यज्ञायज्ञीयमन्त्रकम् ।। 9.105 ।।
क्रमेण मन्त्राः कथ्यन्ते द्रव्य कुम्भाष्टके यथा ।
इन्द्राविष्णुपदे मन्त्रो मनीषापदलक्षितः ।। 9.106 ।।
पषट्ते विष्णुरित्येत त्तिस्रो वाच इतीदृशः ।
इषेत्वोर्जेति मन्त्रेण (50) सावित्री त्वमसीति च ।। 9.107 ।।
(50. स्तरिरित्वमितीति च.)
यस्मिन्विश्वानि विद्य च पर्जन्यायेति लक्षितः ।
एकाशीतपदे याम्ये स्नानं गन्धोदकैर्घटैः ।। 9.108 ।।
नारायणानुवाकस्य ऋग्भिरष्टाभिरादितः ।
व्यस्ताभिरष्टभिस्स्नानं सर्वाभि र्मध्यमेन तु ।। 9.109 ।।
दिग्भागे पश्चिमे ब्रह्म न्ने काशीति फटास्पदे ।
प्रागादि ब्रह्मभूम्यन्तं स्नानं (51) वाप्यादिभिर्जलैः ।। 9.110 ।।
(51. व्यापृतिभिर्जलैः.)
मन्त्राः क्रमेण वक्ष्यन्ते प्रतिद्रव्य घटाप्लवम् ।
या आप इति मन्त्रेण सिन्धुद्वीपेतिविद्यया ।। 9.111 ।।
(52) एते शतमृचा स्नानमिमं मे वरुणेति च ।
शं नो देवीरभीत्येष यासां राजेति (53) मन्त्रतः ।। 9.112 ।।
(52. एष ते च ऋचा.)
(53. मन्त्रकम्.)
समुद्र ज्येष्ठ मन्त्रेण यासां देवेति विद्यया ।
सूक्तेन वारुणेनैव स्नानं द्रव्य (54) घटैरि ति ।। 9.113 ।।
(54. घटेन तु.)
एकाशीति घटे सौम्ये वूर्वाद्यब्जपदावधि ।
धान्यानि वस्तु कुम्भानां नवानां मन्त्र उच्यते ।। 9.114 ।।
त्रातार मिन्द्रसाम्ना चमन्तश्चात्वा वहन्त्विति ।
मन्त्रोजितं त इत्येष आपो वहति लक्षितः ।। 9.115 ।।
मन्त्रश्च तावती त्येष स त्वं नो अग्निरित्यृचा ।
त्वं नो अग्न इति च महाव्याहृतय स्तथा ।। 9.116 ।।
अणोरणीयानित्यन्तो मन्त्रः स्नान विदौ क्रमात् ।
एकोन पञ्चाशत्कुम्भेष्वग्नेः कोणे यथाक्रमम् ।। 9.117 ।।
गोमूत्रादि घटे स्नाने मन्त्राणं कथ्यते क्रमः ।
गायत्री प्रथमा तासां पयोव्रत मनन्तरम् ।। 9.118 ।।
दधिक्राव्णेति च स्नानं गन्धद्वारामितीदृशम् ।
विष्णोरराटमिति च मूर्धानं दिव इत्यृचा ।। 9.119 ।।
हिरण्यगर्भमन्त्रेण आप्यायस्वेति विद्यया ।
घृतस्ना तेति मन्त्रश्च घृतस्नानविधौ क्रमः ।। 9.120 ।।
एकोनपञ्चाशत्कुम्भे पदे निरृतिगोचरे ।
मन्त्राःक्रमेण वक्ष्यन्ते वस्तुकुम्भेरथाप्लवे ।। 9.121 ।।
रक्षोघ्नमिति सामाद्यं पवित्रन्त इतीति च ।
भगवान् वासुदेवेति सामवेदव्रताह्वायम् ।। 9.122 ।।
(55) वै राजसाम कथितं तथा चैव पराजिताः ।
कथ्यते वायुकोणेऽपि मन्त्रास्स्नासविदौ तथा ।। 9.123 ।।
(55. वैय्याघ्र.)
(56) द्वादशाक्षरमन्त्रश्च द्रुपदा दिव इत्यसौ ।
अष्टाक्षराह्वयो मन्त्रश्शन्नोदेवीरिति स्मृतः ।। 9.124 ।।
(56. मन्त्रश्चाक्षरमन्त्र.)
हिरण्यपाणिरिति च वेदाहमिति च क्रमात् ।
ईशानकोणे मन्त्रोक्ति रानोनियुरिति ? स्मृतः ।। 9.125 ।।
श्रीसूक्तं मधु मान्नश्च मधुनक्त इतीति च ।
मधुवातेति कोणेषु मन्त्रक्लृप्तिरुदाहृता ।। 9.126 ।।
ब्राह्मेपदे तु सूक्तस्य पौरुषस्यादितःक्रमात् ।
अष्टासु द्रव्यकुम्भानामष्टानां मन्त्र इष्यते ।। 9.127 ।।
मध्यमे नवके पूर्वमष्टाभिश्शुद्धवारिभिः ।
स्नापयेन्मूलमन्त्रेण सहस्रेण घटैरिति ।। 9.128 ।।
स्नापिते देवदेवेशे (57) पश्चाद्रत्नघटाम्बुभिः ।
नूक्तेन पौरुषेणैन स्नापयेद्देशिकस्स्वयम् ।। 9.129 ।।
(57. पञ्चरत्न.)
घटैश्शुद्धोदकैन्यैस्स्नपनं मूलविद्यया ।
हरिद्राचूर्णसंपूर्णैःपञ्चविंशतिभिर्घटैः ।। 9.130 ।।
स्नपनं (58) सप्तदशभिर्यद्वाषोडशसंमितैः ।
यद्वा द्वादशभिः कार्यं नवभिर्वा यथावसु ।। 9.131 ।।
(58. पञ्चदशभिः.)
आराध्य देवमुचितं निवेद्य च महाहविः ।
होमस्सहस्त्रेराज्येन समिद्भिर्मूलविद्यया ।। 9.132 ।।
(59) अन्नैश्छतुर्विधैश्चैव प्रत्यृचं पुरुषात्मना ।
सूक्तेन तुष्टिं वस्त्राद्यैर्दे शिकानामनन्तरम् ।। 9.133 ।।
(59. अन्नैश्चतुर्गुणैश्चैव.)
सहस्रकलशस्नाने तत्सङ्ख्या स्वर्णदक्षिणा ।
तदर्धमधवा पादो यथाश्रद्धं यथावसु ।। 9.134 ।।
यावती दक्षिणा तेषां स्यादर्धमथ ऋत्विजाम् ।
सहस्रं ब्राह्मणा (60) नन्नैर्भोजयेद्दक्षिणामपि ।। 9.135 ।।
(60. नन्ते.)
तद्यात्तुष्टिकरीमन्यानागतानपि तोषयेत् ।
सेवां कुर्वन्तिये मर्त्याश्श्रद्धाभक्तिसमन्विताः ।। 9.136 ।।
देवस्य स्नानसमये सहस्रकलशाम्बुभिः ।
गङ्गादि (61) सरितां स्नानफलमश्नुवते महत् ।। 9.137 ।।
(61. स्नानफलदमश्नुते महतोमहत्.)
सहस्र कलशस्नाने यत्फलं राजराष्ट्रयोः ।
(62) पूजन्ते तदशेषेण प्रागुक्तमिति नोच्यते ।। 9.138 ।।
(62. प्रजानां तदशेषेण.)
महोत्सवफलनैतत्किञ्चित्तुल्यफलं स्मृतम् ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मे तन्त्रे चर्यापादे सपास्रकलशाभिषेक विधिर्नाम नवमोऽध्यायः.
-------******-------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_९&oldid=206973" इत्यस्माद् प्रतिप्राप्तम्