प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १६ चर्यापादः
अध्यायः १७
[[लेखकः :|]]
अध्यायः १८ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
सप्तदशोऽध्यायः.
-----
* जीर्णोद्धारविधिः.*
ब्रह्मा :---
प्रतिमानां तथा धाम्नां जीर्णानां भगवन्नहम् ।
उद्धारं श्रोतुविच्छामि तन्मे ब्रूहि यथातथम् ।। 17.1 ।।
* स्वयंव्यक्तादिष्वङ्गवैकल्ये समाधानम्.*
श्रीभगवान् :---
स्वायम्भवार्षदिव्येषु मानुषेषु चतुर्ष्वपि ।
अङ्गहानौ रत्नजेषु तत्तज्जाम्बानदैः पुनः ।। 17.2 ।।
समाधातव्यमेवाङ्गं न त्याज्यं शैलजेष्वपि ।
तद्वदेव समाधानं दारुजादिषु पञ्चसु ।। 17.3 ।।
* हीनाङ्गेषु पुनर्बिम्बसृष्टिः.*
(1) हीनाङ्गेषु तु बिम्बानि हित्वा तानि पुनस्सृजेत् ।
अङ्गमात्रसमाधाने सृष्टौ सर्वात्मनापि च ।। 17.4 ।।
(1. हीनाङ्गानि.)
कुम्भे शक्तिं (2) समुद्वास्य निर्माय च यथापुरम् ।
अधिवासादिकं सर्वं प्रतिष्ठायामिवाचरेत् ।। 17.5 ।।
(2. समावाह्य.)
* समाधियोग्यस्य बिम्बस्य न त्यागः. *
स्थितवत्स्वेषु (3) बिम्बेषु समाधिर्यदि शक्यते ।
न त्यागो युज्यते तेषां सर्वेषामेव पद्मज ।। 17.6 ।।
(3. सर्वेषु.)
* समाध्यभावे बिम्बस्य नवीकरणम्.*
त्यक्तं च लोहजं बिम्बं द्रावयित्वा पुनस्सृजेत् ।
* देवीनामविकालानां प्राचीनानामेव योगः.*
देवे जीर्णे पुनस्सृष्टौ देव्यःप्रच्यो यथास्थिताः ।। 17.7 ।।
ताभिरेव पुनर्देवो योज्यो नान्यास्सृजेत्पुनः ।
* प्राचीनदेवीयोगे पुनर्नोद्वाहः.*
नोद्वाहश्च पुनः कार्यस्सन्तते तानु पूजने ।। 17.8 ।।
* शक्तिमुद्वास्य प्रभापद्मासनादीनां समीकरणम्.*
प्रभापद्मासनादीनां वैकल्ये चलनेऽपि वा ।
आयुधेऽपि च चक्रादौ यष्टव्यो नासमाहिते ।। 17.9 ।।
उद्वास्य प्रतिमाशक्तिं मूलभेरे घटेऽपि वा ।
चक्रादेश्च समाधानं कार्यं तस्मिन् समाहिते ।। 17.10 ।।
संप्रोक्ष्य पूजयेच्चक्तिमावाह्य प्रतिमासु ताम् ।
बालालयं कल्पयित्वातत्र शैलादिवस्तुषु ।। 17.11 ।।
बिम्बे तु शक्तिमावाह्य जीर्णेभ्यः पूजनं हरेः ।
* त्यक्तस्य बिम्बस्य जले अवटे वा निक्षेपः.*
त्यक्तं च बिम्बं निखनेत् क्षितौ वाम्भसि निक्षिपेत् ।। 17.12 ।।
* प्रासादनवीकरणे भगवतो बालालये स्थापनम्.*
प्रासादे चापि शिथिले पूजयेद्बालवेश्मनि ।
उपेतं परिवारैस्स्वैर्देवं मूले यथा तथा ।। 17.13 ।।
* अजीर्णे ध्रुवबेरे अन्यत्र नोद्वासः.*
अजीर्णे ध्रुवबिम्बे तु जीर्ण्टे धामनि तत् स्थितान् ।
देवान्देवपरीवारान्मूलबेरे निवेशयेत् ।। 17.14 ।।
अजीर्णधामनिष्ठानां जीर्णेतु ध्रुवकौतुके ।
नोद्वासो न्यत्र कर्तव्यो देवादीनां चतुर्मुख ।। 17.15 ।।
* तथाकरणे दोषः.*
अजीर्णेनाङ्ग (4) हानौ च धामादौ नैव कल्पयेत् ।
भूयस्तरो (5) पि मर्त्येन व्यामोहाद्यदि कल्पयेत् ।। 17.16 ।।
(4. हीने.)
(5. भवेन्मर्त्यो.)
आत्महानिर्द्ध्रवा तस्य यजमानस्य (6) सान्वया ।
* प्रमादकल्पितस्य प्रासादादेः परिष्कृत्य सृष्टौ दोषाभावः.*
यदि प्रमाणरहितं प्रमादात्कल्पितं पूरा ।। 17.17 ।।
(6. सान्वयम्.)
प्रासादादि (7) पुनस्सृष्टौ कल्पये ल्लक्षणान्वितम् ।
* बहुबेरैकबेरेषु जीर्णोद्धारे यथापूर्वकल्पनम्.*
बहुबेरैरबेरेषु कल्पनं स्याद्यथापुरम् ।। 17.18 ।।
(7.तदाप्योर्ध्वं.)
बहुबेरेनैकबेरं नैकबेरे तथा परम् ।
* देवीविरहितस्य बिम्बस्य पुनस्सृष्टौ देवीयोगो वैकल्पिकः.*
देवीविरहितं पूर्वं बहुबेरं कृतं यदि ।। 17.19 ।।
भूयः प्रकल्पने तस्य देवीभ्यां सह वा विना ।
* अमानुषबिम्बादीनां पुनःपरिष्कारेपूर्ववदेव न्यासः.*
अमानुषं च बिम्बादि पूर्वं लक्षणवर्जितम् ।। 17.20 ।।
जीर्णोद्धारेऽपि कर्तव्यं तथैव न तदन्यथा ।
* तादृशेषु शयनभेरेषु पूर्ववदेव विधिः.*
शयनं वाऽऽसनं स्थानं यानं वा तद्यथापुरम् ।। 17.21 ।।
बिम्बस्य पुनरुद्धारस्तथैव स्यादमानुषे ।
* मानुषे तु विकल्पः.*
मानुषे तु स्थितादीनां बिम्बानामिच्छया भवेत् ।। 17.22 ।।
पुनस्सृष्टिर्न दोषाय तथा सति चतुर्मुख ।
* दिव्ये विमानादौ आकारप्रमाणादीवत् उपादान.
द्रव्यमपि सजातीयमेव.*
दिव्यं विमानं यद्वस्तु यन्मानं यादृशं पुरा ।। 17.23 ।।
तादृगेव पुनस्सृष्टौ नान्यथा तत्प्रकल्पयेत् ।
अन्यथा कल्पने दोषो काज्ञो राष्ट्रस्य च ध्रुवम् ।। 17.24 ।।
* आर्षमानुषयोर्विमानयोः उपादानद्रव्यविकल्पः.*
मानुषं सदनं चार्षं चैष्टकं वाथ मृण्मयम् ।
जीर्णं पुनस्समुद्धारे शैलेनेष्टकयापि वा ।। 17.25 ।।
* उपपीठादिषु परिवारेषु च कामचारः.*
उपपीठादिकं क्लृप्तं रक्षार्थं (8) वर्धयेद्बहिः ।
परिवारांश्च तत्रस्थानुपपीठे च वर्धिते ।। 17.26 ।।
(8. बन्धयेत्.)
स्थापयेन्मूलबेरस्य रक्षार्थत्वान्न दूषणम् ।
* चलितसालगोपुरादीनां पृद्धिह्रासावैच्छि कौ.*
सालगोपुरपीठादौ चलिते जीर्ण एव वा ।। 17.27 ।।
दृढं शिलादिभिःकुर्या द्विस्तीर्ण मथ वाऽन्यथा ।
* सद्यादिवेगेन नष्टानां प्रासादादीनां स्थलान्तरे कल्पनानुज्ञा.*
नद्यादिजलवेगेन चलिते नष्ट एव वा ।। 17.28 ।।
प्रासादादौ पुनस्थ्साने निर्बाधेऽन्यत्र कल्पयेत् ।
* प्रथमकल्पनपदेव द्वितीयकल्पनेऽपि मन्त्रः.*
या मूर्तिर्येन मन्त्रेण यादृशेनाधिकारिणा ।। 17.29 ।।
प्रथमे कल्पने सैव द्वितीये कल्पने भवेत् ।
मूर्तिस्सैव च मन्त्रं च स एव स्थापकः पुनः ।। 17.30 ।।
* अपूर्वकल्पने जीर्णोद्धारे च तुल्यफलता.*
अपूर्वकल्पने जीर्णसमुद्धारे द्वयोरपि ।
तुल्यं फलं कल्पनायां धामादेर्नास्तिसंशयः ।। 17.31 ।।
* तन्त्राधिकारिमूर्तीनां व्यत्यासे दोषः.*
तन्त्राधिकारिमूर्तीनां व्यत्यये कल्पने पुनः ।
नृणां नरपतेश्चापि राष्ट्रस्य च भवेत् क्षयः ।। 17.32 ।।
बहुबेरे प्रतिष्ठायां जीर्णोद्धारेऽयथापुरम् ।
* जीर्णोद्धारे नयनोन्मीलनादिनि षेधः.*
कर्मार्चां स्थापयेद्वेद्यां शाययेच्चापि मण्टपे ।। 17.33 ।।
(9) नाधिवासं जलेकुर्यान्नयनोन्मीलनं तथा ।
न तत्वसंहारोत्पादौ (10) सर्वं पूर्ववदाचरेत् ।। 17.34 ।।
(9.नाधिवासो जले कार्योन नेत्रो.)
(10. सर्वकर्माण्यथा, सर्वकर्म सदा.)
* उद्वासितशक्तेः पुनराधानम्.*
मूलबिम्बं समासाद्य प्राग्वत्सर्वं समाचरेत् ।
बालकौतुकमभ्यर्च्य यात्रा (11) मन्यत्र तद्गताम् ।। 17.35 ।।
(11. मूर्तिं च.)
शक्तिं कुम्भे समावाह्य कुम्भं धान्यस्थितं पुनः ।
अभ्यर्च्य समये प्राप्ते मूलबेरे गुरुस्स्वयम् ।। 17.36 ।।
शक्तिं निवेशयेच्छास्त्रदृष्टेन विधिना हरौ ।
कुम्भतोयावशेषेण परिवारप्रकल्पनम् ।। 17.37 ।।
उत्सवं कारयेदन्ते सर्वशान्तिकरो हिसः ।
* संप्रोक्षण निमित्तानि.*
ब्रह्मा :---
संप्रोक्षणनिमित्तं किं प्रकारो वास्य कीदृशः ।। 17.38 ।।
कथ्यतां भगवन्मह्यं जिज्ञासा येऽनुवर्तते ।
श्रीभगवान् :---
प्रासादे चाङ्गभङ्गादिसस्थाने नूतने कृते ।। 17.39 ।।
प्रतिमायां च पीठे च प्रभायां (12) चायुधेपि च ।
आराधने च विच्छिन्ने मासादौ कमलासन ।। 17.40 ।।
(12. च समाहिते.)
स्पर्शने प्रतिलोमाद्यैर्नित्याशौचविगर्हितैः ।
प्रतिलामानुलोमैश्च सूतैश्च रथकारकैः ।। 17.41 ।।
वैखानसैश्च संस्पृष्टे भार्गवागमपूजकैः ।
शैवादिभिश्च पाषंडैर्ब्रह्महत्यादिदूषितैः ।। 17.42 ।।
क्षय्यपस्मारिकुष्ठ्याद्यैः कृच्छ्रिभिर्मूलरोगिभिः ।
उदक्यादिभिरन्यैश्च शिल्पिभिस्स्पर्शदूषिते ।। 17.43 ।।
विण्मुत्ररुधिरापेयस्पर्शदोषे च मन्दिरे ।
जनने मरणे चैव श्वसृगाल (13) खराधिभिः ।। 17.44 ।।
(13. शवादिभिः.)
स्पृष्टे च बिम्बे तन्त्राणां सङ्करे समुपस्थिते ।
एवमादिषु चान्येषु संप्रोक्षणविधिर्भवेत् ।। 17.45 ।।
* निमित्तेप्यसंप्रोक्षणे अनिष्टनिर्देशः.*
धामादिकमसंप्रोक्ष्य प्रतिमादिकमप्यथ ।
अर्चने राष्ट्रमधिपः प्रजाश्च सदनं हरेः ।। 17.46 ।।
शून्यं स्यादिरिण प्रायमुपद्रवसमाकुलम् ।
दुर्भिक्षव्याधिकलहमृति प्रायास्स्युरीतयः ।। 17.47 ।।
तस्मात्संप्रोक्षणं कार्यं धामादीनां यथाविधि ।
* संप्रोक्षणविधिः.*
विष्णोर्नुकमिति स्वच्छैर्जलैः प्रोक्षण मिष्यते ।। 17.48 ।।
अब्लिङ्गैरितरैर्मन्त्रैराचार्यो ब्राह्मणैस्सह ।
ध्रुवबेरादिबिम्बानां शोधने क्षालने कृते ।। 17.49 ।।
इदं विष्णुरितिप्रायैर्मन्त्रैः परमपावनैः ।
स्नपनं च यथाशक्ति कुर्यात् स्नपनपूर्वकम् ।। 17.50 ।।
(14) द्वारतोरणकुम्भादियजनं तदनन्तरम् ।
धान्यपीठे मण्डपस्य मध्यभागे सुशोभिते ।। 17.51 ।।
(14. द्वारतोरणकुम्भाधीन् पुजयेत्समनन्तरम्.)
स्थापयित्वा महाकुम्बं सूत्रावस्त्रादिवेष्टितम् ।
पूर्वोक्तवर्त्मना तस्मिन् परमात्मानमर्चयेत् ।। 17.52 ।।
कुण्डे वा स्थण्डिले वापि जुहुयीत्समिदादिभिः ।
प्रत्येकमष्टोत्तरशतं शान्तिहोमो यथापुरम् ।। 17.53 ।।
बध्नी यात्कौतुकं बिम्बे प्रोक्षयेदपरेऽहनि ।
प्रभातसमये प्राप्ते शोभने देशिकोत्तमः ।। 17.54 ।।
स्थापितं कुम्भमास्थाय प्रादक्षीण्येन मन्दिरम् ।
नीत्वा देवस्य पुरतो धान्यपीठे (15) निवेश्य च ।। 17.55 ।।
(15. निवेद्य.)
कूर्चेन तोयमादाय कुम्भस्थं मूलविद्यया ।
पञ्चोपनिषदैर्मन्त्रैरब्लिङ्गैरितिरैस्तथा ।। 16.56 ।।
शान्तिमन्त्राणि समये पठेयुर्वि प्रसत्तमाः ।
ब्राह्मणान् भोजयेच्चापि यथाशक्ति च दक्षिणा ।। 16.57 ।।
आचार्यदक्षिणा चापि दशनिष्कावरा तदा ।
सद्यो वा सकलं कुर्यान्निशि वा दिवसेऽपि वा ।। 16.58 ।।
(16) न तिथि र्न च नक्षत्रं कालवेला न विद्यते ।
सद्य एव तु कर्तव्य मिति शास्त्रस्य निश्चयः ।। 16.59 ।।
(16. इदं पद्यं बहुत्रन.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे जीर्णोद्धार संप्रोक्षण विधिर्नाम सप्तदशोऽध्यायः.
----- ****** ------