प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ७ चर्यापादः
अध्यायः ८
[[लेखकः :|]]
अध्यायः ९ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-अष्टमोऽध्यायः
अष्टमोऽध्यायः.
-----
* महाभिषेकाख्य स्नपनम्.*
ब्रह्मा :---
राज्ञोराष्ट्रस्य मर्त्यानां यदभ्युदयसाधनम् ।
यच्चोत्पात प्रशमनं व्याधीनं चापनोदनम् ।। 8.1 ।।
यदभिप्रेतमखिलं साधयत्य विलम्बितम् ।
कुर्वतां भगवन् तन्मे तदर्चन मनुत्तमम् ।। 8.2 ।।
कथ्यतां मयि चेदस्ति दया परम पूरुष ।
रहस्यमपि तन्मह्य माख्येयं जगतो हितम् ।। 8.3 ।।
श्रीभगवान् :---
महाभिषेको नामाग्र्यं स्नपनं (1) कमलासन ।
विषुवे सङ्क्रमे चैव ग्रहणे चायनद्वये ।। 8.4 ।।
(1. मम संमतम्.)
द्वादश्यां श्रवणे चैव तथा कर्तु स्त्रिजन्मसु ।
दिनत्रये व्यतीपाते रोहिण्यां च तिथित्रये ।। 8.5 ।।
दर्शेच पौर्णमास्यां च पुनर्वस्वोर्विशेषतः ।
पञ्चम्यां शुभनक्षत्र तिथिवा रेषु चाब्जज ।। 8.6 ।।
प्रयुज्यमानं सर्वार्थ साधनं सर्वशान्तिदम् ।
* स्नपनत्रै विध्यम् *
कर्तव्यं तत्त्रिधा ब्रह्मन्नुत्तमाधममध्यमम् ।। 8.7 ।।
जात्युत्कर्षं धनोत्कर्ष मथवावेक्ष्यतत्ववित् ।
प्रयुञ्ञीतूत्तमं स्नान मितरेष्वितरद्भवेत् ।। 8.8 ।।
* अङ्कुरन्यासकौतुक बन्धाधिपासाः पूर्वेद्युस्सद्योवा.*
पूर्वेद्यु रङ्कुरन्यासो बध्वा कौतुकमङ्गलम् ।
अधिवासश्च बिम्बस्य सद्यो वा सकलं भवेत् ।। 8.9 ।।
* स्नपन प्रतिमाविकल्पः.*
स्नपनं (2) प्रतिमायास्स्यादधिवासश्च तुर्मुख ।
तीर्थप्रतिकृतौ वापि पूर्वालाभेऽधिवासयेत् ।। 8.10 ।।
(2.स्नपनं प्रतिमायां.)
यद्वोत्स वार्थप्रतिमां बलिबिम्ब मथापिवा ।
बिम्बं कर्मार्थमथवा
* उक्तबिम्बाभावे कुशकूर्चकम्.*
असत्त्सकुशकूर्चकम् ।। 8.11 ।।
* लेपमृण्मयादि प्रतिमाधिपासे विशेषः.*
लेपमृण्मयभित्तिस्थ पटस्थेषु च दर्पणम् ।
कूर्चं मूर्त्यन्तराभावेक्लुप्तिरेषा सनातनी ।। 8.12 ।।
* स्नपनमण्डप लक्षणम्.*
प्रासादस्या ग्रतःकुर्यात्ततस्स्नपन मण्डपम् ।
दशहस्त प्रविस्तारं द्विगुणेनायतं शुभम् ।। 8.13 ।।
चतुर्द्वारं चतुर्दिक्षु चतुस्तोरण भूषितम् ।
सर्वावरण भूष्वेव दिक्षु सर्वासु वा भवेत् ।। 8.14 ।।
क्लुप्ते वा मण्डपे कुर्या दवकाशानु सारतः ।
विभज्य तत्त्रिधा कुर्या त्तृतीयेऽoशेऽथ पश्चिमे ।। 8.15 ।।
अवलम्ब्य ब्रह्मसूत्रं चतुरश्रं समन्ततः ।
चतुर्हस्तां स्नानवेदीं हस्तोत्सेधां शिलादिभिः ।। 8.16 ।।
उपानहादिसंयुक्तां दर्शनीयां सलक्षणाम् ।
उपरिष्टाच्च वलयं वृत्तं वा चतुरश्रकम् ।। 8.17 ।।
प्रादेशेन प्रविस्तीर्णं ततमष्टाङ्गुलेन वा ।
षडङ्गुलेन वा ब्रह्मन् चतुरङ्गुल मुन्नतम् ।। 8.18 ।।
(3) वेदिकोपरि तद्धारि कुल्यामाश्वभ्र मेदिनीम् ।
मृण्मयादिषु बिम्बेषु बहिर्वेदी प्रकल्पनम् ।। 8.19 ।।
(3. वेदिरो परि चाधारा कुल्यामा.)
(4) एकबेरे तु न बहिस्स्ना नवेदी प्रकल्पनम् ।
* मण्डपालङ्कारः.*
दुकूलक्षौमवसनै र्मण्डपं सर्वतोदिशम् ।। 8.20 ।।
(4. "एकबेरे" इतीदमर्धं क्वचिन्न)
शोभयेत्पूर्ण कुम्भाद्यैस्तो (5) रणैश्च विभूषयेत् ।
वेष्टयेद्दर्भ मालाभि र्मुक्तादामानि लम्बयेत् ।। 8.21 ।।
(5. तोरणानि.)
आस्थानमण्डपे (6) स्थाने तथाचैवार्ध मण्डपे ।
* गृहार्चायां विशेषः.*
तोरणादि न कर्तव्यं गृहर्चायां तथैव च ।। 8.22 ।।
(6. मण्डपस्थाने.)
* नित्यस्नपने अङ्करकौतुक चूर्णस्नपनादिनिषेधः.*
नित्ये च स्नपने नापि कौतुकं नाङ्कुरार्पणम् ।
निशाचूर्णैर्नस्नपनमिष्यते
* अर्घ्यादि दीपान्तपूजासु उपकरणोपकल्पनम्.*
मण्डप (7) स्थलम् ।। 8.23 ।।
(7.स्थले.)
गोमयाम्बोभि (8) रालिप्य सुधाचूर्णैश्च शोभयेत् ।
दीपाना कोपयेत्तत्रन्यस्येद ङ्कुरपालिकाः ।। 8.24 ।।
(8. रालिपै.)
कोणे रौद्रे मण्डपस्य जलद्रोण्यादिभाजनम् ।
कल्पयेद्गालि तस्वादु सुगन्धि जलपूरितम् ।। 8.25 ।।
पवमानादि भिस्सूक्तैर्मन्त्रितं सापिधानकम् ।
वेदिदक्षिणतो भूमा वुपस्नानाम्बु कल्पनम् ।। 8.26 ।।
अर्घ्यादि दीपपर्यन्तं पूजाद्रव्याणि कल्पयेत् ।
चन्दनार्द्राणि सूत्राणि चतुर्दश निपातयेत् ।। 8.27 ।।
प्रागायतानि तावन्ति सूत्राण्येव चतुर्मुख ।
उदगायतानि सन्त्येवं कोष्ठान्ये कोनसप्ततिः ।। 8.28 ।।
शतं च तेषामा (9) याम विस्तारं षोडशाङ्गुलम् ।
धान्यपीठा नुरूपं वा कलशानां चतुर्मुख ।। 8.29 ।।
(9. यामं विस्तारं.)
दिक्ष्वष्टानु तथा मध्ये प्रत्येकं नव भूमिषु ।
नव कोष्ठानि कुम्भानां पदानि कमलासन ।। 8.30 ।।
एकमेकाधिकाशीति कोष्ठानि कलशास्पदम् ।
अन्यान्यष्टोत्तराशीती रथ्यां सम्मृज्य कल्पयेत् ।। 8.31 ।।
* पीठिकोचितधान्य परिमाणम्.*
व्रीहिभिःपीठिकां कुर्यात्कोष्ठभूषु पृथक्पृथक् ।
आढकेन तदर्धेन तदर्धार्धेन (10) वा भवेत् ।। 8.32 ।।
(10. भावयेत्.)
पीठिका धान्यतुर्यांशास्तण्डुलाः पीठिकोपरि ।
तत्तुर्यां शास्तिलास्तेषां भवेयुरुपरि स्थिताः ।। 8.33 ।।
द्वौ द्वौ कु शाग्रौ (11) प्रत्यस्येत् पीठिकासुचतुर्मुख ।
* कलशस्वरूपम्.*
सौवर्णा राजतास्ताम्रा मृण्मया वा यथावसु ।। 8.34 ।।
(11. प्रत्यस्य वीधिकासु.)
कलशा लक्षणोपेताः पक्वबिम्बफलोपमाः ।
अच्छिद्रा स्स्वनव नश्च कालमण्डल वर्जिताः ।। 8.35 ।।
अभिन्ना मृण्मयाःकुम्भाःपाषाण स्फोटवर्जिताः ।
* कलशेषु पूरणीयद्रव्यमानम्.*
द्रव्यकुम्भा द्रोणपूर्णास्तदर्धेनाथवाऽथवा ।। 8.36 ।।
पादेन कलशाश्शिष्टाः पूर्यावार्याढकेन तु ।
* कुम्भानां सूत्रविष्टनम्.*
प्रक्षाल्य विष्णुगायत्र्या द्रव्यकुम्भांस्तथेतरान् ।। 8.37 ।।
स्थापयित्वा करतले सव्येऽसव्येन पाणिना ।
(12) इन्द्रमरुद्वमन्त्रेण तन्तुना परिवेष्टयेत् ।। 8.38 ।।
(12. इन्द्रंनत्वेतिमन्त्रेण.)
* कुम्भवेष्टने तन्तूनामन्तरालमानम्.*
तन्तूनां विष्टितानां स्या दन्तरालं यवा न्तरम् ।
अर्धाङ्गुलान्तरालं स्या द्यद्वैकाङ्गुल मन्तरम् ।। 8.39 ।।
कलशास्पदमेदन्याःपश्चिमे धरणीतले ।
धान्यपीठं विधायास्मिन् कलशानधिवासयेत् ।। 8.40 ।।
(13) धान्यपीठे ततस्तस्मिन् कुशाना स्तीर्य विश्वतः ।
प्रागग्रानु दगग्रांश्च तेषु कुम्भानधोमुखान् ।। 8.41 ।।
(13. धान्यपीठे.)
ओमित्युच्चार्य विन्यस्येन्नव भूषु यथोत्तरम् ।
(14)न्यस्ताना मपि कुम्भाना मुपरिष्टाद्यथापुरम् ।। 8.42 ।।
(14. नवानामपि.)
दर्भांस्तृणी यादाचार्योमन्त्रेण परमेष्ठिना ।
प्रोक्षयेदर्घ्यतोयेन प्राङ्मुखः पुरुषात्मना ।। 8.43 ।।
विश्वमन्त्रेण विरिरे दक्षता (15) न धिपासिते ।
उत्तानि तेषु कुम्भेषु निवृत्या (16) ह्वोनविद्यया ।। 8.44 ।।
(15.न्यधिपासयेत्.)
(16.ह्वय.)
(17)सर्पिषा ष्टोत्तरशतं विष्णुगाय त्रियाकृते ।
होमे हुताज्य शेषेण स्नपनद्रव्यसेचनम् ।। 8.45 ।।
(17. "सर्पिषा" इत्यतः पूर्नं. "आह्वानविद्यया" इत्यतः अनन्तरं केषु चित्कोशेषु अधिकपाठतया श्लोकद्वयं दृश्यते. तत्र तस्य सङ्गतिं प्रामाणिका विभानयस्तु. यथा---अस्थिरत्नं सिरा तन्तुर्मांसं मृत्स्ना प्रकीर्तितम् । शोणइतं कर्तमृद्भस्तु जलं मेदस्तथैन च ।। कूर्चं वै शुक्लमित्युक्तं चर्मणाम्बरवेष्टनम् . तत्तत्प्रतिकृतिर्जीनः क्रमादेनं स्मरेद्बुधः ।।---इति,)
घृतादिस्नपनद्रव्यै (18) र्वस्त्रपूतैः परिष्कृतैः ।
पूरयेत्क लशांस्तत्तन्मन्त्रेःपूर्णान् समुद्धरेत् ।। 8.46 ।।
(18. रस्त्र.)
सर्वमन्त्रेण विश्वात्मन् कुम्बान् सप्तददश्धोतान् ।
द्रव्यकुम्भान् धान्यपीठे स्थापये द्विष्णुपूर्वया ।। 8.47 ।।
गायत्र्या च चतुष्षष्टि द्वादशाक्षरविद्यया ।
उदकुम्भान् क्रमेणान्यान् प्रङ्मुखो वाप्युदङ्मुखः ।। 8.48 ।।
* कुम्भानां न्यासक्रमः.*
नवके मध्यमे स्थाने स्थावनी (19) यास्तु मध्यमे ।
घृतकुम्भं स्थापयित्वा पदेपौत्रामणे ततः ।। 8.49 ।।
(19. ये तु.)
उष्णोदकुम्भं विन्यस्ये द्रत्न कुम्भ मनन्तरम् ।
फलकुम्भं यमपदे लोहकुम्भं तु नैरृते ।। 8.50 ।।
प्राचेतसे मार्जनाम्भः कुम्भं गन्धाम्बुमारुते ।
अक्षताम्बु च कौ बेरे पदे शार्वे यपोदकम् ।। 8.51 ।।
प्राच्यां तु कुम्भनवके मध्ये पाद्य घटं (20) स्यसेत् ।
अर्घ्य कुम्भं पदे याम्ये पदे प्राचेतसे पुनः ।। 8.52 ।।
(20. पदे.)
उपस्पर्शन पानीयं पञ्चगव्य मुदक्पदे ।
अग्नेय कुम्भनवके मध्ये दधि घटं न्यसेत् ।। 8.53 ।।
नैरृते मध्यतःक्षीरं वायवीये घटं मधोः ।
कषाय कुम्भमैशाने सर्वत्र परितो घटान् ।। 8.54 ।।
शुद्धोदकांश्चतुष्षष्टि मष्ठावष्टौ निवेशयेत् ।
सप्तभिः पञ्छभिर्वापि यद्वा दर्भौस्त्रिभिःकृतान् ।। 8.55 ।।
कूर्चान् कुम्भेष्वपागग्रान् निक्षिपेल्ल क्षणान्वितान् ।
महा कुम्भे कुशैःकूर्चं चतुर्विंशतिभिः कृतम् ।। 8.56 ।।
चक्रमन्त्रेण तान् (21) कुम्भान् शरावैरपिधान येत् ।
वासोभि र्द्रव्यकलशा न्युपासुपास इत्यृचा ।। 8.57 ।।
(21. सर्वान् शरावेणापि.)
कण्ठेषु वेष्टयेदन्यान् वासोभि स्छादयेन्नवैः ।
* अधिपासितस्य देवस्योत्थापनम्.*
अधीयानैस्त्रयीविद्यां विद्वद्भि र्ब्राह्मणैस्सह ।। 8.58 ।।
ऋत्विग्भि स्सहदेवस्य यायान्मन्त्र विदन्तिकम् ।
ऋत्विजो देवमुत्थाप्य गुरुश्चोत्तिष्ठ विद्यया ।। 8.59 ।।
साम्नारथन्त राख्येन ब्रह्मयाने गुरुस्स्वयम् ।
स्थापयेदृत्विजैस्सार्धं ब्राह्मणै र्वेदपारगैः ।। 8.60 ।।
* स्नानासने निवेशनम्.*
शिभिकायां स्थापयित्वा मृद्वास्तरण कल्पिते ।
निवेशमेयुः प्रतिमां स्नान वेदितले (22) शुचौ ।। 8.61 ।।
(22. शुभे)
* स्नानोपचाराः.*
पुण्याहं वा चयेत्पश्चात्पञ्चकाल परायणैः ।
अयुग्मैस्तोषयेद्वित्तैस्तान्विभूत्यनुसारतः ।। 8.62 ।।
द्वारतोरण कुम्भादीन् समभ्यर्च्य यथापुरम् ।
द्वारेष्व ध्ययनं नृत्तं वाद्यं गेयं प्रवर्तयेत् ।। 8.63 ।।
सर्पिषा जुहुयादगनौ यावत्कलशसङ्ख्यया ।
मूलमन्त्रेण जुहुया च्चरुं पुर्वेक्तसझ्ख्यया ।। 8.64 ।।
नृ सूक्तेन समभ्यर्च्य कलशान् स्थापितान् गुरुः ।
अर्घ्यादि भिस्तथा देवं
* घृतारोपणम्.*
घृतारोपण माचरेत् ।। (23) 8.65 ।।
(23. "आचरेत्"।। इत्यनन्तरं. "सप्तधातूनि देहानां कुम्भेषु कल शेषुच । सर्वतस्संस्मरेद्भ्रह्मन्नाचार्यस्तदनु प्रभोः" इतीदंपद्यंक्वचित्. कोशे परं वर्तते ।। )
दन्तकाष्ठं गन्धतैलं तथामलकवारि च ।
वस्त्रं दत्वाचोत्तरीय मर्घ्याद्यै (24) रर्चयेत्पुनः ।। 8.66 ।।
(24. धूपयेत्पुनः.)
दीपान्तमर्चनं कृत्वा पाद्यकुम्भ मुखै र्घटैः ।
घृतकुम्भान सानैश्च स्नापये (25) द्दे शिकोत्तमः ।। 8.67 ।।
(25. देशिकःक्रमात्)
छिन्नैकतन्तु मुद्धृत्य पाद्यकुम्भं समर्चितम् ।
पुष्पैर्दद्यात्करतले देशिकेन्द्रस्य मूर्तिपः ।। 8.68 ।।
कूर्चमादाय कुम्भस्थं (26) स्वहस्ते देशिकोत्तमः ।
अवागग्रेण कूर्चन तीर्धै र्ब्रह्मादि भिस्ततः ।। 8.69 ।।
(26. तद्धस्ते.)
* स्नपनमन्त्राणां निर्देशः.*
(27)शुभैर्वैष्णव गायत्र्यास्नापयेत्पाद्य वारिभिः ।
तद्विष्णुरितिमन्त्रेण स्नापयेदर्घ्यपारिभिः ।। 8.70 ।।
(27. शुद्धैः.)
न तेविष्णु रितिश्रुत्याकुम्भेनाचमनाम्बुना ।
विष्णोः क्रमेति मन्त्रेण पञ्चगव्याभिषेचनम् ।। 8.71 ।।
दधिक्रा विण्णयजुषा दध्ना देवभिषेचनम् ।
साम्ना पयो पृतेनैव पयसा मधुना पुनः ।। 8.72 ।।
मधुवातेति मन्त्रेण स्नपनं मधुविद्वषः ।
ओषध्य इतिमन्त्रेण (28) कषायाम्भोभिषेचनम् ।। 8.73 ।।
(28. कषायौरभिषेचयेत्.)
(29) तद्विष्णो रिति मन्त्रेण स्नानंमुष्णाम्बुधारया ।
फलिनीत्यनुवाकेन स्नपनं फलवारिभिः ।। 8.74 ।।
(29. त्वं विष्णुरिति.)
शं नोदेवीरिति स्नानं मन्त्रिदैर्मार्जनाम्बुभिः ।
सावित्र्याक्षतपाथोभिस्त्रातार मिति सामभिः ।। 8.75 ।।
रत्नोदकैर्लोहतोयैर्महाव्याहृतिविद्यया ।
गन्धद्वारेति मन्त्रेण स्नपनं गन्धवारिणा ।। 8.76 ।।
शतधारेति मन्त्रेण स्नानं स्याद्यववारिभिः ।
(30)घृत स्नातेति मन्त्रेण घृतेन स्नपनं हरेः ।। 8.77 ।।
(30. घृतनत्येति.)
अथवा पौरुषै स्सूक्तैःक्रमात्पा द्यादिपारिभिः ।
ऋग्भिष्षोड शभिस्स्नान मृचेदं विष्णुरित्यपि ।। 8.78 ।।
अष्टाक्षरेण वा यद्वा द्वादशाक्षरविद्यया ।
विष्णुगायत्रिया वापि स्नानं यद्वा चतुर्मुख ।। 8.79 ।।
स्वमूर्ति विद्यया वापि स्नपनं मधुविद्विषः ।
क्षालनं च घृत (31) स्नाने सामान्यै कुष्णवारिभिः ।। 8.80 ।।
(31. स्नानैः.)
पाद्यादि द्रव्य कुम्भाना (32) मुद्धारेष्पन्तरा न्तरा ।
शुद्धोद कुम्भैरन्यैश्च स्नानमष्टभि रष्टभिः ।। 8.81 ।।
(32. मुत्तरेषु.)
अष्टाक्षरेण मन्त्रेण भवेद्देवस्य पद्मज ।
उपस्नानं तथा प्लोतं वस्त्रं चैपूत्तरीयकम् ।। 8.82 ।।
अर्घ्यं पाद्यं तथाचामं (33) गन्धं पुष्पं च धूपकम् ।
दीपं चैतानि देयानि प्रतिद्रव्य (34) घटाप्लवम् ।। 8.83 ।।
(33. फलं पुष्पं च.)
(34. घटाप्लवे.)
उद्धरेद्द्रन्व कलशान् विष्णुगायत्रिविद्यया ।
(35)शुद्धोदकांश्च कलशान् द्वादशाक्षर विद्यया ।। 8.84 ।।
(35. `शुद्धोदक' इत्यर्धक्वचिन्नास्ति.)
हरिद्रा तण्डुलै स्स्वर्ण चूर्णैः कुम्भान् ससूत्रकान् ।
पूरयेन्नव निर्दोषान् सप्तवा पञ्च वाथवा ।। 8.85 ।।
त्रीण्येकं (36) कुम्भमथवा ते च स्थाप्याः परिव्यये ।
(36. त्रीण्येन.)
सापिधानेषु कुम्भेषु सकूर्चेषु समर्चयेत् ।। 8.86 ।।
श्रियं कुम्भान् समुद्धृत्य श्रीसू क्तेनाभिषेचयेत् ।
* चूर्णस्नानम्.*
पूर्णाहुतिर्यथा होमेचूर्णैस्स्नासं तथाभवेत् ।। 8.87 ।।
* तच्चूर्णधारणे फलम्.*
पासुदेवतनुभ्रष्टान् चूर्णान् परमपावनान् ।
येवहन्ति शिरोभिस्स्वैर्नरा निर्धूतकल्मषाः ।। 8.88 ।।
तेयान्ति (37) वैष्णवं स्थानं पुनरावृत्तिवर्जितम् ।
* अभिषेकजलपाने फलम् *
अभिषेक जलं विष्णो र्ये पिबन्ति वहन्ति (38) वा ।। 8.89 ।।
(37. परमं.)
(38. च.)
ते सर्वितीर्थाभिशेक फलमश्नुवते महत् ।
कृत्वा प्रदक्षिणं नत्वास्तुत्वा स्तोत्रेण देशिकः ।। 8.90 ।।
तत स्सहस्र धाराभि स्स्नापयित्वा जनर्दनम् ।
नीराजनान्तमिष्ट्वैवं
* अलङ्कारासनम्.*
ततोऽलङ्कार विष्टरे ।। 8.91 ।।
यजेत मात्रादानान्तं मात्रासङ्ख्या परिव्ययः ।
* मात्राद्रव्य परिमाणम्.*
खारिद्रोणं तदर्धं वा देयास्स्युर्देशिकाय ते ।। 8.92 ।।
* भोज्यासने भोज्यभेदः.*
चतुर्विधानि चान्नानि भोजयेद्भो जनासने ।
होमान्त मर्चयेद्देवं देशिकेन्द्रो यथाविधि ।। 8.93 ।।
स्नपनान्ते ततो देवं सुखमासीन मासने ।
याचेत याजमानोपि सर्वमिष्टं जनार्दनम् ।। 8.94 ।।
दक्षिणां देशिकेन्द्राय सुवर्णशतनिष्ककाम् ।
तदर्धं पादमथवा दद्याद्वि (39) त्तानु सारतः ।। 8.95 ।।
(39. द्यानु.)
कुर्यादा चार्यसात्सर्वं द्रव्यं पूजाङ्ग माहृतम् ।
वस्त्रादिकं तथान्येषां ऋद्विजां तुष्टिमावहेत् ।। 8.96 ।।
नृत्तगेयरतानां च तथा स्वाध्यायशालिनाम् ।
ब्राह्मणानां यथा तुष्टि स्तथा (40) वित्तं विसर्जयेत् ।। 8.97 ।।
(40. वित्तविसर्जनम्.)
* स्नपनभेदनिरूपणम्.*
अथमोत्तममेतत्तुस्नपनं परिरीर्तितम् ।
कोणेषु कुम्भैर्द्वात्त्रिंशत्केवलोदकपूरितैः ।। 8.98 ।।
तैर्विहीनं हरेस्स्नानं ज्ञेयन्त्वधममध्यमम् ।
शुद्धोद कुम्भेर्यद्धीनं सर्वेस्तदधमाधमम् ।। 8.99 ।।
* कुम्भेषु क्षेपणीयद्रव्याणि तन्मात्रा च.*
पाद्यकुम्भे तथा चार्घ्ये तथोपस्पर्शनाम्भसि ।
कुम्भे कषायफलयोः कुम्भे चाक्षतगन्धयोः ।। 8.100 ।।
एकैकस्मिन् घटेष्वेषु द्रव्याणामष्टकं क्षिपेत् ।
पाद्यादिषु क्रमाद्द्रव्यं तत्प्रमाणं च कथ्यते ।। 8.101 ।।
तुलसी च तथा पद्मं दूर्व च स्यात्तथाऽक्षतम् ।
श्यामूकं विष्णु (41) पर्णीं च भिल्वपत्राणि चन्दनम् ।। 8.102 ।।
(41. पर्णंच.)
द्रव्याणि चन्दनं मुक्त्वा मुष्टिमात्राणि तत्फलम् ।
सिद्धार्थं चाक्षतं चैव कुशाग्रं च तथा फलम् ।। 8.103 ।।
यवास्तिलाश्चन्दनं च प्रसवाश्च सुगन्धयः ।
(42)फलं सुपक्व मेतेषु चन्दनं च त्रिनिष्ककम् ।। 8.104 ।।
(42. फलेषु पक्वमेष्वेम्.)
शिष्टानि मुष्टिमात्राणि तक्कोलं (43) चम्पकस्य च ।
मुकुलं घनसारं च जातिरेलाफलानि च ।। 8.105 ।।
(43. चन्दनस्य च.)
लवङ्गत्वक्चन्दनं च पुष्पाणि सुरभीणि च ।
पलार्धपरिमाणानि प्रत्येकं कमलासन ।। 8.106 ।।
शमीपलाशखदिरबिल्वाश्वत्थ (44) विकङ्कतम् ।
औदुम्बरं चन्यग्रोधश्शम्यादीनां त्वचः स्मृताः ।। 8.107 ।।
(44. विकङ्कताः)
प्रत्येकं पलमानास्स्युः कदली भेजपूरकम् ।
अम्रमामलकं भिल्वं नालिकेर (45) फलानि च ।। 8.108 ।।
(45. फलं तथा.)
पनसं मातुलङ्गं च भिन्नान्येतानि निक्षिपेत् ।
नीवारवेणुशालीनां प्रियङ्गुयुवयोरपि ।। 8.109 ।।
कङ्गुषाष्टिकयोश्चैव गोधूमस्य च तण्डुलाः ।
मुष्टिप्रमाणा विज्ञेयाः (46) कुङ्कुमं कोष्ठचन्दने ।। 8.110 ।।
(46. चन्दनं कुष्ठकुङ्कुनुम्. कुङ्कुमौ.)
अगरूशीरमालानि ह्रिबेरं गिरिसम्भवम् ।
मांसी मुरं च प्रत्येकं पलमात्राणि पद्मज ।। 8.111 ।।
माणिक्यं पद्मरागं च नीलं वज्रं च पुष्यकम् ।
प्रवालं मौक्तकं चैव तथा मरतकं क्षिपेत् ।। 8.112 ।।
वैडूर्यं नवरत्नानि तानि रत्न घटो दके ।
* रत्नकुम्भे निधातव्यवस्तूनि.*
सुवर्णं रजतं ताम्रं सीसकं त्रपुकं तथा ।। 8.113 ।।
कांस्यमायससारं च सप्तलोहघटो दके ।
* यपूदककुम्भे निधातव्यवस्तूनि तन्मात्रा च.*
प्रत्येकं निष्टमानानि रजनी सूर्यवर्तिनी ।। 8.114 ।।
सहदेवी शिरीषं च सदा भद्रं कुशाग्रकम् ।
मार्जनानि षडेतानि मुष्टिमात्राणि निक्षिपेत् ।। 8.115 ।।
यवा वेणुयवाश्चैव व्रीहयश्चेति तत्त्रिकम् ।
यपूदके निधातव्यं प्रत्येकं कुडुपं भवेत् ।। 8.116 ।।
* पञ्चगव्यं तदुपयोगि पात्रं च.*
पञ्चगव्यानि ग्रह्णीयास्मृत्पात्रे नूतने शुभे ।
गोमूत्रं गोमयं क्षीरं दधि सर्पिश्च पञ्चमम् ।। 8.117 ।।
* गोविशेषः.*
कपिलाया जराया ? वा पञ्चिगव्यं प्रशस्यते ।
तयोरभावे त्वन्यासां गवां गव्यं विधीयते ।। 8.118 ।।
नार्ताया न च गर्भिण्या न वृद्धायाः कदा चन ।
नावत्साया उपादेयं धेनोर्मूत्रं शकृद्ध्वयम् ।। 8.119 ।।
* पञ्चगव्यस्य शुद्धिः.*
भूमिष्ठं गोमयं ग्राह्यं सोष्णं क्रिम्याद्यदूषितम् ।
निष्पीड्य सम्यग्गृह्णी याद्गोमयस्य रसं पुनः ।। 8.120 ।।
सद्यस्तप्तं घृतं शुद्ध महोरात्रोषितं दधि ।
क्षीरं ग्राह्यमतप्तं च दशाह्ज्जन्मनः परम् ।। 8.121 ।।
* पञ्चगव्यस्य योजने प्रत्येकं मन्त्रः *
गो मूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम् ।
आप्याय स्वेति च क्षीरं दधिक्रा व्णेति वै दधि ।। 8.122 ।।
घृतं शुक्रमसीत्येवं गव्यानि सह योजयेत् ।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदै (47) स्तुवा ।। 8.123 ।।
(47. स्समम्.)
* पञ्चगव्यस्याधि देवताः.*
परमेष्ठी शकृन्मन्त्रो गोमूत्रस्यतु पूरुषः ।
(48) विश्वमन्त्रो भवेद्दध्नो निवृत्तिस्सर्पिषो भवेत् ।। 8.124 ।।
(48. बिम्बमन्त्रो.)
पयसस्सर्वमन्त्रस्स्यात्सर्वेषा मष्टवर्णकम् ।
* स्नपने पञ्चगव्यद्रव्यमानम्.*
दध्नि (49) द्विगुण माघारा त्पीयूषं त्रिगुणं ततः ।। 8.125 ।।
(49. दध्नो.)
षड्गुणं मूत्रमेतस्माच्छकृद्वारि चतुर्गुणम् ।
स्नवने कधितं मानम्
* प्रोक्षणेपञ्चगव्यद्रव्यमानम् *
प्रोक्षणे पञ्चकं समम् ।। 8.126 ।।
* प्राशने पञ्चगव्यद्रव्यमानम्.*
गोमयेन समं मात्रं दधिस्याद्द्विगुणं ततः ।
ततश्चतुगुर्णणं सर्पिस्सर्पिषोऽष्ट गुणं पयः ।। 8.127 ।।
प्रशने पञ्चगव्यानां प्रमाण मिदमीरितम् ।
* पञ्चगव्यमानन्यूनीभावे दोषः.*
द्रोणमानं पञ्चगव्यं घृतमानं च (50) ता दृशम् ।। 8.128 ।।
(50. तत्समं.)
तादृगेव दधि क्षीरं (51) तावदेव च माक्षिकम् ।
अर्धं पास्यादाढकं वान्यूनं चेदासुरं भवेत् ।। 8.129 ।।
(51. तादृगेव.)
* गृहोर्चायां पञ्चगव्यमानभेदः.*
गृहोर्चास्नपने न्यूनं (52) प्रस्थेनैव प्रकल्पयेत् ।
*पाद्यादीनामुक्तद्रव्यालाभे प्रतिवापद्रव्याणि.*
पाद्ये द्रव्यान्तरालाभे दूर्वैवा र्घ्यो च सर्षपाः ।। 8.130 ।।
(52. प्रस्थमानेन.)
शस्तमाचमनीये तु तक्कोलं मार्जनाम्भसि ।
सहदेवी गन्धतोये चन्दनक्षोद इष्यते ।। 8.131 ।।
कषायतोये चाश्वत्थ श्शीतमुष्णोदरे सति ।
रत्नोदरे वज्रमेकं कदल्येका फलाम्भसि ।। 8.132 ।।
सुवर्णं लोहपानीये शालि दण्डुलमक्षते ।
यपूदकघटेव्रीहिश्शस्यते कमलासन ।। 8.133 ।।
* पञ्चगव्यद्रव्यालाभे प्रतिवादद्रव्याणि.*
अलब्धे दधिनि क्षीरं क्षीरा भावे तु तद्दधि ।
मधुन्यलब्धे सर्पींषि तदलाभे भवेन्मधु ।। 8.134 ।।
अलाभे पञ्चगव्यानां घृतमेवैकमिष्यते ।
पञ्चगव्येषु यस्यस्यादलाभ (53) स्तत्पदे घृतम् ।। 8.135 ।।
(53. स्तत्कृते.)
* मध्यमस्नपनम्.*
स्नपनं मध्यमं वक्ष्ये यथा तदव (54) धारय ।
मध्ये पूर्वोक्तकलश स्थापने विहिते सति ।। 8.136 ।।
(54. धार्यताम्.)
द्वौ द्वौ बहिस्ततः पङ्क्तीस्सम्मृज्य कमलासन ।
परितो (55) वीदिकाः कुर्या द्बहिस्ता भ्यो घटास्पदम् ।। 8.137 ।।
(55. वेदिकाः.)
(56) पञ्चाशत मथैकोन कलशान् दिक्षु निक्षिपेत् ।
पूर्वादिषु प्रतिदिशं च तसृष्वम्बुजासन ।। 8.138 ।।
(56. पञ्चाशतमथैकेन कलशानां विनिक्षिपेत्.)
चत्वारो द्रव्यकलशास्तेषु शुद्धोदकाः परे ।
(57) गुळोदकं चेक्षुरसं नालिकेरजलं तथा ।। 8.139 ।।
(57. गुडशब्दे डकारस्थाने. `ळ' इति प्रतिवापः प्राचीनकोशेषु दृश्यते.)
शान्तिवारि च पूर्वादौ क्रमान्न्यस्येच्चतुष्टयम् ।
गुळाभावे चेक्षुरसस्तस्त्याभावे गुळोदकम् ।। 8.140 ।।
गुळमानं पलाशीति रर्धमर्धार्ध मेव वा ।
नालिकेर जलाभावे तत्थ्साने क्षीरमिष्यते ।। 8.141 ।।
तुलसीवेणुनीवरयवाश्च श्वेतसर्षपाः ।
तिलाश्च षट् शान्तिकुम्भे द्रव्याणि तुलसी भवेत् ।। 8.142 ।।
मुष्टिमात्रं द्रव्यमन्यत्पृथ (58) क्कुडुबसम्मितम् ।
तुलसीदलमन्येषामलाभे ग्राह्यमिष्यते ।। 8.143 ।।
(58. क्कुण्डाम्बु. कुसुम.)
गुळोदकादि भिर्द्रव्यैस्स्नपने विहिते सति ।
* कलशभेधेन स्नपनमन्त्रेभेदः.*
पाद्यादि द्रव्यकलशै र्घृतान्तै स्स्नापयेद्धरिम् ।। 8.144 ।।
मधुवातेति मन्त्रेण स्नपनं गुळवारिणा ।
मधुनक्तमितिस्नान मैक्षवेन रसेन च ।। 8.145 ।।
मधुमान्न इतिस्नानं नालिकेराम्भसा पुनः ।
वेदाहमितिमन्त्रेण शान्तिद्रव्य घटाम्बुभिः ।। 8.146 ।।
जितं त इति शुद्धेन वारिणा स्नपनं हरेः ।
मध्यमोत्तममुद्दिष्टं मध्यमे मध्यमं पुनः ।। 8.147 ।।
चतुर्भिर्द्रव्यकलशै स्स्नानं शुद्धोदकैर्विना ।
बहिष्ठैर्देवदेवस्य मध्यमाधम आप्लवः ।। 8.148 ।।
सर्वैरेव द्रव्यकुम्भैस्सर्वैश्शुद्धोदकैर्विना ।
* उत्तमं स्नपनम्.*
उत्तमं स्नपनं वक्ष्ये यथावदव (59) धारय ।। 8.149 ।।
(59. धार्यताम्.)
विदिक्षु दिक्षुवत्कुम्भास्थ्साप्याः पूर्वोक्तसङ्ख्यया ।
तेषु च द्रव्यकलशाश्चत्वारोऽन्ये चतुर्मुख ।। 8.150 ।।
शुद्धोदका विदिश्यग्ने र्विन्यस्येन्मङ्गलोदकम् ।
इन्द्रवल्यङ्कु राश्वत्थपल्लवाश्च कुशेशयम् ।। 8.151 ।।
एकपत्राम्भुजं कुष्ठं कुङ्कुमं रोहिण द्रुमम् ।
पुण्यास्सु मनसश्चाष्टौ यूधिका मल्लिकापि च ।। 8.152 ।।
त्रीण्युत्पलानि जातिश्च चम्पकं केतकी तथा ।
द्रव्याणि मङ्गलानीति प्रस्यीन्मङ्गलपाथसि ।। 8.153 ।।
अङ्कुरद्वयमेकैर् मेकपत्रं च पङ्कजम् ।
मुष्टिमात्रं सुमनसश्छैकैकं चन्दनादिकम् ।। 8.154 ।।
पलं पृथक्पृथक्कुम्भे नैरृते सकलौषधीः ।
मांसी कुष्ठं हरिद्रे द्वेमुरा शैलेयचम्बके ।। 8.155 ।।
मुस्ता वचा च कर्पूरं प्रत्येकं पलसम्मितम् ।
पिष्ट्वा सर्वैषदिघटे निक्षिपेत्कमलासन ।। 8.156 ।।
वायवीये सर्वगन्ध द्रव्याणां क्षेपणं घटे ।
कर्पूरं कुङ्कुमं कुष्ठं मांसी मलयजं मुरम् ।। 8.157 ।।
प्रियङ्गु केसरं मुस्ता तमालं नागकेसरम् ।
मालद्वयं चकच्चोरं सुरपर्णिकरेसरम् ।। 8.158 ।।
उशीरं तगरं लोध्रं तथैव हरिचन्दनम् ।
अगुरुद्वयं सितं कुष्ठं कालेयं ग्रन्थिपल्लवम् ।। 8.159 ।।
मुकुलं (60) चम्पकस्येति प्रत्येकं पलसम्मितम् ।
चूर्णीकृतं समस्तं च न्य स्येद्गन्धोदके घटे ।। 8.160 ।।
(60. चम्पकं चेति.)
मालौषधिघटे शार्वे मालौषधिसमर्पणम् ।
व्याघ्रीसिंही बला चाग्निश्शरपुङ्खा शतावरी ।। 8.161 ।।
बिल्वमूलं वचा शुण्ठी कोरण्डं शतमूलिका ।
प्रत्येकं पलमानान्स्युः (61) पिष्ट्वा कुम्भे विनिक्षिपेत् ।। 8.162 ।।
(61. पुष्पकुम्भे.)
मङ्गलोदकवस्तूनामलाभे चन्दनं वरम् ।
सर्वौषधीनामेतासामलाभे कुष्ठमिष्यते ।। 8.163 ।।
अलाभे सर्वगन्धानां शस्यते चन्दनं वरम् ।
मालौषधीनां सर्वासामलाभे शस्यते बला ।। 8.164 ।।
अधिदैवं समभ्यर्च्य उद्धृत्य स्नापयेत्क्रमात् ।
पूर्वादिदिक्षु प्रथममाग्नेयादि ततःपरम् ।। 8.165 ।।
विष्णोर्नुकमिति प्रोच्यस्नापयेन्मङ्गलाम्भसा ।
ओषध्य इति मन्त्रेण सर्वैषधिजलेन च ।। 8.166 ।।
नारायणानुवाकेन सर्वगन्धाम्बुभिर्हरिम् ।
या ओषधीतिमन्त्रेण मालौषधिजलै स्ततः ।। 8.167 ।।
(62) अस्त्रशुद्धोदकैस्स्नायाद्द्विद्ययाष्टाक्षरात्मना ।
पाद्यपूर्वंघृतान्तंच (63) स्नानं देवे यथापुरम् ।। 8.168 ।।
(62. अत्र.)
(63. स्नायाद्देवम्.)
उत्तमोत्तममेतत्तुस्नपनं परिकीर्तितम् ।
* उत्तममध्यमस्य उत्तमाधमस्य च स्नपनस्यविधिः.*
अर्धशुद्धोदकैर्हीनं भवेदुत्तममध्यमम् ।। 8.169 ।।
सर्वशुद्धोदकैर्हीन मुत्तमाधम मिष्यते ।
* स्नपनभेदे कलशसङ्ख्याभेदः.*
विंशतिः पञ्च च ब्रह्मन् सङ्क्ष्केपे कलशा मताः ।। 8.170 ।।
चतुश्शतं च विस्तारे सप्ततिश्च त्रि रुत्तरम् ।
* कुम्भद्रव्याणा मधिदेवताः.*
द्रव्याणा मथ सर्वेषां कथयाम्यधिदेवताः ।। 8.171 ।।
घृतस्य परमात्मा च वासुदेवोऽधिदेवता ।
उष्णोदकुम्भे पुरुष स्सत्यस्स्यात्तु फलोदके ।। 8.172 ।।
अच्युतो मार्जने देवस्त्वनन्तश्चाक्षतोदके ।
रत्नोदके केशवस्स्याल्लोहे नारायणस्म्सृतः ।। 8.173 ।।
गन्धोदके माधवस्स्याद्गोविन्दस्स्याद्यवोदके ।
पाद्योदके भवेद्विष्णु रर्घ्ये च मधुसूदनः ।। 8.174 ।।
त्रिविक्र मस्तथा चामे पञ्चगव्येषु वामनः ।
दधिनि श्रीधरो देवो हृषीकेशः पयस्यपि ।। 8.175 ।।
मधुनः पद्मनाभस्स्याद्दामोदरः कषायके ।
गुळोदके वराहस्स्यात् नृसिंहश्चैक्षवोदके ।। 8.176 ।।
श्रीधरो नालिकेरस्य हयास्य श्शान्तिवारिणः ।
वासुदेवो मङ्गलस्य कुम्भस्य कमलासन ।। 8.177 ।।
सर्वैषध्यम्बुकलशे देवस्सङ्कर्षणस्म्सृतः ।
प्रद्युम्न स्सर्व गन्धस्य मालौषध्येऽनिरुद्धकः ।। 8.178 ।।
मूर्तिरेतेषु कुम्भेषु साङ्गपीठं समर्चयेत् ।
(64) शुद्धोदकेषु सर्वेषु नारायणसमर्चनम् ।। 8.179 ।।
(64. गन्धोदकेषु सर्वत्र.)
धान्यानां कलशानां च देवता स्याद्वसुन्धरा ।
कुर्चानां दैवतं चास्त्रं चक्रकाणां सुदर्शनम् ।। 8.180 ।।
पाससो दैवतं विष्णु स्सर्वेषां वा जनार्दनः ।
* नवसु स्नपनेषु शक्त्यनुसारतः करणेऽनुज्ञा.*
इत्येवं स्नपनं प्रोक्तं नवधा तव पद्मज ।। 8.181 ।।
एषामन्य (65) तमेन स्यात्स्नानं वित्तानुसारतः ।
* तिथ्यादिबेदेन स्नपनभेदः.*
पञ्चम्यां स्नपनं विष्णो र्यथोक्त फलमश्नुते ।। 8.182 ।।
(65. तमं तु.)
त्रिजन्मर्क्षे दशगुणं श्रवणे द्विगुणं भवेत् ।
त्रिगुणं शशिनः (66) पूर्तौ क्षये शतगुणं भवेत् ।। 8.183 ।।
(66. प्रोक्तम्.)
चतुर्गुणं स्याद्द्वादश्यां त्रिगुणं तारकात्रये ।
सङ्क्रान्त्यां षड्गुणं (67) चैव विषुवे त्रिगुणं भवेत् ।। 8.184 ।।
(67. विद्धि.)
अयने दक्षिणे स्नान मेकं शतगुणं भवेत् ।
अयनेऽन्यत्र विहिते सहस्रगुण आप्लवः ।। 8.185 ।।
विदौ विधुन्तुदग्रस्ते स्नानं त्रिंशद्गुणं हरेः ।
सूर्ये शतसहस्रं तु युगान्ते कोटिसम्मितम् ।। 8.186 ।।
अनन्तं स्याद्व्यतीपाते कालेष्वेतेषु पूजनम् ।
अनन्तरोक्तफलदं कल्पते चतुरासन ।। 8.187 ।।
* अष्टोत्तरशतकुम्भस्नपनम्.*
अष्टोत्तरेण कुम्भानां शतेन कमलासन ।
स्नपनं कथ्यते विष्णो र्यथावदवधार्यताम् ।। 8.188 ।।
ब्राह्मदिव्य (68) मानुषेषु भागेषु त्रिषु भागयोः ।
आद्ययोः स्फालयेत्सूत्राण्येकादश पृथक् क्षितौ ।। 8.189 ।।
(68. मनुष्येषु.)
प्रागायतानि तिर्यक्च तत्र मध्ये च दिक्षु च ।
चत्वारि चत्वार्यष्टासु कुम्भस्थानानि वीधिकाः ।। 8.190 ।।
अन्यानि कुर्यादेवं चषट्त्रिंशत्कोष्ठकं भवेत् ।
तत्र कुम्भां स्तोयपूर्णान् विन्यसेन्मानुषे (69) पदे ।। 8.191 ।।
(69. पुनः.)
भागे नव नवाशासु कुम्भानष्टसु कल्पयेत् ।
अष्टोत्तरशतं कुम्भास्संपद्यनैतथा सति ।। 8.192 ।।
ब्राह्मे तु मध्यमे स्थाने कलशानां चतुष्टये ।
एकस्मिन् द्रव्यमाघारं शिष्टं शुद्धोदकं त्रिकम् ।। 8.193 ।।
दिव्ये तु भागे प्राचीने कलशानां चतुष्टये ।
एकस्मिन्नुष्णमु दकं दिश्यग्ने रत्नशम्बरम् ।। 8.194 ।।
याम्येफलोदकं लौहं नैरृत्यामथ वारुणे ।
मार्जनं वायुभागेतु गन्धतोय (70) मुदग्दिशि ।। 8.195 ।।
(70. मुदक्पुनः.)
अक्षतोदकमीशाने यवम्भःकथिता नव ।
द्रव्यकुम्भा बहिर्भागे मानुषे (71) पूर्ववत्पदे ।। 8.196 ।।
(71. पूर्वसद्भवेत्.)
पाद्यादि द्रव्यकलशाः पूर्वादिषु यथोदिताः ।
कल्पनीया यथापूर्वमुद्दृत्य स्नावयेत्क्रमात् ।। 8.197 ।।
* एकोनपञ्चाशत्कुम्भस्नपनम्.*
कुम्भैरेकोनपञ्चाश (72) त्सङ्ख्क्यैरन्यदुदीर्यते ।
चन्दनार्द्राणि सूत्राणि दश प्रागायतानि च ।। 8.198 ।।
(72. त्कलशैरन्यदीर्यते.)
तथोदगायतानि न्युस्थ्साप्यानि कमलासन ।
मध्ये नवसु कोष्ठेषु विन्यसेत्कलशान्नव ।। 8.199 ।।
दिक्षु प्रतिदिशं कुम्भान् षट्सु कोष्ठेषु तावतः ।
विन्यसेच्च तुरः कुम्भान् विदिक्ष्वपि पृथक्पृथक् ।। 8.200 ।।
वीधयोऽन्यानि कोष्ठानि द्रव्याणि च यथापुरम् ।
* पञ्चविंशतिकुम्भस्नपनम्.*
कुम्भानां पञ्चविंशत्या स्नानमन्यदुदीर्यते ।। 8.201 ।।
पूर्ववद्दश सूत्राणि स्फालयित्वा भुवस्थ्सले ।
मध्ये नवसु कोष्ठेषु नवकुम्भान् प्रकल्पयेत् ।। 8.202 ।।
प्रागादिदिक्षु प्रत्येकं कलशां स्त्रीन्प्र कल्पयेत् ।
आग्नेयादिषु कुम्भानां कोणेष्वेकैकल्पनम् ।। 8.203 ।।
द्वौ द्वौ पुर्वादिषु घटौ पार्श्वतः केवलोदकौ ।
अष्टा तान्वर्जयित्वान्ये द्रव्यकुम्भा यथोदिताः ।। 8.204 ।।
मध्यमे कुम्भनवके यथोक्त द्रव्यपूरणं ।
गन्धद्रव्यैः पूरयेद्वाकलशान्वञ्चविंशतिम् ।। 8.205 ।।
चन्दनागुरु काश्मीर कुष्ठ तगर वीरणैः ।
असितागुरुणा चापि हरिचन्दनवारिणा ।। 8.206 ।।
ह्रीभेरकर्दमेनापि नवमेन घटान्नव ।
मध्यादीशानपर्यन्तं पूरयेत्कमलासन ।। 8.207 ।।
तमालसितकुष्ठाभ्यां सुरपर्णीरजः कणैः ।
कर्पूरनागसुमनोमुस्ताचम्पककुट्मलैः ।। 8.208 ।।
प्रिङ्गुपुष्पकालेयग्रन्धिवल्लवभीजकैः ।
मांसीखर्जूरशैलेय ह्रीबेरैश्च सुरद्रुमैः ।। 8.209 ।।
मुरेण तैर्यथा योगं बहिष्ठानपि षोडश ।
हित्वा बहिर्वि दिक्कुम्भान् यद्वान्यैस्स्नापयेद्धरिम् ।। 8.210 ।।
स्फालयेन्नव सूत्राणि यथा पूर्वं भुवस्थ्सले ।
ब्राह्मस्थाने चतुष्कोष्ठे विन्यसेच्चतुरो घर्टा ।। 8.211 ।।
द्वौ द्वौ स्यातां च पूर्वादि (73) दिक्ष्वौकैकं विदिक्षु च ।
रत्नं लोहं तथा गन्धमाघारं च यथा क्रमम् ।। 8.212 ।।
(73. दिक्षुचैको दिक्षुचैव.)
द्रव्याणि कुम्भेष्वाग्नेय कोणादि स्थेष्वनु क्रमात् ।
बहिरैन्द्र पदे कोष्ठे द्वयोःकलशयोर्यथा ।। 8.213 ।।
पाद्यमर्घ्यं तथाग्नेय कोणे दधिघटो भवेत् ।
याम्ये चाचमनीयं प्राक्सञ्चगव्यं (74) च पश्चिमे ।। 8.214 ।।
(74. तु.)
कोणे तु नैरृते क्षीरं पश्चिमे तु घटद्वये ।
दक्षिणेऽक्षतमन्यत्र मार्जनाम्भस्तथानिले ।। 8.215 ।।
कोणे मधु तथा सौम्ये कषायां च कुशोदकम् ।
यपोदकं शार्वकोणे (75) द्रव्यैः पद्यादिभिः क्रमात् ।। 8.216 ।।
(75. पाद्यद्रव्यादिभिः.)
युग्भिष्टोडशभिस्सूक्तैः पौरुषै स्स्नापयेद्धरिम् ।
कुम्भैर्द्वादशभिर्वापि चतुर्भिर्मध्यमस्थितैः ।। 8.217 ।।
कत्नेन लोहेन तथा सर्वगस्थेन सर्पिषा ।
पूर्तैर्बहिरिन्द्रादि कोष्ठस्थैरष्टभिर्घटैः ।। 8.218 ।।
प्राचीमारभ्य पाद्येन दध्यर्घ्यक्षीरपूरितैः ।
तथैपाचमनीयेन मधुना पञ्चगव्यकैः ।। 8.219 ।।
फलोदकेन यद्वान्यैर्द्रव्यैर्द्वादशसम्मितैः ।
मध्येऽग्नि कोणे कोष्ठेन नैरुतेऽगुरुणाऽनिले ।। 8.220 ।।
ग्रन्धिपल्लवभीजेन शार्वे मलयजाम्भसा ।
बहिःक्रमेण पूर्वादि दिक्ष्वाष्टासु चतुर्मुख ।। 8.221 ।।
काश्मीरजेन मांस्या च तमालेन मुरेण च ।
मूलेन पर्वतोत्थेन सुरवर्णीरजःकणैः ।। 8.222 ।।
चम्पकप्रसनक्षोदैः शर्जूरेण प्रपूरितैः ।
कलशैस्स्नापयेद्देवं नवभिर्वा विधेःपदे ।। 8.223 ।।
(76) प्रागादिदिक्षु चाष्टानु क्रमेणाज्येन वस्तुना ।
पाद्येन दध्ना चार्घ्येण क्षीरेणाचमनाम्बुना ।। 8.224 ।।
(76.`प्रागादि' इत्यर्धं क्वचिन्न.)
मधुना पञ्चगव्येन फलेनापि च पूरितैः ।
रत्नैर्वा नवभिपूर्णैः कुम्भैर्नवभिर्लावः ।। 8.225 ।।
पञ्चभिर्वा घटैर्मध्ये दिक्षु (77) प्रागादिषु स्थितैः ।
मणिभिश्च प्रवालैश्च मुक्ताभिःपूरितैःक्रमात् ।। 8.226 ।।
(77. पूर्वादिषु.)
वज्रवैडूर्य (78) शकलैर्लोहैर्वा पञ्चभिश्शुभैः ।
पञ्चामृतैर्वा मधुना गुळेनाज्येन (79) पूरयेत् ।। 8.227 ।।
(78.कलशैः.)
(79.पूरितैः.)
दध्ना च पयसा यद्वा पञ्चगव्यैःक्रमाद्भवेत् ।
एकेन वाहरेस्स्नानं द्रव्यैः पूर्वोदितैर्भवेत् ।। 8.228 ।।
व्यस्तैस्समस्तैर्वा वित्तं देशकालानुसारतः ।
देया च दक्षिणा स्वर्णनिष्काःकलशम्मिताः ।। 8.229 ।।
अर्धं पादं तदर्धं वा यथावित्तानुसारतः ।
स्नपनं दक्षिणाहीनं निष्फलं फलकामिनः ।। 8.230 ।।
कर्तुस्तस्माद्दक्षिणा च देयाऽल्पापि फलार्थिभिः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे महाभिषेकोनामाष्टमोऽध्यायः.
-------******--------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_८&oldid=206972" इत्यस्माद् पुनः प्राप्तिः