← अध्यायः २६ चर्यापादः
अध्यायः २७
[[लेखकः :|]]
अध्यायः २८ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे--सप्तविंशोऽध्यायः
सप्तविंशोऽध्यायः.
----
श्रीभगवान् :---
* मत्स्यादिमूर्तिदशकमन्त्रनिर्देशः.*
मत्स्यादिदशमूर्तीनामवतारक्रमान्मसुः ।
उच्यते पूर्ववच्चक्रमक्षराणां समालिखेत् ।। 27.1 ।।
साधारणान् गृहीत्वार्णान् यथापूर्वं चतुर्मुख ।
असाधारणरूपं तत्संप्रत्युध्रियते क्रमात् ।। 27.2 ।।
* मत्स्यमूर्तिमन्त्रः.*
स्पर्शान्तमाद्यं विजयं चन्द्रमन्वक्चतुर्गतिम् ।
आदिमग्निं हृषीकेशं पवित्रं मधुसूदनम् ।। 27.3 ।।
(1) श्वसनं चाप्रमेयं च द्वादशार्णास्समीरिताः ।
(2) माधवं पुरुषात्मानं हृषीकेशं च (3) बिन्दुमत् ।। 27.4 ।।
(1. श्वसनादयः बिन्दुमदन्ताश्शब्दाः पुल्लिङ्गप्रथमान्ताः क्वचिद्दृश्यन्ते.)
(2. माधवी.)
(3. बिन्दुमान्.)
बीजमङ्गेषु यद्रूपमसाधारणमुच्यते ।
सर्वान्तमादिं सर्वत्र षट्सु चाद्यश्च बिन्दुमान् ।। 27.5 ।।
आदिदेवं महामायां हृषीकेशं च गोपनम् ।
विष्णुमौर्वीं षडङ्गेषु मध्यमार्णं क्रमोदितम् ।। 27.6 ।।
उद्धृत्यैवं प्रयोक्तव्यमृषिरस्य मनुस्स्मृतः ।
छन्दश्च देवी गायत्रं मत्स्यरूपः परः पूमान् ।। 27.7 ।।
देवता रूपरहितः पञ्चार्णो वा मनुस्स्मृतः ।
भीजं तदङ्गानि तथा साधनं च यथापुरम् ।। 27.8 ।।
* कूर्ममूर्तिमन्त्रः.*
मूर्तेरनन्तरायास्तु मन्वर्णोद्धारणं शृणु ।
असाधारणरूपस्य (4) स्पर्शनादि गुहालयम् ।। 27.9 ।।
(4. स्वर्शादिं च.)
अनलं मन्दरं (5) विष्णुं पूर्ववद्द्वादशाक्षरम् ।
बीजोद्धारः (6) क्रोडरूपी भूधरश्च गुहालयः ।। 27.10 ।।
(5. शिष्टम्.)
(6. पूर्वरूपम्, क्रोधरूपी.)
सानुस्वारो बीजमेतत्षडङ्गानि चतुर्मुख ।
ऋषिरेतस्य दुर्वासा श्छन्दः पूर्ववदिष्यते ।। 27.11 ।।
देवता कमठाकारो देवस्संप्रत्यनन्तरम् ।
* वराहस्य मन्त्रः.*
वराहवपुषो मन्त्रं वर्णचक्रात्समुद्धरेत् ।। 27.12 ।।
वरुणो विष्णुरनलश्चादिदेवश्च भास्करः ।
गोपनः पुरुषात्मा च विष्णुरेते समुद्धृताः ।। 27.13 ।।
अस्याऽसाधारणा वर्णाःप्रोक्तास्साधारणाः (7) पुरा ।
एकादशाक्षरात्मायं बीजं संप्रति कथ्यते ।। 27.14 ।।
(7. पुनः.)
सूक्ष्मदृग्बिन्दुपर्यन्तष्षट्चाचामङ्गपद्धतिः ।
बीजमेव मुनिश्शङ्खश्छन्तो गायत्रमिरितम् ।। 27.15 ।।
नारायणो देवतास्य नत्यन्तश्च षडक्षरः ।
* तस्यैव मन्त्रान्तरम्.*
यद्वा पूर्ववदेवाङ्गं बीजं च कमलासन ।। 27.16 ।।
त्रयोदशार्णानुद्धृत्य पूर्वोक्तान् व्याहृतित्रयम् ।
उद्धरेत्पतिशब्दं च चतुर्थ्यन्तमनन्तरम् ।। 27.17 ।।
भूमेः पतित्वमाशास्यं मे देहि तदनन्तरम् ।
दाहयेति ठठान्तस्स्याद्द्वात्रिंशद्वर्णसन्ततिः ।। 27.18 ।।
छन्दोऽनुष्टुबृषिः पूर्वो देवता सा चतुर्मुख ।
बीजमुक्तं तदङ्गानि भङ्त्क्वा मन्त्रं प्रकल्पयेत् ।। 27.19 ।।
वर्णान् करनसङ्काशान् न्यसे (8) दङ्गेषु पूर्ववत् ।
ध्यात्वा षोड शलक्षाणि जपेन्मन्त्रमतन्ध्रितः ।। 27.20 ।।
(8. दङ्गानि.)
उर्वरायाः पतिस्सद्यो भवेन्मन्त्रप्रभावतः ।
पातालगमनादीनि फलान्यस्यापि पद्मज ।। 27.21 ।।
* वराहमालामन्त्रप्रकारः.*
चतुष्षष्ट्यर्णसङ्घातो मालामन्त्रः प्रदर्श्यते ।
त्रयोदशार्णाः प्रथममेकदंष्ट्रपदं ततः ।। 27.22 ।।
चतुर्थ्यन्तं तथा (9) मेघपदं द्विः प्रोच्य च क्रमात् ।
उल्कावर्ण पदद्वन्द्वं चतुर्थ्यन्तं ततः परम् ।। 27.23 ।।
(9. मेयपदम्.)
छन्दोम (10) यप्रत्ययान्तं सम्बध्यन्तमुदीरयेत् ।
द्विर्लोडन्तो दहिर्वाच्यो हन्तिश्च मथिरेव च ।। 27.24 ।।
(10. योंप्रत्ययान्तं.)
पचिं चमहदाद्यन्तं (11) भौमेति पदयोर्युगम् ।
हुं द्विरुच्चार्यारिशिरस्स्वं तथैव खनिं पुनः ।। 27.25 ।।
(11. भौमे नृपद.)
लोडन्तमाय (12) मग्नेयीमिति मन्द्रपदस्थितिः ।
बीजमुक्तं (13) तथाङ्गानि भङ्त्क्वामन्त्रं प्रयोजयेत् ।। 27.26 ।।
(12. मग्नायी मन्वग्गति.)
(13. तदङ्गानि.)
जामदग्न्य ऋषिःप्रोक्तश्छन्दोऽतिच्छ्द ईरितः ।
देवता देवदेवेशः स्थूलघोणवपुस्स्मृतः ।। 27.27 ।।
लक्षं जपेदिमं मन्त्रं (14) भूमिप्सुश्च चतुर्मुख ।
मृत्स्नया जुहुयात्तावद्द्यावदाप्नोति मेदिनीम् ।। 27.28 ।।
(14. भूतिकामः.)
अष्टाक्षरमनोस्तुल्यफलोयं मनुरीरितः ।
* नृसिंहस्य मन्त्रः.*
(15) उल्कावर्णं चतुर्थ्यन्तमक्षरस्यावसानतः ।। 27.29 ।।
(15. इदमर्धं क्वचि दधिकं दृश्यते.)
चतुष्षष्टि प्रभेदस्य मन्त्रस्य नृहरेर्मया ।
न विस्तारः कथयितुं शक्यते बोद्धुमेव वा ।। 27.30 ।।
तस्मात्त्रिचतुरो भेदाः कथ्यन्ते कमलासन ।
वर्णचक्रातथोद्धारस्सं प्रत्येकाक्षरात्मनः ।। 27.31 ।।
मन्द्रस्य कथ्यते ब्रह्मन् ब्रह्मकोशपुरस्कृतः ।
नृसिंहः कर्षणोबिन्दुरित्येकाक्षरमिरितम् ।। 27.32 ।।
एतदेव भवे (16) दङ्गं छन्दो गायत्रमुच्यते ।
देवो मुनिश्च दुर्वासा नृसिंहो देवता मता ।। 27.33 ।।
(16. च्छन्दो देवी गायत्र.)
वर्णश्च पाटलो लक्षत्रयं जप्यं विपश्छिता ।
जिगीषुणा चतुर्वर्गफलमन्यच्च काङ्क्षितम् ।। 27.34 ।।
त्रियक्षरं च नत्यन्तमेत देवाङ्गमप्यतः ।
अष्टाक्षरात्मनोऽस्यैव मन्त्रोस्योद्धारणं क्रमात् ।। 27.35 ।।
प्रणवो नतिरन्वक्च विघ्नेशो मधुसूदनः ।
अनलश्चादिरिन्दुश्च रामोऽनुस्वार एव च ।। 27.36 ।।
गोपतिर्गोपनश्शङ्खो विष्णुरष्टाक्षर (17) स्स्मृतः ।
बीजमुक्तं तथाङ्गानि मुनिर्व्यासोऽन्यदीरितम् ।। 27.37 ।।
(17. स्ततः.)
जपसङ्ख्या फलान्यस्य तथैव कमलासन ।
सप्ताक्षरं च नत्यन्तमन्यत्प्रणववर्जितम् ।। 27.38 ।।
बीजादि पूर्ववत्सर्वं पङ्चाङ्गो जप एव च ।
साधारणास्सप्तवर्णाः पञ्चाऽसाधारणा स्तथा ।। 27.39 ।।
पूर्वोक्तद्वादशार्णात्मा शङ्खोदरसमाह्वयः ।
यथापूर्वं षडङ्गानि बीजं चैव यथापुरम् ।। 27.40 ।।
प्रत्यक्षरं लक्षजपो होमस्तर्पणमेव च ।
पुरुषार्थस्य सर्वस्य साधकस्साध्वनुष्ठितः ।। 27.41 ।।
मन्त्रोनृसिंहवपुषो द्वात्रिंशार्णात्मकोऽपरः ।
वक्ष्यते (18) तस्य वर्णानामुद्धारस्सं प्रदर्श्यते ।। 27.42 ।।
(18. सर्व.)
छन्दसामादिरुदयो गदी वह्निरचां मुखम् ।
यष्टिःकुम्भो महामाया ज्वलनो वैष्णव स्तथा ।। 27.43 ।।
स्पर्शान्तं द्विरचामादि द्वादशात्माच गोपनः ।
पर्जन्तो (19) बिन्दुरुग्रात्मा प्रचण्डश्चोदय स्तथा ।। 27.44 ।।
(19. बन्धुरुग्रांशुः.)
मन्दरो जन्महन्ता च पीयूषात्मा (20) सवैष्णवः ।
महेन्द्रो वाङ्मुखं (21) पद्म पाणिर्विजयसंज्ञितः ।। 27.45 ।।
(20. च.)
(21. भद्रपाणि.)
अर्थचन्द्राकृतिश्शुक्लः प्रणवादिर्विभावसुः ।
वरुणश्चाप्रमेयश्च वै राजो ब्रह्मसाधनः ।। 27.46 ।।
स्पर्शान्तमुदय (22) स्स्पर्शद्वितीयं विष्णुदैवतम् ।
माधवं भद्रपाणिं च पद्मनाभः कलात्मकः ।। 27.47 ।।
(22. स्स्वर्गम्.)
त्रिविक्रमो ध्रुवः पुषा स्वरादिर्मन्दरस्स्मृतः ।
भल्लायुधो महामाया क्रोधरूपी च वैष्णवः ।। 27.48 ।।
वनमाली स्वरादिश्च (23) माधवस्सूक्ष्मलोचनः ।
अप्रमेयो (24) वैधरश्च ज्वलनोङ्कारसंयुतः ।। 27.49 ।।
(23. मायावी.)
(24. वैष्णवश्च.)
द्विर्मन्दरः पद्मनाभो विजयश्च (25) चतुर्गतिः ।
उदयो मन्दरशिराः पदमेतदनन्तरम् ।। 27.50 ।।
(25. चतुर्भुजः.)
वर्णानि सुसमीकृत्य (26) नमाम्यहमुदीरयेत् ।
विराडृषिरनुष्टुप्च छन्दो नरहरिस्स्मृतः ।। 27.51 ।।
(26. जपेल्लक्षत्रयं बुधः.)
देवता बीजमस्योक्तं मन्त्रं भङ्त्क्वाङ्गकल्पना ।
न्यासश्छाङ्गेषु पूर्वोक्तक्रमेण कमलासन ।। 27.52 ।।
(27) ध्यायेत्स्फटिकवर्णाभं जपसङ्ख्या च पूर्ववत् ।
मन्त्रोऽयं नारसिंहस्य सकलापन्निवारणः ।। 27.53 ।।
(27. ध्येयस्स्फटिकवणान् भः.)
समस्तसम्पज्जननो वाच्योनैव च कस्य चित् ।
* अस्य मालामन्त्रः.*
उच्यते नरसिंहस्य मालामन्त्रः श्चतुर्मुख ।। 27.54 ।।
अधिकं सप्तदशभिर्वर्णैरर्णशत (28) त्रयम् ।
प्रथमं छन्द सामादिर्नतिश्च तदनन्तरम् ।। 27.55 ।।
(28. द्वयम्.)
चतुर्थ्यन्तं पदं वाच्यं नरसिंहेति मन्त्रिणा ।
तदेव च महत्पूर्वं (29) देवदानवपूर्वकम् ।। 27.56 ।।
(29. दैत्य.)
शोणितेति पदं पश्चाद्दिग्धपूर्वं सखोत्तरम् ।
पदमेकं चतुर्थ्यन्तं नमोऽन्तं समुदीरयेत् ।। 27.57 ।।
पच (30) ग्रनेति च पदं शुषिर्ण्यन्त (31) स्समुद्धृतः ।
ग्रन्थिर्णिजन्तो हन्तिश्च (32) सन्ति ? र्लोण्‌मध्यमोदयः ।। 27.58 ।।
(30. ग्रहे.)
(31. स्समध्यमः.)
(32. अशुद्धमिन. सन्ति ? सक्तिरिति क्वचित्.)
हुं फट्तदन्तरं प्रोच्य (33) तथा कलिपदं ततः ।
चरेति च लुपेत्युक्त्वाक्षरेति तदनन्तरम् ।। 27.59 ।।
(33. तथा बल.)
हां होंखर चिरं चैव (34) दूं ह्यों ज्वलनमेव च ।
ज्वलिश्शुचिर्द्रविस्स्फोटिर्ण्यन्तो लोण्मध्यमोदयः ।। 27.60 ।।
(34. द्रूं लोम्.)
(35) भिदिश्छिदिः तं विकरो ? लोण्मध्यमशिरास्ततः ।
(36) हिसिमृङ्भ्यांणिजन्ताभ्यां लोण्मध्यममुदीरयेत् ।। 27.61 ।।
(35. बिदिश्छिदन्तं विकरो--भिदिर्णन्तं विकारो.)
(36. भीति.)
आंपूर्वो नयतिर्लोटि हुंफडन्तमुदीरितम् ।
द्रवद्रवेति च ततो विपूर्वं तद्वयं पुनः ।। 27.62 ।।
पातालान्तं सर्वशब्दं वासिनामिति पश्चिमम् ।
(37) हृदयादीनि कथये त्कृषिर्ण्यन्तश्च मध्यमे ।। 27.63 ।।
(37. हृदि कथयेद्ब्रह्मन्.)
(38) अज् पूर्वोविद्विषिर्ण्वन्तो लोटि सम्बुद्धिशीर्षकम् ।
भगवत्पदमुच्चार्य नारायणपदं ततः ।। 27.64 ।।
(38. आर्ज पूर्वो. ? मुर्खपूर्वो विदुष्यन्तो.)
वासुदेवहृषीकेशपदद्वितयमिरयेत् ।
दानवादिर्लडन्तश्च जहि राक्षसपूर्वकम् ।। 27.65 ।।
अन्तकेति पदं पश्चादुक्त्वा कामोदकी (39) धनुः ।
धरेति गरुडादिं च ध्वजान्तं पदमब्जज ।। 27.66 ।।
(39. तथा -- मनुः.)
त्रिपूर्वधामन्नित्येतन्नतिरस्त्विति ते पदम् ।
त्वां प्रपन्नोऽस्मिति (40) पठेदेवमुच्चार्य ते मनुः ।। 27.67 ।।
(40. तथा देनमुद्धार्यते.)
बीजमुक्तं षडङ्गानि प्रोच्यते पदशोऽधुना ।
प्रणवादिश्च सत्यन्तश्चतुर्थ्यन्तश्च विग्रहः ।। 27.68 ।।
पुरुषादिमुखादिश्च नरसिंहपदं तथा ।
वज्रशब्दं द्विरुच्चार्य क्रमाच्च नखविग्रहौ ।। 27.69 ।।
वज्रेति नखदंष्ट्रेति चोक्त्वायुधपदं ततः ।
महानरपदं सिंहपर्यन्तं षष्ठमिरितम् ।। 27.70 ।।
अनिरुद्धो मुनिश्छन्दस्त्वतिपूर्वं च देवता ।
नृसिंहारूपी भगवानिति (41) सर्वमुदीरयन् ।। 27.71 ।।
(41. सर्वमुदीरितम्.)
बिलद्वारि जपेन्मन्म्रीषोडश प्रयतस्थ्सितः ।
लक्षाणि सद्यः पातालवासिनः कुरुते वशे ।। 27.72 ।।
लोकान्तरगतानां च वशीकारक्षमो भवेत् ।
एतावन्तिफलान्यस्येत्यभिधातुं न शक्यते ।। 27.73 ।।
अतोऽन्यं नारसिंहस्य मन्त्रं सर्वार्थ साधकम् ।
चतुश्शताक्षरं तस्य समुद्धारः प्रदर्श्यते ।। 27.74 ।।
आदावुद्दीथमुद्धृत्य नत्यन्तं ब्रह्मसाधनम् ।
भल्लायुधं (42) गदध्वंसं वारुणं विजयं तथा ।। 27.75 ।।
(42. गदध्वंसी.)
माधवं भद्रहस्तं च (43) पावकं श्वेतदीधितम् ।
विक्रमं सध्रुवं ब्रह्मन् भास्करं मधुविद्विषम् ।। 27.76 ।।
(43. वामनम्.)
श्वसनं वुरुणं जन्महन्तारमृतधारकम् ।
द्विरदं सर्व (44) दाहं स्याद्वैधरं तदनन्तरम् ।। 27.77 ।।
(44. देहम्.)
अचामादिं सध्रुवं च क्रोधरूपमधोक्षजम् ।
सपर्वतं हुतवह (45) माव्रतं मधुविद्विषम् ।। 27.78 ।।
(45. माविषं मधुसूदनम्.)
मारुतं माधवं ब्रह्मन् धनदं मधुसूदनम् ।
दरं (46) सचन्ध्रं पुल्लं च माधवं (47) नगवारिणम् ? ।। 27.79 ।।
(46. सचक्रम्.)
(47. नागवारुणम्.)
सविक्रमञ्च कमलं पर्वतं पाशपाणिनम् ।
सबन्धुं कमलं पञ्च बिन्दुमस्तक (48) भूषितम् ।। 27.80 ।।
(48. भूषणम्.)
सुमुखं चाग्नि शिरसं करालं मृगवल्लभम् ।
क्षपाकरं तथायान्तं यामनीनाथमब्जज ।। 27.81 ।।
हृदयाह्लोद माकारं चतुर्गतिमनन्तरम् ।
नृहरिं भुवनं सूक्ष्मलोचनं रामर्शीकम् ।। 27.82 ।।
विजयं पाटलं भानुं सूदनं सुमुखं तथा ।
(49) यान्तं तच्छिरसं पश्चा द्वारुणं गजवाहनम् ।। 27.83 ।।
(49. मायान्तं शिरसः पश्च द्द्वारुणं खगवाहनम्.)
वासुदेवं तथाक्रोध रूपमाकारमारुतौ ।
वैधरं सूदनं भद्र हस्तं वारुणमैन्दवम् ।। 27.84 ।।
(50) वत्सोतदेहं सुमुखं विक्रमं (51) विजयाभिधम् ।
दृष्टिविक्रम (52) पाशान्तसुभागार्पितविघ्नराट् ।। 27.85 ।।
(50. वस्वोतदेहं.)
(51. विजयाहितम्.)
(52. पञ्चान्तसुभ गापति.)
(53) तद्द्वितीयमचामादिद्वितयं श्वसनं तथा ।
माधवं सद्ध्रुवं भानुमान्तं माधवभास्करौ ।। 27.86 ।।
(53. द्वितृतीय--अद्वितीय.)
रामं भल्लायुधं पञ्च अन्तकं स्यात्सुधारसम् ।
भद्रहस्तमचामादि भान्त (54) माधरासूदनौ ।। 27.87 ।।
(54. मान्तर---माधन.)
भद्रं वसुं श्वेतरुचिं विक्रमं सद्ध्रुवं तथा ।
मार्ताण्डं माधवं भानुं गोपनं नान्तमाधरौ ।। 27.88 ।।
यान्तं सश्रीधरं चोग्रं वसुं (55) वारुणगोधनौ ।
कुशेशयं माधवं च सुमुखं कौस्तुभं तथा ।। 27.89 ।।
(55. वरुणगोपनौ.)
विघ्नेशं गोपनं ब्रह्मन् रोहिताश्वं सगोपनम् ।
(56) वसनं सुमुखं पश्चाद्वारुणं मधुविद्विषम् ।। 27.90 ।।
(56. श्वसनं.)
दाक्षायणीशमुदयं वैधरं (57) माधवं ततः ।
अमृतं (58) वैधरमचां द्वितीयं भान्तमज्जज ।। 27.91 ।।
(57. मासपम्.)
(58. वैधरं पश्चात्.)
ओतदेहं तथा दृष्टिं (59) यान्तमाकारमक्षरम् ।
वक्रतुण्डं गन्धवहं (60) विष्टरं विजयं तथा ।। 27.92 ।।
(59. वान्त---मक्षयम्. स्वान्त---यम्.)
(60. विष्टपम्.)
अमृतं विक्रमपरं श्रीवत्सं वरुणार्पितम् ।
यान्तं (61) गुहालयं नान्तं षान्तं च मधुसूदनम् ।। 27.93 ।।
(61.गुणालयं भान्तम्.)
(62) सद्ध्रुवं द्रुहिणं क्रोधं पावकं सुमुखं पुनः ।
सपश्चिमं पद्मनाभं वैधरं च चतुर्मुख ।। 27.94 ।।
(62. सवर्णं.)
पवमानं सभुवनं (63) भान्तं कुङ्जरगोपनौ ।
भद्रहस्तं सरामं च यान्तं स्याच्छ्रीधरं तथा ।। 27.95 ।।
(63. हान्तम्.)
भद्रं च धनदं पापहननं जयमन्तरौ ।
विघ्नेशं सूदनं भल्लं भास्करं स्याच्च तुर्गतिम् ।। 27.96 ।।
शुभदं वामनपरमुग्रं वसुशिर स्तथा ।
प्रद्योतनं तथा यान्तमृतधा मोग्रवामनौ ।। 27.97 ।।
कमलं माधवपरं सनसीरुहसम्भव ।
वान्तं च शुभदं दण्डं खर्वं घड्गधरं पुनः ।। 27.98 ।।
सरोजमृतधामानं कतृतीयं च वैधरम् ।
अचां द्वितीयं धनदं बहुलं (64) सौरमाधरौ ।। 27.99 ।।
(64. सोममान्तरौ. सौरमान्तरौ.)
नासिक्यं च समुच्चार्य हुंफट् शीर्षाणि योजयेत् ।
त्रयोदशानि बीजानि हुंफडन्तानि योजयेत् ।। 27.100 ।।
(65) बीजाक्षरेषु प्रत्येकं हुंफट्कारमुदीरयेत् ।
द्वादशाङ्गविदां प्रोच्यं भास्करं सगुहालयम् ।। 27.101 ।।
(65. बीजाक्षराणि.)
नासिक्यं नृहरिं चौर्वं चन्द्रार्धं यान्तमौषधम् ।
सद्ध्रुवं मारुतं चोर्वीं सदण्डं च (66) क्षपाकरम् ।। 27.102 ।।
(66. क्षमापरम्.)
(67) समरं सद्ध्रुवं भानुमौर्वं नासिक्यमब्जज ।
प्रद्योतनं सभुवनमर्धेन्दुं सान्तमेव च ।। 27.103 ।।
(67. समनुम्.)
साग्निं सवामनं सार्धं चन्द्रं चैव सरोरुहम् ।
वासवं वामनवरं सद्ध्रुवं (68) कतृतीयकम् ।। 27.104 ।।
(68. सतृतीयकम्.)
महेन्द्रमौर्वं नासिक्यं (69) माधवं द्विरदाननम् ।
(70) सुभद्रं श्रीधरं भद्रहस्तं गारुडमेव च ।। 27.105 ।।
(69. माधरम्.)
(70. सुभगं.)
चित्रभानुं शशधरं पीयूषं वसुशीर्षकम् ।
मारुतं भद्रहस्तं च विजयं वसुसूदनौ ।। 27.106 ।।
प्रचण्डं (71) बन्धुसहितं व्रकतुण्डं गुहालयम् ।
(72) सुमुखार्णंच सप्तार्चिर्दरं चन्द्रमचां मुखम् ।। 27.107 ।।
(71. बन्धुरहितम्.)
(72. सुमुखान्तं.)
अपामधिपतिं चाग्निं जृम्भलं द्विरदाननम् ।
धनदं वरुणं मायां भान्तं स्याद्ब्रह्मसाधनम् ।। 27.108 ।।
पन्नगं सुमुखं पापहननं (73) यान्तमब्जज ।
अमृतं विक्रमयुतं वैधरं धूलिकेतनम् ।। 27.109 ।।
(73. नान्त.)
गोपनं सद्ध्रुवं (74) चन्द्रं सार्धेन्दुं भास्करं वसुम् ।
नपश्चिमं हुतवहं मतिमद्वासनं ततः ।। 27.110 ।।
(74. चान्द्रम्.)
पाटलं सर्वरोधं स्यात्कुञ्जरं मन्दरद्वयम् ।
लक्ष्मीं (75) सविजयं चाग्निं हृषीकेशं चतुर्मुख ।। 27.111 ।।
(75. स विजयाम्.)
भद्रहस्तं मानुषेखं सूधनं हरिमन्दिरम् ।
शङ्खं कलानिधिमपां नाथं वसुमधुद्विषौ ।। 27.112 ।।
पश्चिमं विजयं चाग्निं सुभद्रं पुरुषात्मकम् ।
कलानिध्योश्च युगलं वारुणं वसुशीर्षकम् ।। 27.113 ।।
वैधरं (76) मधुविध्वेषं माधवीं मधुविद्विषम् ।
आर्धचन्द्रं हुतवहमनन्तं च द्विरुद्धरेत् ।। 27.114 ।।
(76. मधुविद्वेषी.)
सान्तं सविक्रमं (77) सेन्द्रं बिन्दुमस्तकभूषितम् ।
दश पञ्छ च बीजानि हुंफदन्तानि पूर्ववत् ।। 27.115 ।।
(77. बन्धुं, सिंधु.)
मन्दरं विक्रम (78) वशमैन्द्रं त्रैविक्रमं तथा ।
खड्गहस्तं सरामं च वासवं सहविक्रमम् ।। 27.116 ।।
(78. परम्.)
वैधरं चोर्ध्वलोकेशं श्रीभीजं चानु (79) नासिकम् ।
ओतदेहं सयष्टिं च अचामादिं सयष्टिकम् ।। 27.117 ।।
(79. नायकम्.)
अचां द्वितीयमर्धेन्दुं कपिलं सङ्गिणं तथा ।
(80) माठरं गोपनं दण्डं माठरं पञ्चबिन्दुकम् ।। 27.118 ।।
(80. माधरम्.)
नासिक्यं भास्करं वीरसेनं यष्टिं च भास्करम् ।
ओतदेहं सयष्टिं च (81) पतनं चौर्वनासिकौ ।। 27.119 ।।
(81. तापनं चौर्वनासिकौ । लोहिताक्षं च कमलम्.)
रोहिताश्वं च कलशं विक्रमं कमलासन ।
वासुदेवं (82) सहृदयाह्लोदनं बन्दुमस्तकम् ।। 27.120 ।।
(82. सहृदयं चोदनम्.)
शुक्लं सहस्रकिरणमैन्दवं चाग्निमस्तकम् ।
वैरिंचं बन्धुसहितं पावकं सुमुखं तथा ।। 27.121 ।।
पश्चिमं त्वृतधामानं ककुभा (83) ह्वमनन्तरम् ।
सवारुणं (84) सुरपतिं सबन्धुं विजयं तथा ।। 27.122 ।।
(83. ककुभाहवमन्तरम्.)
(84. वसुपतिम्.)
लक्ष्मीं मधुद्विषमथो एकदंष्ट्रगतिं पुनः ।
अग्निशीर्षं द्वितीयं च झषं पञ्चान्तकं मतम् ।। 27.123 ।।
द्रुहिणं (85) चोदयं ब्रह्मन् वासवं वामनं (86) ततः ।
शुभदं पश्चिममचां द्वितीयं कमलासन ।। 27.124 ।।
(85. चोदनम्.)
(86. तथा.)
द्वितीयं सद्ध्रुवं चाब्ज (87) योनिं श्रीधरपङ्कजे ।
श्रीवत्समब्जं विजयं काममस्तक (88) मन्दरम् ।। 27.125 ।।
(87. योनिस्स्याच्छशिपङ्किजे.)
(88. मन्दरौ.)
उदयं (89) शुक्रशत्रुं च विजयं ब्रह्मसाधनम् ।
मन्दरं यान्तधनदं यान्तं चन्द्रघटं वसुं ।। 27.126 ।।
(89. चैव शक्रं च, चैव तच्चक्रम्.)
भल्लायुधं हृषीकेशमेक (90) नेत्रं घनं पुनः ।
सबन्धुं मन्दरं दृष्टियुगलं चाग्निशीर्षकम् ।। 27.127 ।।
(90. नेत्रघटं.)
भद्रं चतुर्गतिमथो फणीन्द्रं यान्तसूदनौ ।
नृहरिं कलानिधिमचा मादिं (91) यान्तं मधुद्विषम् ।। 27.128 ।।
(91. धान्तं - धाता.)
कतृतीयं गदध्वंसं विघ्नेशं नरवाहनम् ।
अमृतं वसुनामानं धरित्रीं मधुसूदनम् ।। 27.129 ।।
कमलं विक्रमपरं यान्तं वामनहस्तकम् ।
नास्तं (92) गुणालयं चैव णान्तं ढान्तं मधुद्विषम् ।। 27.130 ।।
(92. गुहालयम्.)
पश्चिमं चैन्दवमथो भान्तार्पितस (93) गोपनम् ।
धनदं चोतवपुषं भद्रं दक्षं च सूदनम् ।। 27.131 ।।
(93. गोपतिम्.)
वैधरं (94) चैन्दिरमचां द्वितीयं कमलासन ।
त्रिविक्रमं भद्रकरं महामायाङ्कितं वसुम् ।। 27.132 ।।
(94. चैन्दव.)
मृगेशं वरुणं चैव वैराजं पञ्चबिन्दुकम् ।
क्षपारकरं कञ्जभवं ततस्स्याद्विघ्ननायकम् ।। 27.133 ।।
सदृष्टिं वैधरं देवदत्तं कुम्भं चतुर्मुख ।
गतं सृतधामाह्वं मार्ताण्डं (95) पाशहस्तकम् ।। 27.134 ।।
(95. वामहस्तकम्.)
समाधवं स्याद्द्विजयं गोपनं विषमध्वनिम् ।
सरसीरुहं सोर्ध्वलोकं सरसीरुहसम्भन ।। 27.135 ।।
पद्मा स (96) मन्दराकारौ प्रचण्डझषसंमितौ ।
(97) वैधरं वरुणं रामं भूधरं वह्निमस्तकम् ।। 27.136 ।।
(96. समन्दमा.)
(97. वैराजम्.)
जृम्भलं त्वृतधामा च स्यातां भास्करमन्दरौ ।
(98) आद्यन्तं यान्तमाकारं गारुडं हिमदीधितिम् ।। 27.137 ।।
(98. अमृतम्.)
ओङ्कारादिं शशधरं (99) स विष्णुं वरुणं वसुम् ।
(100) सुधारसं प्रचण्डाग्निं भवे (101) दृतमनन्तरम् ।। 27.138 ।।
(99. विष्णुं वरुणमस्तकम्.)
(100. सुधासमम्. सुधारसं प्रवर्णाङ्कम्.)
(101. ध्रुत.)
क्रोधरूपं सरामं च (102) गदं च ऋतधामकम् ।
गोपतिं वारुणपतिं विक्रमं यादसां पतिम् ।। 27.139 ।।
(102. गतिम्.)
मधुद्विषं हुतवहं प्रचण्डं यामिनीपतिम् ।
सुधारसं (103) वसुयुतं जन्मध्वंसमपां पतिम् ।। 27.140 ।।
(103. बन्धुयुतम्.)
यान्तं सुधारसं बन्धुं (104) द्विद्विराकारमिन्दिराम् ।
द्विरदं पापहननं मधुसूदनमब्जज ।। 27.141 ।।
(104. विघ्नु.)
विजयाकार (105) गर्भाश्च आकारविधुमादराः ।
पावकं पीतवर्णाभं ब्रह्मसाधनमब्जज ।। 27.142 ।।
(105. भर्गाश्चा चकारविधमो.)
(106) भद्रविक्रमतोयेशमाकारेन्दुसविक्रमाः ।
(107) इभाकारं ततो द्युम्नभास्करा (108) भूतवैधराः ।। 27.143 ।।
(106. सुखदं विक्रमं तोयेश मकारेन्दु.)
(107. गुहकारम्.---उभाभ्रतस्ततो.)
(108. वृतवै.)
मारुताकार भद्राश्च मान्ताकारमहोत्पलाः ।
उग्रात्मवसुवायव्यसूदना विधिरब्जज ।। 27.144 ।।
उग्रशीर्षकमारुत्यौ पश्चिम (109) द्युतिमैन्दवम् ।
वामनं वैधरं सूक्ष्मलोचनं (110) कतृतीयकम् ।। 27.145 ।।
(109. वृत.)
(110. कत्तृ.)
कुम्भं भद्रकरं चापि माधवीं भास्करं मधु ।
सादनं त्रिदशाहारं विक्रमं चोग्ररूपकम् ।। 27.146 ।।
प्रचण्डमोतदेहं च शुभदं (111) वित्तवर्धनम् ।
पापकं सुमुखं भद्रहस्तं वै रुहमक्षरम् ।। 27.147 ।।
(111. चित्तवर्धनम्. वित्तदर्शनम्.)
कुम्भं (112) सुदर्शनं चैव कपिलाक्षं चतुर्मुख ।
द्विः (113) प्रपन्नोस्मीतिपदं समुच्चार्य पितामह ।। 27.148 ।।
(112. च सूदनं.)
(113. प्रसन्नोस्तीति.)
ब्रह्मकोशं पुरस्कृत्य नृहरिं चानलं तथा ।
ब्रह्मसाधननासिक्यौ भीजं प्रोक्तमतः परम् ।। 27.149 ।।
निगमादिं सुभद्रं च पाटलं सद्ध्रुवं तथा ।
मन्त्रस्य शक्तिमुद्धृत्य च्छन्दसामादिमुद्धरेत् ।। 27.150 ।।
गारुडं मधुहन्तारं नासिक्यं विजयं वसुं ।
सपद्मनाभं मायां च सूक्ष्मदृङ्माधवं घटम् ।। 27.151 ।।
भद्रहस्तं वैधरं च श्रीधरं चाग्निविक्रमौ ।
वैराजं भास्करं यान्तं मधु (114) शत्रु समिरणौ ।। 27.152 ।।
(114. शक्रा.)
मन्दरं (115) माठरमचां द्वितीयं विघ्णु पावकौ ।
कलानिधिं सबन्धुं च सार्धचन्द्रं (116) त्विषां पतिम् ।। 27.153 ।।
(115. माधवमचां.)
(116. द्विषां.)
सूदनं शङ्खमपरं कतृतीयं चतुर्मुख ।
(117) सान्तं वसुयुतं चैव द्विरुच्चार्य चतुर्मुख ।। 27.154 ।।
(117. चान्तं वायुसुतं.)
हुंफडन्तं च नत्यन्तं हृन्मन्त्रं परिकीर्तितम् ।
(118) वेदादिं वन्नगं पञ्चबिन्दुभूषितमन्तकम् ।। 27.155 ।।
(118. वेदादि पञ्चगम्.)
वासिक्यं भद्रहस्चं च मधुद्वेषिं वसुं तथा ।
ऐन्दवं विक्रमपरं नासिक्यं भास्करं घटम् ।। 27.156 ।।
सबन्धुं कमलं पद्मनाभं वामन (119) हस्तकम् ।
पुण्डरीकं सबन्धुं च वै राजं वैधरं ततः ।। 27.157 ।।
(119. मस्तकम्.)
गोधनं विजयं मान्तं वैधरं मधुसूदनम् ।
मानुषं चामृतं भद्रकरं गोपनपद्मजौ ।। 27.158 ।।
सगोपनदरं चैव माधरं कतृतीयकम् ।
ऋतं च सैन्धवं बन्धुं सध्रुवं (120) माठरं त्वचाम् ।। 27.159 ।।
(120. माधरं त्वचाम्.)
द्वितीयं पुरुषं ब्रह्मन् माधवीं माधरं पुनः ।
(121) भृगुखड्गरं चैव द्विरुच्चार्यमतः परम् ।। 27.160 ।।
(121. भृगुं खड्गधरं.)
हुंफडन्तं शिरोमन्त्रं ठठ इत्यवसानकम् ।
(122) वेदादिमुरगं षष्ठमचामर्धेन्दुमैन्दवम् ।। 27.161 ।।
(122. ततः परम्.)
पुल्लनेत्रं सभुवनं गर्हितं (123) भूधरात्मकम् ।
कुम्भं सविक्रमं पद्मं (124) खेटकी कलशं त्वचाम् ।। 27.162 ।।
(123. भूसुरात्मकम्.)
(124. खेटकीं)
तृतीयं (125) कमलं पञ्चबिन्दुं सुमुखमब्जज ।
यान्तं (126) च शिरसामब्जयोनिमेणेशमैन्दवम् ।। 27.163 ।।
(125. कलशं पंच.)
(126. तच्छइर समब्ज.)
स्वाहाधरं शशधरं मुखं भूधरसूदनौ ।
चतुर्गतिं शतानन्दं वासुदेवं नपश्चिमम् ।। 27.164 ।।
कलानिधिं सरामं च यष्टिं भास्रगोपनौ ।
चतुर्गतिं (127) खर्वदेहं सूदनं भानुविक्रमौ ।। 27.165 ।।
(127. खड्गदेहम्.)
(128) द्विरभ्यसेद्धुंफडन्तं (129) शिरोमन्त्रमुदीरितम् ।
देवानां दासवचनमन्ते संयोज्य मन्त्रवित् ।। 27.166 ।।
(128. द्विर्विन्यस्येत्.)
(129. शिखा.)
ओङ्कारं नृहरिं वीनसेनं नासिक्यमैन्दवम् ।
माठरं यामिनीनाथमृतधामसदर्भितम् ।। 27.167 ।।
आखण्डलेशं सर्पेशमाकारं कतृतीयकम् ।
द्विरदं विक्रमपरं बहुलं (130) घटविक्रमौ ।। 27.168 ।।
(130. घटविक्रमम्.)
अम्भोरुहं चोतदेहं हृदयाह्लोदविक्रमौ ।
कलानिधिं सुभद्रान्तं सुमुखान्तं समाधवम् ।। 27.169 ।।
छान्तं शशधरं देवदत्तं चान्तं सकुम्भकम् ।
ऐन्द्रं च कुञ्जरमुखं पीयूषद्युतिविक्रमौ ।। 27.170 ।।
सयष्टिं द्युमणिं चादि (131) देवं यान्तं हिमालयम् ।
नदण्डं गरुडं बन्धुं पश्चिमं च द्विरुद्धरेत् ।। 27.171 ।।
(131. देवमान्तं.)
हुंपढन्तं च कवचं हुंफट्शीर्षं प्रकीर्तितम् ।
आगमादिं नरहरिं चौर्वं नासिक्य (132) मब्जज ।। 27.172 ।।
(132. मेव च .)
वैधरं (133) गोधनं णान्तं मारुत्यं (134) वैधरं मधु ।
सूदनं भद्रहस्तं च पीयूषं सरसीरुहम् ।। 27.173 ।।
(133. गोपवर्णान्तं - गोपनंणान्तम्.)
(134. माधरम्.)
गोपनं पुलहं चैव सूदनं मुरुतं वसुम् ।
कूटं (135) पुल्लायुधमचां षष्ठं वै राजमेव च ।। 27.174 ।।
(135. भल्लायुध.)
कतृतीयं पद्मनाभं भास्करं मधुविद्विषम् ।
दृष्टिं सवामनं भद्रहस्तं साग्निं समुद्धरेत् ।। 27.175 ।।
भास्करं भद्रहस्तं च तद्द्विरुच्चार्यमन्त्रवित् ।
पश्चिमं वक्रतुण्डं च मन्दरं सुप्रतिष्ठितम् ।। 27.176 ।।
तानुदीर्याथमन्त्रज्ञस्सुभद्रं चैन्दवं पुनः ।
सदक्षं वामनशिरा अम्भोरुहनिकेतन ।। 27.177 ।।
अम्भोरुहं सभुवनं पावकं भुवनं तथा ।
नृहरिं पापहननं विक्रमं विजयं पुनः ।। 27.178 ।।
वैरिञ्चं (136) वामनं दक्षमौग्रं दक्षं चतुर्मुख ।
गुहालयं सविजयमग्निशीर्षं च मारुतम् ।। 27.179 ।।
(136. वायसम्.)
ऐणेशं मन्दरं भानुं सूदनं विघ्ननायकम् ।
यान्तं ताराधिपं मायां सद्ध्रुवं माठरं तथा ।। 27.180 ।।
मधुद्विषं (137) मारुतं च हुंफ (138) डस्त्रं प्रकीर्तितम् ।
अस्त्रशब्दं चतुर्थ्यन्तं फडन्तं च समुद्धरेत् ।। 27.181 ।।
(137. माधवं च.)
(138. फडन्तम्.)
उद्गीथं नृहरिं (139) सर्गमन्धरं माठरं त्वचाम् ।
द्वितीयं पश्चिमं पद्मनाभं चादिसमन्वितम् ।। 27.182 ।।
(139. साग्निं मन्दरं माधरम्.)
खड्गहस्तं च सुमुखं मेदिन्याः (140) पदमम्बुजम् ।
सगोपनं सुरपतिं गोपनं खद्वितीयकम् ।। 27.183 ।।
(140. पतिमम्बुजम् ।।)
भद्रहस्तं (141) सरामं च वासवं ब्रह्मसाधनम् ।
खड्गहस्तं गजमुखं सूदनं च चतुर्गतिम् ।। 27.184 ।।
(141. सनामं च.)
आचामादिं गजमुखमौषधं ना न्तमब्जज ।
माधवीं मुरुतं यान्तं माधरं पश्चिमं तथा ।। 27.185 ।।
सबन्धुं सप्रचण्डं चाप्येणेशं पाटलप्रियम् ।
मार्ताण्डं मधुविद्वेषिं भद्रं स्यादृतधामकम् ।। 27.186 ।।
दाक्षायणीशं रामं स्यादनुस्वारं चतुर्मुख ।
दिवाकरं चादिदेवं (142) दरं वैधरगोपनौ ।। 27.187 ।।
(142. मन्थवैधरगोपनौ.)
पावकं पुरुषात्मानं (143) द्विरुक्तं कमलासन ।
हुंफडन्तं च नेत्राभ्यां वौषट्कारं प्रयुज्य च ।। 27.188 ।।
(143. द्विरुक्त्वा.)
एवं न्यस्य विधानज्ञो विष्कम्भान्तं सदण्डकम् ।
दिवाकरसहस्राभं (144) हृदयार्णं षडुद्धरेत् ।। 27.189 ।।
(144. हृदयादीन् समुद्धरेत्.)
उत्पलं कुमुदं रक्त जपाबन्धूकरिंशुकम् ।
पाटलं हृदयादीनां वर्णष्षण्णां क्रमाद्भवेत् ।। 27.190 ।।
* रक्षामन्त्रः.*
रक्षामन्त्रं प्रवक्ष्यामि छन्दसामादिमुद्धरेत् ।
विघ्नेशं पद्मनाभं स्याद्द्विजराजं सविक्रमम् ।। 27.191 ।।
सदण्डं च समार्ताण्डं बहुलं सगुहालयम् ।
पश्चिमं वामनपरं प्रचण्डं हरिणं भवेत् ।। 27.192 ।।
भल्लायुधं गदध्वंसं लान्तं भद्रकरं तथा ।
आचामादिं दिनमणिं माधवं सौरमक्षरम् ।। 27.193 ।।
एणेशं धनदं दक्षं वसुशीर्षं च सूदनम् ।
धनाध्यक्षं तथा दक्षं पावकं मस्तकस्थितम् ।। 27.194 ।।
(145) धान्तं सविक्रमं खान्तं हान्तं स्यात्कपिलं पुनः ।
(146) द्विरदास्यं बन्दुपरं माधवीं यान्तशीर्षकम् ।। 27.195 ।।
(145. यान्तं.)
(146. द्विरासनं बन्धुपरं माधवं.)
वासुदेवं खड्गधरं चतुर्गतिमनन्तरम् ।
(147) मुखं सवैधरं ब्रह्मन्माठरं तद्ध्विरुद्धरेत् ।। 27.196 ।।
(147. सुखं.)
पवित्रमप्रमेयं स्यात्तुण्डं चादिसमन्दरम् ।
सर्वरोधं द्विरुच्छार्य कमलं सविरोचनम् ।। 27.197 ।।
यथापुरं सदण्डं च सूदनं यान्तमारुतौ ।
द्विर्वक्तव्यं सुभद्रं च विक्रमं विघ्नवैधरौ ।। 27.198 ।।
(148) तद्विरुद्धश्छलध्विंसी बन्दुविघ्नं सवैधरम् ।
(149) ऐन्दिरं चोतदेहं च उग्रं मान्तं चतुर्मुख ।। 27.199 ।।
(148. तद्विरुक्त्वा.)
(149. ऐणएशं.)
अत्रिं चाग्निं मधुद्वेषममृतं धूलिकेतनम् ।
तार्क्ष्यं सर्ङ्कणं दण्डं तद्विरुच्चार्य पद्मज ।। 27.200 ।।
मार्ताण्डमूर्ध्वनासिक्यं तदुदीर्यमतः परम् ।
(150) पावकं चौर्वशिरसं सदण्डं गोपनं तथा ।। 27.201 ।।
(150. सहितं.)
गदध्वंसं छलध्वंसं तदुदीर्य जयं तथा ।
वैराजं यान्तशिरसं शुक्लं वै राजपावकौ ।। 27.202 ।।
जृम्भलं (151) समता ब्रह्मन् माठरं दक्षसंज्ञितम् ।
प्रचण्डं माधवं चैव कलशं बन्धुशीर्षकम् ।। 27.203 ।।
(151. माधरं.)
(152) कमलां वारुणं यान्तं हृषीकेशं च पश्चिमम् ।
माया (153) जितं प्रचण्डं च माधवं च ठठान्तिमम् ।। 27.204 ।।
(152. पमलाभरणं यान्तं.)
(153. ङ्कितम्.)
बीजमङ्गानि चोक्तानि दुर्वासा ऋषिरुच्यते ।
छन्दो बस्तं देवता च महानरहरिर्हरिः ।। 27.205 ।।
मालामन्त्रे त्रिवर्णास्स्युश्शुक्ल पीत (154) सितासिताः ।
तत्वं च परमाप्योम सकलीकरणं तथा ।। 27.206 ।।
(154. सितारुणाः.)
विकलीकरणं चैव मन्त्र (155) स्याप्यायनं भवेत् ।
मोचनं चैव (156) इत्येते कथिताः कमलासन ।। 27.207 ।।
(155. मन्त्रस्यैवा.)
(156. इत्येतत्कथितम्.)
चतुष्षष्टिविधे मन्त्रे नारसिंहे महानयम् ।
नृसिंहो व्योमचक्राख्यः पातालाख्यश्च सूरिभिः ।। 27.208 ।।
ध्यायेन्मृत्युभये कृत्याप्रवेशे युधि विद्विषाम् ।
उच्चाटने संहनने भूतानामपनोदने ।। 27.209 ।।
आख्यायते ध्यानमस्य स्मृतं स वितृमण्डले ।
मध्ये विकस्वरे शुभ्रे पङ्कजे विष्टरोदरे ।। 27.210 ।।
आसीनं षोडशमुखं भुजै स्तद्विगुणै र्युतम् ।
आयुधैश्शज्ञचक्राद्यैर्दुर्दर्शैरश्मिमालिभिः ।। 27.211 ।।
परचक्रप्रतिक्षेपे दुष्करेष्वन्यकर्मसु ।
* बीजशक्त्यादिद्वादशाङ्गप्रश्नः.*
ब्रह्मा:---
द्वादशाङ्गानि येवेत्तिमन्त्रं सोर्हति वेदितुम् ।। 27.212 ।।
इत्युक्तं भगवन् भूयो जिज्ञासा तेषु वर्तते ।
* तन्निरूपणम्.*
श्रीभगवान् :---
बीजं शक्तिस्तथैवाङ्गं हृदयादि च षड्विधम् ।। 27.213 ।।
ऋषिश्छन्दो देवता च वर्णोद्दीपनमेव च ।
अप्यायनं मोचनं च सकलीकरणं तथा ।। 27.214 ।।
विकलीकरणं चैव द्वादशैतानि पद्मज ।
तेषां स्वरूपं वक्ष्यामि क्रमात्तदवधार्यताम् ।। 27.215 ।।
मन्त्रस्य प्रकृतिर्बीजमक्षरं तत्समुद्धृतम् ।
आत्मामन्त्रस्य सा शक्तिर्यथा मन्त्र (157) फलप्रदः ।। 27.216 ।।
(157. फलप्रदा.)
हृदयादीनि मन्त्रस्य षडङ्गानि पितामह ।
देवस्येव मुखादीनि एषु मन्त्रः प्रतिष्ठितः ।। 27.217 ।।
ऋषिः फलस्य द्रष्टा प्याच्छन्दस्तदभिधीयते ।
अक्षराणामियत्ता या देवता वाच्यमुच्यते ।। 27.218 ।।
रूपभेदश्च शुक्लादिवर्णः कमलसम्भव ।
संपुटीकरणं रेफलकाराभ्यां तु दीपनम् ।। 27.219 ।।
यथोदिताक्षरैस्सर्वैस्संस्कारश्शोषणादिभिः ।
मन्त्रस्य देहवत्प्रोक्तं यत्तदाप्यायनं बुधैः ।। 27.220 ।।
मन्त्रस्य मोचनं नाम प्रयोगस्तम्भनादिषु ।
मन्त्राक्षराणां प्रत्येकं संपुटीकरणं स्मृतम् ।। 27.221 ।।
सकलीकरणं विद्धि प्रणवेन चतुर्मुख ।
वौषट्कारवषट्कारहुं कारैः पृथगीरितैः ।। 27.222 ।।
देवतानामभीष्टानां सन्निधिर्यः पुटादिषु ।
प्रार्थ्येते (158) स चतुर्वक्त्र विकलीकरणाह्वयः ।। 27.223 ।।
(158. च.)
एतान्येन प्रयुञ्जीत विद्ययोराद्ययोरपि ।
* वामनमन्त्रः.*
एकादशाक्षरो मन्त्रो वामनस्य प्रदर्श्यते ।। 27.224 ।।
पूर्वोदितास्सप्तवर्णाः विशेस्समुदीर्यते ।
पीयूषमादिदेवं च मन्धरं चादिमुद्धरेत् ।। 27.225 ।।
विघ्नेशं गोपनं वायुमाद्यं चेति चतुर्मुख ।
बीजं (159) शिरस्यूर्द्वलोको यष्टिश्चेति (160) चतुर्गतिम् ।। 27.226 ।।
(159. शिखण्ड्यूर्ध्व शिखामूर्द्व.)
(160. तु दर्शम् ।।)
अङ्गानि षट्फलादीनि स्वरान्तान्यानुपूर्वशः ।
सानुस्वाराणि योज्यानि काश्यफो मुनिरिष्यते ।। 27.227 ।।
छन्दश्च दैवं गायत्रं वामनो देवता पुनः ।
लक्षाण्येकादश जपे होमे च जलतर्पणे ।। 27.228 ।।
ततस्सिध्यति मन्त्रोयं पुरुषार्थचतुष्टयम् ।
फलमन्यच्च यच्चेष्ट मष्टाक्षरवदीरितम् ।। 27.229 ।।
* त्रिविक्रममन्त्रः.*
ओमादिनतिपूर्वाणि चत्वार्याद्यानि पूर्ववत् ।
सप्ताक्षरस्यमन्त्रस्य साधनं च यथापुरम् ।। 27.230 ।।
सप्तलक्षजापादुक्तं फलमाप्नोति मन्त्रवित् ।
गृहीत्वार्णान् सप्त पूर्वन्वैराजो (161) ग्निस्त्रिविक्रमः ।। 27.231 ।।
(161. अत्रि.)
यदाधिपश्च माया च स्पर्शादिरनलोन्मुखम् ।
स्पर्शान्तश्चादिदेवश्च शङ्खो विष्णुरितीरितः ।। 27.232 ।।
द्वादशार्णात्मको मन्त्रस्तदेव कमलासन ।
त्रिविक्रमस्य बीजं च भास्करो विष्णुरेव च ।। 27.233 ।।
अर्धचन्द्राकृति (162) श्चेति तदेवाङ्गं च षड्विधम् ।
ऋषिश्च देवता छन्दः पूर्वोक्तान्येव साधनम् ।। 27.234 ।।
(162. श्चैते देवताङ्गं च.)
पूर्ववत्फलमस्यापि राज्यादिप्राप्तिरिष्यते ।
(163) न त्वेकं शक्यते वक्तुमानन्त्यात्फलसम्पदाम् ।। 27.235 ।।
(163. नैकैकं.)
* जामदग्न्यराममन्त्रः.*
रामस्य जामदग्न्यस्य मन्त्रोद्धारश्चतुर्मुख ।
गृहीत्वा पूर्ववत्सप्तवर्णान् साधारणां स्ततः ।। 27.236 ।।
असाधारणवर्णानां क्रमादुद्धारणं शृणु ।
जन्महन्ता गोपनश्च माधवी विष्णुर (164) स्वतः ।। 27.237 ।।
(164. न्ततः.)
दृष्टिश्छादिर्गदी भद्रपाणिर्वायुश्च गोपनः ।
चतुर्गतिस्स्वरादिश्च वह्निराकार एव च ।। 27.238 ।।
मन्धराश्छादिदेवश्चश्वसनो विष्णुरब्जज ।
हुंपडन्त इति प्रोक्तामन्त्रस्सप्तदशाक्षरः ।। 27.239 ।।
अनलः प्रणवादिश्च सयष्टिर्बीजमिरितम् ।
एतदेवाङ्गमावृत्तं षट्कृत्वो गार्ग्यदर्शनः ।। 27.240 ।।
छन्दश्च दैवं गायत्रं जामदग्न्योस्य देवता ।
जपेद्द्विंशतिलक्षाणि ततस्सर्वार्थसाधनः ।। 27.241 ।।
दशाक्षरोऽथवा मन्त्रोजामदग्न्यपदं विना ।
भीजादि सर्वं पुर्वोक्तं मन्त्रश्शत्रुक्षयावहः ।। 27.242 ।।
* दाशरथिराममन्द्रः.*
मन्त्रो रामावतारस्य ब्रह्मन् दाशरथेर्वरः ।
कथ्यते भरतादीनां तद्देवीनां मनुः क्रमात् ।। 27.243 ।।
द्वादशाक्षरमारभ्य मन्त्रं तदनु पद्मज ।
चतुर्मूर्तिमयायेति पदमुच्चार्यमन्त्रवित् ।। 27.244 ।।
अभिरामशरीरेति चतुर्थ्यन्तमुदीरयेत् ।
रामेति तद्विभक्त्यन्तं (165) ठठेति तदनन्तरम् ।। 27.245 ।।
(165. पठेति च ।।)
द्वात्रिंशदक्षरात्मायं मनुरुक्तश्छतुर्मुख ।
भीजमस्यानलो विष्णुस्सानुस्वारः क्रमात् स्मृतः ।। 27.246 ।।
अङ्गानि षट्च तद्बीजमकारादि क्रमाद्भवेत् ।
अपरं राममन्त्रं ते कथयामि चतुर्मुख ।। 27.247 ।।
प्रथणं प्रणवं प्रोच्य पञ्चबिन्दुं सयष्टिकम् ।
चतुर्थ्यन्तं चतुर्मूर्तिपदमुक्त्वाततः परम् ।। 27.248 ।।
(166) चतुर्गतिमयायेति शरशार्ङ्गभृदन्वतः ।
चतुर्थ्यन्तं (167) शरत्पूर्वमिन्दीवरपदं ततः ।। 27.249 ।।
(166. चतुर्वेद.)
(167. शिरः पूर्वम्.)
त्विषेति च पदं पश्चात्प्रयोज्यं भगवत्पदम् ।
चतुर्ध्यन्तं समुच्चार्य मभिरामपदं ततः ।। 27.250 ।।
शरीरायेति च प्रोच्य रामायेति पदं तथा ।
सत्यन्तमिति मन्त्रस्य पदोद्धारः प्रदर्शितः ।। 27.251 ।।
बीजं तदङ्गषट्कं च तदृषिश्शरभः स्मृतः ।
छन्दश्च पूर्ववद्देवो रामात्मा भगवान् (168) हरिः ।। 27.252 ।।
(168. ऋषिः.)
जपेदक्षरलक्षं तु ततस्सिध्यति मन्त्रराट् ।
फलं चाभीष्टमचिराल्लभते दुर्लभं महत् ।। 27.253 ।।
मातृका च क्रविन्यस्तानर्णषण्डान् समन्त्रितान् ।
अभ्यर्च्य कुसुमैस्तस्मिन्नुद्धरेद्भगवन्मयः ।। 27.254 ।।
* मालामन्त्रान्तरम्.*
अतो (169) न्यं मन्त्रसङ्घातं मालामन्त्रं यथातथम् ।
वक्ष्यामि संप्रति ब्रह्मन् यधा (170) वदवधार्यताम् ।। 27.255 ।।
(169. मर्णसङ्घातं.)
(170. तदव.)
आदौ नादं सप्तवर्णं वसुं मधुनिघादनम् ।
स्पर्शान्तं गोपनं शङ्खं मुखं विष्णुं जयं तथा ।। 27.256 ।।
अचां पञ्चममाहेन्द्रा नादादिं घटविक्रमान् ।
(171) शङ्खिनं शिखिनं दक्षं करालं वसुनिष्ठितम् ।। 27.257 ।।
(171. शङ्खिनां शङ्खिनं.)
(172) हस्तं मधुद्विषं ब्रह्मन् धूलिकेतनमदिमम् ।
नान्तयान्तौ सदक्षाह्वा पश्चिमोदयमक्षरम् ।। 27.258 ।।
(172. भान्तं.)
(173) अत्रिं रमाधरं क्रोधरूपिणं चानलाह्वयम् ।
अचां द्वितीयं पवनं कलशं बन्धुमस्तकम् ।। 27.259 ।।
(173. अग्निं.)
उग्रात्मसुमुखौ स्यातां यादोनाथमृगाधिपौ ।
दिनेशमादिं नासिक्यं शशाङ्कं मधुविद्विषम् ।। 27.260 ।।
वैराजं माधवीं भद्रकरं माधवमब्जज ।
वक्रतुण्डमचामादिं विजयोदयसंज्ञितम् ।। 27.261 ।।
पञ्चान्तकं (174) तथा यान्तकं मन्तकस्थं जयं पुनः ।
राममन्दरशङ्खास्स्युर्गोपनं पवनं मुखम् ।। 27.262 ।।
(174.पञ्चात्मकम्. पञ्चकं तम्.)
आदिभल्लायुदौ रामवसुगोपनपाटलौ ।
(175) श्रीवत्समादिमनलं वामनाग्नि मधुद्विषम् ।। 27.263 ।।
(175. श्रीवत्सपञ्चायुधादिमनलं वामनोद्विषः.)
चितुर्गतिं खड्गधर (176) मेकदृद्वैधरं तथा ।
(177) दक्षं चाग्निं हृषीकेश विजयद्वयमन्वतः ।। 27.264 ।।
(176. मेकदृक् श्रीधरौ.)
(177. मन्दरं च. हृषीकेश.)
यान्तं तच्चिरसं पश्चात्पवनं मृगवल्लभम् ।
ऋक्षेशमेकनयनदरगोपनविघ्नराट् ।। 27.265 ।।
बन्धुयान्तौ च भुवनं वैधरौ पुण्यभास्करौ ।
श्वसनं दक्षभुवनौ चक्रविघ्नेशसप्तमम् ।। 27.266 ।।
(178) अचां कारणमेणेशकलात्मवसुविक्रमाः ।
करालगोपनौ पापहननौ विक्रमं तथा ।। 27.267 ।।
(178. ककारचारुमेणशकलशा रूप, अचां विकारमैणेश.)
महेन्द्रकुम्भावनलो मधुसूदन भास्करौ ।
(179) यान्तगोपनसप्तार्चिर्मधुसूदनमारुताः ।। 27.268 ।।
(179. वारि.)
प्रचण्डगोपनौ खड्गधर श्रीधरवैजयाः ।
पीयूषगोपनौ पद्मश्रीधरौ वनमालिनौ ।। 27.269 ।।
मेघपञ्चात्मद्विरदकमलामधुविद्विषः ।
पितो मृगेशपवनगोपनाश्शुक्ल श्रीधराः ।। 27.270 ।।
पावकस्थान्तगोविन्दवै राजदरवैधराः ।
मधुसूदनविघ्नेशसुधारस समाह्वायाः ।। 27.271 ।।
ब्रह्मसाधनसप्तार्चिर्गतिभास्करसप्तमाः ।
अचा (180) मादिं धरो वेधाः ब्रह्मसाधनखेटकी ।। 27.272 ।।
(180. मत्र धरो.)
अग्निश्च कपिलं ब्रह्मन् भल्लायुधसविक्रमम् ।
विघ्नेशं वैधरं प्रेतनायकं रामश्रीर्षकम् ।। 27.273 ।।
भद्रपाणिं तथा दृक्छ सरसीरुहसम्भव ।
दक्षादि देवहुतभुक्चतुर्गतिमनन्तरम् ।। 27.274 ।।
श्रीवत्सवासु देवौ द्वौ क्रोधरूपसमिरणौ ।
(181) करालं च ऋतं भद्रपाणिं वै राजमारुतौ ।। 27.275 ।।
(181. कारणं च.)
पश्चिमं वसु कूर्मं च विक्रमं दृष्टिगोपनौ ।
विघ्नेशच्छलविध्वंसमाधवा वैधरात्मकम् ।। 27.276 ।।
जलजं पापहन्तारं हुतभुक्कमलं घटम् ।
वक्रतुण्डं तथा द्युम्नं द्विरदाननविक्रमम् ।। 27.277 ।।
भान्तमग्निं चोतदेहं वक्रतुण्डं चतुर्गतिम् ।
पश्चिमाननयान्तौ च ओतदेहसमन्वितौ ।। 27.278 ।।
वै राजद्वितयं दक्षं गोपनं नासिकोद्भवम् ।
गदध्वंसं च कपिलमत्रिं मधुनिघादनम् ।। 27.279 ।।
यान्तं चतुर्गतिं शुक्लं वारुणाग्नि समिरणाः ।
एकदन्तं चैकदृष्टिं बहुलं मधुविद्विषम् ।। 27.280 ।।
प्रचण्डं विक्रमं वक्रतुण्डं च सगुहालयम् ।
सुमुखं हुतभुक्छङ्खमनलं मधुविद्विषम् ।। 27.281 ।।
यष्टिं दक्षं तथाकारं नासिक्यं धूलिकेतनम् ।
ध्रुवं माहेन्द्रमाकार (182) मर्धांशुं कुम्भगोपनौ ।। 27.282 ।।
(182. मर्धंशु भुजगापनाः ।)
सद्ध्रुवं जन्महन्तारं वारुणं पुलहं तथा ।
मुसली कुम्भमाकारं पीतवायुधनप्रदाः ।। 27.283 ।।
श्रीधरं भद्रहस्तं च (183) हरिं स्वाहामयावहम् ।
हुंफडन्तं नवैतानि बीजानि कमलोद्भव ।। 27.284 ।।
(183. नृहरिं स्वाहया धनम् ।।)
पद्मपाणिं पद्मनाभं वनमालां त्रिविक्रमम् ।
श्रीवत्सं शङ्खिभुवनं भद्रहस्तास्सविक्रमाः ।। 27.285 ।।
अग्निं मृगेशं वरुणं वैराजं बन्धुमस्तकम् ।
दरं तार्क्ष्यं तथाचादिदेवं शुक्लं श्रियः पतिम् ।। 27.286 ।।
वसुगोपनशीतांशुभुवनानलवारुणाः ।
मृगेशविजयाकार विष्कम्भाश्शुक्ल विक्रमौ ।। 27.287 ।।
दृक्पुण्यमादिपदेवं च (184) भास्करं ऋतधामकम् ।
सूक्ष्मदृक्छङ्खदक्षौच वैधरोऽग्निश्छतुर्गतिः ।। 27.288 ।।
(184. प्रभाकर सविक्रमौ ।)
पश्चिमं (185) त्रितदक्षादि अग्निवायुसरोरुहाः ।
ऋतधामा जया गोपा पश्चिमा ? शुक्लमब्जज ।। 27.289 ।।
(185. धृतदक्षात्रिरग्नि वायुसरोरुहाः ।। ऋतणान्तधरा गोपपश्चिमा.)
(186) भानुगोपनसप्तार्चि र्भल्लायुधगुहालयाः ।
नै राजककुभौ कुम्भहव्यवाट्कपिलाह्वयाः ।। 27.290 ।।
(186. भान्त हान्त.)
वैधरं भास्करं पापहननं वक्रतुण्डकम् ।
गदिनं ऋतधामानं भास्करं सुमुखं तथा ।। 27.291 ।।
कुम्भविक्रमजन्माह्वपद्मनाभास्सदेवराट् ।
सुभद्रसङ्खदक्षाह्वमोतदेहोऽथ भास्करः ।। 27.292 ।।
पवनं पापहननं गोपनौ विजयो दरः ।
उदयं पीतकमलं मधुसूदनविघ्नराट् ।। 27.293 ।।
माहेन्द्रश्शुभदो वह्निगोधनौ कुम्भविक्रमौ ।
अग्निरत्रिः (187) कुम्भधरौ लक्ष्मीखर्वाश्चतुर्मुख ।। 27.294 ।।
(187. पुण्यधनौ श्रीश्चदृष्टि ।)
(188) शुक्लोदयं तथा दृष्टिश्श्रीवत्सं वसुशीर्षकम् ।
विघ्नेश शुभदौ स्यातां सरसीरुहसम्भव ।। 27.295 ।।
(188. शुक्लोदया तथा वृष्टि.)
मधुसूदश्शार्ङ्गपाणिः पञ्छान्तकविधी पुनः ।
(189) और्वदक्षौतदेहश्च दृष्टिं सरसिजं तथा ।। 27.296 ।।
(189. ओतदक्षोत.)
वामनो धनदो यान्तस्सुभगाग्नि (190) वनस्रजः ।
रामपुण्याग्नि गरुडविक्रमौ जयविक्रमौ ।। 27.297 ।।
(190. र्वसुप्रजाः.)
सुभगोऽग्नि रादिदेवः कुञ्जरेण मुखाक्षरः ।
करालं कपिलं पापहननं पवनात्मजम् ।। 27.298 ।।
श्रीधरं दृष्टिधनदं पञ्चबिन्दुं सविघ्नराट् ।
शुभोत देहावुग्रात्मा चतुर्गतिमचां मुखम् ।। 27.299 ।।
शैलद्वयं द्वादशात्मा गोपनश्शुक्ल पश्चिमौ ।
श्रीधरस्सुमुखो भूमिरनलः पञ्च (191) बिन्दुकः ।। 27.300 ।।
(191. विंशकः.)
करालाग्निं महामाया सुभगो बन्धुरन्वतः ।
वैराजं विक्रमं पुपहननं बन्धुमस्तकम् ।। 27.301 ।।
प्रचण्डं पुण्डरीकाक्षं वासुदेवं जयं वसुम् ।
सूक्ष्मदृक्कुम्भवरुणपश्चिमाननमाधराः ।। 27.302 ।।
उग्रात्ममृगदक्षाह्व गोपना धनदः कुटः ।
दक्षः पुण्योदयश्शुक्ल (192) श्शुभदृष्टिर्विनायकः ।। 27.303 ।।
(192. गुहदृष्टिः.)
वैधरो मधुहन्ताच मन्दरं ब्रह्मसाधनम् ।
अत्रिरग्निपवित्राह्वा (193) वैधरस्पर्शपश्चिमाः ।। 27.304 ।।
(193. वैराजप्पर्शपञ्चमः ।)
भद्रादिदेवभल्लाह्वमुग्रभूमिं मधुद्विषम् ।
एकदृग्दक्षविघ्नेशमाधवा मृगवल्लभाः ।। 27.305 ।।
भास्करं देवदत्तं च भानुं बन्धुं सुभद्रकम् ।
(194) गदध्वंसं तथा कुम्भं द्विरदं पश्चिमाननम् ।। 27.306 ।।
(194. पदध्वंसस्तथा.)
और्वाग्नि भुवनावुग्रयष्टिर्वेधाश्श्रियः पतिः ।
अग्निं रमाधरं द्विश्च अग्निकूट (195) विगर्हितम् ।। 27.307 ।।
(195. विदम्भितम्.)
तथा भद्रमधुद्वेषिदृष्टिगोपनमस्तकान् ।
वैराजदक्षकमलगोपनाविन्दुपक्षिराट् ।। 27.308 ।।
मनुं ध्रुवाग्नि माकारं बिन्दुश्छन्द्रमदुद्विषः ।
नासिक्य (196) मादिरत्रिश्च बन्धुमन्दरविष्टपाः ।। 27.309 ।।
(196. नासिक्यं बन्धुरत्रिं च.)
वै राजरेफशङ्खाह्वमाधवावादिविघ्नराट् ।
मृगेशकमलौ दक्षं गुहमम्भोरुहासन ।। 27.310 ।।
जयोऽग्निर्वायुरैणेशमुखो गरुडवाहनः ।
बन्धुपीतपवित्राह्वमधुसूदनवैजयाः ।। 27.311 ।।
गोपनो भार्गवाकारशुक्लोदयहुताशनाः ।
पीतोतदेहकमलविघ्न विक्रममाधवाः ।। 27.312 ।।
गोपनं (197) सोमबन्धुश्च करिगोपनयष्टयः ।
दिनेशमृतधामाह्व दृष्टिशङ्खमधुद्विषः ।। 27.313 ।।
(197. साम.)
विघ्नवायू तथा गोपकमलौ सत्रुदाहकः ।
(198) धान्तसङ्खा मधोर्हन्ता पद्मक्रोधाग्नि मारुताः ।। 27.314 ।।
(198. यान्त.)
आदिश्चक्री सुबन्धुश्च पीतस्सर्वपुरान्तकः ।
(199) उदयो यान्तरामौ च वैराजतपवनाग्नयः ।। 27.315 ।।
(199. उदयो रन्तरामौ वैराजतेपवनाग्नयः ।)
आदिः खर्वतनुर्बन्धु पीतपद्ममधुद्विषः ।
पाटलं पश्चिमं पद्मनाभं वैधरमाधवौ ।। 27.316 ।।
भल्लायुधं गदी कुम्भ वैराजमृगवल्लभाः ।
श्रीवत्समग्निमिकारं कुम्भं पीतद्वयं तथा ।। 27.317 ।।
सुभद्रगोपनौ शङ्खमन्तरौ दिनकृत्तथा ।
अचां चतुर्दशं जन्मशशाङ्कमृगवल्लभाः ।। 27.318 ।।
हुताशगोपदक्षाह्वमाधव्यश्च गुहालयः ।
वै राजयुगसप्तार्चिर्दर देवहुतान्तिमाः ।। 27.319 ।।
असलो यष्टिसहितो बीजमस्य समिरितम् ।
शरभङ्गऋषिस्तस्य वरिवं छन्द ईरितः ।। 27.320 ।।
जपो लक्षत्रयस्तस्मिन् चतुश्शतमिताक्षरे ।
पुंसो रामावतारस्य परस्य परमात्मनः ।। 27.321 ।।
चतुश्शतार्णरूपोऽयं मालामन्त्रस्समुद्धृतः ।
यथापुरं पुरश्चर्या सिद्धश्चैव यथापुरम् ।। 27.322 ।।
* भरतादीनां मन्त्रनिर्देशः.*
अन्वेषां भरतादीनामितरप्यूहनामभिः ।
आत्मशीर्षैश्छतुर्थ्यन्तैर्नामानि सहितानि च ।। 27.323 ।।
चतुर्थ्यन्तानि वाच्यानि मन्त्ररूपाणि पद्मज ।
(200) बीजान्याद्यक्ष राण्येव सानुस्वाराणि योजयेत् ।। 27.324 ।।
(200. बीजा द्यान्य.)
सीतादीनां च देवीनां चतुर्थ्यन्तास्समाह्वयाः ।
(201) मन्त्रष्ठठेतिपर्यन्तो बीजान्याद्यक्षराणि च ।। 27.325 ।।
(201. मन्त्रषष्ठेति - पर्यन्तो.)
श्रीमन्त्रवत्पुरश्चर्या तद्वच्च फलसम्भवः ।
* बलराममन्त्रः.*
रामस्य बलभद्रस्य मनुस्संप्रति कथ्यते ।। 27.326 ।।
सप्तार्णं पदमुच्चार्य ततः पश्चादुदीरियेत् ।
रामायेति चतुर्थ्यन्तं बलभद्रपदं तथा ।। 27.327 ।।
बीजमस्योच्यते ब्रह्मन् जृम्भलं पुलहं तथा ।
सानुस्वारो हृषीकेशः पैङ्गलस्यादृषिः स्मृतः ।। 27.328 ।।
छन्दः पूर्ववदेवस्याद्देवता मुसलायुधः ।
रामः कमलपत्राक्षो बीजमेवाङ्गपद्धतिः ।। 27.329 ।।
लक्षाण्यक्षरसङ्ख्यानि (202) भवेन्मन्त्रस्य सिद्धये ।
फलमिष्टमवाप्नोति पातालगमनादिकम् ।। 27.330 ।।
(202. जपेन्मन्त्रस्य.)
चतुर्वर्गफलावाप्तेः फलमस्य करेस्थितम् ।
* कृष्णस्य मन्त्रः.*
यादवस्याथ कृष्णस्य मन्त्रस्संप्रति कथ्यते ।। 27.331 ।।
उद्गीथमुच्छार्यमुखे स्पर्शादि तदनन्तरम् ।
ऋतधामा ततः पश्चात्क्रोधरूपमनन्तरम् ।। 27.332 ।।
वनमालिनमाकारं श्वसनं विष्णुमस्तकम् ।
सत्यन्तमिति षड्वर्णा मन्त्रस्य कथिता मया ।। 27.333 ।।
बीजं कमलमाद्यं स्यात्सप्तार्चिस्तदनन्तरम् ।
और्वः पश्चात्सयष्टिस्स्यादेतेनैवाङ्गकल्पना ।। 27.334 ।।
सनकोऽस्य भवेद्द्रष्टा छन्दो गायत्रमुच्यते ।
देवता भगवान् कृष्णः पुरश्छर्या च पूर्ववत् ।। 27.335 ।।
फलानि पूर्वमुक्तानि नानन्त्यादुच्यते पुनः ।
* गोवर्धनमन्त्रः.*
गोवर्धनाख्यमन्त्रन्य वर्णोद्धारः प्रदर्श्यते ।। 27.336 ।।
वेदादिं पूर्वमुच्चार्य प्रथमे स्पर्शपञ्चके ।
तृतीयं यादिषु तथा स्वरेषु च (203) चतुर्मुख ।। 27.337 ।।
(203. चतुर्दश.)
सद्ध्रुवं गदिनं ब्रह्मसाधनं च सुधारसम् ।
आदिं सप्तार्चिषं पुण्यं (204) मकरं तदनन्तरम् ।। 27.338 ।।
(204. माकारं.)
भद्रबाहुं द्वितीयं च श्वसनं मुखमन्वतः ।
सत्यस्तमेवमुद्धारः कथितो सववर्णकः ।। 27.339 ।।
मन्त्रस्तदेव बीजादि साधनं फलमीरितम् ।
* गोपालमन्त्रः.*
गोपालमन्त्रस्योद्धारः कथ्यते कमलासन ।। 27.340 ।।
छन्दसामादिमुच्चार्य तृतीयं स्पर्शसंज्ञितम् ।
ओतदेहं पवित्रं च वामनं ककुभं ततः ।। 27.341 ।।
अनिरुद्धं विघ्णु राजमकारं यादसांपतिम् ।
आद्यं पुलहमावृत्तं स्पर्शोपान्तं च गोपनम् ।। 27.342 ।।
प्रभञ्जनं स्वरेष्वादिं ठठान्तो मनुरीरितः ।
बीजं तृतीयं स्पर्शानं पीतं तुर्यमचामतः ।। 27.343 ।।
नासिक्यमङ्गानि पुनर्गोपनं खड्गसंज्ञितम् ।
मुख्यं स्पर्शादिमनलं गोपनं (205) स्पर्शनं तथा ।। 27.344 ।।
(205. श्वसनं.)
आद्यं ठठान्तं प्रथमं तदेवाङ्गमनन्तरम् ।
विपूर्वमधिकं पश्चादङ्गं त्रैलोक्यपूर्वकम् ।। 27.345 ।।
रक्षणेति चतुर्थ्यन्तं तद्विभक्त्यन्तमन्वतः ।
असुराद्यन्तकपरं पदं सर्वाद्यनन्तरम् ।। 27.346 ।।
ग्रहं निवारणायेति हुंफडन्तमितीरितम् ।
मन्त्रस्य नारदो द्रष्टा विराट्छन्दश्च देवता ।। 27.347 ।।
कष्णावतारो भगवान् जपस्थानं पुरोदितम् ।
(206) सहस्रशः प्रतिस्थानं जपः प्रोक्तश्चतुर्मुख ।। 27.348 ।।
(206. सहस्रांश.)
जपात्सिध्यति मन्त्रोऽयं साधयत्यखिलं फलम् ।
* मन्त्रान्तरम्.*
अश्चर्यमपरं मन्त्रं वक्ष्यामि कमलासन ।। 27.349 ।।
उच्चार्य प्रणवं पूर्वं (207) माधरं तदनन्तरं ।
चतुर्थ्यन्तमुदीर्याथ तद्विभक्त्यन्तमद्भुतम् ।। 27.350 ।।
(207. माधारम्.)
भोगेश्वरपदं तद्वत्तद्व (208) च्च क्रिपदं ततः ।
सुपर्णादिध्वजान्तं च पदं तादृग्विभक्तिकम् ।। 27.351 ।।
(208. च्चत्रिपदम्.)
पीतादिवासश्शब्दान्तं वासुदेवपदं ततः ।
तद्विभक्तिशरो योज्यं नत्यन्तो मनुरुद्धृतः ।। 27.352 ।।
(209) पूर्वमङ्गानि योज्यानि पूर्ववन्नातिरिच्यते ।
ऋषिश्छन्दो देवता च पूर्वत्फलमेव च ।। 27.353 ।।
(209. बीज.)
धर्मार्थकाममोक्षादि नेहभूयः प्रतन्यते ।
* मालामन्त्रः.*
मालामन्त्रं तावदर्णं देवस्य मधुविद्विषः ।। 27.354 ।।
कृष्णावताररूपस्य चतुर्वर्गफलप्रदम् ।
उद्धरामि यथा (210) तत्वं यथा तदवधार्यताम् ।। 27.355 ।।
(210. तथ्यं.)
(211) निगमादि द्विषट्कार्णं सरोजमृतधामकम् ।
क्रोधं प्रचण्डं मधुभिच्छङ्खकुम्भृतान्विताः ।। 27.356 ।।
(211. नियमादि.)
(212) क्रोधश्चण्डक्रमः कुम्भशङ्काग्नि मधुसूदनाः ।
दरश्रीवत्स एणेश क्रोधस्सूक्ष्म मतः परम् ।। 27.357 ।।
(212. क्रोधा चण्ड.)
वासुदेवो गदी पापहननं च चतुर्गतिम् ।
अग्निबिन्धु र्विरिञ्च्यादि देवाश्शङ्ख मचां मुखम् ।। 27.358 ।।
पवित्रमग्निमधुभि द्भद्रपाणिद्वयं पुनः ।
वैधरं पश्चिमवसुं दक्षेन्दु भुवनात्मकम् ।। 27.359 ।।
सूक्ष्मचक्षु गर्तिस्सोमः कुम्भाग्नि सगुहालयौ ।
पवित्रगोपनौ वायुं पश्चिमाग्निं मधुद्विषः ।। 27.360 ।।
वैराज माधवीविघ्नस्सारङ्गासिधराः परः ।
बन्धुवै राजहुत (213) भुक्पङ्छात्मद्विरदा (214) सनाः ।। 27.361 ।।
(213. भुक्पन्नगद्विरदाननाः.)
(214. त्मनः.)
गोपनश्शङ्खदिनकृदृत वैधरमारुताः ।
अब्जोतदेहावद्रिश्च (215) यान्तभद्रत्रिविक्रमाः ।। 27.362 ।।
(215. यान्त्रभद्रस्त्रिविक्रमाः.)
महेन्द्रशङ्ख मधउभिन्मारुताः ककुभाह्वयाः ।
भ्रुगुगोवनविघ्नेशजन्म (216) हन्त्रेणसंहिताः ।। 27.363 ।।
(216. हृद्वेणु संज्ञिताः ।)
मारुतो गोपनो वायुरिन्दु भास्रमैन्दवम् ।
ऋतं लक्ष्मीं महामायां क्रोधाग्नि वरुणाह्वयाः ।। 27.364 ।।
अत्रिर्विघ्नद्वयं शङ्खो द्विरदस्सूक्ष्मलोचनः ।
श्रियः पतिं तथाजन्महन्तारं वक्रतुण्डकम् ।। 27.365 ।।
हुताशचण्डमधुभिद्दरशुक्लदिनेश्वराः ।
कालात्मा प्रतिमाकारजयपावकभद्रकाः ।। 27.366 ।।
उदैकश्चक्षुरमृतविक्रमा विधिपावकौ ।
दक्षो विधिश्चर्तधामा दक्षगोपनमब्जज ।। 27.367 ।।
शङ्खमादिं गदध्वंसं माहेन्द्रं पञ्चबिन्दुकम् ।
सध्रुवं चेन्दिराबीजं पुष्टिबीजं ततः परम् ।। 27.368 ।।
कामबीजं पाशबीजं श्रीवत्सं बिन्दुमस्तकम् ।
चक्रखड्गधरो ब्रह्मा पद्मनाभोऽथ पश्चिमः ।। 27.369 ।।
(217) वै राज दक्षकमल श्रीधराः पीतवामनाः ।
इन्दिरापापहनना गोपना वित्तवर्धनाः ।। 27.370 ।।
(217. वैधरं दक्षकमलश्रीधराःपीतवामनौ.)
मधुसूदन नासिक्यकुशेशयरमाधराः ।
श्रीवत्सद्वन्द्वबहुलवित्तेशमधुविद्विषः ।। 27.371 ।।
कपिध्वजो गदी यान्तदक्ष श्रीधर (218) चन्द्रमाः ।
पीतादिदेवश्शीतांशुर्माया कमलमब्जज ।। 27.372 ।।
(218. पश्चिमाः.)
मनुर्दक्षौतदेहौ च दृष्टिश्शङ्खघटाह्वयः ।
माया करालामिकार चण्डार्णवसुमस्तकम् ।। 27.373 ।।
नादादिं पश्चिं पद्मनाभं वै राजविक्रमौ ।
पावकं छोर्ध्वलोकेशं पश्चिमं चा प्रमेयकम् ।। 27.374 ।।
खर्वविक्रममाहेन्द्रभल्लायुधसुधारसाः ।
विघ्नमन्दरविघ्नेशमाधवीसुप्रतिष्ठिताः ।। 27.375 ।।
कुम्भोदरामशुभद पीयूषाग्नि गुहालयाः ।
पश्चिमानविघ्नेश मायामन्धर युग्मकाः ।। 27.376 ।।
वसुमूर्धा महेन्द्रादि देवाः (219) कपिलसंयुताः ।
जृम्भलो यान्तसुभग हुताशधनदाः परः ।। 27.377 ।।
(219. कमलसंभव--पमल संयुतः.)
गोविन्द विघ्भुवन विधिः पश्चिमसंक्षिताः ।
सप्तार्चिः पीतवर्णाभं देवरो मतिमां स्तथा ।। 27.378 ।।
शङ्खगोपनवैराज श्रीधरो धनदाभिधः ।
मधुद्विट्कुञ्जर मुखचतुर्गतिसपन्नगाः ।। 27.379 ।।
भद्रहस्तो मधुद्वेषी गदध्वंसी द्वयान्वितः ।
भद्रपाणिस्तथापुण्यं सनसीरुहसम्भव ।। 27.380 ।।
सुधारसो वसुर्भूमिर्गोपनाख्यमतः परम् ।
करालबिन्दुविघ्नेशौ पञ्च बिन्धु (220) शुभाह्वयाः ।। 27.381 ।।
(220. गुहाह्वयाः.)
मधुहन्ता तथा ब्रह्मा माया विघ्नाश्च वामनाः ।
यान्तमाधवपीयूषवै राजाः पञ्चबिन्दुकम् ।। 27.382 ।।
शशाङ्ककमलौ भद्रपाणि (221) दृग्वैधरान्विताः ।
एणेशकुम्भदृक्सश्री श्रीधराश्चान्तयादिकाः ।। 27.383 ।।
(221. स्रग्वै.)
गदी च ऋतधामा च दिनकृद्वरुणोमृगः ।
वैराजं मधुहन्तारं (222) विष्ण्वाभं ब्रह्मसाधनम् ।। 27.384 ।।
(222. विष्कम्भं.)
मानुषेशं तथा दक्षं मधुसूदनवैधरौ ।
ऋक्षेशभुवनौ यान्तं मधुशत्रु (223) हिमालयाः ।। 27.385 ।।
(223. गुहलयाः.)
उदयोऽग्नि पवित्राश्च बन्धुश्रीमधुविद्विषः ।
वक्रतुण्ड विरिञ्चौ द्वौ हृषीकेश शुभाभिधौ ।। 27.386 ।।
(224) भान्तादि देवसुमुखौ पुण्डरीक विदर्बितौ ।
पुर्णचन्द्रं (225) सरामं च वैधरं मोहनाशनम् ।। 27.387 ।।
(224. हान्तादि.)
(225. समारं च-माधरं च.)
पीयूषरामदृक् शङ्ख मधुशत्रु धनाधिपाः ।
स्वाहाधरं वैधरं च गोविन्दं विजयाभिधम् ।। 27.388 ।।
श्वसनो दृष्टि मदुभिद्धेरम्बमकरालयाः ।
कुकेशयमदुद्वेषि पीतमाधवमारुताः ।। 27.389 ।।
अचां द्वितीयं नृहरिं वसुमस्तकमब्जज ।
(226) सूक्ष्मदृक् सोर्ध्वलोकेश वै राजमधुविद्विषः ।। 27.390 ।।
(226. `सूक्ष्मदृक्'- इत्यादि `मधुद्विषः' इत्यन्तं सार्धश्लोकत्रयं क्वचिन्नास्ति.)
पापहन्ता तथा सोमदक्षाकरविदर्भितौ ।
अचां द्वितीयमनलं कमलामृतवैजयाः ।। 27.391 ।।
द्वयं बन्धुं तथा दक्षं स्कन्धनाग्नि त्रिविक्रमम् ।
स्वयम्भूर्जन्महन्ता च पियूषाग्निमदुद्विषः ।। 27.392 ।।
दृष्टिविक्रम (227) यान्तौ च कुम्भबन्धुं चतुर्मुख ।
अत्रिमारुतमाकार भद्रहस्तास्सविक्रमाः ।। 27.393 ।।
(227. यान्तश्च.)
वक्रतुण्डानिलौ विघ्नदृग्दिनेशद्वयं तथा ।
कुञ्जरास्यं पश्चिमास्यं वक्रतुण्डं तथाक्षरम् ।। 27.394 ।।
मन्दरस्सर्वरो (228) धश्छ गदी च ऋतधा रविः ।
प्रचण्डपि (229) ण्डमाकार मधुभिद्वरुणाभिधम् ।। 27.395 ।।
(228. धाह्वोगदी चक्री तथा.)
(229. ण्डिका.)
अचामेकादशं लक्ष्मी मुद्धृत्य कमलासन ।
समिर (230) कलशौ बन्धुसुभगौ मकरालयम् ।। 27.396 ।।
(230. कमलौ.)
(231) सकविं पुण्डररुचिं मारुतामृतविक्रमाः ।
(232) एकादश्यान्तमदुभिच्छुक्लशङ्खेन्दवस्तथा ।। 27.397 ।।
(231. सध्रुवं.)
(232. एकदृक् धान्त.)
पुल्ललोचन (233) मोकारखेटकी मारुताभिधः ।
सुभद्रवसुविघ्नेशवैधराः प्रेतनायकाः ।। 27.398 ।।
(233. मोङ्कार.)
(234) सरामविघ्नदृग्दक्ष मधुसूदनमन्वतः ।
यान्तवायुधनाध्यक्षरमाधरगणाधिपाः ।। 27.399 ।।
(234. समार.)
भुजङ्गहुतभुक्पुण्य दक्षद्विवसुगोपनाः ।
सुभगोमन्दरद्वन्द्व मग्नि भद्रक राह्वयम् ।। 27.400 ।।
(235) बन्धुमस्तकपञ्चान्ता विष्कम्भद्विरदाननाः ।
विक्रमो दक्षहुतभुग्भ्रह्मसाधनमब्जज ।। 27.401 ।।
(235. मधुमस्तकपञ्चाङ्ग.)
वक्रतुण्डधरौ शुक्ल कुम्भाग्निद्विरदासनाः ।
मधुसूदनपञ्चान्त पश्छिमा ऋतमन्दराः ।। 27.402 ।।
वैधरोग्नि शिराश्शङ्ख शुक्लकुम्भवपुश्शिराः ।
सूक्ष्मदृक्चोर्ध्वविजय वरुणा वित्तवर्धनाः ।। 27.403 ।।
यष्टिं सरोरुहं यान्तं पश्चिमाग्निस्समन्दराः ।
द्युमणिस्सध्रुवं शुक्लं वरुणो (236) दरमन्वतः ।। 27.404 ।।
(236. दय.)
ओतदेहं तथा दक्षं वक्रतुण्डं करालकम् ।
अग्निरेणेश श्रीवत्स कुम्भाग्नि सहपश्चिमौ ।। 27.405 ।।
ऋतं भल्लायुधं गोपपाशपाणिजनार्दनाः ।
(237) अत्रिं श्रीवत्समनलं वायुं शुक्लं जलाशयम् ।। 27.406 ।।
(237. अग्निं.)
वसुं मधुद्विषं चन्द्रं श्रीधरोग्निश्चतुर्मुख ।
(238) संप्रसारणवैराजवसुशुक्लमदुद्विषः ।। 27.407 ।।
(238. ब्रह्म.)
वैधरो भद्रचण्डांशु श्वसनौ दक्षश्रीधरौ ।
चक्री समन्दरमचां पञ्चमं कमलोद्भव ।। 27.408 ।।
उदयं विघ्ननयनावादिखड्गधरा रमा ।
वै राजपद्माहुतभुक्पञ्च बिन्दुधनाधिपाः ।। 27.409 ।।
(239) अग्निरुग्रात्ममधुबिद्धृदया ह्लादमक्षरम् ।
गदध्वंसं श्रियः कान्तं वनस्रक्ससमिरणम् ।। 27.410 ।।
(239. अनिरुद्धात्म.)
कुम्भविक्रम पञ्चान्त ऋतभास्करवैजयाः ।
भुवनोऽमृतवै राज वसुभल्लकरालकाः ।। 27.411 ।।
वै राज जन्महन्तारं द्विरदः कुम्भवैजयाः ।
स्वशिरोग्निं तथा शुक्लपीतकुम्भास्सयामिनी ।। 27.412 ।।
नाधं रमाधरं विघ्नुमायां चैव सरोरुहम् ।
हुता शकपिलाक्षौ द्वौ पश्चिम व्रतधानिलौ ।। 27.413 ।।
छलध्वंसी पवित्राह्व हृषीकेशहुताशनम् ।
(240) कान्तादिपीतफणबृद्दक्षवामनमस्तकान् ।। 27.414 ।।
(240. मान्तादि.)
हौरम्भोऽग्नि र्मधुद्वेषी शुभदोदरमैन्दवम् ।
पाटलद्वन्द्वमोङ्कारचण्डांशुकपिलाक्षरम् ।। 27.415 ।।
(241) कमलोग्निस्सभुवन दक्षगोपनयष्टिकाः ।
हुताशतार्क्ष्यमधुभि न्नासिक्यं चतुरासन ।। 27.416 ।।
(241. कमलोभुवनं दक्षं गोपनायन यष्टिकाः.)
श्रीबीजंच गदध्वंसं पीतौर्वंध्रुवमादिमत् ।
पाटलोबन्दुविजय वै राजमृगवल्लभाः ।। 27.417 ।।
(242) ककुभो माधवपरं ठठान्तो मनुरीरितः ।
नारदोऽस्य मुनिर्द्रष्टा वरिवं छन्ध ईरितः ।। 27.418 ।।
(242. ककुबेन्द्रायवपरं.)
देवता देवदेवेशः कृष्णः कमलसम्भव ।
अङ्गानि पूर्ववच्छास्य पुरश्चर्या च पूर्ववत् ।। 27.419 ।।
जातिपुष्पौर्बिल्व (243) फलैस्समिद्भिर्होममाचरेत् ।
छायायां बिल्ववृक्षस्य जपहोमादिकं भवेत् ।। 27.420 ।।
(243. पुष्पौः.)
आणिमादिकमैश्वर्यं पुरुषार्थ चतुष्टयम् ।
फलं ददाति मन्त्रोऽयं मन्त्रविद्भस्सुसाधितः ।। 27.421 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे मत्स्यादिमूर्तिमन्द्रकथनं नाम सप्तविंशोऽध्यायः.
------- ******** --------



"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२७&oldid=206993" इत्यस्माद् प्रतिप्राप्तम्