← अध्यायः २३ चर्यापादः
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे--चतुर्विंशोऽध्यायः.
श्रीभगवान् :----
* द्वादशाक्षरमन्त्रकल्पः.*
द्वादशाक्षरमन्त्रस्य शृणु कल्पं चतुर्मुख ।
मातृकाचक्रमभ्यर्च्य द्वादशार्णं समुद्धरेत् ।। 24.1 ।।
* मन्त्रसमुद्धारप्रकारः.*
प्रणवं परमात्मानं भद्रपाणिमनन्तरम् ।
विष्णुं दक्षं चोतदेहं सुभद्रं गदिनं सुधाम् ।। 24.2 ।।
विष्णुशीर्षं त्रयं पश्चाद्द्विजयं संप्रसारणम् ।
वरुणं चादिदेवान्तं शुक्लं भुवनशीर्षकम् ।। 24.3 ।।
अत्रिं माधव (1) नामानं पीयूषं मधुसूदनम् ।
वायुं तथाऽप्रमेयान्तमेव (2) मुद्धारणक्रमः ।। 24.4 ।।
(1. नामान्तम्.)
(2. मुच्चारणे विधिः.)
बीजमस्य द्वादशात्मा दण्डशीर्ष उदाहृतः ।
क्रुद्धो महांश्च वीरश्छ द्युस्सहस्रं च तेजसा ।। 24.5 ।।
उल्कान्ताष्षडिमे शब्दाश्चतुर्थ्यन्ताः (3) स्वधान्तकाः ।
* बीजाक्षराणि.*
अङ्गानि हृदयादौ स्युः स्थाने बीजाक्षराणि वा ।। 24.6 ।।
(3. ष्ठठान्तकाः.)
* बीजन्यासन्थानभेदः.*
परस्य वासुदेवस्य बीजाङ्गं समुदाहृतम् ।
दीप्तिमानूर्ध्वलोकान्तो बीजं दण्डश्शिरः स्मृतम् ।। 24.7 ।।
(4) दीप्तिमान् कुम्भसंयोगो मधुसूदनमस्तकः ।
स एव वामनशिरा हृषीकेशशिरास्तथा ।। 24.8 ।।
(4. दीप्तिमत्कुम्भ.)
(5) वीरसेनशिराश्चापि कल्क्यन्तोयमनन्तरः ।
षष्ठमौर्वशिरः प्रोक्तमङ्गानि क्रमशः पुनः ।। 24.9 ।।
(5. देवदत्तशिराश्चापि विष्ण्वन्तोयमनन्तरः.)
सत्यन्तदण्डशिरसस्सर्वे विभवपूर्वके ।
वासुदेवे प्रयोक्तव्या हृदया (6) दिषु षट्स्वपि ।। 24.10 ।।
(6. दीनि.)
* ऋषिर्देवता च.*
व्यूहपूर्वे तु (7) बिम्बस्याद्विष्णुः कुण्डादि पूर्ववत् ।
अङ्गं यद्वा द्वादशार्णः पूर्वे षट् हृदयादयः ।। 24.11 ।।
(7. बीजं स्याद्विष्णुस्तुन्दादि.)
षण्णामर्णाष्षडपरे तुन्द गुह्यभुजोरवः ।
जङ्घापादमिति स्थानेष्वेते योज्याः क्रमाद्बुधैः ।। 24.12 ।।
ऋषिश्च देवता चोभे वासुदेवः स्मृतस्त्रिषु ।
छन्धश्च देवी गायत्री वर्णश्श्वेतश्चतुर्मुख ।। 24.13 ।।
तत्वं बुद्धिः परं व्योम क्षेत्रं मन्त्रस्य शब्दितम् ।
प्रत्यक्षरमृषिश्छन्दो देवता वर्णविस्तरः ।। 24.14 ।।
तत्वं क्षेत्रं क्रमात्सर्वमुच्यते द्वादशस्वपि ।
परमेष्ठी सनन्दश्च सनकश्च प्रजापतिः ।। 24.15 ।।
भृगुस्सनत्कुमारश्च पुलस्त्यः पुलहः क्रतुः ।
मरीचिरत्र्यङ्गिरसौ कथिता ऋषयः क्रमात् ।। 24.16 ।।
छन्दांसि देवी गायत्री (8) बस्तः क्षेत्रं प्रजापतिः ।
त्रिष्टुप्पङ्त्किश्च बृहती विराट् (9) बस्तस्त्रिवृत्सकः ।। 24.17 ।।
(8. बस्तः क्षत्रं.)
(9. भष्ठस्त्रिवृत्सकः.)
उष्णिक्च श्रीरिति ब्रह्मन् वर्णेषु द्वादशस्वपि ।
विष्ण्वाद्या मासपा देवास्तत्वानि कथयामिते ।। 24.18 ।।
* तत्वानि.*
चिज्जीवः प्रकृतिर्बुद्धिर्मन (10) स्सत्वादयो गुणाः ।
व्योमाग्निर्मरुतश्चापि वर्णानां तत्वमीरितम् ।। 24.19 ।।
(10. स्तत्वादयो.)
* क्षेत्राणि.*
क्षेत्राणि परमव्योम वायुरग्निर्जलं तथा ।
सत्यं (11) तपो जनश्चैव मह (12) स्स्वर्गं भुव स्तथा ।। 24.20 ।।
(11. तपोऽमृतः.)
(12. त्तत्वं.)
भूमिः पातालमेतानि क्रमेण कथितानि ते ।
(13) आम्नादिधामाश्रेयांशं ? गोपनान्तं सदण्डकम् ।। 24.21 ।।
(13. आम्नादि यामाश्रयसो. अत्र अशुद्धमिन.)
सत्यन्तं पापहननं विष्ण्वन्तं (14) भानुमान् परम् ।
शङ्खमाद्यक्षर (15) परं कमलं मधुसूदनम् ।। 24.22 ।।
(14. नह्निमत्परम्.)
(15. पदम्.)
पुलहं चापरं विघ्नुनायकं पीतसूदनौ ।
एकनेत्रं मन्दरं च विष्ण्वन्तं भत्रहस्तकम् ।। 24.23 ।।
संप्रसारणमूर्धानमुद्धरेन्मन्त्रवित्तमः ।
अग्निप्रकारमन्त्रोयं कथितः कमलासन ।। 24.24 ।।
दुर्गा गणपतिस्तार्क्ष्य क्षेत्रपालपदानि तु ।
चतुर्थ्यन्तानि नत्यन्त प्रणवादीनि मिन्त्रिणा ।। 24.25 ।।
कोणदिक्षु प्रयुज्येरन्नारभ्याग्नेर्दिशं क्रमात् ।
* द्वादशाक्षरभाष्यम्.*
भाष्यं च द्वादशार्णस्य प्रवक्ष्यामि यथातथम् ।। 24.26 ।।
ओमित्युक्तं परं ब्रह्म सुखरूपं ध्रुवं स्थिरम् ।
व्यापित्वात्तस्य वाच्यस्य वाचकं सर्वगं स्मृतम् ।। 24.27 ।।
पुरुषार्थं परैस्सर्वैस्सुरासुरमहिर्षिभिः ।
नम्यन्ते देव देवैकस्स एवैकः परायणम् ।। 24.28 ।।
आदौ सृजति भूतानि भूतानुग्रहकाम्यया ।
परिपालनमप्येष करोति बहुमूर्तिभिः ।। 24.29 ।।
विश्रमार्थं च भूतानां संहरत्यखिलं जगत् ।
गतिर्गतिमतामन्या वासुदेवान्न विद्यते ।। 24.30 ।।
संहरत्यात्मभूतानि पुनस्सृजति मायाया ।
देवे जाग्रति जागर्ति सुप्ते स्वपिति चाखिलम् ।। 24.31 ।।
चराचरमिदं (16) कृत्स्नं भूतग्रामं चतुर्विधम् ।
द्वादशाक्षरवाच्यो (17) सौ
* द्वादशाक्षरचिन्तकानां माहात्यम्.*
तस्य माहात्म्यमाश्रितः ।। 24.32 ।।
(16. ब्रह्मन्.)
(17. यम्.)
ब्रह्मभूयं गतो ब्रह्मा देवभूयं च देवताः ।
ऋषयश्च मरीच्याद्या मुनयस्सनकादयः ।। 24.33 ।।
मन्त्रमाहत्म्यमाश्रित्य जग्मुः पदमनुत्तमम् ।
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।। 24.34 ।।
न कदापि निवर्तन्ते द्वादशाक्षरचिन्तकाः ।
किं तस्य यज्ञैः किंतीर्थैः किं विश्राणनकर्मभिः ।। 24.35 ।।
किं व्रतैर्यस्य मन्त्रोऽसौ द्वादशाक्षरलक्षणः ।
सर्व (18) यत्नेन पुरुषस्तन्मन्त्र (19) निरतो भवेत् ।। 24.36 ।।
(18. यज्ञेन.)
(19. नियतो.)
संसार भयभीरूणां मोक्षैकफलकामिनाम् ।
मुक्तये परमोपायो मन्त्रोऽयं द्वादशाक्षरः ।। 24.37 ।।
देवदानवगन्धर्व यक्षविद्याधरादयः ।
प्रणमन्ति महात्मानं द्वादशाक्षरचिन्तकम् ।। 24.38 ।।
यस्य राष्ट्रे महीपस्यमन्त्री वसतिनिर्भयः ।
(20) तद्राष्ट्रे धनधान्यादि समृद्धं वर्धतेऽधिकम् ।। 24.39 ।।
(20. तं दृष्ट्वा.)
भूतानि च पलायन्ते ग्रहश्चैव भयङ्काराः ।
राष्ट्राद्राजपुराद्राज्ञस्सकाशाच्च निपीडिताः ।। 24.40 ।।
न फलं शक्यते वक्तुं कार्त्स्न्ये कमलासन ।
चतुर्मुखमुखैस्सर्वेर्दिर्वैर्वर्षशतैरपि ।। 24.41 ।।
* शरीरशुद्धये पुरश्चरणनियमः.*
शरीरशुद्धये पूर्वं पुरश्चरणमाचरेत् ।
शरीरं मन्त्रसंस्कारपुरश्चरणमिष्यते ।। 24.42 ।।
ब्राह्मणां स्तन्मयान् पूर्वमाहुय द्वादशावरान् ।
भोजयित्वा ततश्चक्रमण्डले देवमर्चयेत् ।। 24.43 ।।
विज्ञाप्य देशिकः पूर्वमनुज्ञातस्सहायवान् ।
आश्रमे यत्र मुनिभिः पूर्वमाचरितं (21) तपः ।। 24.44 ।।
(21. तथा. ततः.)
सिद्धमन्त्रफले तत्र वासुदेवनिकेतने ।
पश्चिमद्वारि वान्यत्र पूर्वोक्तस्थानभूमिषु ।। 24.45 ।।
स्थानेऽभिरुचिते पुष्पसमित्कुशफलोदकैः ।
समुपेते यथोक्तानां सम्पन्नाभिमताशनः ।। 24.46 ।।
भिक्षान्नभोक्ता भक्तानां तन्मयानां गृहेषु वा ।
ब्रह्मचारी गृहस्थो वा साधयेद्द्वादशाक्षरम् ।। 24.47 ।।
वैखानसो वा नियतस्तपस्यभिरतश्सुचिः ।
भिक्षान्नभुग्भ्रह्मचारी शाककन्दफलाशनः ।। 24.48 ।।
गृहस्थश्चेत्स्वयं (22) पाकं पुत्रैर्वा भार्ययाऽपि वा ।
शिष्येण वा पाचितान्नं निवेद्य हरयेऽग्रतः ।। 24.49 ।।
(22. पक्वम्.)
वैश्वदेवादिकर्मान्ते भोजयित्वाऽतिथीनपि ।
(23) शिष्यं भार्यां तथा (24) पुत्रं तोषयित्वा यथातथम् ।। 24.50 ।।
(23. शिष्यान्.)
(24. पुत्रान्.)
स्वयं भुञ्जीत विधिवत्पश्चादन्नमकुत्सयन् ।
पुत्रदारसमायुक्तोजपेद्वैखानसश्शुचिः ।। 24.51 ।।
वियुक्तः पुत्रदाराद्यैरथवा नियतस्थ्सितः ।
(25) अञ्जसैव स्वयं पक्वमन्नमद्यान्मि ताशनः ।। 24.52 ।।
* पुरश्चरणसम्पत्तये शुद्धिः.*
(25. अन्धस्स्वैरं.)
* पुरश्चरणसम्पत्तये शुद्धिः.*
सर्वेषां कायशुध्यर्थमादौ चान्द्रायणं चरेत् ।
(26) पादोदकं पञ्चगव्यं ब्रह्मकूर्चजलं तथा ।। 24.53 ।।
(26. `पादो' इदमर्धं क्वचिन्न.)
पीत्वा कायविशुध्यर्थं पुरश्चरण माचरेत् ।
*मन्त्रसाधनयोग्यकालः.*
आरम्भः कर्मणां मासि मार्ग (27) शीर्षेऽथ शोभने ।। 24.54 ।।
(27. शीर्षेह्नि शोभने.)
चैत्रे मासि सिते पक्षे ब्रह्मन्ने कादशीतिथौ ।
उपोष्य पूर्वं चक्राब्जे प्रतिमायामथापि वा ।। 24.55 ।।
कूर्चे वा स्थण्डिले वापि (28) यथाभिरुचिते पदे ।
द्वादश्यां होमपर्यन्तमर्चयित्वा जनार्दनम् ।। 24.56 ।।
(28. यथा वा,)
पुष्पैः पत्रैर्ब्रह्मचर्यनिरतो देशकालवित् ।
सङ्कल्प्य कालनियमं व्रतादिनिमयं तथा ।। 24.57 ।।
* साधनकालनियमाः.*
नित्यं त्रिषवणस्नानमधश्शयनमेव च ।
शयनं वा कुशे पर्णे मृगचर्मणि वाब्जज ।। 24.58 ।।
सङ्कल्प्य (29) माषं तैलं च क्षारं (30) लवणमेव च ।
कालालं भोजनं कांस्ये दिवा स्वापादि वर्जयेत् ।। 24.59 ।।
(29. मांस्यतैलं.)
(30. च लवणं तथा.)
देहशुद्धिं पुरा कृत्वा मन्त्रजापोऽक्षमालया ।
आद्यन्तयोर्बीजयुतं तथैव प्रणवान्वितम् ।। 24.60 ।।
जपकाले जपेन्मन्त्रं न द्रुतं न विलम्बितम् ।
लक्षीकृत्याच्युतं ध्याये त्तदधीनमनोगतिः ।। 24.61 ।।
* ध्यानप्रकारः.*
ध्यानं वक्ष्यामि सर्वाघनाशनं कमालासन ।
चतुर्भुजमुदाराङ्गं सर्वलक्षणलक्षितम् ।। 24.62 ।।
शुद्धस्फटिक (31) वर्णाभययुतेन्दुसमप्रभम् ।
चारुहासं सुताम्रोष्ठं कर्णान्तायतलोचनम् ।। 24.63 ।।
(31. सङ्काशम्.)
निर्धूत पद्मरागाभं दन्तच्छविसुशोभितम् ।
महोरस्कं महाबाहुं प्रसन्नेन्दुनिभाननम् ।। 24.64 ।।
सुभ्रूललाटं सुमुखं घनकुञ्चितमूर्धजम् ।
तटिच्छतसहस्राभं पीतनिर्मलवाससम् ।। 24.65 ।।
पाणिपादतलाम्भोजं पुण्डरीकायतेक्षणम् ।
श्रीवत्साङ्कं किरीटादिसर्वाभरणभूषितम् ।। 24.66 ।।
पद्म चक्र गदाशङ्खधारिणं कौस्तुभोरसम् ।
दिव्यगन्धविलिप्ताङ्गं दिव्यमालाविभूषितम् ।। 24.67 ।।
शेषाहिभोगे विपुले सुखासीनं चतुर्मुख ।
श्रीभूमिसहितं देवं ललाटे श्वेतमृत्स्नया ।। 24.68 ।।
धृतोर्ध्वपुण्ड्रतिलकं मण्डितं चण्डभानुभिः ।
नियुतैरयुतैश्चन्द्रैर्विद्युत्कालाग्निकोटिभिः ।। 24.69 ।।
समवेतैरिवैकत्र तेजः पुञ्जैर्विसर्पिभिः ।
भ्राजमानं दुरालोकं देहमण्डलनिर्गतैः ।। 24.70 ।।
भासयस्तं जगत्सर्वं ध्यायेत्प्रक्षीणकल्मषः ।
आराध्य देवं सन्थ्यायामपरस्यां यथाविधि ।। 24.71 ।।
* मन्त्रजपकालावधिः.*
विसृज्य पुनरुत्थायधौतपादकरश्शुचिः ।
आचम्य वाग्यतो मन्त्रं जपेत्सम्यक्समाहितः ।। 24.72 ।।
यावद्ब्राह्ममुहूर्तस्य प्रादुर्भावस्ततः परम् ।
* स्नानादि.*
स्नात्वा यथोक्तं सन्ध्यायामनुष्ठाय (32) यथाविधि ।। 24.73 ।।
(32. विधिं क्रमात्.)
आराध्य देवमार्घ्याद्यैरुपचारै र्यथोदितैः ।
जपेन्मन्त्रं शरीरस्य स्थितिमुक्तैः (33) फलार्थिभिः ।। 24.74 ।।
(33. फलादिभिः.)
* जपतर्पण होमसङ्ख्या.*
द्वादशार्णं (34) जपेदेवं विशुद्धेनान्तरात्मना ।
लक्षं द्वादश तन्यार्धं तर्पणं वारिभिः स्मृतम् ।। 24.75 ।।
(34. जपेन्मन्त्रम्.)
तदर्थं जुहुयादग्नौ साधकस्समिदादिभिः ।
* मन्त्रसिद्धिफलम्.*
चतुर्विंशतिलक्षेण (35) मन्त्रजापेन किङ्कराः ।। 24.76 ।।
(35. वर्णजापेन.)
सिद्धविद्याधरास्सर्वे पाताले दिवि वा भुवि ।
यथाभिरुचिते देशे दुष्प्रापे साधकं द्विजम् ।। 24.77 ।।
नयन्तस्तत्र नियतं देवन्ते परिचारिणः ।
षट्त्रिंशल्लक्षजापेन देवभूयं समश्नुते ।। 24.78 ।।
अतिलक्षजापेन होमैस्तावन्मितैर्वसेत् ।
महर्लोके सुखं शश्वत्तत्रत्यैरभिपूजितः ।। 24.79 ।।
कोटिलक्षेण जापेन प्राप्नु यादणिमादिकान् ।
गुणान् जनाह्वये लोके वसेत्तत् स्थैस्सुपूजितः ।। 24.80 ।।
(36) महाबृन्दशतेनैव जपहोमैस्तथा वसेत् ।
तपोलोके महापद्मजपहोमेन तावता ।। 24.81 ।।
(36. ब्रह्मबृन्दशतेनैव. महाबृन्देन तेनैव.)
सत्ये वसति देवेशं श्रीभूमिसहितं हरिम् ।
दृष्ट्वा निरामयस्तत्र वसेत्तल्लोरवासिभिः ।। 24.82 ।।
महोघैश्शतजापेन तावदाहुतिसङ्ख्याया ।
साक्षात्कुर्वन् वुसुदेवं तन्मयो (37) भवति ध्रुवम् ।। 24.83 ।।
(37. वसति.)
किमेभिर्बहुभिः प्रोक्तैः पदं यद्यदभीप्सितम् ।
तत्तदाप्नोति पुरुषस्समाराधनकर्मभिः ।। 24.84 ।।
वश्याकर्षणमुख्यानि जपहोमादिकर्मभिः ।
फलानि चित्ररूपाणि दर्शयेत्साधकस्स्वयम् ।। 24.85 ।।
पाताले दिवि वा भूमौ ये भोगा (38) भुवि दुर्लभाः ।
तानवाप्नोति पुरुषः पुरुषोत्तमपूजया ।। 24.86 ।।
(38. दिवि.)
* मोक्षकामस्य मन्त्रिणः सिद्धायतनविशेषे मूर्तिपूजा.*
कामोपभोगवैमुख्यं मन्त्रिणः कार्यमुच्यते ।
मोक्षैकफलदं धाम दक्षिणद्वारमुत्तमम् ।। 24.87 ।।
सिद्धायतनमासाद्य तत्र देवं चतुर्विधम् ।
मनुष्यनिर्मितं चार्षं दैवं रूपं मधुद्विषः ।। 24.88 ।।
स्वयं व्यक्तं समाराध्य मोक्षकामस्समाहितः ।
सालोक्यादिचतुर्भेदां मुक्तिमाप्नोत्यसंशयम् ।। 24.89 ।।
सालोक्यं मानुषादार्षात्सामीप्यं देवनिर्मितात् ।
सारूप्यं (39) तुल्यमाप्नोति स्वयं व्यक्तादनुक्रमात् ।। 24.90 ।।
(39. दिव्य.)
* क्षेत्रसीमानिर्णयः.*
प्रासाद (40) द्वारि चाध्माते शङ्खे तस्य महाध्वनिः ।
शूयते यत्र तं देशं वैष्णवं
* सिद्धार्षाद्यालयेषु कामनानुगुणजपसङ्ख्या.*
मानुषालये ।। 24.91 ।।
(40. द्वारपार्श्वेतु.)
ततो द्विगुणमार्षेतु त्रिगुणं देवनिर्मिते ।
चतुर्गुणं स्वयं व्यक्ते देशे वृद्धिमनुक्रमात् ।। 24.92 ।।
ब्रह्मचर्यपरो भूत्वा कुशशायी जितेन्द्रियः ।
मुमुक्षमाणस्तन्मन्त्रं लक्षजापेन सिध्यति ।। 24.93 ।।
* योगध्यानम्. तेन देहत्यागप्रकारः.*
युञ्जीत (41) योगविधिना हृदयाम्भोरुहासने ।
कर्णिकायां सुखासीनं शुद्धस्फटिकवर्चसम् ।। 24.94 ।।
(41. योगं विधिवत्.)
चतुर्भुजमुदाराङ्गं ज्योतिर्मण्डलमध्यगम् ।
अङ्गुष्ठमात्रं पुरुषं ध्यात्वा भोगैर्यथाक्रमम् ।। 24.95 ।।
अभ्यर्चयेन्निर्मलेन मनसा सुसमाहितः ।
योगाभ्यासबलेनैव गुणोत्कर्षः प्रजायते ।। 24.96 ।।
चन्द्रार्काग्निमयं (42) बीजं कविमण्टलसन्निभम् ।
(43) ततस्सूक्ष्मतरं बिम्बं राजमुद्गकमप्रभम् ।। 24.97 ।।
(42. बिम्बम्.)
(43. तत्तत्सूक्ष्मतरम्.)
तं सर्वमन्त्रानाक्रम्य स्थितं विद्याद्विचक्षणः ।
ततस्तु राजकाभीजप्रमाणं चिन्तयेत्क्रमात् ।। 24.98 ।।
अत्पादकमथान्याभिर्यस्यान्ते नाद आश्रितः ।
तं विलीय समुत्पन्नमश्ववालप्रमाणकम् ।। 24.99 ।।
(44) यस्य गच्छति ते प्योम्नि प्योम चागच्छते हृदि ।
ततो विचिन्तयेत्सूक्ष्मा (45) माश्ववालप्रमाणकाम् ।। 24.100 ।।
(44. यस्यागच्छन्ति.)
(45. मश्वमालाप्रमाणकम्.)
ब्रह्मनाडीमनेनाशु पश्यति ध्याननेवनात् ।
ततोऽङ्गरोममात्रं तु बीजवालं समन्ततः ।। 24.101 ।।
ध्यायेन्नि यममास्थाय ब्रह्मनाडीप्रकाशकम् ।
एवं ध्यायन्निमं पिण्डं परिपक्वं परित्यजेत् ।। 24.102 ।।
परिज्ञाय पुरा पिण्डं पाकलक्षणमुत्तमम् ।
निरुद्धसन्धिमात्रं च कृत्वा देह समीरणम् ।। 24.103 ।।
मुक्त्वा तद्ब्रह्मरन्ध्रेण उत्क्रान्तिकरणेन च ।
ध्यात्वा परित्यजे (46) द्धेहं नित्याभ्यासरतो यदि ।। 24.104 ।।
(46. द्देहान्नित्या.)
* ब्रह्मप्राप्तिप्रकारः.*
स ब्रह्म परमाप्नोति वासुदेवाख्यमव्ययम् ।
* अपुनरावृत्तिनिदर्शनम्.*
तैले तैलं घृते सर्पिः क्षीरे क्षीरं जले जलम् ।। 24.105 ।।
तद्वन्न भेदो गृह्येत जीवात्म परमात्मनोः ।
तप्तलोहो यथा तोयं (47) लीनं नैव प्रजायते ।। 24.106 ।।
(47. क्षीणे.)
अग्निदग्धानि बीजानि नारोहन्ति यथा पुनः ।
तद्वन्नजायते भूयोजीवात्मा कमलासन ।। 24.107 ।।
सारूप्यं भगवद्रूपप्राप्तिस्सद्भि (48) रुदाहृता ।
सामीप्यं सन्निदौ सेवा देवस्य परिचर्यया ।। 24.108 ।।
(48. रुदीरिता.)
सालोक्यं च तदाख्यातं लोके वैकुण्ठसंज्ञिते ।
तदीये नित्य (49) वासोऽयं पुनरावृत्तिवर्जिते ।। 24.109 ।।
(49. सारोऽयं.)
* ब्रह्मणा देहपातक्रमप्रश्नः.*
ब्रह्मा :---
श्रोतुमिच्छामि भगवन् देहपातस्य लक्षणम् ।
सङ्क्षेपतस्तु भगवन् वयोर्गतिनिरोधनम् ।। 24.110 ।।
* भगवता तन्निरूपणम्.*
श्रीभगवान् :---
युक्ताहारविहारस्य क्रियासक्तस्य पद्मज ।
युक्तस्स्वाप्नावभोधस्य योगयुक्तस्य सर्वदा ।। 24.111 ।।
विवर्तते सदा शब्दो हृद्गतो दुन्धुभिस्वनः ।
स्पर्शं न शीतं नाप्युष्णं (50) विजानाति त्वगिन्द्रियम् ।। 24.112 ।।
(50. न जानाति.)
भ्रुवोर्मध्ये यदा ज्योतिर्द्वादशान्ते व्यवस्थितम् ।
प्रत्यस्तमेति वै शीघ्रं न चोदयति वैपुनः ।। 24.113 ।।
न जानाति समाधिस्थो हार्दमब्जं यदान्तरे ।
परिशुष्यति गात्रस्थं शोणितं श्लेष्मलक्षणम् ।। 24.114 ।।
न वेत्ति पार्थिवं गन्धं न बाह्याभ्यन्तरे यदा ।
पिण्डस्तदा प्रबोद्धव्यः काले नैव चिरेण तु ।। 24.115 ।।
पृथिव्यां संस्थितं चैव धारणायां समाहितः ।
न वेत्ति शब्दं प्रागुक्तं पञ्चमात्पञ्चमे क्षणे ।। 24.116 ।।
(51) स्थितस्समेधा भाह्येतु शीतोष्णे न च विन्दति ।
प तेद्दिनचतुष्केण पिण्डस्तत्कलिते क्षणे ।। 24.117 ।।
(51. इदं पद्यं क्वचिन्न.)
रूपध्यानं समासाद्य पूर्वोक्तविधिना यदि ।
न भाति हृदयाकाशे बहिर्वा ज्योतिषां पतिः ।। 24.118 ।।
पिण्डपातो ह्यवश्यं स्यात् ज्ञात्वारिष्टैः पुरोदितैः ।
तृतीयेऽह्नि चतुर्वक्तसर्वमेतत्तदा क्षणे ।। 24.119 ।।
समादौ यदि वायव्ये योगी सम्यक्प्रवर्तते ।
न वेत्ति परमह्लादं तृषितः परिकम्पते ।। 24.120 ।।
दिनद्वयेन पिण्डस्य पातोस्य द्वितयक्षणे ।
स्थितो गगनभागे तु प्रागुक्तविधिना यदि ।। 24.121 ।।
न वेत्ति विधिना गन्धं तद्बाह्ये तु शुभाशुभम् ।
तत्रैवैकदिने वाथ लक्षणे प्रथमे क्षणे ।। 24.122 ।।
ध्यात्वैव विधिना सम्यग्योगी ध्यानैकमानसः ।
(52) मयि सन्नार्पितमना (53) व्याहरन् द्वादशाक्षरम् ।। 24.123 ।।
(52. मयिसन्तर्पितमना.)
(53. व्याहार्षम्.)
स्वयमुत्क्रमते पिण्डाद्यायाद्यागनिकेतनम् ।
शेषासने सुखासीनं वै कुण्ठे मणिमण्डपे ।। 24.124 ।।
अष्टबाहुं विशालाक्षमष्टायुधधरं हरिम् ।
श्रीभूमिसहितं देवं सर्वाभरणभूषितम् ।। 24.125 ।।
चतुर्भुजं वा वुमेन हन्तेनालिङ्ग्य पङ्कजाम् ।
अष्टौ वारस्त्रियस्तस्य वालव्यजनपाणयः ।। 24.126 ।।
तिष्ठन्ति परितः पश्चाच्छङ्खाद्यायुधधारिणः ।
सेवन्ते पुरुषास्तस्माद्बहि स्तिष्ठन्ति मूर्तयः ।। 24.127 ।।
(54) चतुर्विंशति सङ्ख्याकास्ततो मित्रादिमूर्तयः ।
पक्षीन्द्रविष्वक्सेनाभ्यां कुमुदादिगणैस्तथा ।। 24.128 ।।
(54. इदमर्धं क्वचिदधिकं दृश्यते.)
महाभागवतास्तत्र द्वादशाक्षरचिन्तकाः ।
सेवन्ते मण्डपे नित्यं पुनरावृत्ति वर्जिताः ।। 24.129 ।।
इह यत्कर्म कुर्वाणा विष्णोराराधनात्मकम् ।
मुच्यन्ते योगमास्थाय पुरुषाः परमं पदम् ।। 24.130 ।।
प्राप्यपि तत्तत्कुर्वाणा सेवन्ते पुरुषोत्तमम् ।
* परकायप्रवेशप्रकारः.*
अथवापिण्डपतनं विज्ञाय प्रागुदीरितैः ।। 24.131 ।।
निमित्तैरैहिकैर्भोगैस्सृजन्तः पृथिवीक्षितः ।
पिण्डान्तरमुपायेन विशन्ति कमलासन ।। 24.132 ।।
येन तं कथयाम्यद्य श्रूयतां सादरं वचः ।
वरपिण्डं नवं शुद्धं मध्यमे वयसि स्थितम् ।। 24.133 ।।
सर्वलक्षणसंपन्नं पापरोगबहिष्कृतम् ।
ब्राह्मणस्य शरीरं वा बाहुजस्याथवा तनुम् ।। 24.134 ।।
ऊर्ध्ववक्त्रं दीर्घपादमेकान्ते शाययेच्छवम् ।
तत्पादपार्श्वे शायीत बध्वा योगासनं ततः ।। 24.135 ।।
अभ्यस्येद्योगमेकाग्रो यथापूर्वं चतुर्मुख ।
स जीवं नाभिचक्रस्थं भ्रमन्तं भास्करप्रभम् ।। 24.136 ।।
हंसाकारं वलर्क्षाभमिडया पिङ्गलेन वा ।
हंसरूपं समास्थाय निर्गतं नासिकापुटात् ।। 24.137 ।।
खगवद्याति गगनं सार्धं प्राणसमीरणैः ।
तालं हस्तावधिं दण्डं कोशं योजनमेव च ।। 24.138 ।।
गत्वा गत्वा निवर्तन्ते योजनानि चतुर्मुख ।
नासिकापुटरन्ध्रेण नाभिचक्रं प्रवेशयेत् ।। 24.139 ।।
अभ्यस्य नित्यमनिशं योगी योगमतन्द्रितः ।
निर्गमय्य स्वकाद्देहान्नासिकारन्ध्रवर्त्मना ।। 24.140 ।।
आत्मानं परकीयेन नासिकाबिलवर्त्मना ।
परपिण्डं स्वदेहस्य विनिपाते प्रवेशयेत् ।। 24.141 ।।
नाभिचक्रं प्रविश्याथ नाडीषु विचरेत्सुखम् ।
सर्वत्र योगी तत्रस्थो युञ्ञानः पूर्ववत्सदा ।। 24.142 ।।
द्रढिम्ने तत्र वपुषस्तत्र स्थित्वा चिरं सुखम् ।
(55) तस्यापि पातमालोच्य पिण्डेऽन्यत्र (56) निवेशयेत् ।। 24.143 ।।
(55. तत्रापि.)
(56. सिद्धये.)
इत्येतत्कधिकं ब्रह्मन् परपिण्डप्रवेशनम् ।
* मन्त्रमाहात्म्यनिगमनम्.*
(57) सिद्धयो मूलमन्त्रस्य समासात्कथितास्तव ।। 24.144 ।।
(57. सिद्धये.)
मूलमन्त्र इति प्रोक्तस्साक्षाद्देवस्य वाचकः ।
प्रसूयते मन्त्रलतां प्रसूतिमणिमादिकाम् ।। 24.145 ।।
किं पुनर्धर्म कामार्थी सिद्धिं कमलसम्भव ।
नासाध्यमस्ति मन्त्रेण द्वादशाक्षररूपिणा ।। 24.146 ।।
सर्वलोकेषु सर्वत्र सत्यमेतद्ब्रवीमिते ।
नास्मात्परतरो मन्त्रो विद्यते सर्वकामदः ।। 24.147 ।।
रहस्य मेतत्कथितं मन्त्रमाहात्म्यमक्षयम् ।
* अस्यैवमन्त्रस्य षोडशाक्षरत्वविधिः.*
अयमेवाष्टमूर्तिनामधिकश्चतुरक्षरैः ।। 24.148 ।।
अमुना षोडशार्णेन चतुर्विंशतिमूर्तयः ।
आराधनीया भोगश्चेल्लभ्यते दुर्लभो महान् ।। 24.149 ।।
मन्त्रतन्त्रं यथापूर्वमुद्दृत्य द्वादशाक्षरम् ।
अक्षराणि च चत्वारि वर्णचक्रात्समुद्धरेत् ।। 24.150 ।।
* तदुद्धारप्रकारः.*
(58) गुहालये परिक्रान्तं भास्करं दण्डशेखम् ।
द्विपट्काक्षरवच्चाङ्गमस्यापि चतुरासन ।। 24.151 ।।
(58. एवं क्रमेण विन्यस्य.)
* तदृषिच्छन्दोनिर्देशः.*
मूर्तिष्वष्टासु यो ध्याता ऋषिर्मन्त्रस्य निश्चितः ।
छन्दश्च देवी गायत्रं वासुदेवोऽधिदैवतम् ।। 24.152 ।।
अधिकार्णसमष्टेस्स्या द्वर्णस्स्फटिकसन्निभः ।
क्षेत्रं च परमप्यूम तत्वं धीः पूर्व मीरिता ।। 24.153 ।।
शिष्टार्णकानां द्युमणिर्वासुदेवो नृकेसरी ।
मनोभवश्चतुर्णां स्यादधिदैवतकल्पना ।। 24.154 ।।
* नमस्स्वाहादीनां विनियोगः.*
जपेन्नमोऽन्तं पूजायामुभयोर्होमकर्मणि ।
स्वाहायां विरमेद्वौषडन्तमाप्यायने तथा ।। 24.155 ।।
मारणे तु फडन्तस्स्यादेवमन्यत्र योजयेत् ।
* मन्त्रवर्णन्यासस्थानानि.*
न्यासो मूर्ध्निललाटे च दृशोश्श्रवसि च क्रमात् ।। 24.156 ।।
नासिकापुटयो (59) र्वक्त्रे गलकूपे तथा हृदि ।
नाभिदेशे रहस्ये च तथोर्पूर्जङ्घ योरपि ।। 24.157 ।।
(59. र्मध्ये.)
कार्यानुरूपं सपृष्ट्यादिव्यसनं सर्वकर्मनु ।
* आराधनक्रमः.*
आराधनं सर्वसिद्धिकारणं तच्च कथ्यते ।। 24.158 ।।
तेजसां निधिमष्टारं सुदर्शनमनुत्तमम् ।
चिन्तयित्वा चतुर्ववक्त्रपूर्वस्यां दिशि वेधसम् ।। 24.159 ।।
सङ्कर्षणं दक्षिणस्यां प्रद्युम्नं दिशि (60) चाप्पतेः ।
अनिरुद्धमुदीचीने कोणदिक्षु श्रियादयः ।। 24.160 ।।
(60. वाऽपरे.)
देव्यश्चतस्रो मध्ये च वासुदेवं जगद्गुरुम् ।
अर्घ्यादिभिस्समाराध्य मन्त्रं षोडशलक्षकम् ।। 24.161 ।।
जपन् हुत्वाग्निमुदकैस्तर्पयित्वा यथाविधि ।
एवं प्रसाधितो मन्त्रः पुरुषार्थांश्चतुर्विधान् ।। 24.162 ।।
साधयेत्पुरुषार्थेषु यो येनावाप्तुमिष्यते ।
स (61) सर्पूऽवाप्यते ब्रह्मन् किमन्यैरतिवि स्तरैः ।। 24.163 ।।
(61. स सर्वः प्राप्यते.)
यदि ब्रह्मपदे (62) ब्रह्मन्नभिलाषा प्रवर्तते ।
ब्राह्मीं मूर्तिं यजेत्तासु ध्यात्वाऽनन्यमनूगतिः ।। 24.164 ।।
(62. ब्रह्मन्योभिलाष.)
* ग्रीष्मादिषु जपस्थिति प्रकारः.*
ग्रीष्मे मासि स्थितो भूम्यां पादङ्गुष्ठेन पद्मज ।
पादमस्यं समुद्धृत्य बाहू चोत्क्षिप्य निश्चलः ।। 24.165 ।।
वर्षासु पर्णशालायां बहिश्शरदि शैशिरे ।
हेमन्त्रे त्रिषु चैतेषु (63) वसन्तेऽग्निषु पञ्चसु ।। 24.166 ।।
(63. वसन्तेषु च.)
मध्यस्थो मन्त्रजापस्स्यादित्थं स्यात्प्रतिहायनम् ।
उपांशु प्रवरो व्यक्तान्मनसः प्रवरस्ततः ।। 24.167 ।।
* जापिनः देवादिभिश्छलनम्.*
विघ्नन्ति देवतास्तस्य तपः कर्म सुदश्चरम् ।
पदहानिं समाशङ्क्य गन्धर्वप्रमुखै (64) स्तदा ।। 24.168 ।।
(64. स्तथा.)
अप्सरोभिर्विलोभ्यैनं नृत्तवादित्रगीतिभिः ।
* स्थिरमतेर्जापकस्य उत्तमं फलम्.*
तस्मात् स्थिरमतिर्भूत्वा जपन् सिद्धिमपाप्नुयात् ।। 24.169 ।।
प्रत्यक्षं याति भगवान् त्रिविष्टपपतिस्स्वयम् ।
ब्रह्मत्वं वा तदन्यद्वा प्रयच्छति फलं महत् ।। 24.170 ।।
मूर्तीनामितरासां च पदं यद्यभिलष्यते ।
मूर्तिं तां तामभिध्यायन् जपेन्मन्त्रं च पूर्ववत् ।। 24.171 ।।
लभते तत्प्रसादेव स्वं स्वं पदमनुत्तमम् ।
मन्त्रेणानेन मुख्येन साधकस्साधयेत्फलम् ।। 24.172 ।।
ऐहिकामुष्मिकं तत्तान्नात्र कार्या विचारणा ।
ब्राह्मणः क्षत्रियो वापि वैश्यो वा जपमाचरेत् ।। 24.173 ।।
जपेऽधिकारो नान्यस्य (65) मन्त्रराट् स्वयमुत्तमः ।
(65. मन्त्रराडयमुत्तमः.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे द्वादशाक्षरकल्पो नाम चतुर्विंशोऽध्यायः.
------- ********* --------


"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_२४&oldid=206990" इत्यस्माद् प्रतिप्राप्तम्