प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः १७ चर्यापादः
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-अष्टादशोऽध्यायः
अष्टादशोऽध्यायः.
------
* नित्यनैमित्तिकादिकर्मवैकल्यप्रायश्छित्तविधिः.*
* तत्र प्रायश्चित्तनिर्वचनम्.*
ब्रह्मा :---
नैमित्तिकानां नित्यानां कर्मणां भगवन् हरे ।
आराधनानां वैकल्यं लोपो वा प्रायसंज्ञितम् ।। 18.1 ।।
तस्य चित्तं समाधानमिति निर्वचनक्रिया ।
* तत्प्रकारप्रश्नः.*
कस्य किं वा समाधानं कः प्रकारोऽस्य कथ्यताम् ।। 18.2 ।।
* भगवता तन्निरूपणम्.*
श्रीभगवान् :---
* अस्नातातिलकानुपवीतार्चने प्रायश्चित्तम्.*
अस्नातोनु (1) पवीतो वा अधृत्वातिलकं तथा ।
अर्चयेद्देवदेवेशं प्रयश्चित्तीयते नरः ।। 18.3 ।।
(1. नुपनीतो वा.)
समाधानं मूलमन्त्रशतं जप्त्वा तदर्चनम् ।
अकृत्वा पादयोश्शौचमनाचम्यापि वार्चने ।। 18.4 ।।
पञ्चोपनिषदां जापः प्रयश्चित्तं तदर्चनम् ।
नग्नो वा मुक्तकेशो वास्विन्नाङ्गो वा हसन् श्वसन् ।। 18.5 ।।
कुप्यन्वा प्रलपन्वापि पूजायां तु शतं जपेत् ।
शतकृतोऽस्त्रमन्तस्य समाराधनमन्वतः ।। 18.6 ।।
* आस्थिलोमादिस्पर्शे.*
केशास्थिलोमलोष्टादिस्पर्शने नैव निष्क्रिया ।
* नीलवस्त्रादिधारणे.*
वसानो नीलमलिनक्लिष्टवासोऽपवित्रकः ।। 18.7 ।।
अर्चयेन्मूलमन्त्रस्य जपस्तस्य प्रतिक्रिया ।
* स्त्रीसेविनोऽनाप्लुतस्य स्पर्शे.*
गत्वास्त्रियमानाप्लुत्य पूजने स्नापयेद्धरिम् ।। 18.8 ।।
पञ्चगव्यैस्ततःपञ्चमहोपनिषदां जपः ।
* विण्मूत्रादिस्पर्शे.*
विण्मूत्ररेतोरुधिरबालादिस्पर्शने सति ।। 18.9 ।।
अस्नानपूजने देवं स्नापयेत्कुशवारिभिः ।
मूलमन्त्रजपश्चोक्तोनिष्क्रिया तस्य कर्मणः ।। 18.10 ।।
* रजस्वलावस्त्रस्पृष्टस्पर्शने.*
वस्त्रं रजस्वलायाश्च स्पृष्ट्वा देवार्चने कृते ।
पञ्चगर्वैस्स्नापयित्वा पञ्चोपनिषदां जपः ।। 18.11 ।।
* चण्डालचितिचैत्यस्पृष्टस्पर्शे.*
श्वानं रजस्वलां यूपं चण्डालं वेदविक्रयम् ।
चितिं च (2) चैत्यभूमिष्ठं वृक्षं स्पृष्ट्वा तदर्चने ।। 18.12 ।।
(2. नीचचैत्यस्थं.)
पञ्चवारुणमन्त्रैश्च स्नापयेत्कुशवारिणा ।
* काकखरपाषण्डादिसम्पर्के.*
काकपाषण्डपतितप्रतिलोमखरादिकान् ।। 18.13 ।।
अस्पृश्यमन्यदप्येवं स्पृष्ट्वा प्राग्वत्प्रतिक्रिया ।
* केशादिदूषितपुष्पार्चने.*
(3) केशादिदोषदुष्टेन पुष्पेणाराधने कृते ।। 18.14 ।।
(3. मूत्रादि.)
क्षीरेण स्नपनं कृत्वा शान्तिहोमः प्रतिक्रिया ।
* पुरीषादिस्पृष्टजनार्चने.*
पुरीषादिकमाक्रम्य यद्यनाप्लोत्य पूजयेत् ।। 18.15 ।।
स्नपनं कुशपाथोभिर्जवः प्राग्वत्प्रतिक्रिया ।
* स्त्य्रनुपनीतबिम्बस्पर्शे.*
स्त्रियो वा नुपनीतो वा स्पृशेद्बिम्बं प्रतिक्रिया ।। 18.16 ।।
उक्षणं कुशतोयेन मन्त्रेण परिमेष्ठिना ।
* पूजामध्येनिष्ठीवनसम्भवे.*
आराधने संप्रवृत्ते निष्ठीवादिकमन्तरा ।। 18.17 ।।
यद्यापतेदाचमनं स्पृशेद्वा दक्षिणं श्रवः ।
* अकृतमन्त्रन्यासार्चने.*
प्रलयादिक्रमाद्देहमसंशोध्य समाधिना ।। 18.18 ।।
मन्त्रन्यासमकृत्वा च पूजने पूर्ववज्जपः ।
अर्चनं च पुनस्सर्वं कृत्वादेवस्य निष्कृतिः ।। 18.19 ।।
* चण्डालादिसम्पृक्तहविर्निवेदने.*
चण्डालाद्यैरसंस्पृश्यैर्हविस्स्पृष्टं निवेदयेत् ।
यदि प्रमादात्स्नपनं कोघृतेन प्रतिक्रिया ।। 18.20 ।।
शान्ति होमश्च कर्तव्य स्तदन्ते कमलासन ।
* सृगालादिदूषितवस्तुप्रापणे.*
दृष्टं च स्पृष्टवत्तद्वत्सृगालाद्यैश्च दूषितम् ।। 18.21 ।।
आचाररहितैरन्यैस्तथै वाशुचिवस्तुभिः ।
* अयाज्ञिकधान्यहविस्समर्पणे.*
अयाज्ञियैःकोद्रवाद्यैर्हविर्भिश्च निवेदने ।। 18.22 ।।
पूर्ववच्च समाधानं मूलमन्त्रायुतं जपेत् ।
शाकमूलफलैर्लेह्यपेयाद्यैश्च विवर्जितैः ।। 18.23 ।।
स्नपनं शान्तिहोमश्च मूलविद्यजप स्तथा ।
* अत्युष्णातिशीतहविर्निवेदने.*
अत्युष्णस्यातिशीतस्य हविषश्च निवेदने ।। 18.24 ।।
निवृत्तिमन्त्रजापश्च विश्वमन्त्रजपः क्रमात् ।
* शवादिदूषितगेहश्रपितहविःप्रापणे.*
(4) शवादिदूषिते गेहे पक्वस्य हविषस्तथा ।। 18.25 ।।
(4. सत्वादि.)
निवेदनं चेत्स्नपनं शान्ति होमस्तथैव च ।
क्रिमिकेशादिदुष्टस्य हविषश्च निवेदने ।। 18.26 ।।
पौरुषेणैव सूक्तेन कुर्याच्छुद्धाभिषेचनम् ।
* मुखवायुहतादिवस्तुनिवेदने.*
मुखवायुहताघ्रातं रजस्तुषकणान्वितम् ।। 18.27 ।।
मृत्पाषाणशकृत्प्राय (5) दूषितस्य निदेदने ।
मूलमन्त्रायुतजपस्तद्वत्पर्युषितं यदि ।। 18.28 ।।
(5. दूषितं च निवेदयेत्.)
* निवेदितपूर्वनिवेदने.*
निवेदितस्य हविषो भूयो यदि निवेदनम् ।
(6) स्नानपूर्वर्चसं मूलमन्त्रस्य जप इष्यते ।। 18.29 ।।
(6. स्नपनं पूर्वनन्मूल.)
* निर्माल्योच्छिष्टसमर्पणे.*
निवेदयेच्च निर्माल्यमुच्छिष्टं वा प्रतिक्रिया ।
कुम्भैर्द्वादशभिस्स्नानं शान्तिहोयोजन स्तथा ।। 18.30 ।।
* गुर्वाद्यन्यवन्दनावसरहस्तधृतकु सुमहविराद्युपयोजने.*
गुर्वादीन्मनसा वाचा कर्मणा समतःकरे ।
स्थितानि हविरादीनि पुष्पादीनि चतुर्मुख ।। 18.31 ।।
(7) पूजावस्तून्ययोग्यानि समाराधनकर्मणि ।
तैरर्चने पञ्चकुम्भैस्स्नपनं पूर्ववज्जपः ।। 18.32 ।।
(7. पूजानस्तूनि योग्यानि नैवाराधनकर्मणि.)
* भगवत्स्रणआमकाले हस्तधृतानांपुष्पाणां विष्वक्सेने विनियोगः.*
वासुदेवं प्रणमतः पूजावस्तूनि हस्तयोः ।
स्थितानि नार्चनार्हणि सेनान्ये तानि निक्षिपेत् ।। 18.33 ।।
* तादृशपुष्पैरर्चने.*
तैरर्चनं चेत्स्नपनं कलशैस्सप्तभिर्भवेत् ।
शान्तिहोमश्च कर्तव्यो मूलमन्त्रजपस्तथा ।। 18.34 ।।
* मण्डूकमूषकाद्युपहतनिवेदने.*
मण्डूकमूषिकासर्पबिडालाद्यैश्च जन्तुभिः ।
क्रिमिकीटपतंगाद्यैःपक्षिभिर्वायसादिभिः ।। 18.35 ।।
स्पृष्टं दष्टं हविर्नैप देवार्हं तन्नि वेदने ।
स्नपनं कलशैरेव त्रिभिर्होमान्तमर्चयेत् ।। 18.36 ।।
* मक्षिकाद्युपघाते विशेषः.*
मक्षिकाद्यैश्च संस्पृष्टं प्रोक्ष्य देवाय कल्पयेत् ।
* भुक्तशेषनिवेदने.*
भुक्तशेषैःप्रमादाद्वालोभाद्वा देवमर्चयेत् ।। 18.37 ।।
मूलमन्त्रायुतजपश्शान्तये तस्य कल्पते ।
दत्तशेषप्रदानेन तद्वदेव च निष्कृतिः ।। 18.38 ।।
* पर्युषिताम्बूपहारे.*
स्नाने पर्युषिताम्बोभिः पुनरेपमथाम्बुभिः ।
अब्लिङ्गैः पावनै र्मन्त्रैः प्रायश्चित्तं तदुच्यते ।। 18.39 ।।
* अपर्युषित तीर्थसलिलानि.*
पुण्यतीर्थसरित्तोये न पर्युषितदूषणम् ।
* समुद्रतो यस्यापर्युषितत्वावधिः.*
समुद्रतोयं दशमात्परं पर्युषितं दिनात् ।। 18.40 ।।
* तिर्यग्योन्यादिलङ्घितपारिणो निषेधः.*
तिर्यग्योनिभिरस्पृश्यैर्मनुष्यैरपि लङ्घितम् ।
स्पृष्टं च वारि न स्नानयोग्यं स्नाने च वारुणैः ।। 18.41 ।।
स्नानं पुनर्विधातव्यं शान्त्यर्थं तस्य कर्मणः ।
* अजाश्वादिमुखसंस्पर्शस्य कामचारः.*
अजाश्व मुखसंस्चर्शोन दोषाय कदाचन ।। 18.42 ।।
* अशुचिद्रव्यसंपृक्तजलस्य निषेधः.*
गोमुखेनैव संस्पृष्टं वर्जनीयं समर्चने ।
प्रायश्चित्तं पुनस्स्नानं मूलमन्त्रजपस्तथा ।। 18.43 ।।
विण्मूत्ररुधिरापेययुक्तैस्तोयादिवस्तुभिः ।
नार्चयेदर्चने स्नानं कलशै रधमाधमौः ।। 18.44 ।।
* शिवनिर्माल्यसम्पर्के प्रायश्छित्तम्.*
शिवनिर्माल्यदुष्टेन तोयप्रभृतिवस्तुना ।
पूजने कलशैस्स्नानमधमैर्मध्यमैर्भवेत् ।। 18.45 ।।
* शवादिदूषितकूपादिजलाशयसंस्कारः.*
शिवादिदूषिते कूपे जलमुद्धृत्य पूर्वकम् ।
सर्वं तदन्ते पुण्याहं वाचयेज्ज्ञलशुद्धये ।। 18.46 ।।
पश्वादिमरणे कूपे चण्डालस्नानपानयोः ।
तथा रजस्वलाद्यैश्च प्रतिलोमैर्विगर्हिते ।। 18.47 ।।
कूपस्थं तज्जलं सर्वमुद्धरेत्कमलासन ।
चुचुन्दर्यादिमरणे जलस्यार्धं समुद्धरेत् ।। 18.48 ।।
* उक्तसंस्कारस्य दिवारात्रभेदेन भेदः.*
दिवा समुद्धरेत्तोयं रात्रौ चेदग्नि सन्निदौ ।
उद्धरेदन्यथा तोयैरुपयोगेऽथ वारुणैः ।। 18.49 ।।
पञ्चभिर्जुहुयादग्नौ ब्राह्मणानपि भोजयेत् ।
* पूजाकाले दीपनिर्वाणे प्रायश्चित्तम्.*
पूजाकाले तु दीपस्य निर्वाणेद्विगुणार्चनम् ।। 18.50 ।।
दीपमुद्दीप्य जप्तप्यो विश्वमन्त्रश्शतावरः ।
* आकस्मिकनिर्वाणे दोषाभावः.*
अकस्मादेव निर्वाणे शान्तिर्नैव त्वहेतुके ।। 18.51 ।।
* अनिर्वाणदीपनिर्वाणे प्रायश्चित्तम्.*
अनिर्वाणस्य निर्वाणे दीपस्य स्नपनं हरेः ।
क्षीरेण मूलमन्त्रस्य जपश्चाष्टोत्तरं शतम् ।। 18.52 ।।
* दीपयोग्यतैलम्.*
सर्पिषा तिलतैलेन दीपारोपणमाचरेत् ।
* निषिद्धतैलनिरूपणम्.*
नान्यैरेरण्डतैलाद्यैर्नाजाविमहिषादिजैः ।। 18.53 ।।
स्नेहैरारोपणं कार्यं न च प्राण्यङ्गमम्भवैः ।
प्रमादात्फलजैस्तैलैस्स्न पने दीपने हविः (8) ।। 18.54 ।।
(8. बविर्निवेदने. इतिवक्तव्ये--विग्रहः छान्दसः.)
निवेदने च होमे च स्नेहौरन्यैश्च निन्दितैः ।
* तादृशतैलयोगे प्रायश्छित्तम्.*
अनुष्ठाने कृते कुम्भै स्स्नापयेन्मध्यमोत्तमैः ।। 18.55 ।।
शान्तिहोमस्तथा दानं द्विजेभ्यो भोजनं तथा ।
* निषइद्धदधिक्षीरादि.*
(9) अजप्रभृतिदध्याद्यैस्स्नानादौ विहिते सति ।। 18.56 ।।
(9. अजप्रभृतिपश्वाद्यैः---हविः प्रभृतिदध्याद्यै.)
प्रायश्चित्तं यथापूर्वमाचरेत्कसुलासन ।
* क्लृप्तोपकरणन्यूनीभावे विधिः.*
पूर्वोपचारक्लृप्तौ तु न्यूनायां क्लृप्तवस्तुभिः ।। 18.57 ।।
वस्तुभिर्द्विगुणैर्भूयस्पमाराध्य मधुद्विषम् ।
सर्पिषाष्टोत्तरशतं जुहुयान्मूलविद्यया ।। 18.58 ।।
* मन्त्रक्रियादिहानौ विधिः.*
मन्त्रहानौ क्रियाहानौ मुद्राहानौ तथैव च ।
जपहानौ ध्यानहानौ हीनेष्वन्येषु केषु चित् ।। 18.59 ।।
मूलमस्त्रजपस्तस्य यथाशक्ति (10) प्रतिक्रिया ।
गेयवादित्रनृत्तेषु पूर्वक्लृप्तेषु पूजने ।। 18.60 ।।
(10. जपक्रिया.)
हीनेकस्मिंश्चिदाराध्यो हरिस्स्नपनवर्त्मना ।
* वाद्यनृत्तादिहानौ शान्तिः.*
वाद्यहानौ तु पयसा नृत्तहानौ घृतेन तु ।। 18.61 ।।
गेयहानौ तु मधुना जुहुयात्पूर्वसङ्ख्यया ।
पूर्वक्लृप्तोपदं शादिहानौ द्विगुणवस्तुभिः ।। 18.62 ।।
निवेदयेत्स्नानपूर्वं कालाति (11) क्रमणेपि च ।
भोगद्रव्यैर्द्विगुणितै राराध्य क्षम्यतामिति ।। 18.63 ।।
(11. क्रमणेन च.)
* सन्ध्याकालातिक्रमे.*
उच्चारयेत्तथा सन्थ्यातिक्रान्तौ द्वाद शेष्वपि ।
* अधिककालपूजाहानौ.*
कालेषु क्लृप्तङ्ख्येषु हानौ कालस्य कस्य चित् ।। 18.64 ।।
द्विगुणैर्वस्तुभिः पूज्यः कालेषु च यथोत्तरम् ।
कालं प्रथममारभ्य द्विगुणैस्त्रिगुणै स्तथा ।। 18.65 ।।
चतुर्गुणैः पञ्चगुणैरेवमाद्यैस्तु वस्तुभिः ।
पूजयेज्जप (12) होमाद्यैस्तद्वदेव यथायथम् ।। 18.66 ।।
(12. होमान्तम्.)
अतिक्रान्ते दिनविदौ विधिरेषप्रकीर्तितः ।
द्विदिनादौ तु पक्षान्ते पूजाहिने घटैस्तथा ।। 18.67 ।।
अधमोत्तममार्गेण स्नापयेत्तस्य शान्तये ।
मासे च पूजाविकले मध्यमोत्तमवर्त्मना ।। 18.68 ।।
तिलाज्यचरुभिश्चैव जुहुयान्मूलविद्यया ।
* वर्षाधिककालपूजालोपे पुनःप्रतिष्ठा.*
संवत्सरत्रयादर्वाङ्मासादूर्ध्वमनर्चिते ।। 18.69 ।।
संप्रोक्षणं भवेदूर्ध्वं प्रतिष्ठाविधिरुच्यते ।
* भूगुप्तगृहर्चाविधिः.*
भूगुप्तामपि चैकाहमुद्धृत्य प्रतिमां पुनः ।। 18.70 ।।
संप्रोक्षयेद्गृहार्चायामाराधनविरोपने ।
स्नपनं पंचगव्येन सूक्तेन पुरुषात्मना ।। 18.71 ।।
शान्तये जुहुयादग्नौ ब्राह्मणानपि तर्पयेत् ।
मासादूर्ध्वं तु षण्मासं पूजाहीने चतुर्मुख ।। 18.72 ।।
कुम्भैष्षोडशभिस्स्नानं सूक्तेन पुरुषात्मना ।
भोजयेद्ब्राह्मणानग्नौ जुहुयाच्छान्तये पुनः ।। 18.73 ।।
ऊर्ध्वं संप्रक्षणं कार्यं यावत्संवत्सरावधि ।
प्रतिष्ठाविधिरूर्ध्वं तु वत्सरादुक्तवर्त्मना ।। 18.74 ।।
* देवस्थापि तेषु पूजालोपे विधिः.*
त्रिदशादिप्रतिष्ठायां पूजालोपे न दूषणम् ।
प्रयश्चित्तं तु मर्त्यानां प्रतिष्ठायामुदीरितम् ।। 18.75 ।।
* सालिग्रावपूजालोपे शान्त्यभावः.*
सालिग्रावशिलादीनां पूजालोपो न दूषणम् ।
तथैपाशुछिसंस्पर्शे क्षालयित्वार्चयेत्पुनः ।। 18.76 ।।
सर्वधा लोपने शान्तिर्नोक्तकालाश्रयो ? भवेत् ।
अज्ञानादधवा ज्ञानाद्वह्नितर्पण (13) वर्जिते ।। 18.77 ।।
(13. नर्जिने.)
* अनेककालपूजालोपे विधिः.*
पंचोपनिषदैर्मन्त्रेस्सर्पिषा जुहुयाच्छतम् ।
एकादिकालातिक्रान्तौ द्विगुणादि यथापुरम् ।। 18.78 ।।
बहुभिःकलशैर्देवं स्नापयेद्दिवसात्परम् ।
मासावधि तदूर्ध्वं तु कलशैर्वत्सरावधि ।। 18.79 ।।
अष्टोत्तरशतैःकुर्यात्स्नपनं जुहुयात्पुनः ।
अष्टोत्तरसहस्रेण तिलाज्यचरुभिः (14) क्रमात् ।। 18.80 ।।
(14. पृथक्.)
द्वादशाक्षरमन्त्रेण शान्तिहोमस्तदा भवेत् ।
वत्सरादुपरिष्टात्तु स्नपनं मध्यमोत्तमम् ।। 18.81 ।।
कुण्डे चाग्निं स्थापयित्वातिलव्रीहियवैरपि ।
लाजैश्च कालपुष्पैश्च समिच्चरुघृतैरपि ।। 18.82 ।।
अष्टोत्तरसहस्रेण जुहुयान्मूलविद्यया ।
शान्तिहोमस्तथा दानं विप्राणां चापि भोजनम् ।। 18.83 ।।
सत्यग्नावप्यहोमे तु प्रायश्चित्तमितीरितम् ।
अग्नौशान्तेमथित्वाग्निं शान्तिहोमं समाचरेत् ।। 18.84 ।।
पंचोपनिषदैर्मन्त्रेर्व्याहृतिप्रमुखै रपि ।
गुपरिस्तीर्य च कुशैर्होमःप्रणवविद्यया ।। 18.85 ।।
अष्टोत्तरशतेनाज्यैर्मूलमन्त्रजपस्तथा ।
अयथोक्तक्रमे तद्वत्प्रायश्चित्तं विधीयते ।। 18.86 ।।
काम्ये परिधमो (15) नेषा नित्ये कर्मणि वान वा ।
अलाभे समिधामज्यैश्चरुभिर्वाहुतिर्भवेत् ।। 18.87 ।।
(15. ष्टानि नित्यकर्माणि. नित्यं कर्माणि.)
तयोरलाभे (16) बीजैर्वा समिद्भिर्वा यथोदितैः ।
* अग्निकुण्डस्याशुचिसंपर्केशान्तिः.*
अग्नौ केशादिभि (17) स्स्पृष्टे अस्पृश्यस्पर्शने तथा ।। 18.88 ।।
(17. र्जुष्टे.)
होमो व्याहृतिभिः कार्यो वारानष्टोत्तरं शतम् ।
आयुतं पुष्पवत्यादिस्पर्शे मथनजेऽनले ।। 18.89 ।।
* पाकस्थानाशुचित्वशान्तिः.*
पाकस्थाने चुल्लिस्पर्शे नरैः पुर्वोदितैस्तथा ।
श्वादिभिस्स्थानमालिप्य गोमयेन महानसम् ।। 18.90 ।।
आनीयाग्न्यन्तरं चुल्यां पुण्याहं वाचयेद्ध्विजैः ।
विण्मूत्राद्यैस्तथास्पर्शे पूर्ववच्छुद्धिरिष्यते ।। 18.91 ।।
(18) पक्वेन चुल्यां दुष्टायां हविषां च निवेदने ।
स्नापयेन्नवभिःकुम्भैर्देवं वाथ घटैस्त्रिभिः ।। 18.92 ।।
(18. पक्वस्य.)
* परिवारार्चनलोपे.*
परिवारार्चने च्छिन्ने तत्तन्नामान्युदीरयन् ।
सर्पिषा जुहुयादग्नौ प्रत्येकं त्वष्टसङ्ख्यया ।। 18.93 ।।
* बल्यर्थहविषो दोषे.*
द्विगुणाद्यैर्द्विकालादौ बल्यर्थं च हविर्यदि ।
दूषितं केशकीटाद्यैरस्पृश्यैर्मनुजैस्तथा ।। 18.94 ।।
काकादिभिश्च तत्त्यक्त्वाहविषान्येन कर्मतत् ।
यदि दुष्टेन हविषा बलिं दद्यात्प्रमादतः ।। 18.95 ।।
शान्तिहोमस्तदा कार्यश्शास्त्रदृष्टेन वर्तना ।
* तण्डुलादिदूषणे बलिद्रव्यादिपाते.*
तण्डुले चोदने पुष्पे बल्यर्थे पात्रसंभृते ।। 18.96 ।।
(19) देवे चावाहिते तस्मिन् पूर्ववद्दूषणं यदि ।
पतिते वा बलिद्रव्ये (20) मूलभेरेऽथवात्मनि ।। 18.97 ।।
(19. देवतावाह्यते तस्मिन्.)
(20. बलिबेरेऽथवर्त्मनि.)
उद्वास्य देवमानीय द्रव्यान्तरमदूषितम् ।
तस्मिन्नावाह्य देवेशं यथापूर्वं पुनर्नयेत् ।। 18.98 ।।
तद्दोषशान्तये पश्चाद्दध्ना क्षीरेण वा हरिम् ।
स्नापयेज्जुहुयाच्छान्तिं मूलमन्त्रजपस्तथा ।। 18.99 ।।
* बलिबेरस्य पतने.*
बलि (21) बेरे निपतिते यनादावुत्सवे बहिः ।
स्थापयित्वा यथापूर्वं (22) बलिशेषं नयेत्पुनः ।। 18.100 ।।
(21. बिम्बे.)
(22. बिम्बं शेषं.)
शास्तये नवभिः कुम्भैस्स्नापयेत्पतिते भुवि ।
अधमाधममार्गेण शान्तिहोमो जपस्तथा ।। 18.101 ।।
* रज्वसलादिदूषितभूसंस्कारः.*
नृत्तगेयरता नार्यो (23) गणिकाश्चाथवेतराः ।
देवदास्यो दूषयेयू रजोभिः पृथिवीतलम् ।। 18.102 ।।
(23. गाणिक्यमथ.)
रजस्वलारजोदुष्टं भूतलं जानुमात्रकम् ।
खात्वा च मृद्भिरन्याभिः पूरयित्वा महीतलम् ।। 18.103 ।।
आलिप्य गोमयांबोभिः पुण्याहं वाचयेत्ततः ।
प्रोक्षणं पंचभिर्गव्यैस्सन्निकृष्टं च कौतुकम् ।। 18.104 ।।
अधमोत्तममार्गेण कलशैस्स्नापयेद्गुरुः ।
तिलाज्यचरुभिर्होमः प्रत्येकं मूलविद्यया ।। 18.105 ।।
सहन्रकृत्वस्तदनु शान्तिहोमो जपस्तथा ।
* कवाटदोषे शुद्धिः.*
कवाटादिकमप्यन्यत्स्पृष्टं प्रक्षाल्यमम्भसा ।। 18.106 ।।
तासां च मार्गास्संशोध्या गोमयाम्भोबिरुक्षणैः ।
चोरभूतैर्ब्राह्मणाद्यैः स्पष्टे बेरेऽप्यचोदितैः ।। 18.107 ।।
* चोरस्पर्शे.*
चोरस्पर्शनिमित्तं तु स्नपनं कलशैर्हरेः ।
वर्णानामानुपूर्व्येण त्वथमाधमपद्धतिम् ।। 18.108 ।।
आरभ्य गणितैः कुर्यात्सङ्करैरपि तद्भवेत् ।
बीजप्रयुक्तकलशैस्स्नपनं शान्तये भवेत् ।। 18.109 ।।
शान्तिहोमो ब्राह्मणानां भोजनं दानमेव च ।
* अज्ञातजातिजनस्पर्शे.*
अज्ञातजातिसंस्पर्शे स्नापयेदुत्तमोत्तमैः ।। 18.110 ।।
शान्तिहोमो द्विजेन्द्राणां (24) भोजनं दानमेव च ।
त्रिवस्तुकं मृण्मयं च लेपबिम्बं च भित्तिजम् ।। 18.111 ।।
(24. तोषणम्.)
चित्रं नीचैर्यदि स्पृष्टं चण्डालाद्यै (25) र्विगर्हितैः ।
नवीकरणमास्थेयं संप्रोक्षणविधि (26) स्तथा ।। 18.112 ।।
(25. स्तथा परैः.)
(26. र्भवेत्.)
प्रतिष्ठा वा यथावित्तं दोषभूयस्तयाथ वा ।
पटस्पर्शे क्षालयित्वा यथापूर्वं पुसस्सृजेत् ।। 18.113 ।।
* अन्यशास्त्रदीक्षितस्पर्शे.*
दीक्षितैरन्यशास्त्रेषु स्पृष्टे स्नपनमाचरेत् ।
दीक्षितैरितरैश्चापि शूद्रैस्तद्वत्समाचरेत् ।। 18.114 ।।
* महापातक्यादिस्पर्शे.*
महापातकिसंस्पर्शे स्नपनं चोत्तमोत्तमम् ।
उपपादकि संस्पृष्टे स्नपनं चाधमोत्तमम् ।। 18.115 ।।
परस्त्रीगमनासक्तैस्तथाऽनियतवृत्तिभिः ।
स्पर्शे च नवभिःकुम्भैस्स्नपनं कौतुके भवेत् ।। 18.116 ।।
अस्पृश्यैरितरैर्वापि कुण्डादिस्सर्शने सति ।
स्नपनं पूर्ववत्कार्यं स्त्रीभिर्दुष्टाभिरेव च ।। 18.117 ।।
अनुलोमास्त्रियश्शूद्रा व्रजेयुर्गर्भमन्दिरम् ।
भूतलं पञ्चगव्येन सिञ्चेद्वा गोमयाम्बभिः ।। 18.118 ।।
चण्डालैःपुल्कसैर्वापि तपितैर्मद्यपै स्तथा ।
श्वपचैर्मन्दिराभ्यन्तः प्रवेशे मृण्मयांस्त्यजेत् ।। 18.119 ।।
तत्रस्थान् क्षालयित्वान्तः कवाटादिमहीतलम् ।
आलिप्य गोमयोम्भोभिः (27) पुण्याहमपि वाचयेत् ।। 18.120 ।।
(27. पुण्याहं वाचयेज्जलैः.)
प्रतिमाश्चापि तत्रस्था स्स्नापयेत्कलशैर्गुरुः ।
शान्तिहोमो जपश्चैव द्विजानां दानभोजने ।। 18.121 ।।
अशौचवत्प्रवेशे च पूर्ववद्विधिरिष्यते ।
चण्डालश्श्वपचो वापि तादृशाःपुल्कसादयः ।। 18.122 ।।
अज्ञानाद्गर्भगेहेतु कर्मस्वधिकृता यदि ।
वसेयुश्चैव तैस्सार्धं भोज्यं वा वस्तु तादृशम् ।। 18.123 ।।
स्पृष्टमाराधनाङ्गं चेत्स्पृष्टं वा कौतुकं यदि ।
क्रियासमभिहारेण प्रायश्चित्तमिहोच्यते ।। 18.124 ।।
शोधयेन्मन्दिरं पूर्वं गोमयालेपनादिभिः ।
पुण्याहं वाचयित्वाथ ब्राह्मणांस्तत्र भोजयेत् ।। 18.125 ।।
स्वाध्यायं परिकुर्वीरन् ब्राह्मणा वेदपारगाः ।
इतिहासपुराणानि पठेयुश्च दिवानिशम् ।। 18.126 ।।
कपिलाश्च प्रदेशेषु तत्र तत्राधिपासयेत् ।
एवं मासादिकालेषु दोषगौरवराघवम् ।। 18.127 ।।
अवेक्ष्य शोधिते धाम्नि ब्राह्मणांस्तोषयेद्धनैः ।
प्रतिमानां यथायोगमुद्धारो वा नवीकृते ।। 18.128 ।।
कुर्यात्ततो यथापूर्वं (28) निमित्ते वा नवीकृते ।
प्रतिष्ठाप्य यथाशास्त्रं स्नापयेत्कलशैरधि ।। 18.129 ।।
(28. उद्धारो वा.)
सहस्रेण पूरावृत्तदोषाणामपनुत्तये ।
अन्तेमहोत्सवःकार्योन चेद्राष्ट्रानृपक्षयः ।। 18.130 ।।
* शिलाबिम्बस्य चालननिषेधः.*
बिम्बं न चालयेच्छैलं न नवीकरणं तथा ।
तथैव दिव्यमार्षं च स्वयं व्यक्तं च कौतुकम् ।। 18.131 ।।
* मागधश्वापदादिस्पर्शे शान्तिः.*
तथान्यैर्मागधाद्यैश्च प्रतिलोमैश्च गर्हितैः ।
सहस्रकलशैर्देवं स्नापयेत्तस्य शान्तये ।। 18.132 ।।
श्वापदैश्च सृगालाद्यैश्छण्डालाद्यैश्च गर्हितैः ।
प्रथमादि प्रविष्टं चेद्धामावरणभूतलम् ।। 18.133 ।।
प्रोक्षयेत्पञ्च गव्येन पुण्याहमपि वा चयेत् ।
धामस्पर्शे तथान्यस्य बलिपीठादि (29) कस्य च ।। 18.134 ।।
(29. कर्मच.)
स्पर्शेकृत्वा यथापूर्वं शान्तिहोमं समाचरेत् ।
आगन्तुकैः कुक्कुटाद्यैस्स्पृष्टं चेद्धाम सर्वतः ।। 18.135 ।।
प्रोक्षयेन्म्रपूतेन वारिणा शान्तिमाचरेत् ।
देवान् संस्नापये (30) च्चैव प्रथमावरणादिगान् ।। 18.136 ।।
(30. देवं प्रथमानरणादिषु.)
* खद्योतसंपर्के.*
सर्पिश्चरुतिलैर्होमो मूलेनाष्टोत्तरं शतम् ।
खद्योतस्पर्शने देवं स्नापयेन्नवभिर्घटैः ।। 18.137 ।।
* पूजाकाले कवाटबन्धने.*
पूजाकाले कवाटस्य बन्धनं चेदसङ्कुले ।
अष्टोत्तरशतं मूलमन्त्रस्य जप इष्यते ।। 18.138 ।।
* तत्रापवादः.*
सङ्कुले (31) बन्धनं नैव दोषाय भवति क्वचित् ।
* बिम्बवदेव प्रभापीठादिषु दोषः.*
प्रभापीठास्त्रसंस्पर्शे बिम्बस्पर्शवदिष्यते ।। 18.139 ।।
(31. बन्धने.)
आचार्याःपूजकाश्चान्ये तथैव परिचारकाः ।
आसनेष्वासिकां भुक्तिं शयनं च यथातथम् ।। 18.140 ।।
कुर्युः कर्मण्यधिकृता दोषा नैव तदा भवेत् ।
* अनधिकारिप्रसङ्गे शान्ति.*
अन्ये चेत्कुर्युरवनिं प्रोक्षयेद्गोमयाम्बुभिः ।। 18.141 ।।
* प्राकारादीनामग्नि दाहे.*
प्राकारे मण्टपे धाम्नि गोपुरे पाकवेश्मनि ।
दग्धेऽग्निना समाधाय पूर्ववन्मण्टपादिकम् ।। 18.142 ।।
प्रतिष्ठाप्य यथापूर्वं ततः शान्तिं समाचरेत् ।
अधमोत्तममार्गेण स्नपनं शान्तिदं भवेत् ।। 18.143 ।।
शान्तिहोमस्तु कर्तव्योद्विजानां दानभोजने ।
प्रतिमादहने चापि समाधाय यथापुरम् ।। 18.144 ।।
स्नासं सहस्रकलशैः प्रतिष्ठाप्य यथाविधि ।
वस्त्रादिदहने तस्याः प्रभादिदहने तथा ।। 18.145 ।।
नवभिःकलशैस्स्नानं होमादि तदनन्तरम् ।
* सुदर्शनादीनामग्निदाहे.*
सुदर्शनेऽग्निना दग्धे स्नानं नवघटैर्भवेत् ।। 18.146 ।।
ध्वजे विताने छत्रे च दग्धेचास्तरणादिके ।
पुनरुत्पाद्य तत्सर्वं शान्तिहोमादिकं भवेत् ।। 18.147 ।।
* प्राकारादीनां वृद्धिस्थानादिनिर्देशः.*
प्रासादाद्यवकाशानां वृद्धिश्चेत्सर्वतो भवेत् ।
यद्वा प्राच्यामुदीच्यां वा वृद्धिर्नान्यत्र शोभना ।। 18.148 ।।
* निषिद्धदिशि वृद्धौ शान्तिः.*
दक्षिणापरवृद्धिश्चेत्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमो द्विजेन्द्राणां तर्पणं भोजनादिभिः ।। 18.149 ।।
* उपपीठस्य कामचारः.*
शोभना सर्वतो वृद्धि (32) रुपपीठस्य चेष्यते ।
प्रथमावरणं यावत् दोषस्स्याद्देवनिर्मिते ।। 18.150 ।।
(32. मुपनीतस्य.)
* नवीकरणे पूर्ववदेव चिह्नानि.*
वर्धितं यदि पूर्वोक्तंस्नपनं शान्तिदं भवेत् ।
नह्रासयेत्पुराक्लृप्तं धामादि न च चालयेत् ।। 18.151 ।।
पौराणिकं शिरः पीठं धामचिह्नं च वैष्णवम् ।
नोद्धृत्य (33) पूरयित्वावा न वृद्धिर्गोपुरादिषु ।। 18.152 ।।
(33. पूजयित्वा.)
अल्पीयः प्राग्विमानादि दिव्यवर्गं धनैः पुनः ।
वर्धयेच्छ्रद्धया मुख्यैर्द्रव्यैरर्चांनयेद्गुरुः ।। 18.153 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे नित्याराधनप्रायश्चित्तविधिर्नाम अष्टादशोऽध्यायः.
------ ******* ------