प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ४ चर्यापादः
अध्यायः ५
[[लेखकः :|]]
अध्यायः ६ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
पञ्चमोऽध्यायः.
-------
* नित्योत्सव विधिः.*
श्रीभगवान् :---
अथ नित्योत्सवविधिं कथयामि चतुर्मुख ।
सर्वदुःखहरं पुंसां सर्वभूत प्रहर्षणम् ।। 5.1 ।।
राष्ट्रस्य राज्ञो ग्रमस्य यजमानस्य सद्मनः ।
सुखावहं शान्तिकरं पुण्यमायुर्विवर्धनम् ।। 5.2 ।।
आवाह्य तण्डुले शुद्धे पार्श्वस्थे परमेश्वरम् ।
शक्तिभिर्दशभिर्द्वाभ्यां सह प्रातर्दिने दिने ।। 5.3 ।।
परिक्रमेदायतनं मध्याह्ने त्वन्न कल्पिते ।
सायं कुसुमसङ्घाते त्रिसन्ध्यं त्रिषु कल्पयेत् ।। 5.4 ।।
बिम्बेन (1) वा परीयायात्त्रि सन्ध्य मनुवासरम् ।
अथवान्नेन मध्याह्ने कालेऽन्यत द्वये र्चना ।। 5.5 ।।
(1. वाथ पर्यायात्त्रिसन्ध्यमनुसारतः.)
त्रिसन्ध्य मथवान्नेन कुर्यान्नित्योत्सवं हरेः ।
मध्यन्दिने वा सर्वार्थं परिक्रम्य बलिं क्षिपेत् ।। 5.6 ।।
यद्वोत्सवप्रतिकृते रन्वगग्रेऽथवा (2) भवेत् ।
त्रिसन्ध्यं चामरं छत्रं वि तानध्वज संयुतम् ।। 5.7 ।।
(2. हरेत्.)
* पञ्चावरण बलिदानम्.*
तण्डुलादिकमन्नं वा केवलं कमलासन ।
पञ्चावरणके धाम्नि पञ्चस्वावरणे ष्वपि ।। 5.8 ।।
बलिं दत्वा पर्यटनं गेयवाद्य पुरस्सरम् ।
* आवरणभेदेन उत्सवतारतम्यम्.*
उत्सवं प्राहुरुत्कृष्टमेकोनं मध्यमं विदुः ।। 5.9 ।।
द्व्यूनेऽधमं जघन्यं त्रिन्यूने क्षुद्रमथेतरे ।
बलिप्रदानेन विना नोत्सवोऽभ्युदयावहः ।। 5.10 ।।
* परिचारक लक्षणम्.*
शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम् ।
सोत्तरीयं च सोष्णीषं स्वनुलिप्तमलङ्कृतम् ।। 5.11 ।।
परिचारकमाहूय भावितं गरुढात्मना ।
तन्मूर्धनि च पात्रस्थे तण्डुलेऽन्ने प्रसूनके ।। 5.12 ।।
देवमावाहयेन्मूल बेरादाराधक स्स्वयम् ।
इष्ट्वाच गन्धपुष्पाद्यैस्तत्र देवं यथाविधि ।। 5.13 ।।
विष्ण्वादिमूर्तीश्चपुनः पूजयित्वा प्रदक्षिणम् ।
प्रागाद्येषु द्वादशनु पात्रस्थेषु दलेषु च ।। 5.14 ।।
सूक्तं सर्वं स्वस्त्ययनं तथान्यच्चापि मङ्गलम् ।
पठन् पात्रं चबिभ्राणो व्रजेच्च परिचारकः ।। 5.15 ।।
चण्डप्रचण्डुप्रमुखान् द्वारपालान् प्रपूजयेत् ।
* बलिदाने तालनृत्तादि व्यवस्था *
घोषयेन्मल्लतालाद्यैर्बलिदान पुरस्सरम् ।। 5.16 ।।
नृत्तं तु वैजयन्ती स्यादृषभं गेयमिष्यते ।
वितान धवलच्छत्र चामर व्यजनादि भिः ।। 5.17 ।।
परिक्रमेत बल्यर्थं सर्वानावरणान् क्रमात् ।
पीठं प्रदक्षिणीकृत्य प्रविशेदालयं पुनः ।। 5.18 ।।
(3) तंतु प्रदक्षिणीकृत्य प्रविशेद्गर्भमन्दिरम् ।
दत्वार्घ्यां (4) मूलमन्त्रेण मूलबेरे समुत्सृजेत् ।। 5.19 ।।
(3.तद्वत्.)
(4.पाद्यमाचामं मूलबेरे नियोजयेत्.)
बलिशेषं क्षिपेत्किञ्चि द्विष्वक्सेनस्य मूर्धनि ।
परिशिष्टं महापीठे निक्षिपेदक्षतादिकम् ।। 5.20 ।।
* नित्योत्सवे बलिबेरं याने शिरसि वा आरोप्य परिब्रणम्.*
नित्योत्सवश्चे (5) दारोप्य तद्बिम्बं शिबिकादिषु ।
आरोप्य यद्वा शिरसि परिभ्रमणमिष्यते ।। 5.21 ।।
(5.द्बिम्बेन.)
* बलिबेरभ्रमणे नृत्तातो द्यादिभेदः.*
आतोद्यनृत्तैर्बहुधा भिद्यमान्ते स्समधितम् ।
तत्र नृत्तं बहुविधं तानि वक्ष्ये समासतः ।। 5.22 ।।
विलासं कर्तरी विष्णुक्रान्तमालीढमङ्गलम् ।
भद्रमाली तार्क्ष्यपक्षौकरणं स्वस्तिकाह्वायम् ।। 5.23 ।।
चारी प्रचारी सूची च (6) सावर्तं पारिभद्रकम् ।
सौम्यं (7) विषमसूची च खेटकं चावकुञ्चितम् ।। 5.24 ।।
(6.संवर्तं.)
(7. विषमसूरी.)
कटिबन्धमलङ्कार मश्मरी (8) पृष्ठकुट्टिमम् ।
उल्लङ्घिवामजान्वाख्य (9) मासूरी चापवेष्टितम् ।। 5.25 ।।
(8.पृष्ठाकुट्टकम्.)
(9.माधुरी.)
वासरेश्वरसञ्चारीभावै स्यातां निकुट्टिमौ ।
कुट्टिमं घटितं स्थायीभावो यच्च विजृम्भितम् ।। 5.26 ।।
मण्डलं कुञ्चितार्धादि पताका सर्वमङ्गलम् ।
कान्तारकुट्टिमाह्वानं प्रपूर्वं घटितं तथा ।। 5.27 ।।
(10) विलासं सर्वतो भद्रं शुद्धं कुञ्चित मिष्यते ।
मार्गचारी कराधीन (11) मावभास मनन्तरम् ।। 5.28 ।।
(10.विगात्रं.)
(11.मानभाल.)
आवेष्टितं परीवर्तं निर्धूतं देशिमण्डलम् ।
समपूर्वंच (12) घटितं पदं विषमपूर्वकम् ।। 5.29 ।।
(12. गदितम्.)
कर्करीकविलासश्च भवेद्विगलितं तथा ।
नृत्तभेदाः पृथग्भावा गात्रावयव चेष्टितैः ।। 5.30 ।।
आतोद्य गीतिभेदाना मानन्त्यान्नेह (13) तन्यते ।
* खगेश प्रियं नृत्तम्.*
पुष्पप्रभासमोपेतं (14) ध्वजच्छत्रादि संयुतम् ।। 5.31 ।।
(13.गीयते.)
(14.नृत्तं गेयं च मध्यमम्.)
सर्ववादित्रसुभगं सर्वगेय समेधितम् ।
ब्रह्मविद्ब्रह्मघोषेण सहितं दीपसङ्कुलम् ।। 5.32 ।।
विष्णुक्रान्तं खगेशस्य नृत्तं गेयं च मध्यमम् ।
* पुरुहोतादि प्रियं नृत्तम्.*
विलासं सर्वतोभद्रं खेटकं चक्रमण्डलम् ।। 5.33 ।।
कान्तारं कुट्टिमं पृष्ठकुट्टिमं कटिबन्धनम् ।
पामजानूर्ध्वनृत्तं च पुरुहोतादिषुस्मृतम् ।। 5.34 ।।
* पुरुहोतादीनां प्रियस्स्वरः.*
षड्जर्षभौच गान्धारो मध्यमः पञ्चमस्तथा ।
ध्यैवतश्त्चेव निषधः पुरुहूतादिषु स्वरः ।। 5.35 ।।
* भवस्य प्रियस्स्वरः.*
सप्तज्ञेया धैवतस्तु भवस्य स्वर इष्यते ।
* विष्वक्सेनस्य प्रियौ नृत्तस्वरौ.*
नृत्तं तु विष्वक्तेनस्य स्वस्तिकं वृषभस्स्वरः ।। 5.36 ।।
* गणेश प्रियनृत्तस्वरौ.*
हस्तिनृत्तं गणेशस्य स्वरःपञ्चम इष्यते ।
धैवतस्स्यात्स्वरो नृत्तं दुर्गायास्सर्व मङ्गलम् ।। 5.37 ।।
* अन्येषां देवानां प्रियनृत्तस्वराः.*
अन्येषामपि देवानां नृत्तं स्यात्सर्वमङ्गलम् ।
गानं च धैवतं प्रोक्तं गान्धारं पङ्चमं तथा ।। 5.38 ।।
तदवान्तरभेदा वा गेया गेयविचक्षणैः ।
* दिग्भेदेन तालभेदः.*
समतालाह्वयं पाद्यमैन्द्र्यं दिशि हविर्भुजः ।। 5.39 ।।
बद्धावतालाभिधानं यमस्य दिशि शृङ्गिणी ।
नैरृत्यां मल्लतालं स्याद्वारुण्यां मङ्गलाह्वयम् ।। 5.40 ।।
वायव्यां जयतालाख्यं कौबेर्यां भद्रसंज्ञितम् ।
ऐशान्यां कर्करीतालं ।
* तार्क्ष्यस्य प्रियं तालम् *
तार्क्ष्यस्य गरुडाह्वयम् ।। 5.41 ।।
* भूतानां प्रियं तालम्.*
भूतानां बलितालाख्यम् ।
* सेनेशस्य प्रियं तालम्.*
सेनेशस्यापि तादृशम् ।
* अन्येषां देवानां प्रियं तालम्.*
अन्येषामपि देवनां तालं भद्रं प्रशस्यते ।। 5.42 ।।
दिक्षु सर्वासु सर्वेषु मन्दिरावरणेषु च ।
नृत्तं गेयं च वाद्यं च साकल्येन समीरितम् ।। 5.43 ।।
* ध्वजदर्शन मङ्गलाष्टक बलिदान भक्ष्यादिनिवेदनम्.*
खगध्वजं दर्शयीत्वा मङ्गलाष्टकमेव च ।
सन्निधाने च देवस्य सर्वत्र बलिरिष्यते ।। 5.44 ।।
(16) निवेद्यं तत्र ताम्बूलं भक्ष्यं च पृथुकादिकम् ।
नर्वेष्वा वरणेष्वेवं स्थानं प्रति समाचरेत् ।। 5.45 ।।
(16. नैवेद्यम्)
* शङ्खनादमात्रेण प्राकारद्वारनिर्गमः.*
केवलाम्बुजनादेन प्राकारद्वारनिर्गमः ।
* महापीठे बलिप्रदानम्.*
निर्गम्य च महापीठे मन्दिराभिमुखं स्थितः ।। 5.46 ।।
दीक्षु सर्वासु पीठस्य पादित्रे घोषि ते भृशम् ।
क्षालिते पीठिकामूर्द्नि पूजयेद्विष्णु पार्षदान् ।। 5.47 ।।
बलिं निरवशेषेण दत्वा पीठस्य मूर्दनि ।
पीठं परीत्य धामान्तः प्रविश्य मुखमण्डपे ।। 5.48 ।।
* देवस्य यानादितोऽपरोपणम्.*
प्रदाय पादुके पीठे यानादेरवरोप्यच ।
प्रङ्मखं विष्टरे देवमवस्थाप्य सभाजयेत् ।। 5.49 ।।
* देवस्य गर्भगेहप्रवेशनम्.*
उपहार मशेषेण प्रदायावसरोचितम् ।
प्रवेशयेद्गर्भगेहं देवमाराधक स्स्वयम् ।। 5.50 ।।
* वाद्यादिन्यूनता समाधानर्थं ताण्डवम्.*
वाद्ये गेये तथा नृत्ते बहिरङ्गण भूमिषु ।
न्यूनीभावं समाधातुं शुद्धे ताण्डवमाचरेत् ।। 5.51 ।।
* महावातादिसंक्षोभेनित्योत्सवप्रतिषेधः.*
महावातादि संक्षोभेन नित्योत्सवमाचारेत् ।
बलिप्रदानमात्रं तु कुर्याच्च सति सम्भवे ।। 5.52 ।।
नबिं चण्डे प्रचण्डे तु केवलं वा विनिक्षिपेत् ।
तयोर्मध्येतु पुरतो मूलमन्त्रेण साधकः ।। 5.53 ।।
भूतेभ्यो नम इत्येवं पक्षिपेत्सोदकं बलिम् ।
* आराधन कालभेदः.*
आराधन विधिर्ह्येषु कालभेदेषु शस्यते ।। 5.54 ।।
अह्नि कात्रौ च तान् ब्रह्मन्नधुना कथयामि ते ।
एकस्त्रयो वा षड्वापि कालि द्वादश एववा ।। 5.55 ।।
पञ्च कालश्चतुष्काल स्तत्कालो बहुधा मतः ।
यथाविभवमुद्दिष्टं समाराधन कर्मणि ।। 5.56 ।।
एको मध्याह्नसमयः प्रातर्मध्यन्दिनं निशा ।
(17) त्रयश्चेत् षट्सुपूर्वेक्ताः कालभेदाः पुनस्त्रयः ।। 5.57 ।।
(17. त्रयं च. क. त्रयश्चेत् षट्सु पूर्वोक्त स्ततः कालचतुष्टये । पञ्च काला इमे प्रोक्ताः कालभेदाः पुनस्त्रयः. इति कोशान्तरम्.)
मध्यरात्रोऽप राह्णश्च तथा प्रत्यूष ईरितः ।
प्रत्यूष श्चार्धरात्रं च प्रातर्मध्यन्दिनं निशा ।। 5.58 ।।
पञ्चकाला इमे प्रोक्तान्सतःकालचतुष्टयं ।
एकेन हीनः प्रत्यूषो विज्ञेयश्छतुरासन ।। 5.59 ।।
* कालानां नाडिकामानम्.*
काला द्वादश विज्ञेयाः पञ्च पञ्च च नाडिकाः ।
इतरे कालभेदास्तु प्रत्येकं याम सम्मिताः ।। 5.60 ।।
* आराधनभेदाः.*
उत्सवावसितं श्रेष्ठमाराधन मुदाहृतम् ।
होमान्तं मध्यमं प्रोक्तं प्रापणान्त मथाधमम् ।। 5.61 ।।
क्षुद्रं तु धूपदीपान्त मधमारधनं भवेत् ।
* स्नानार्चन नृत्तगेयादीनां घटिकामानम्.*
घटिके द्वे भवत् स्नाने घटिकै कार्चने भवेत् ।। 5.62 ।।
नृत्तगेये तथा चैका तधर्धेन निवेदनम् ।
होमे चैका चोत्सवे द्वे शुद्धनृत्तावसानिके ।। 5.63 ।।
(18) प्रभातकाल पूजायां स्नानादि विधिरीदृशः ।
घटिका स्नानसमयस्तथार्ध घटिकार्चनम् ।। 5.64 ।।
(18. प्रकारकालभेदोयं.)
गेयनृत्तस्य घटिका तदर्धेन निवेदनम् ।
(19) होमार्धे परिशिष्टस्तु भवेन्नित्योत्सवेक्षणः ।। 5.65 ।।
(19. होमार्धे परिशिष्टार्धं भवेन्नित्योत्सवक्रिया.)
* कालभेदेषु कालत्रयं श्रेष्ठम्.*
कालभेदेषु सर्वेषु श्रेष्ठं कालत्रयं विदुः ।
प्रातर्मध्यन्दिनं रात्रि र्मुख्यं च कमलासन ।। 5.66 ।।
* उक्तकालत्रये बलिनित्योत्सव योरवश्यंभाविता.*
आवश्यं भाविनौ तेषु बलिनित्योत्सवापुभौ ।
होमपर्यन्तमन्यत्र कारभेदेषु शस्यते ।। 5.67 ।।
* उत्सवाद्यङ्गबिम्बानां सर्वकालेषु पूजनम्.*
उत्सवाद्यङ्गलिम्बानि सेनान्यं विहगेश्वरम् ।
चण्डप्रचण्डै द्वारस्थौसर्वकालेषु पूजयेत् ।। 5.68 ।।
* वाद्यपादनकालः.*
मध्यन्दिने प्रदेषे च पुरस्ताद्वाद्य वादनम् ।
* नीराजनकालः.*
नीराजयेत्प्रदोषेषु देवं
* नीराजनपात्रादि निरूपणम्.*
तदपि कथ्यते ।। 5.69 ।।
स्वर्णपात्राणि युग्मानि विपुलानि तथावसु ।
तन्मध्ये सालिपृष्ठेषु पर्तिदीपान् (20) तप्रदीपयेत् ।। 5.70 ।।
(20. प्रकल्पयेत्.)
*स्त्रीभिश्श्रेणीनन्धेन दीपधारणन्सासौ.*
तथाविधानि पात्राणि करैरुद्धृत्य योषितः ।
कल्याणवस्त्राभरणा निर्गताश्च महानसात् ।। 5.71 ।।
श्रेणीबन्धाः पुरोगीत नृत्त (21) वाद्यसमन्विताः ।
अन्तिके देवदेवस्य विन्यसेयु र्महीतले ।। 5.72 ।।
(21. वाद्यादिभिस्सह.)
* दीपपात्रार्चनम्.*
आधारेषु ततः पात्राण्यर्चये द्विश्वविद्यया ।
* दीपप्रापणविधिः.*
आचार्योध्रुवभेरादै षडङ्गन्यासमाचरेत् ।। 5.73 ।।
इष्ठ्वा च देवमर्घ्याद्येर्दीपपात्राणि पूजकः ।
उद्धृत्य भ्रामयेद्देव मापादतलमस्तकम् ।। 5.74 ।।
गुणन्त्रैस्त्रिभिः पात्राण्यनुयोषित्सु निक्षिपेत् ।
अर्चानामे

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_५&oldid=206969" इत्यस्माद् पुनः प्राप्तिः