← अध्यायः १८ चर्यापादः
अध्यायः १९
[[लेखकः :|]]
अध्यायः २० →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
एकोनविंशोऽध्यायः.
------
* उत्सवप्रायश्चित्तविधिः.*
* नित्यनैमित्तिकसम्पाते कर्तव्यक्रमः.*
नित्यं नैमित्तिकं काम्यं निपतेद्युगपद्यदि ।
श्रीभगवान् :---
कृत्वानैमित्तिकं नित्यमाचार्य स्तदनन्तरम् ।। 19.1 ।।
* गृहार्चास्नपने निमित्तानुसारेण स्थलम्.*
गृहार्चास्नपने प्राप्ते विस्तारे सति वेश्मनि ।
तत्रैव स्नपनं कार्यं सङ्कटे तु बहिर्भवेत् ।। 19.2 ।।
* अलयबिम्बस्य बहिस्स्नपननिषेधः.*
पर्वतादौ शुचौ देशे प्रपानिर्माणपूर्वकम् ।
स्नपनं देवदेवस्य कार्यं भागवतेन तत् ।। 19.3 ।।
आलये (1) स्थापितं बिम्बं न कदाचिच्चतुर्मुख ।
निर्गमय्य बहिस्स्नाप्य मन्तरेण तु सर्वदा ।। 19.4 ।।
(1. स्थापयेत्.)
* तीर्थावभृथादावनुज्ञा.*
तीर्थावधृथवेळायां सद्यादीनां तटे भवेत् ।
अन्यथा चेच्छान्तिहोमं कुर्यात्सर्वसमृद्धिदम् ।। 19.5 ।।
* स्नपनाङ्गवैकल्ये प्रायश्चित्तम्.*
अङ्कुरार्पणहीने च स्नपने (2) कौतुकेऽन्विते ।
अधिवासविहीने च कलशैस्स्नपने सति ।। 19.6 ।।
(2. कौतुकोज्झिते.)
शान्तिहोमो विधातव्य स्सर्वदोषापनुत्तये ।
सङ्कल्पितस्नानहानौ द्विगुणं स्नपनं भवेत् ।। 19.7 ।।
अकृते राजराष्ट्रस्य भवेद्विभवसङ्क्षयः ।
यजमानस्य धाम्नश्च प्रजानां च धनक्षयः ।। 19.8 ।।
* स्नपनकालविपर्यये.*
अकाले तु कृते स्नाने विषुवादौ यथोदिते ।
शान्तिः कार्ययने चैव दक्षिणे प्रागुपक्रमः ।। 19.9 ।।
उत्तरे चैव पाश्चात्ये (3) उत्तमं नैव दूषणम् ।
चैत्रे च विषुवे तद्वत्क्रमादाश्वयुजेऽपि च ।। 19.10 ।।
(3. उपक्रमण.)
* स्नपनकलशानां विकारे.*
स्थापितानां च कुम्भानां भेदने (4) पतने तथा ।
कालादिदोषदुष्टे च क्रिमिकेशादिदूषिते ।। 19.11 ।।
(4. च्छेदने.)
लङ्घितेऽशुचिसंस्पृष्टे (5) वायसाद्यैश्छ दूषिते ।
गर्हिते श्वापदाद्यैश्च स्पृष्टे चाशुचिभिस्तथा ।। 19.12 ।।
(5. व्याघ्राद्यैश्चैन.)
पाषण्डैः प्रतिलोमैश्च तथोदक्यादिदूषिते ।
कलशं तं तमुद्धृत्य स्थापयित्वा परान् पुनः ।। 19.13 ।।
तद्दैवत्यान् जपेन्मन्त्रा नष्टोत्तरशतावरम् ।
स्नपनं यदि तैःकुर्याच्छान्तिहोमं समाचरेत् ।। 19.14 ।।
* अक्रमकलशाभिषेके.*
अक्रमेण समुद्धृत्य स्नपने विहिते सति ।
जपःपञ्चोपनिषदां कर्तव्यस्तत्समाचरेत् ।। 19.15 ।।
* देवतामन्त्रादिव्यत्यये.*
देवतामन्त्रभूभागद्रव्याणां व्यत्यये सति ।
पूर्ववन्मन्त्रजापस्स्यात्प्रतिद्रव्यमनर्चिते ।। 19.16 ।।
अर्घ्यादिभिर्जपस्तद्वन्महिषाजोष्ट्रसम्भवैः ।
क्षीरादिभिस्तथा द्रव्यै स्स्नपने स्नापयेत्पुनः ।। 19.17 ।।
समद्भिर्मूलमन्त्रेण जुहुयात्कमलासन ।
अद्भिःपर्युषिताभिश्चेत्स्नपनं स्नापयेत्पुनः ।। 19.18 ।।
शान्तिहोमो मूलविद्या (6) जपश्चाष्टोत्तरं शतम् ।
* आराधनाङ्गवैकल्ये.*
आराधनाङ्गवैकल्ये नृत्तवाद्यादिभि (7) स्सह ।। 19.19 ।।
(6.जपश्चाष्टोत्तरानरः.)
(7. स्सति.)
शान्तिहोमो भवेद्वेद्यां स्नपने चलने सति ।
प्रतिमापतने तद्वत्प्रायश्चित्तं चतुर्मुख ।। 19.20 ।।
(8) स्नपने वर्तमाने तु चरने पतनेऽपि वा ।
यथापूर्वमवस्थाप्य स्नापयित्वा यथीविधि ।। 19.21 ।।
(8. " स्नपने" इति श्लोकद्वयं " भङ्गे तु---पुनः ।।" इतिश्लोकादानन्तरं क्वचित्कोशे दृश्यते.)
शान्तिहोमश्च कर्तव्यः पीठादीनां च (9) भञ्ङने ।
सहजानां तथा हस्तपादादीनां चतुर्मुख ।। 19.22 ।।
(9. बन्धने.)
भङ्गेतु तेषामावाह्य कूर्चादौ तद्गतं हरिम् ।
क्रियां समापयेद्भ (10) ग्नां प्रभापीठादिकं पुनः ।। 19.23 ।।
(10. भग्ने.)
समाधाय यथापूर्वं संप्रोक्षणविधिर्भवेत् ।
वस्तुषु स्नपनाङ्गेषु आधिक्यं हानिरेव वा ।। 19.24 ।।
यदि स्यान्मूलमन्त्रास्य जपश्चाष्टोत्तरावरः ।
* फलार्थिभेदेन स्नपनकालभेदः.*
मोक्षमाणस्सदा कुर्यात्स्नपनं निशि वाऽहनि ।। 19.25 ।।
रिपुक्षयार्थीदिवसे (11) धर्मार्थी दिनमध्यमे ।
दिनान्ते सर्वभोगार्थी प्राय (12) श्चित्ताय सर्वदा ।। 19.26 ।।
(11. मोक्षार्थी.)
(12. श्चित्तं तु.)
* स्नपनद्वयसम्पाते प्रतिसरादिनिषेधः.*
बद्धप्रतिसरे बिम्बे स्नपनार्थं तु मन्त्रिणा ।
स्नपनान्तरसं प्राप्तौ न च प्रतिसरान्तरम् ।। 19.27 ।।
* मण्डूकादिभिः कलशदूषणे *
मण्डूकमूषिकासर्पचुचुन्दर्यादिजन्तुभिः ।
स्पृष्टे विलङ्घिते नष्टे स्थापिते कलशे तथा ।। 19.28 ।।
त्यक्त्वान्यं तु तथा कृत्वा मूलमन्त्रं जपेद्गुरुः ।
स्थापितं कलशं तद्वत्पाषण्डैः प्रतिलोमजैः ।। 19.29 ।।
* आशौचिभिः कलशस्पर्शे *
आशौचवद्भिरपरैःकलश (13) स्पर्शने सति ।
सद्रव्यं कलशं त्यक्त्वा तथान्यं तत्र निक्षिपेत् ।। 19.30 ।।
(13. स्नपने सति.)
वाचयित्वाथ पुण्याहं शान्तिहोमं समाचरेत् ।
* बद्धे प्रतिसरे आशौचाभावः.*
कर्मणिस्नपनादौ तु प्रवृत्ते देशिकोत्तमः ।। 19.31 ।।
(14) सूतकं मरणाशौचं शृणुयान्नाशुचिर्भवेत् ।
* विमानस्थापनाहीनस्थले उत्सवकरणे *
उत्सवे तु यथाशात्रचोदिते स्खलने सति ।। 19.32 ।।
(14. सूतकाशौचमाशौचम् शृणुयाद्वा.)
शान्तिस्तथोच्यते (15) ब्रह्मन्निदानीमवधार्यताम् ।
विमानस्थापनाहीने न कुर्यदुत्सवं हरेः ।। 19.33 ।।
(15. ब्रह्मं स्तदेतदव.)
कुर्याद्वा ध्वजमुद्धृत्य (16) उत्सवं च क्रमेण वा ।
वायवीये धामकोणे (17) विधिना शान्तिमाचरेत् ।। 19.34 ।।
(16. गरुडं चाक्रमेन वा.)
(17. विमाने.)
संवत्सरान्तं तत्रैव ध्वजयष्टेः स्थितिर्भवेत् ।
* नित्योत्सवरहित स्थलोत्सवकरणे *
हीननित्योत्सवे धाम्नि ध्वजारोहणपूर्वकम् ।। 19.35 ।।
नोत्सवं कारये (18) त्काम्यं कारिते शान्तिमाचरेत् ।
* ध्वजदोषसम्पाते.*
प्रमाणहीने पक्षीन्द्रे ध्वजे स्तम्भादिकेऽपि वा ।। 19.36 ।।
(18. त्कर्मकारिते.)
(19) शान्तिःकार्य तथा हीने मूषिकाद्यैश्च दूषिते ।
अशुचिद्रव्यसंस्पर्शे त्यक्त्वा कोप्यध्वजान्तरम् ।। 19.37 ।।
(19. शान्तिं कुर्यात्तथा नित्यं.)
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ।
ध्वजारोहण (20) कर्माङ्गं ध्वजं वा स्तम्भमेव वा ।। 19.38 ।।
(20. कर्माङ्गध्वजम्.)
सकृन्नियुक्तं त्यक्तव्यं ध्वजयुष्टिं तु न त्यजेत् ।
सकृन्नियुक्तेस्तम्भादौ भूयोऽपि विनियोजिते ।। 19.39 ।।
प्रायश्चित्तं तु तत्र स्यात्स्नपनं चोत्तमोत्तमम् ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ।। 19.40 ।।
स्थापिते (21) विहगेशानध्वजे वातातपादिभिः ।
वर्णहानौ न दोषस्या त्समाराधनमिष्यते ।। 19.41 ।।
(21. विगगेशाने ध्वजे वातादिपातिते.)
पतिते वातवेगेन हेतुना येन केन चित् ।
उद्धृत्य बध्वा भूयोपि स्नपनं मध्यमोत्तमम् ।। 19.42 ।।
वर्णहानौ तथा भिन्ने ध्वजे च्छिन्नेऽपि वा क्वचित् ।
ध्वजान्तरं समुत्पाद्यत्यक्त्वा निपतितं ध्वजम् ।। 19.43 ।।
यष्टिं वाकल्प्यमेवास्यं न तु कालप्रतीक्षणम् ।
विपरीतं ध्वजपटं प्रमादाद्यदिबन्धयेत् ।। 19.44 ।।
तन्मोचयित्वा यद्वान्यं बध्वास्नपनमाचरेत् ।
ध्वजस्तम्भे तथा भिन्ने भग्ने वा सुषिरेऽपि वा ।। 19.45 ।।
स्तम्भान्त (22) रमपस्थाप्य शान्तिस्स्नपनपूर्विका ।
(23) पतने भ्रमणे वापि पतिते वा यदृच्छया ।। 19.46 ।।
(22. रं स्थापयत्वा.)
(23. कम्पने.)
शान्तिहोमो भवेत्प्राग्वन्मूलमन्त्रजपस्तथा ।
पक्षीशाधिष्ठिते कुम्भे भिन्ने नष्टेऽथ वा तथा ।। 19.47 ।।
अस्पृश्यैः प्राणिभिः स्पृष्टे स्थाप्य कुम्भान्तरं पुनः ।
आवाह्य तत्र विहगं कर्मशेषं समापयेत् ।। 19.48 ।।
ध्वजस्तम्भे च संस्पृष्टे चण्डालाद्यैर्विगर्हितैः ।
स्तम्भान्तरमवस्थाप्य शान्तिहोमं समाचरेत् ।। 19.49 ।।
सूतकैः प्रेतकैश्चैव प्रतिलोमै सथाविधैः ।
स्पृष्टे प्रोक्ष्य ध्वजस्तम्भं पुण्याहोक्तिपुरस्सरम् ।। 19.50 ।।
सकृन्नियोजितं त्यक्त्वामृण्मयं पालिकादिकम् ।
अङ्कुरानर्पयेन्नूचेत् शान्तिहोमादिकं (24) चरेत् ।। 19.51 ।।
(24. भवेत्.)
* अङ्कुरविकारे वल्मीकप्ररोहादै च विधिः.*
अङ्कुरेष्वपि रक्तेषु श्यामवर्णयुतेषु वा ।
(25) अप्ररूढेषु सर्वेषु तथा तिर्यग्गतेषु च ।। 19.52 ।।
(25. " अप्ररूढेषु" इत्यादिश्लोकार्धं क्वचिन्न.)
अस्पृश्यस्पर्शने तेषां भिन्नच्छिन्नेषु वा पुनः ।
पालिकादिषु नष्टेषु पतितेषु यथातथा ।। 19.53 ।।
वल्मीकादिप्ररोहे च मूषिकाद्यैश्च भक्षिते ।
शान्तिहोमश्च कर्तव्यो ब्राह्मणानां च भोजनम् ।। 19.54 ।।
* नित्यमध्येनैमित्तिकान्तरापाते प्रत्येकमङ्कुकार्पणम्.*
प्रारब्धकर्ममध्ये चेत्कर्मनैमित्तिकं पुनः ।
आपतेदर्पयेद्भूय स्ततर्थां श्चङ्कुर्रा गुरुः ।। 19.55 ।।
* अर्पितेष्वङ्कुरेषु दैवाद्युपघाते शान्तिः.*
अर्पितेष्वङ्कुरेषु स्याद्दैवाद्वा यदि मानुषात् ।
कर्मलोपस्तदा त्यक्त्वा कल्पितानङ्कुरानपि ।। 19.56 ।।
शान्त्यर्थं जुहुयादग्नौ मूलमन्त्रजपस्तथा ।
* कर्ममध्ये कर्मान्तरापाते पुनः कौतुकबन्धः.*
बद्धप्रतिसरे बिम्बे कर्मार्थमपरं यति ।। 19.57 ।।
अन्तरा कर्म निपतेद्बध्नीयात्कौतुकं पुनः ।
* अन्तरापतितं स्नानं समाप्य पूर्वरब्धं समापयेत्.*
अन्तरा पतिते स्नाने समाप्ते स्नपनं पुनः ।। 19.58 ।।
पूर्वारब्धमनुष्ठेयं यथाशान्त्रं चतुर्मुख ।
* शून्यग्रामे बलिदाननिषेधः.*
ग्रामादिषु स्याच्छून्येषु न बलिर्वीधिकोत्सवः ।। 19.59 ।।
धामन्येव भवेत्कामं यदि स्याद्वीधिकोत्सवः ।
सहस्रकलशैस्स्नानं प्रयश्चित्तं तदिष्यते ।। 19.60 ।।
* महावाताद्यभिघाते ते पुनरुत्सवः.*
उत्सवे वर्त (26) माने स्यान्महावातादिना यति ।
ग्रामादौ शिथिले कृत्वा प्रयश्चित्तं पुनर्महः ।। 19.61 ।।
(26. माने तु महा.)
(27) कार्योन लोप्यो लोपे तु कुम्भैरष्टोत्तरै र्हरेः ।
स्नपनं कारयेद्धोमो जपश्चार्थैर्द्विजार्चनम् ।। 19.62 ।।
(27. कार्या यथोक्तविधिना.)
* मुहोर्तातिक्रमे *
मुहूर्तातिक्रमे शान्तिस्सर्वेषां कर्मणामपि ।
कार्याहोमादिभिः पश्चात्कर्मारम्भो यथोदितः ।। 19.63 ।।
* परिजनानामभिघाते अन्यान् कल्पयेत्.*
कर्मण्यधिकृते पूर्वं देशिको मूर्तिपेषु वा ।
(28) दैवाद्वा मानुषाद्वापि विघ्नितेष्वधिकारिषु ।। 19.64 ।।
(28. हेतुर्दैवा न्मानुषाद्वा.)
प्रारब्धं कर्म कर्तव्यं तादृग्भिरपरैर्द्विजैः ।
उत्सवे विघ्निते दैवान्मानुषाद्वा यथोदिते ।। 19.65 ।।
बलिमेव क्षिपेद्धाम्नि ग्रामादौ विधिकास्वपि ।
* अतिक्रान्तबलिविधानम्.*
बलिप्रदाने प्यकृते कस्मिंश्चिद्दिवसे पुनः ।। 19.66 ।।
कुर्वन् बलिमतिक्रान्तं कृत्वैवं बलिमाचरेत् ।
* उद्यानमृगयादिक्रियालोपे.*
उत्सवाङ्गेषु हीनेषु कलितेषु यथापुरम् ।। 19.67 ।।
उद्यानयानमृगया जलद्रोण्यादि (29) कर्मसु ।
शान्तिःकार्या (30) भोजनं च ब्राह्मणानां जपस्तथा ।। 19.68 ।।
(29. कासु च.)
(30. भोजनं तु.)
* अपभृथस्नानलोपे पुनरुत्सवः.*
हीनायां तीर्थयात्रायां पुनरुत्सवमाचरेत् ।
उत्तमोत्तममार्गेण कृत्वा स्नपनमादितः ।। 19.69 ।।
* उक्तमासातिक्रमे अनन्तरमासे अनुज्ञाविधिः.*
मासे यथोक्तेऽतिक्रान्ते नक्षत्रादौ यथोदिते ।
उत्सवोऽनन्तरे मासि यद्यर्वाग्वत्सराद्भवेत् ।। 19.70 ।।
ऊर्ध्वं संवत्सरा (31) त्कुर्वन् शान्तिं कृत्वासमाचरेत् ।
सहस्रकलशैस्स्नानं शान्तिहोमं जपादिकम् ।। 19.71 ।।
(31. न्नो चेत्.)
* पर्वोत्सवलोपे शान्तिः.*
लुप्ते पर्पोत्सवे शान्ति स्स्नपनं शक्त्यपेक्षया ।
अन्येषु विष्णोर्लुप्तेषु श्रवणाद्युत्सवेषु च ।। 19.72 ।।
उत्तमोत्तममार्गेण स्नपनं तस्य निष्कृतिः ।
* बलिवस्तूनां व्यत्यासे.*
व्यत्यासे बलिवस्तूनां जुहुयात्सर्विषा शतम् ।। 19.73 ।।
* उत्पातसंस्पर्शे.*
वाताद्युत्पात (32) संस्पृष्टे बिम्भे स्नपनमुत्तमम् ।
आचरेद्यागशालायां (33) प्रपादिषु महोत्सवे ।। 19.74 ।।
(32.संस्पर्शे.)
(33. पर्वादिषु.)
* अग्निदाहे.*
(34) अग्निदग्धेषु तत्सर्वं समाधाय यथापुरम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च ।। 19.75 ।।
(34. अग्निदग्धे च.)
कुर्यात्सुदर्शनप्लोषे कुम्भैर्नवभिरुप्लवः ।
कार्यो बिम्बादिदाहेऽपि तथा स्नपनमाचरेत् ।। 19.76 ।।
* यागमण्डपस्य सृगालादिप्रवेशे.*
श्वसृगालादिभिर्यागमण्टपादि प्रवेशने ।
संस्पर्शे पुर्वक्लप्तानि त्यक्त्वान्यानि निधाय च ।। 19.77 ।।
शान्तिहोमोद्विजेन्ध्राणां भोजनादि यथापुरम् ।
चण्डालादिप्रवेशादौ त्यक्त्वा तद्वस्तु दूषितम् ।। 19.78 ।।
उत्सवार्थानि वस्तूनि शान्ति होमं समाचरेत् ।
* उत्सवाग्नेस्स्वयं शमने *
उत्सवाग्नौ स्वयं शान्ते शान्तिं कुर्याद्यथाक्रमम् ।। 19.79 ।।
* विषुवे अयने च रात्रा वपि तीर्थोत्सवानुज्ञा.*
विषुवे चायने चैव तीर्थयात्रा न दोषकृत् ।
रात्रावपि---
* अन्यत्र अह्न्येव तीर्थयात्रा.*
--ततोऽन्यत्र कर्तव्या (35) ह्न्येव सा भवेत् ।। 19.80 ।।
(35. सैव सा भवेत्.)
प्रमादाद्यदि यात्रास्यात्स्नपनं चोत्तमोत्तमम् ।
* होमविश्छेदे शान्तिः.*
उत्सवे होमविच्छेदे द्विगुणं होममाचरेत् ।। 19.81 ।।
* महोत्सवमध्ये बिम्बनाशे.*
बिम्बे चोरादिभिर्नष्टे वर्तमाने महोत्सवे ।
कर्मार्चादिषु बिम्बेषु बिम्बं चोत्पाद्य पूर्ववत् ।। 19.82 ।।
* यानादिभ्रंशे.*
(36) आराधयेन्निपतिते बिम्बे यानान्महोत्सवे ।
आरोप्य पूर्ववद्यानं रथ्यासु (37) पतितं नयेत् ।। 19.83 ।।
(36.आराधनेन.)
(37. परितो नयेत्.)
एकाधिकाशीतिकुम्भैस्स्नापयेच्छान्तये पुनः ।
अङ्गहानौ कौतुकस्य बिम्ब (38) मन्यं नयेत्तदा ।। 19.84 ।।
(38. मभ्यन्तरे नयेत्.)
(39) हीनाङ्गं चेत्समाधाय सद्यस्सं प्रोक्षणं चरेत् ।
स्नपनं शान्तये कुर्याद्ब्राह्मणानां च तोषणम् ।। 19.85 ।।
(39. भिन्नाङ्गं.)
यानभङ्गे नयेद्देवं यानेनाऽन्येन वीधिकाम् ।
शान्तिश्च कार्या पतनभ्रमणादौ च सारथेः ।। 19.86 ।।
पुण्याहवाचनादीनि कार्याणि कमलासन ।
* यानानां अस्पृश्यस्पर्शने.*
अस्पृश्या यदि यानानि वहेयुर्भिम्बमेव वा ।। 19.87 ।।
क्षालयित्वा (40) तु यानानि बिम्बं च स्नापयेद्घटैः ।
* पुष्प यागाभावे.*
पुष्पयागो निशि भवेच्छान्तये (41) भुक्तये (42) पि वा ।। 19.88 ।।
(40.रथादीनि.)
(41. मुक्तयेपि वा.)
(42. थ वा.)
अभावे पुष्पयागस्य स्नपनं चोत्तमोत्तमम् ।
* ध्वजावरोहण कालातिक्रमे.*
आरभ्य तीर्थदिवसादूर्ध्वं पञ्चदिनावधि ।। 19.89 ।।
ध्वजावरोहणं कार्यं पश्चाच्चेदवरोहणम् ।
दोषस्स्याद्दोषशमनं स्नपनं मध्यमोत्तमम् ।। 19.90 ।।
अपरोप्य ध्वजपटं स्नपनान न्तरं पुनः ।
उद्वास्य देवतास्सर्वाश्शकटाद्बलिकर्मणा ।। 19.91 ।।
महोत्सवान्तः पतितं कर्म वैशेषि काह्वयम् ।
कार्यमेव न लोप्यं तल्लोपे स्नपनमाचरेत् ।। 19.92 ।।
* पवित्रारोपण विपर्यासप्रायश्चित्तम्.*
पवित्रारोपणे प्रायश्चित्तमन्यत्प्र (43) दर्श्यते ।
हीनमाने पवित्रे वा कुण्डे वा (44) मण्डलेऽपि वा ।। 19.93 ।।
(43. दृश्यते.)
(44. मण्डलादिके--स्थण्डिलादिके.)
अस्त्रमन्त्रं शतं जप्त्वा पूजये (45) दस्त्रवर्धिनीम् ।
त्यक्त्वा पवित्रं केशादिदूषितं पुनरेव तत् ।। 19.94 ।।
(45. च्छास्त्र पद्धतिम्.)
कृत्वा पूर्ववदारोप्य ततश्शान्तिं समाचरेत् ।
अस्पृश्यस्पर्शने कुम्भे भिन्ने नष्टेऽपि वा पुनः ।। 19.95 ।।
कुंभान्तरे समावाह्य मूलमन्त्रं जपेत्पुनः ।
* अस्थानशूलस्थापने *
अस्थाने स्थापितं शूल (46) मन्यत्र प्रतिमादिकम् ।। 19.96 ।।
स्थापयित्वा यथास्थानं स्नपनादि (47) समाचरेत् ।
माने न्यूनाधिके वापि वेद्यादीनां प्रकल्पिते ।। 19.97 ।।
(46. मन्यद्वा स्थापनादिकम्.)
(47. यथापुरम्.)
शान्तिराज्याहुतिः कार्या पंचोपनिषदा शतम् ।
* नयनमोक्षणाकरणे *
तेषामभावे च तथा शान्तिर्नयनमोक्षणम् ।। 19.98 ।।
अकृत्वास्थापने शान्तिं कृत्वा नयनमोक्षणम् ।
* तोयाधिवासाकरणे *
तोयाधिवासाकरणे प्रतिष्ठायां मधुद्विषः ।। 19.99 ।।
स्नपनं शान्तिहोमश्च तद्वदेवाङ्गहानिषु ।
* अनाचार्यप्रतिष्ठायाम् *
अनाचार्यप्रतिष्ठायां पुनस्थ्सापनमाचरेत् ।। 19.100 ।।
आचार्यपदमारूढो (48) वैधुर्याद्यल्पदोषवान् ।
अधिकार्येव विज्ञानपारं यातो यदि स्वयम् ।। 19.101 ।।
(48. वै मुख्या.)
ज्ञानाधिकेन देवेशे स्थापिते ज्ञान (49) रूपिणि ।
न दोषो ज्ञानदहनस्सर्वदोषान् दहेत्खलु ।। 19.102 ।।
(49. देशिके.)
* बालमंदिरस्थिति कालातिक्रमे.*
यावत्कालं स्थितिर्भालमन्दिरे (50) प्रार्थिता पुरा ।
तावत्यतीते समये स्नपनं मधुविद्विषः ।। 19.103 ।।
(50. कल्पिता.)
कार्यं पुनश्चतत्रैव स्थितिकालं (51) परीक्षयेत् ।
अन्यत्र वा बालगेहे यद्वा मूलालये भवेत् ।। 19.104 ।।
(51. प्रकल्पयेत्.)
कर्मार्थपीठिकायां तत् स्थापयित्वा समर्चयेत् ।
* शिथिलीसरघादिसम्पाते.*
गोपुरे वालये यद्वा प्राकारे मण्टपेऽथवा ।। 19.105 ।।
शिथिली सरघातुम्बावल्मीकादिसमुद्भवे ।
उद्धृत्यतत्तत्संशोध्य देशं कृत्वा यथापुरम् ।। 19.106 ।।
स्नपनं देवदेवस्य कुर्यादुत्तममध्यमम् ।
शान्तिहोमो द्विजेन्द्राणां भोजनं दानमेव च ।। 19.107 ।।
* सिद्धान्तसाङ्कर्ये.*
सिद्धान्तसङ्करे जाते (52) प्रमादात्तत्र सङ्करे ।
कृत्वा संप्रोक्षणं पूर्वं सहस्रकल शाप्लवः ।। 19.108 ।।
(52. तथा साधक सङ्करे । कर्षणादिषु दोषस्स्या द्राजराष्ट्रक्षयासहः ।।)
* सिद्धान्तस्वरूपप्रश्नः.*
ब्रह्मा :---
सिद्थान्तं नाम किं को वा भेदस्तस्य जनार्दन ।
श्रोतुमिच्छामि तत्सर्वं न रहस्यमिदं यदि ।। 19.109 ।।
* सिन्धान्तनिर्वचनम्.*
श्रीभगवान् :---
महोपनिषदं नाम सिद्धान्तपदशब्दितम् ।
मीमांसादिषु शात्रेषु ये सिद्धार्था मनीषिणः ।। 19.110 ।।
तेषामन्तेऽधिकारोस्मिन्नितिसिद्धान्त (53) शब्दितम् ।
* मन्त्रसिद्धान्तादि भेदकथनम्.*
तच्चतुर्धास्थितं (54) शास्त्रमृगादिवदनेकधा ।। 19.111 ।।
(53. संज्ञितम्.)
(54. सर्व.)
एकैकं भिद्यते तन्त्रं शाखाभेदेन भूयसा ।
प्रथमंमन्त्रसिद्धास्तं द्वितीयं (55) चागमाह्वयम् ।। 19.112 ।।
(55. त्वागमा.)
तृतीयं तन्त्रसिद्धान्तं तुर्यं तन्त्रान्तरं भवेत् ।
* मन्त्रसिद्धान्तः.*
एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः ।। 19.113 ।।
देव्यश्श्रिय्रादयश्चापि संपूज्याः परिवारवत् ।
आयुधैश्शङ्खचक्राद्यैश्श्रीवत्साद्यैश्चभूषणैः ।। 19.114 ।।
मूर्तिमद्भिः परिवृता केवला वाम्बुजासन ।
कथ्यते यत्र तत्प्रोक्तं मन्त्रसिद्धान्तमग्रिमम् ।। 19.115 ।।
* आगमसिद्धान्तः.*
वासुदेवादयो व्यूहाश्चत्वारस्साधकैरपि ।
क्रमागतैस्तुल्यकक्ष्याः पूज्यास्तत्प्रभवाप्यये ।। 19.116 ।।
कर्मणामपि सन्यासः कथ्यते यत्र चागमे ।
तन्त्रमागमसिद्धान्तं तदुक्तं कमलासन ।। 19.117 ।।
* तन्त्रसिद्धान्तः.*
नवानामपि मूर्तीनां प्राधान्यं यत्र कथ्यते ।
मूर्तयो द्वादशाङ्गानि तेषामेव तथापरे ।। 19.118 ।।
प्रादुर्भाव (56) गुणाश्चान्ये मूर्त्यन्तरगुणा अपि ।
प्रादुर्भावान्तरयुतास्स (57) दिग्देवैस्सहायुधैः ।। 19.119 ।।
(56. गणाश्चान्ये---गणा अपि.)
(57. दिग्देवास्सहायुधाः.)
मूर्तिमद्भिश्छ देवीभिर्लक्ष्म्यादिभिरपि स्फुटम् ।
(58) तत्तन्त्रसिद्धान्ताह्वानं---
* तन्त्रान्तरसिद्धान्तः.*
चतुर्थं परमं पुनः ।। 19.120 ।।
(58. यत्र तन्त्रान्तरं तत्स्यात्.)
सौम्यसिंहादिभूयिष्ठं वक्त्रेभैदैश्चतुर्मुख ।
(59) द्वित्रादिमुखभेदा वा मूर्तिरेकैव पूज्यते ।। 19.121 ।।
(59. चित्रादि.)
परिवारैन्संवृता वा विना वा सर्वकामदा ।
यत्र तन्त्रान्तरं तत्स्याच्चतुर्थं कमलासन ।। 19.122 ।।
* आरम्भावसानयोरेक एव सिद्धान्तः.*
येन सिद्धान्तमार्गेण कर्षणादिक्रिया कृता ।
आदौ तेनैव सकलं नान्यसिद्धान्तवर्त्मना ।। 19.123 ।।
तन्त्रेणापि तथा येन कर्षणादिक्रिया कृता ।
तेनैव सकलं कार्यं न तन्त्रान्तरवर्त्मना ।। 19.124 ।।
* अनुक्तस्य तन्त्रान्तराद्ग्रहणम्.*
तन्त्रान्तरेऽपि कथितमनुक्तं ग्राह्यमेव हि ।
* तन्त्रसाङ्कर्यनिषेधः.*
सिद्धान्त(60) सङ्करस्तस्मात्तन्त्रसङ्कर एव च ।। 19.125 ।।
(60. सङ्करस्तत्स्यात्. सङ्करस्तस्यतन्त्रसङ्कर एववा.)
दोषाय कल्पते राजराष्ट्र धामक्षयात्मने ।
सिद्धान्तसङ्करे जाते प्रमादात्तस्य शान्तये ।। 19.126 ।।
कृत्वा संप्रोक्षणं पूर्वं सहस्रकलशाप्लवः ।
कर्तव्यस्स्नपनं कुर्या (61) त्तन्त्रसङ्करसम्भवे ।। 19.127 ।।
(61. त्तत्र.)
अन्तेमहोत्सवं कुर्यात् ध्वजारोहणपूर्वकम् ।
* पञ्चरात्र प्रतिष्ठितस्य तेनैव निर्वाहः.*
स्थापिते पञ्चरात्रेण देवे षड्भिरथाध्वभिः ।। 19.128 ।।
(62) पत्रिष्ठाने कृते मोहाद्दोषस्सर्वक्षयात्मकः ।
शान्तिश्च तस्य भूयोऽपि पञ्च रात्रोक्तवर्त्मना ।। 19.129 ।।
(62. प्रतिष्ठादौ.)
प्रतिष्ठाप्य सहस्रेण कलशैस्स्नपनं हरेः ।
महोत्सवश्च कर्तव्यो ध्वजारोहणपूर्वकः ।। 19.130 ।।
* एकत्र दीक्षितस्य अन्यत्र दीक्षानिषेधः.*
एकत्र दीक्षितस्तन्ते वा द्विजोत्तमः ।
क्रियां न कुर्यादन्यत्र कर्षणादि (63) चतुर्मुख ।। 19.131 ।।
(63. कर्षणादिश्च---कर्षणादीन्.)
(64) आचार्यत्वमथार्त्विज्यं पूजायां मधुविद्विषः ।
तन्त्रभेधे च सिद्धान्तभेदे चापि न युज्यते ।। 19.132 ।।
(64. आचार्यं क्रमशः पूज्य पूजाद्यं मधुविद्विषः । तन्त्रभेदे च चसिद्धा न्ते तदेवापि न युज्यते. इति क्वचित्पाठः.)
* विषशस्त्रादिहतानां नारायणबलिः.*
(65) ब्रह्महत्यादिपापानां निष्कृतिस्म्सृतिचोदिता ।
मृतानां विषशस्त्राग्नि प्रायैरुग्रैश्च कर्मभिः ।। 19.133 ।।
(65. अत्र अध्यायसमाप्तिः क्वचित्कोशे दृश्यते.)
नारायणबलिर्नाम समाराधनमुत्तमम् ।
गतिहेतुर्विना तेन गतिरन्यान विद्यते ।। 19.134 ।।
पुनर्दहनमारभ्य कर्म स्मार्तमशेषतः ।
कृत्वा सपिण्डीकरणपर्यन्तं तदनन्तरम् ।। 19.135 ।।
देवदेवं समाराध्य वक्ष्यमाणेन वर्त्मना ।
विष्ण्वालये नदीतीरे पर्वते (66) वा वनेऽपि वा ।। 19.136 ।।
(66. विपिनेपि वा.)
आन्यत्र वा पुण्यदेशे कर्तुर्वा भवने शुभे ।
यष्टव्यं कृष्णपक्षस्य द्वादश्यामयनद्वये ।। 19.137 ।।
उपोषितस्सन् पूर्वेद्युःकर्तानियतमानसः ।
ब्राह्मणान्भगवद्भक्तान्व्रतस्वाध्यायशालिनः ।। 19.138 ।।
आमन्त्र्यमन्त्रविद्बध्वा केशवादि यथास्वयम् ।
शोधिते गोमयाम्भोभिर्भूतले कुशविष्टरे ।। 19.139 ।।
उपवेश्य (67) वृतानेव प्राङ्मुखान् कमलासन ।
अर्घ्यादिभिस्समभ्यर्च्य सामभिः केशवदिभिः ।। 19.140 ।।
(67. प्रातरेन.)
नमोन्त्रैर्नागवल्ल्यादि दत्वा चाभ्यञ्जयेद्द्विजान् ।
स्नातानां सन्निदौ तेषां होमं चौपासनेऽनले ।। 19.141 ।।
कृत्वाग्नि मुखमग्नेश्च प्राग्भागे चक्रपङ्कजे ।
स्थण्डले कुशकूर्चे वा देवमावाहयेदिति ।। 19.142 ।।
पुष्पाञ्जलिस्समुत्थाय नृसूक्ताद्या ऋचो जपन् ।
ओं पूर्वाभिर्व्याहृतिभिरावाह्य पुरुषोत्तमम् ।। 19.143 ।।
मूर्तिभेदान् केशवादीन्नामभिस्तैरनन्तरम् ।
आवाह्यार्घ्यादिभिष्टद्भिरुपचर्य पृथक्पृथक् ।। 19.144 ।।
तर्पयित्वा तिलाम्भोभिः केशवादीन् स्वनामभिः ।
उपचर्य च दीपान्तं पुरुषं पुरुषात्मना ।। 19.145 ।।
सूक्तेन केशवादींस्तु नामभिस्तैर्यथाक्रमम् ।
अग्नौ पद्मासनासीनं ध्यात्वा परमपूरुषम् ।। 19.146 ।।
(68) अनूच्य पायसं विष्णोर्नुकमित्यृचमब्जज ।
पश्चात्परोमात्रयेति याज्यया जुहुयाद्धविः ।। 19.147 ।।
(68. आश्रान्य पायसं.)
केशवाद्यैर्नामधेयैस्सर्पिषा जुहुयात्ततः ।
चतुर्थ्यन्तैर्द्वादशभि (69) र्नामभिर्ध्यानमास्थितः ।। 19.148 ।।
(69. नमन्तै.)
क्षीराज्यगुडमिश्रान्नं तेभ्य एव निवेदयेत् ।
देवस्य त्वा सवितुरिति महाविष्णोर्नवेदनम् ।। 19.149 ।।
सप्तव्याहृतिभिर्भूयो जुहुयात्सर्पिषानले ।
दर्भासनेषु भूदेवानाहुतानुपवेशितान् ।। 19.150 ।।
वस्त्राङ्गुलीयकच्छत्रकुण्डलोपानहादिभिः ।
यथाशक्ति समभ्यर्च्य मन्त्रेणाष्टाक्षरेण तान् ।। 19.151 ।।
तिलाज्यमिश्रहस्तेन तदनुज्ञानपूर्वकम् ।
जुहुयादनले हव्यं विद्यया वक्ष्यमाणया ।। 19.152 ।।
पितृभ्यस्तत्पितृभ्यश्च तत्पितृभ्यः पुनस्तथा ।
(70) मातृभ्यः पितृमातृभ्य (71) स्तत्पितृभ्यःपुनस्तथा ।। 19.153 ।।
(70. पितृभ्यः.)
(71. तन्मातृभ्यः पुनः---तत्स्वसृभ्यः---तत् श्वश्रूभ्वः.)
मातामहेभ्य (72) स्तेषां ये पितरस्तेभ्य एव च ।
मतामहीभ्यो मातुश्च (73) पितृमातृभ्य एव च ।। 19.154 ।।
(72. स्सर्वेभ्यः.)
(73. मातुर्मातृभ्य.)
पितुः पितामहीभ्यश्च तथाचार्येभ्य एव च ।
तत्पत्नीभ्यो गुरुभ्यश्च गुरुपत्नीभ्य एव च ।। 19.155 ।।
सखिभ्यस्तत्पुरन्ध्रीभ्योज्ञातिभ्या याश्चतत् स्त्रियः ।
ताभ्यश्छामात्यतत् स्त्रीभ्यस्सर्वाभ्यस्तत् स्त्रियश्चयाः ।। 19.156 ।।
ताभ्यश्चेति समुच्चार्य स्वधा नम इति ब्रुवन् ।
नारायणाय स्वाहेति प्रत्येकं (74) पृथगाहुतिः ।। 19.157 ।।
(74. प्रथमाहुतीः. परमाहुतीः.)
अग्निबद्दं चतुर्थ्यन्तं कव्यवाहनमित्यथ ।
तदन्तेस्विष्टकृच्छब्धमनुषङ्गश्च पूर्ववत् ।। 19.158 ।।
हुत्वैवं सर्पिषा पश्चाद्द्वादशाक्षरविद्यया ।
(75) प्रत्येकं शतमष्टा च (76) द्वादशाक्षर विद्यया ।। 19.159 ।।
(75. इदमर्धं बहुघन.)
(76. तथाष्टाक्षरविद्यया.)
विष्णुगायत्रिया तद्वद्ब्राह्मणान् षड्रसान्वितम् ।
भोजयेद्दक्षणां तद्यात्तान् प्रणम्य प्रदक्षिणम् ।। 19.160 ।।
ताननुज्ञाप्य शिष्टान्नं यथेष्टं क्रियातामिति ।
दक्षिणेनानलं दर्भान् प्रागग्रान् शोधिते स्थले ।। 19.161 ।।
संस्तीर्य तेषु दर्भेषु बलिं दद्यात्समाहितः ।
विश्वेभ्यश्चैव देवेभ्यस्साध्येभ्यस्तदनन्तरम् ।। 19.162 ।।
सर्वेभ्यश्चैव देवेभ्यो विष्णुर्नारायण स्तथा ।
सहस्रशिरसे चैव यज्ञात्मपदमेव च ।। 19.163 ।।
पुरुषं यज्ञपूर्वं च सर्वेश्वरपदं तथा ।
चतुर्थ्यन्तं समुच्छार्य नमस्स्वा हेत्यनस्तरम् ।। 19.164 ।।
सर्वत्रैवानुषङ्गं च स्विष्टकृद्यजनादिकम् ।
आधेनुवरदानान्तं कृत्वा प्रेतं निवेदयेत् ।। 19.165 ।।
मूर्तिषु द्वादशस्वेनं यज्ञशर्माणमाख्यया ।
निवेदयामि देवाय केशवायेत्यनुक्रमात् ।। 19.166 ।।
द्वादशभ्योनिवेद्यैवं (77) परमान्नं निवेदयेत् ।
नारायणबलिर्ह्येष द्विजानां (78) समुदीरितः ।। 19.167 ।।
(77. परमात्मन्नि वेदयेत्.)
(78. समुदाहृतः.)
एवं यस्य कृते दत्तो बलिर्दे वार्चना (79) त्मकः ।
स याति (80) निखिलं पापं निर्धूय ब्रह्म शाश्वतम् ।। 19.168 ।।
(79. दिकम्.)
(80. निर्णयं वापि.)
(81) पापानामितरेषां च बलिः पुण्यकृतामपि ।
परमात्मपदप्राप्त्यैकल्पते नात्र संशयः ।। 19.169 ।।
(81. पापिना.)
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे (82) उत्सवप्रायश्चित्तनारायणबलिर्नाम एकोनविंशोऽध्यायः.
(82. उत्सवपदं क्वचिन्नास्ति.)
----- ****** ------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_१९&oldid=206984" इत्यस्माद् प्रतिप्राप्तम्