प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः २२ चर्यापादः
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
              चर्यापादे--त्रयोविंशोऽध्यः
* मन्त्रोद्धारविधिः.*?
ब्रह्मा :----
संज्ञाभेदस्तु वर्णानां मन्त्रोद्धारस्तु कीदृशः ।
प्रयोजनं वा किं तस्य कथ्यतां तदशेषतः ।। 23.1 ।।
श्रीभगवान् :----
(1) अहं ते कथयिष्यामि शृणु (2) सर्वं यथातथम् ।
ह्रस्वदीर्घविभागेन भिन्नाः पद्मज मन्मुखात् ।। 23.2 ।।
(1. हन्तते.)
(2. गुह्यं.)
अकाराद्यास्स्वरा जाताः क्रमादन्येऽर्धमातृकाः ।
ककाराद्याश्च चक्रेते न्यस्य पूज्याः (3) परिष्कृते ।। 23.3 ।।
(3. परिष्कृताः.)
प्रशस्ते निर्जने गुप्ते भूभागे (4) शोभने समे ।
हस्तद्वयेन विस्तीर्णं स्थण्डिलं चतुरश्रकम् ।। 23.4 ।।
(4. शोधिते.)
दर्पणोदरसङ्काशमुन्नतं चतुरङ्गुलैः ।
मृद्भिः (5) पिधाय सुषिरं गोमयेनोपलिप्य च ।। 23.5 ।।
(5. विधाय सुसमम् विहाय सुषिरम्.)
प्रोक्ष्य चक्रं विधातव्यं षोडशारपरिष्कृतम् ।
नाभिनमिसमायुक्तं चन्दनक्षोदरेखया ।। 23.6 ।।
तन्मध्ये छन्दसामादिररभूषु स्वरा स्तथा ।
स्पर्शाक्षरं नाभिमध्ये नेमिमध्ये च यादयः ।। 23.7 ।।
एवं न्यस्तेषु वर्णेषु द्वादशाक्षरविद्यया ।
अर्घ्याद्यैस्सकलैर्भोगैर्वर्णात्मासं समर्चयेत् ।। 23.8 ।।
* वर्णानां संज्ञान्तरम्.*
चक्रसंस्थितवर्णानां नामभेदः प्रदर्श्यते ।
उद्गीथश्छन्दसामादिः प्रणवस्तारक स्तथा ।। 23.9 ।।
(6) ब्रह्म च ब्रह्मकोशश्च व्यापी चोङ्कार इत्यपि ।
नामानि (7) प्रथितान्यष्टावकारो विष्णुरुच्यते ।। 23.10 ।।
(6. ब्रह्मा.)
(7. कथिता.)
ओङ्कारादिश्चाप्रमेय आकारो मधुसूदनः ।
आदिदेवो गोपनश्च स्यादिकारस्त्स्रिविक्रमः ।। 23.11 ।।
माया बन्धुश्च रामश्च कथ्यते तदनन्तरम् ।
पञ्चबिन्दुर्महामाया वामनस्स्मर्यते तथा ।। 23.12 ।।
उकारो भुवनाह्वानश्श्रीधरश्चोदय स्तथा ।
ऊकाराश्चोर्ध्वलोकेशो हृषीकेशो गुहालयः ।। 23.13 ।।
ऋकार ऋतधामा च पद्मनाभस्तथोच्यते ।
ऋकारः पीठनामा स्याद्योगी दामोदर स्तथा ।। 23.14 ।।
लृकारः केशवो गोप्ता (8) प्रज्ञाधारो महेश्वरः ।
लृकारो दीर्घ (9) घोणश्च नारायणसमाह्वयः ।। 23.15 ।।
(8. प्रजा.)
(9. घोषश्च.)
संप्रसारणनामास्यादेकारो माधवाह्वयः ।
देवदत्तो मृगेशस्स्यादैकारो (10) गोधनः स्मृतः ।। 23.16 ।।
(10. धनदः.)
गोविन्धो वीरसेनश्च स्यादोकारश्चतुर्मुख ।
ओतदेहो वासुदेवो ब्रह्मसाधन इत्यपि ।। 23.17 ।।
औकार औषधाह्वान और्वस्सङ्कर्षणो मनुः ।
अंकारः कपिलाक्षश्च प्रद्युम्नो (11) देवता स्मृतः ।। 23.18 ।।
(11. देवरः.)
अःकारश्चानिरुद्धाह्वः कलान्त (12) स्सर्गिसंज्ञिकः ।
ककारः कमलो ब्रह्मा करालश्शङ्खिनःस्मृतः ।। 23.19 ।।
(12. स्सर्ग.)
खकारः (13) खर्वदेहश्च चक्री गरुडवाहनः ।
गदध्वंसी गकारश्च गदी पङ्चात्मकस्सृतः ।। 23.20 ।।
(13. सर्व.)
पद्मपाणिर्शकारस्तु पञ्चात्मा गजवाहनः ।
ङकारश्शार्ङ्गपाणिश्च एकदंष्ट्रः कपिध्वजः ।। 23.21 ।।
वक्रतुण्डः खड्गधरश्चकारः प्रेतनायकः ।
छकारश्छलविध्वंसी स्वच्छन्दः कुण्डली स्मृतः ।। 23.22 ।।
मुसली जन्महन्ता च जकारः ककुभः स्मृतः ।
झकारस्सामवेदात्मा (14) झषाशी (15) च गुवर्णभाः ।। 23.23 ।।
(14. झषांशी.)
(15. नसुवर्ण.)
ञकारश्चन्द्रधवलः पाशपाणिर्भृगुःस्मृतः ।
टकारो हृदया (16) ह्लादी खेटकी पर्वतः स्मृतः ।। 23.24 ।।
(16. ह्वानः.)
ठकारः कौस्तुभो (17) मेघी तोमरो दुस्सहः स्मृतः ।
डकारः पुण्डरीकाक्षो झषो भूमिर्वनालयः ।। 23.25 ।।
(17. मेधी.)
ढकारः पुष्पभद्रा च दृढकर्मा प्रतर्दनः ।
णकारो वनमाली स्यात्प्रचण्डस्सुमुखः स्मृतः ।। 23.26 ।।
एकनेत्र स्तकारस्याद्वैराजो विजयः स्मृतः ।
थकारस्सर्व (18) रोधश्च रसात्मा सुप्रतिष्ठितः ।। 23.27 ।।
(18. रोगश्च.)
दकारो वैधरो दृष्टिरत्रि (19) स्स त्रिपुरान्तकः ।
धकारो धनदः पुण्यस्सुभगो मोहनाशनः ।। 23.28 ।।
(19. सर्व.)
नकारो भद्रपाणिस्स्याद्विघ्नेशो मानुषेश्वरः ।
पकारः पापहननः पवित्रः पश्चिमानवः ।। 23.29 ।।
पकारः पुल्लनयनश्शिखण्डी स्याद्विकर्मणः ।
बकारो जृम्भलो ह्रस्वो मतिमान् कालनेमिजित् ।। 23.30 ।।
भल्लायुधो भकारश्च सुभद्रस्सूक्ष्मलोचनः ।
मकारो मन्दरो दक्षो माधवी पाटलक्रियः ।। 23.31 ।।
यकारः पुरुषात्मा स्याद्वायु श्शङ्खश्चतुर्गतिः ।
रेषोऽनलो महाज्वालो विश्वात्मासर्वदाहकः ।। 23.32 ।।
लकारःपीतवर्णाभो महेन्द्रः पुलहः स्मृतः ।
वकारो वरुणः कुम्भः पीयूषात्मा सुधारसः ।। 23.33 ।।
शकारश्शुभदो लक्ष्मीः श्रीवत्सो वित्तवर्धनः ।
षकारः क्रोधरूपी स्यादुग्रात्मा शत्रुसूदनः ।। 23.34 ।।
पूर्णचन्द्रः कलात्मा स्यात् सकारश्शुक्लसंज्ञितः ।
द्वादशात्मा हकारास्स्याद्दीप्तिमान् भास्करः स्मृतः ।। 23.35 ।।
ळकारोडुण्डभो (20) भर्गो विष्कम्भो विषमध्वनिः ।
क्षकारो गरुडोऽ नन्तः कूटो नरहरिःस्मृतः ।। 23.36 ।।
(20. गर्भो विष्कम्भो नृषभध्वनिः-गर्गो.)
अनुस्वारो द्रुवो बिन्दुर्यष्टिश्चन्द्रार्ध उच्यते ।
स्वाहाकारो हुतान्तश्च (21) टठेति परिकीर्तितः ।। 23.37 ।।
(21. चन्देति परिकीर्तितः.)
नमस्कारो नतिर्वर्णसंज्ञा इत्यादयः स्मृताः ।
* वर्णानां देवतानिर्देशः.*
चक्रसंस्थितवर्णानां देवता कथ्यते क्रमात् ।। 23.38 ।।
* तत्र अचां देवताः.*
सर्वेषामपि वर्णानामकारः कारणं यतः ।
सर्वकारणरूपत्वा द्विष्णुस्तस्याधिदेवता ।। 23.39 ।।
आकारस्य मधुद्वेषी स्यादिकारस्त्रि (22) विक्रमः ।
ईकारो वामनो देवस्तथोकारश्श्रियः पतिः ।। 23.40 ।।
(22. विक्रमी.)
ऊकारस्य पृषीकेशो वर्णस्य स्यादनन्तरम् ।
पद्मनाभस्त्वृकारस्य देवो दामोदरो भवेत् ।। 23.41 ।।
(23) ॠकारस्य स्थितश्शम्भुः लृकारस्य च देवता ।
नारायणोऽधिदेवस्स्यात् लृकारस्य चतुर्मुख ।। 23.42 ।।
(23. ॠकारः केशवो देवो.)
माधवोऽनन्तरार्णस्य गोविन्दो देवता भवेत् ।
ऐकारस्य तथार्णस्य स्यादोकारस्य देवता ।। 23.43 ।।
वासुदेवस्तथार्णस्य स्यादौकारस्य देवता ।
सङ्कर्षण स्तथाङ्कारो भवेत्प्रद्युम्न देवता ।। 23.44 ।।
अःकारस्यानिरुद्धस्स्याद्देवा इत्थं क्रमादचाम् ।
देवताः कथिता ब्रह्मन्
* हलां देवताः.*
हलां संप्रति कथ्यते ।। 23.45 ।।
ककारस्य विधिर्देवः खकारस्य सुदर्शनः ।
गकारस्य घकारस्य (24) वाणी शार्ङ्गश्च देवता ।। 23.46 ।।
(24. वाणीशार्ङ्गाधिदेवते.)
ङकारस्य चकारस्य देवो नन्दक इष्यते ।
छकारस्य यमो देवो जकारस्य च देवता ।। 23.47 ।।
मुसली स्यात् (25) झकारस्तु भवेदङ्कुशदैवतः ।
ञकारस्य भृगुर्देवः टकारस्य महीधरः ।। 23.48 ।।
(25. झकारस्य भवेदङ्कुशदेवता.)
मेरुः कौस्तुभदैवत्यः ठकारो डस्तु पार्थिवः ।
ढकारो मातृदैवत्योणकारो वानमालिकः ।। 23.49 ।।
तकारस्य तथा दृष्टिः थकारो रसदैवतः ।
अत्रिर्दकारस्य भवेद्धकारस्य धनेश्वरः ।। 23.50 ।।
लम्भोदरो नकारस्य पकारस्य पवित्रकः ।
शिखण्डवान् फकारस्य बकारस्य तु देवता ।। 23.51 ।।
(26) जृम्बलो भाक्षरस्य स्यात्सुभद्रो देवता तथा ।
दक्षो मकारस्य भवेद्यकारो वायुदैवतः ।। 23.52 ।।
(26. जृम्भलन्तु भकारस्य.)
धूमध्वजस्स्याद्रेफस्य लकारस्य दिवस्पतिः ।
पकारो वरुणेशान श्शकारो माधिदैवतः ।। 23.53 ।।
क्रोधाकारः षकारस्य सकारश्चन्द्रदैवतः ।
सहस्रांशुर्हकारस्य ळकारो (27) भर्गदैवतः ।। 23.54 ।।
(27. भगदैवतः.)
नरसिंहः क्षकारस्य कथिताः कादिदेवताः ।
* मन्त्रावर्णादिज्ञाने फलम्.*
वर्णानां चक्रनिष्ठानां नामान्यपि च देवताः ।। 23.55 ।।
यो वेत्ति तस्य फलदा मन्त्रिण श्चतुरानन ।
* वर्णानां नक्षत्राणि.*
यावतो यस्य वर्णस्य यन्नक्षत्रं विदुर्बुधाः ।। 23.56 ।।
स च (28) तावां स्तत्र वर्णः क्रमादिह निगद्यते ।
आद्यं विना स्वरं वर्णावाद्यावाश्वयुजौ स्मृतौ ।। 23.57 ।।
(28. तासाम्.)
इकारस्यापि भरणी कृत्तिकात्रयमुत्तरम् ।
चतुष्टयमृकारादि रोहिण्ये कमथेडका ।। 23.58 ।।
रौद्रमप्येक (29) मेवस्यात्पुनर्वस्वोर्द्वयं मतम् ।
द्वयमेव तथा पौष्णमाद्यन्तं वा मता न्तरे ।। 23.59 ।।
(29. वर्णस्स्यात्.)
कादिषु प्रथमं (30) पुष्यं द्वयं सार्पं द्वयं मघा ।
एकमर्यमणं युग्मं (31) भर्गदैवतमुच्यते ।। 23.60 ।।
(30. पुष्यद्वयं सार्प.)
(31. भगदैवत--भगवद्दैव.)
युग्ममेव तु सावित्रं (32) द्वयमिन्द्राधिदैवतम् ।
एकं (33) निष्ट्या विशाखे द्वे त्रयं मैत्रमनन्तरम् ।। 23.61 ।।
(32. द्वयं चित्त्रा.)
(33. तिष्या.)
ऐन्द्रमेकं त्रयं मूलं पूर्वमाषाढमेककम् ।
आषाढमुत्तरं चैरमेकमेवाभिजिन्मतम् ।। 23.62 ।।
द्वयं वैष्णवमेकं तु श्रविष्ठा शततारकम् ।
एकमेव (34) त्रयं शादि वर्णस्स्यादज एकपात् ।। 23.63 ।।
(34. त्रियंशादि.)
अहि र्बुध्न्यस्त्रयो वर्णा इति वर्णेषु तारकाः ।
* राशयः *
आदौ चतुष्टयं मेषो वर्णानामृषभस्त्रिकम् ।। 23.64 ।।
तथैव मिथुनं युग्मं कुलीरं मृगराट् तथा ।
शिष्टद्वयं शादयस्तु (35) कन्या कुः प्रथमं तुला ।। 23.65 ।।
(35. कन्यायाः.)
चवर्गो वृश्चिकश्चापः टवर्गस्सद्भिरुच्यते ।
तवर्गो मकरः कुम्भः पवर्गोऽ (36) न्त्यस्य यादयः ।। 23.66 ।।
(36. न्यस्य.)
* साधकस्य योगपरीक्षा.*
नक्षत्रं यत्साधकस्य मन्त्रस्याद्यक्षरस्य यत् ।
नरनार्योरिवतयोर्योगायोगौ परीक्षयेत् ।। 23.67 ।।
* सिद्धारिचक्रन्यासः *
चतुष्पदं लिखित्वोर्वां तत्राकारादि निक्षिपेत् ।
यर्स्मिपदे साधकस्य नामाद्यर्णलिपि स्तथा ।। 23.68 ।।
तत्रैव चेद्भवेस्मन्त्र (37) स्याध्यं वर्णमवस्थितम् ।
तत्सिद्धं स्याद्द्वितीये तु साध्यं विद्यादनन्तरे ।। 23.69 ।।
(37. स्स्याद्यवर्णमपि.)
पदे सिद्धं तुरीये तु वैपरीत्याय कल्पते ।
सिद्धे सिद्धं जापाद्यैस्तु साध्ये साध्यं सुसिद्धके ।। 23.70 ।।
अधितमात्रे महते फलाय भवति ध्रुवम् ।
पदे तु वैरिणस्स्याच्छेल्लिपिरध्येतृनाशनम् ।। 23.71 ।।
आनुगुण्यं परीक्ष्येत निमित्तानि परीक्ष्य च ।
साधकस्साधयेन्मन्त्रं देवस्य कुटिला गतिः ।। 23.72 ।।
* मूलमन्त्रचतुष्टयस्य नानुगुण्यपरीक्षा.*
चतुर्षुमूलमन्त्रेषु नानुगुण्यं परीक्षयेत् ।
* मूलमन्त्रनिरूपणम्.*
तारमष्टाक्षरं चैव द्वादशाक्षरमेव च ।। 23.73 ।।
विष्णुगायत्र्यपि तथा चत्वारः प्रथमे मताः ।
* मालाभीजमन्त्रलक्षणम् *
द्वात्रिंशदक्षराधिक्ये मालामन्त्रादशादिखे ।। 23.74 ।।
बीजमन्त्रा
* मन्त्राणां वयोजात्यादिनर्देशः.*
स्समस्तेषु पूर्वे वार्धिक्यशोभनाः ।
(38) इतरे यौव्वने तद्वत्सर्वे बाल्येपि शोभनाः ।। 23.75 ।।
(38. `इतरे' इत्यर्धं क्वचिन्न.)
स्त्रीवुन्न (39) पुमिति त्रैधं भजन्तेमन्त्रजातयः ।
संस्त्यानमन्त्रास्स्वाहान्ता मनोन्तास्तु नपुंसकाः ।। 23.76 ।।
(39. बिति च.)
शेषाः पुरुषमन्त्रास्स्युरिति त्रिविधमीरितम् ।
* मन्त्रजात्यनुरोधेन कर्मनु विनियोगः.*
उच्चाटने च वश्ये च विद्वेषे क्षुद्रकर्मसु ।। 23.77 ।।
स्त्रियः प्रशस्ता नब्लिङ्गाः कर्मस्वन्यत्र पूजिताः ।
पुल्लिङ्गेषु तु (40) मन्त्रेषु दिङ्मीत्रं किञ्चिदुच्यते ।। 23.78 ।।
(40. सर्वेषु.)
फडन्ता मरणाद्यर्थे शस्ता भूताद्युपद्रवे ।
(41) हुङ्कारान्ताः प्रशस्यन्ते वौषडन्तास्तु ते पुनः ।। 23.79 ।।
(41. हुङ्का राद्या.)
आप्यायने नियुज्यन्ते धर्मकामार्थमूर्तिषु ।
चतुर्थ्यन्ताः प्रशस्यन्ते ओमन्तास्सर्वसिद्धिदाः ।। 23.80 ।।
* अविधिना ग्रहणे दोषः.*
(42) सर्वमन्त्रास्सर्वफला गुरुवक्त्रद्यदि श्रुताः ।
यदृच्छया श्रुतो मन्त्रश्छ (43) न्नेनाथच्छलेन वा ।। 23.81 ।।
(42. सर्वे.)
(43. च्छन्दे.)
पत्रेक्षितो वा व्यर्थस्स्यात्प्रत्युतानर्थदः स्मृतः ।
* सिद्धैकमनस्त्रस्य मन्त्रान्तरसौलभ्यम्.*
एकस्सुसाधितो मन्त्रोजपहोमादितर्पणैः ।। 23.82 ।।
स साधकस्य सर्वार्थं प्रसूते नात्र संशयः ।
सम्यक्सिद्धैकमन्त्रस्य नासाध्यमिहा किञ्चन ।। 23.83 ।।
किंपुनर्बहपो यस्य का कथा हरिरेव सः ।
* मन्त्रजपे दिगादिनियमः *
कुशेषु कृष्णत्वचि वा (44) ब्रुस्यामेकान्तभूमिषु ।। 23.84 ।।
(44. तस्यामेकान्त.)
प्रागादिदिङ्मुखो भूत्वा न तु याम्यमुखः क्वचित् ।
उपविष्टो जपेन्मन्त्रं सपवित्रकरश्शुचिः ।। 23.85 ।।
धृतोर्ध्वपुण्ड्ररचनो नान्यां वा चमुदीरयन् ।
गुरुं प्रणम्य प्रथमं प्रणवप्रमुखं जपेत् ।। 23.86 ।।
* जपयोग्यप्रदेशाः.*
देवतायतने नद्या शैले सागररोधसि ।
वने वा तीर्थदेशे वान्यग्रोधाश्वत्थयोरधः ।। 23.87 ।।
(45) अन्यत्र वा शुचौ देशे कुटिं कृत्वारभेत सः ।
* जापकस्य आहारनियमः.*
अनश्नन् वायुभक्षो वा यद्वाब्भक्षो जलाप्लुतः ।। 23.88 ।।
(45. अन्यत्रापि.)
जीर्णपर्णाशनश्शाकभोजनो वा फलानि वा ।
वक्वानि मूलान्यथवा भुञ्जानो लवणं विना ।। 23.89 ।।
यपोष्टि कालाजदुग्ध भिक्षाहोरो जितेन्द्रियः ।
पूर्वं पूर्वं प्रशस्तं स्यादशनीयं विशोधनम् ।। 23.90 ।।
* सिद्धियोग्य तिथ्यादयः.*
(46) मन्त्रस्य देवता (47) तारतिथिवारेषु साधकैः ।
द्वादश्यां पौर्णमास्यां वा ग्रहणे कर्म शस्यते ।। 23.91 ।।
(46. मन्त्रेषु.)
(47. राति तिथि---तारातिथि.)
विशेषयजनं कुर्वन् चक्राब्जे जपमाचरेत् ।
शिखी वा जटिलो वापि वल्कलाजिनकर्पटः ।। 23.92 ।।
त्रिसन्ध्यं स्नाननियतस्तैलाभ्यङ्गविवर्जितः ।
* युगभेदेन जापावृत्ति भेदः.*
यावदुक्तं कृतयुगे मन्त्राभ्यसनमिष्यते ।। 23.93 ।।
त्रेतादिषु त्रिषु प्रोक्तं द्विगुणं त्रिगुणं क्रमात् ।
चतुर्गुणं परं वापि ततो मन्त्रफलेच्छया ।। 23.94 ।।
(48) सर्वसिद्धिकरोमन्त्रस्सिद्धस्सिद्ध्येत्क्रियावशात् ।
क्रियाधिगम्यते शास्त्राच्छास्त्रं देशिकपूरुषात् ।। 23.95 ।।
(48. सर्वसिद्ध्यकरो.)
* मन्त्रशब्ध निर्वचनम्.*
मननं सर्वसत्वानां त्राणं (49) संसारसागरात् ।
मननत्राणसंयोगान्मन्त्र इत्युच्यते बुधैः ।। 23.96 ।।
(49. तु भव.)
अथवा गोपनीयत्वा (50) द्धातोर्मन्त्रयते (51) रयं ।
रप्रत्ययान्तः पुल्लिङ्गस्तथायं लोकवेदयोः ।। 23.97 ।।
(50. त्वाद्धेतोः.)
(51. परम्.)
(52) मन्त्रेण स्थाप्यते देवो मन्त्रेणैव विसृज्यते ।
ज्ञानानां तत्परं ज्ञानं मन्त्रज्ञानं विदुर्बुधाः ।। 23.98 ।।
(52. तन्त्रेण.)
ऐहिकामुष्मिकं सर्वं मन्त्रेणैव प्रसिध्यति ।
* फलदर्शनादेव मन्त्रद्रष्टृत्वम्.*
छन्दो (53) मन्त्राक्षरे यत्तद्दर्शनादृषिरुच्यते ।। 23.99 ।।
(53. मात्राक्षरे.)
दर्शनं च फलस्याहुर्नपुनर्मन्त्रदर्शनात् ।
देवता मन्त्र फलदा मन्त्रेण प्रतिपादिता ।। 23.100 ।।
ब्रुवन्ति निलयं क्षेत्रं तत्वं (54) तत्वमिदं विदुः ।
* मन्त्राणां श्वेतादिवर्णभेदः.*
मन्त्राक्षराणां शुक्लादि (55) मन्त्रभेदः प्रकीर्तितः ।। 23.101 ।।
(54. तत्वंच भेदयोः.)
(55. वर्णभेदाः प्रदर्शिताः.)
मूलमन्त्रादिमन्त्राणां साधनं शुणु सांप्रतम् ।
* मन्त्रिणो वर्ज्यावस्तुनिर्देशः.*
विधाय (56) यागयोग्यानि पुष्पामूलफलानि च ।। 23.102 ।।
(56. योग योग्यानि.)
शाकादीनि तु (57) वर्ज्यानि वर्जयेदितराणि तु ।
गृह्णाया द्यानि वर्ज्यानि तानि वक्ष्यामि पद्मज ।। 23.103 ।।
(57. वर्णानि.)
* वज्यानि पुष्पाणि.*
उग्रगन्धान्यगन्धानि दुर्गन्धानि परित्यजेत् ।
वस्त्रार्कपर्णस्पृष्टानि पुष्पाण्यारधने हरेः ।। 23.104 ।।
उन्मत्त शाल्मली बीजपूर धुत्तूरिकाजपाः ।
बन्धूकीसितकोरण्डद्रोणकन्यापराजिताः ।। 23.105 ।।
हृहत्यगस्त्यकूश्माण्डपटोल्यारग्वथैस्समाः ।
मिर्गुण्डी (58) दमयन्ती च (59) रिंशुकं पारिभद्रकम् ।। 23.106 ।।
(58. मदयन्तीच.)
(59. किंशुका पारिभद्रका.)
कोशातकी प्रायालुश्च तपस्वी गिरिमल्लिका ।
निम्बव्याघ्री करञ्जश्वी षण्ड (60) पाषण्डपट्टिका ।। 23.107 ।।
(60. पाण्डर.)
(61) विभीतकिङ्किण्यङ्कोललाङ्गलीशङ्खपुष्पिणी ।
नारङ्गनन्दिकावर्त (62) वल्लि काक्षीरिकादिषु ।। 23.108 ।।
(61. विभीतकिङ्किणीकोल.)
(62. मल्लिका.)
* मन्त्रिणो वर्ज्यानि शाकादीनि.*
पुष्पाणि वर्जनीयानि शाकान्यपि तथा शृणु ।
(63) शृङ्गाष्टं ग्रञ्जनं शिग्रू नालिका सुनिषण्णकम् ।। 23.109 ।।
(63. शृङ्गाग्रं गृञ्जनम्, शृङ्गाष्टं कुङ्जरम्.)
सौभाञ्जनं (64) रक्तभाष्पं ग्रामभाष्पं त्रिकण्टकम् ।
(65) द्रोणपत्रं लिलिङ्गा च तण्डुलीयं तपस्विनी ।। 23.110 ।।
(64. पूतिभाष्पम्.)
(65. द्रोणं पटोली निम्बं च.)
कोशातकी च वर्ज्यानि मूलेषु त्याज्यमुच्यते ।
छत्राकं लशुनं तालफलमूले पटोलिका ।। 23.111 ।।
(66) बिम्बकुम्भाण्डनारङ्गफलानि परिवर्जियेत् ।
* वर्ज्यानि भोजनपात्राणि.*
बिल्वोदुम्बर भोध्यर्क वटपत्रेषु भोजनम् ।। 23.112 ।।
(66. बीजकुम्बा.)
वर्जयेत्साधको यत्नादालस्यं (67) दीर्घचिन्तनम् ।
विवादनिद्रा निर्वेदनिग्रहानुग्रहंस्त्यजेत् ।। 23.113 ।।
(67. दीर्घदर्शनम्.)
* मन्त्रिणा धारणीयानि चिह्नानि.*
पद्माक्षमालां ग्रीवायां लम्बयेत्साधकश्शुचिः ।
* सुवर्ण चक्रधारणम्.*
धारयेद्रैमयं चक्रं सर्वविघ्नोपशान्तये ।। 23.114 ।।
* देहे दारणीयलाञ्चनम्.*
जपकालेऽथवा चक्रं शङ्खाकृति यथातथा ।
शार्ङ्गखड्गदाकारं लाञ्छनं लाञ्छयेत्सुधीः ।। 23.115 ।।
शरीरावयवे बाह्वोर्वक्षोभुवि चतुर्मुख ।
* चक्रादिलाञ्छितस्य माहात्म्यम्.*
चक्रादिपञ्चाभिज्ञान लक्षिताङ्गपरिष्कृतम् ।। 23.116 ।।
पुरुषं दूरतो दृष्ट्वा भूताद्या भयविह्वलाः ।
विद्रवन्ति तथा घोराः पापिष्ठाः क्षणमात्रतः ।। 23.117 ।।
विनश्यन्ति तथा पुण्यपुञ्जानि प्रविशन्तिच ।
प्रणमन्ति तथा देवा देवर्षिप्रवरास्तथा ।। 23.118 ।।
अकृत्यमपि कुर्वाणो भुज्जानो वा यत स्ततः ।
पापैर्नलिप्यते देही चक्राद्यायुधलाञ्चितः ।। 23.119 ।।
हव्यं कव्यं च दातव्यं तस्मै (68) तद्दानमक्षयम् ।
* सिद्धिप्रतिबन्धकानि वेषचेष्टादीनि.*
अविधाय शिखाबन्धमकृत्वा तिलकं मृदा ।। 23.120 ।।
(68. तद्धत्तमक्षयम्.)
अधारयंस्ततो दर्भान् सूत्रै (69) रनुपवीतयन् ।
कुर्वन् कर्माणि न फलं प्राप्नुयात्पुरुषाधमः ।। 23.121 ।।
(69. रनुवनीतवान्.)
नग्नो मुक्तशिखाबन्धो वाससा वावकुण्ठितः ।
गच्छन् शयानः प्रलपन् न जपात्फलमश्नुते ।। 23.122 ।।
जपेन्मौनं समास्थाय सहसंभाषणादिकम् ।
प्रतिलोमादिभिर्नीचैर्नकुर्यान्मन्त्रवित्तमः ।। 23.123 ।।
व्याहरेदपि कार्यार्थं नित्यं तद्गतमानसः ।
* मन्त्रसिद्ध्यर्थ शालानिर्माणादि.*
द्वादशाक्षर (70) मन्यं वा जपेदक्षरलक्षकम् ।। 23.124 ।।
(70. तो हीनं.)
तदर्धं जुहुया दग्नौ होमशालां प्रकल्पयेत् ।
धूमनिर्गमनोपेतां चतुरश्रां (71) मनोरमाम् ।। 23.125 ।।
(71. मनोहराम्.)
* कुण्डाकृति मानादि.*
तन्मध्ये कल्पयेत्कुण्डमाहुत्यसुगुणं शुभम् ।
वृत्तं वा चतुरश्रं वा मेखलात्रयसंयुतम् ।। 23.126 ।।
(72) यो निमन्मृत्स्नया ब्रह्मन् मानं कुण्डन्य कथ्यते ।
अयुताहुतिपर्यन्ते होमे हस्तप्रमाणकम् ।। 23.127 ।।
(72. योनिकम्.)
द्विहस्तं नियुते कुण्डं त्रिहस्तं प्रयुते तथा ।
शङ्कुहोमे चतुर्हस्तं महाशङ्का तु षट्करम् ।। 23.128 ।।
नृन्दाहुतौ सप्तहस्तं महाबृन्देऽष्टहस्तकम् ।
अर्बुदे नवहस्तं स्यान्निर्बुदे दशहस्तकम् ।। 23.129 ।।
एकादशकरं खर्वे परार्धे द्वादशायतम् ।
त्रयोदशकरं मध्ये (73) अन्तकेतु चतुर्दश ।। 23.130 ।।
(73. अन्त्यके.)
पद्मे कराः पञ्चदश महापद्मे तु षोडश ।
समुद्रे विंशतिकर (74) मोघे द्वाविंशतिः स्मृतम् ।। 23.131 ।।
(74.महौघे.)
इतोऽधिकाहुतिविधौ चतुर्विंशतिहस्तकम् ।
* प्रसंगात्सङ्ख्यास्थापनिर्देशः.*
प्रसङ्गादुच्यते सङ्ख्या तां क्रमेणावधारय ।। 23.132 ।।
एकं दश शतं सङ्ख्या सहस्रमयुतं तथा ।
नियुतं प्रयुतं शङ्कुर्महाशङ्कुस्ततः परम् ।। 23.133 ।।
नृन्दं तथा महाबृन्दमर्बुदं न्यर्बुदं तथा ।
खर्वं परार्धं मध्यान्ते पद्मं तन्महदादिकम् ।। 23.134 ।।
(75) पद्मोत्तरं समुद्रं स्यान्महौघं (76) चोत्तमं भवेत् ।
एकमारभ्य गणयेत्प्रयुतान्तं यथाक्रमम् ।। 23.135 ।।
(75. उपोत्तमम्.)
(76. चोत्तरम्.)
स्थानात् स्थानं दशगुणं वर्धयेत्प्रयुतावधि ।
लक्षस्य नियुतं (77) सङ्ख्या कोटिः प्रयुतमिष्यते ।। 23.136 ।।
(77. सर्वत्र सङ्ख्या इत्यत्र संज्ञा इतिको शान्तरे.)
शङ्कुमारभ्यगणयेन्महौघान्तं क्रमाद्यथा ।
शतं कोटिसहस्राणां शङ्कुसङ्ख्या निगद्यते ।। 23.137 ।।
तथैव स्यान्महाशङ्कुरेवं बृन्दं प्रकीर्तितम् ।
तद्वदेव महानृन्द मेवमेवार्बुदं स्मृतम् ।। 23.138 ।।
इत्थं निर्बुदमाख्यातमेवं खर्वमुदाहृतम् ।
एवमेव परार्धं स्यान्मध्यमित्थं चतुर्मुख ।। 23.139 ।।
(78) एवमन्तं तथा पद्मं महापद्मं तथैव च ।
सागरप्रलयावेवं सङ्ख्या नास्ति ततः परम् ।। 23.140 ।।
(78. एवमेवं.)
* अग्ने श्शोत्रादिनिरूपणम्.*
(79) यत्र काष्ठं तु तच्छ्रोत्रं यत्र धूमस्तु नासिका ।
यत्राल्पज्वलनं नेत्रं यत्र भस्मतु तच्छिरः ।। 23.141 ।।
(79. यत्र इत्यादि - `समिद्भिः' इत्यन्तं कोशचतुष्टये न दृश्यते.)
यत्र सम्यके स्थिता दर्भास्तत्र केशाः प्रकीर्तिताः ।
यत्र प्रज्विलितो वह्निर्जिह्वातत्रैव कीर्तिता ।। 23.142 ।।
* होमस्तानादिफलम्.*
अग्निकर्णे हुती रोगो नासिकायां मनोव्यथा ।
चक्षुषोर्निधनं कुर्यात्केशे दारिद्र्यं भवेत् ।। 23.143 ।।
हुतं शिरसि पापं स्यात्तस्माज्जिह्वासु होमयेत् ।
समिद्भिर्याज्ञियैर्बीजैर्घृतैर्गव्यैस्तथा दलैः ।। 23.144 ।।
सुमनोभिस्समिद्धेग्नौ जुहुयादग्निमाहरेत् ।
* कुण्डमध्ये योगासनम्.*
आरण्यं मणिजं लौहं कुण्डमध्ये परिष्कृते ।। 23.145 ।।
योगासनं चाग्नि मध्ये कल्पयित्वा हरिं पुनः ।
* प्रत्यहं होमः.*
आवाहयेत्तत्र देवं होमान्तं (80) तत्र सन्निधिम् ।। 23.146 ।।
(80. तस्य.)
प्रार्थयेत समाराध्य होमं कुर्याद्दिने दिसे ।
आहोमकालमर्यादं रक्षेदग्निमतन्द्रितः ।। 23.147 ।।
न दहेत्परिधीन् दर्भानुपस्तीर्णानुपक्रमे ।
* सिद्धेर्निमित्तानि.*
एवमुक्तेन मार्गेण जपतो मन्त्रमुत्तमम् ।। 23.148 ।।
साधकस्य (81) पुनस्स्वाप्नास्सम्भवन्त्यविचारिताः ।
मन्त्रसिद्दिमसिद्दिं च सूच (82) यन्तश्शुभाशुभम् ।। 23.149 ।।
(81. पुरा.)
(82. यन्त्य.)
* तत्र सुनिमित्तानि.*
आचार्यं प्रतिमां देवीं पूजोपकरणानि च ।
विप्रं भागवतं भूपं छत्रचामरदन्तिनः ।। 23.150 ।।
सिंहासनमपां कुम्भं पुर्णं कन्यां मधूजनम् ।
दीपं शङ्खं तथा यानां (83) श्रीवत्सं पादुकां तथा ।। 23.151 ।।
(83. श्रीवृक्षम्.)
श्वेतं वस्त्रं च माल्यं च चन्दनं भूषणानि च ।
रत्नानि काहलादीनि पायसं दधि पालिकाः ।। 23.152 ।।
तांबूलं पुस्तकं घण्टां तण्डुलानवगाहनम् ।
समुद्रतरणं शैलारोहणं द्रुमरोहणम् ।। 23.153 ।।
(84) भूमिलाभं मृदां लाभं तटकुपादिदर्शनम् ।
प्राङ्कुखोदुङ्गुखो वापि यात्रां कुर्वन् स्वयं यदि ।। 23.154 ।।
(84. भूमिलाभमृतं लाभम्.)
विमानदर्शनं विष्णोर्दीप्तौ च शशिभास्करौ ।
(85) नक्षत्राणि गृहादीनि ज्योत्सां च ध्रुवमण्डलम् ।। 23.155 ।।
(85. `नक्षत्राणि' इत्यर्धं कोशपञ्च के न दृश्यते.)
दीप्तमग्निं वेदघोषं सिद्धविद्याधरादिकम् ।
देवता समितिं चैव पश्यन् मूलफलानि च ।। 23.156 ।।
अपूपादीनि भक्ष्याणि कुशयष्टिं कमण्डलम् ।
यज्ञोपवीतं पात्राणि स्रुक्स्रुवादीनि लोकयन् ।। 23.157 ।।
अक्षमालामेव माद्यैश्शुभैस्स्वप्नैर्विनिर्दिशेत् ।
मन्त्रसिद्धिं बहु (86) मुखां
* दुर्निमित्तानि.*
दुस्स्वप्नाश्चाप्यशोभनाः ।। 23.158 ।।
(86. मुखात्.)
कथ्यन्ते मुण्डितैस्सार्धं सम्भाषा सहवर्तनम् ।
स्वयं मुण्डश्छभिभ्राणो जीर्णं नीलं तथाम्बरम् ।। 23.159 ।।
कन्थां कर्तां तथा नीलां पुष्पमालां च मूर्धनि ।
गर्दभारोहणं भग्नयानाधिष्ठानमब्जज ।। 23.160 ।।
छिन्नच्छत्रधरो वापि महिषारोहणं तथा ।
दक्षिणाभिमुखो गच्छन्नुष्ट्रवाहादिरोहणम् ।। 23.161 ।।
दष्टश्च कपिभिर्देहे सृगालैर्वा वृकै स्तथा ।
कर्णपादशिरश्छेदो दन्तानां पदनं तथा ।। 23.162 ।।
नववस्त्रधरः पीडा भडैः पाशेन बन्धनम् ।
(87) विधवालिङ्गनं नीचैः पाषण्डैः प्रतिलोमजैः ।। 23.163 ।।
(87. विधायालिङ्गनं.)
वर्तनं गोपुरादीनां पतनं शाखिनामपि ।
तुरगारोहणं (88) भुक्तिर्बौद्धाद्यालयसेवनम् ।। 23.164 ।।
(88. भुक्तम्.)
मदिरापायिभिः पापरोगिभिःकितवैस्सह ।
वर्तनं दीपनिर्वापं देवानामुत्सवं तथा ।। 23.165 ।।
ग्रामादिदाहो भक्ष्याणां फलादीनां च भक्षणम् ।
मधूच्छिष्टं प्रतिच्छाया यात्रा युद्धोद्यमं भटैः ।। 23.166 ।।
अभ्यङ्गं तैललाभं च मरीचं लवणं तथा ।
लोकयन्नेवमादीनि स्वप्ने शान्तिं समाचरेत् ।। 23.167 ।।
* सिद्धिप्रकाराः.*
जपहोमादिभिर्विद्वान् जाग्रतः प्रत्ययां स्तथा ।
वक्ष्यामि साधकस्याग्रे जातानब्युदयावहान् ।। 23.168 ।।
प्यूम्नि देवगाणान्नेमि घोषं दुन्दुभिनिस्वनम् ।
स्द्दैस्संभाषणं चापि विमानानां च दर्शनम् ।। 23.169 ।।
भूतप्रेतपिशाचादिदशर्नं भूतले तथा ।
होमकाले च सप्तार्चिस्त्रिशिखः परिदृश्यते ।। 23.170 ।।
शुद्धस्फटेकसङ्काशो दक्षिणावर्त (89) शोभितः ।
दिव्यगन्धोपलम्भश्च छत्रबिम्बध्वजादिकम् ।। 23.171 ।।
(89. संयुतः.)
शङ्खदुन्दुभिवीणादिवेदघोषश्रुतिं पुनः ।
पूर्णाहुतिविधौ सिद्धिलिङ्गान्येतानि लोकयेत् ।। 23.172 ।।
* सिद्धिलिंगानां गुरुं विनान्यत्रप्रकाशनिषेधः.*
(90) साधकस्तानि लिङ्गानि कथयेन्न गुरुं विना ।
होमान्ते भोजयेद्विद्वान् वैष्णवान् द्वादशावरान् ।। 23.173 ।।
(90. साधकानि हि लिङ्गानि.)
* यावन्मन्त्रसिद्धि भगवदाराधनम्.*
यावच्च मन्त्रसिद्धिस्स्यात्तावदाराधयेद्धरिम् ।
कामनानुगुणाकारं दार्वाद्यैः परिकल्पितम् ।। 23.174 ।।
दिने दिने जपेन्मन्त्रं जुह्वान्नग्नौयथापुरम् ।
* प्रणव पुरश्चरणविधिः.*
प्रणवस्य शृणु ब्रह्मन् (91) पुरश्चरणमुत्तमम् ।। 23.175 ।।
(91. पुनः.)
बीजं साङ्गं समुद्धारं यथावदवधारय ।
अप्रमेयादिमुदयं मध्ये (92) मन्दरपश्चिमम् ।। 23.176 ।।
(92. मन्दिर.)
समाहृत्य (93) त्र्यवयवं त्रीन् वर्णान् वाचकं हरेः ।
प्लुतोदात्तस्वरं ब्रह्मन् चक्रमध्ये प्रतिष्ठितम् ।। 23.177 ।।
(93. त्रिकवचस्त्रीन्वर्णान्.)
उद्धरेद्बीजमस्याद्यं (94) प्रतीकं दण्ड शेखरम् ।
वैष्णवं दण्डयेद्वैषा शक्तिस्सर्वत्र कीर्तिता ।। 23.178 ।।
(94. प्रतीतम्.)
बीजशक्त्यङ्गहीना ये मन्त्र्यासुसै निरर्थकाः ।
तस्मात्साङ्गं बीजयुक्तं शक्तियुक्तं फलप्रदम् ।। 23.179 ।।
बीजं शक्तिश्च कथिता श्रूयतामङ्गजातयः ।
ऋषिर्ब्रह्मस्य छन्दस्तु देवी गायत्र मुच्यते ।। 23.180 ।।
प्रतिपाद्यः परोदेवः परमात्मा स देवता ।
बुद्धिस्तत्वं परं प्यूम क्षेत्रं वर्णस्सितच्छविः ।। 23.181 ।।
ज्ञानं बलं तथावीर्यमैश्वर्यं तेजसा सह ।
शक्तिरेते चतुर्थ्यन्ता नमस्स्वाहा वषट् तथा ।। 23.182 ।।
हुं फट् वौषट् क्रमादेत दवसानाश्शुभावहाः ।
अङ्गानि हृदयाद्येषु षट्सु स्थानेषु मन्त्रिणा ।। 23.183 ।।
प्रयोज्यानि (95) प्रयुक्तेषु मन्त्रस्साङ्गः कृतो भवेत् ।
देहे करतले चैव स्थानेषु द्वादशस्वपि ।। 23.184 ।।
(95. प्रयोगेषु.)
द्वादशाक्षरवन्न्यासः प्रणवस्स्फटिक प्रभः ।
(96) न्याने नमोन्तस्स्वाह्न्तू जपपूजाहुतिष्वपि ।। 23.185 ।।
(96. न्यासो.)
वश्ये चाकर्षणविदौ उच्छाटे हुङ्कृतिर्भवेत् ।
मारणे फट्कृतिर्ज्ञेया स्तम्भ (97) विद्वेषमोहने ।। 23.186 ।।
(97. विज्ञान.)
सतिं विनाङ्गमन्यस्स्याद्धर्मादौ नतिरेव सा ।
शाकयावकभैक्षाशी जपेल्लक्षत्रयं शुचिः ।। 23.187 ।।
तदर्धं तर्पणे सङ्ख्या तदर्धं होमकर्मणि ।
होमान्ते सिद्धयस्तस्य जायन्ते (98) यावदीप्सिताः ।। 23.188 ।।
(98. यद्यदीप्सिताः.)
ऐहिकामुष्मिकं सर्वं प्रणवाल्लभ्यतेऽ (99) खिलम् ।
प्रणवान्न परोमन्त्रः कश्चिदस्ति चतुर्मुख ।। 23.189 ।।
(99. फलम्.)
शान्तिपुष्ट्यभिचारेषु किमन्यैस्सिद्धिवर्णनैः ।
अन्त्यकाले च मां ध्यात्वा व्याहरन् प्रणवाक्षरम् ।। 23.190 ।।
(100) योगाभ्या (101) सोक्त विधिना जीवमारोहयेद्धृदि ।
भ्रुवो र्मध्ये ततोजीवं ततो ब्रह्म बिलं ततः ।। 23.191 ।।
(100. `योग' इत्यादि--. `सर्वपाप' इत्यन्तं क्वचिन्न.)
(101. सेन.)
उच्चरन् प्रणवं (102) भित्वा भिलं ब्रह्मणि लीयते ।
यावत्प्राणविनिर्मोकमभ्यस्येत्प्रणवाक्षरम् ।। 23.192 ।।
(102. हित्वाबिम्बं.)
सर्वपापविनिरिमुक्तो याति ब्रह्म सनातनम् ।
प्रोक्तः प्रणवकल्पस्ते समासेन चतुर्मुख ।। 23.193 ।।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्मसंहितायां चर्यापादे मातृकाद्यर्थ (103) त्रयवर्णनं नाम त्रयोविंशोऽध्यायः.
(103. अर्थवर्णनं नाम.)
------ ****** -------