प्रमुखा विकल्पसूचिः उद्घाट्यताम्
← अध्यायः ६ चर्यापादः
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
चर्यापादे-सप्तमोऽध्यायः
सप्तमोऽध्यायः
------
* चक्राब्जमण्डलन्यासः.*
ब्रह्मा :---
भगवन् कथ्यतां कीदृक् चक्राब्जं नाम मण्डलम् ।
यदाराध्यं समाराध्य तरन्ति भववारिधिम् ।। 7.1 ।।
श्रीभगवान् :---
चतुर्भिर्याज्ञिकैः काष्ठैष्षडङ्गुल घनैश्शुभैः ।
द्वादशाङ्गुल विस्तारै राकारं चतुरश्रकम् ।। 7.2 ।।
मण्डलानुगुणायामविस्तारं परिकल्पयेत् ।
अष्टतालायतान् स्तम्भान् सुवृत्तां श्चतुरस्तथा ।। 7.3 ।।
(1) सन्निकृष्टस्य कोणेषु चतुर्ष्वेतस्य मङ्गलान् ।
स्थापयेदुपरिष्टाच्च (2) स्तम्भानां सन्नि (3) वेशयेत् ।। 7.4 ।।
(1. सन्निविष्टस्य.)
(2. स्तम्भाग्रे सन्निवेशनम्.)
(3. सन्निवेशनम्.)
(4) चत्वारि चैव दारूणि यथापूर्वेक्त लक्षणम् ।
(5) तच्चतुष्कं च दारूणां वितानध्वजमालया ।। 7.5 ।।
(4. चत्वारि दा रूणि तथा.)
(5. चतुरश्रं च दारूणां वितानम्.)
भूषये त्परितो मुक्तादामानि च विलम्बयेत् ।
शुद्धया च मृदाधस्ताच्चतुष्कोष्ठस्य चान्तरम् ।। 7.6 ।।
पूरये (6) दन्तरं तस्य गोमयेनोपलेपयेत् ।
चक्राब्जादीनि बिम्बानि कुर्यात्तत्र महीतले ।। 7.7 ।।
(6. दुन्नतं तच्च. दन्तदस्तस्य.)
तेषामा यामविस्तारा विष्येते हस्तसम्मितौ ।
द्विगुणौ त्रिगुणौ वापि स्याता मथ चतुर्गुणौ ।। 7.8 ।।
यद्वापञ्छ गुणौ ब्रह्मन्नवकाशानु (7) सारतः ।
चन्दनार्द्राणि सूत्राणि प्रञ्चि सप्तदशक्षितौ ।। 7.9 ।।
(7. रूपतः.)
निपात येत्तधोदञ्चितावन्ति कमलासन ।
षट्पञ्चाशत्समधिके सन्त्येव द्वेशते पुनः ।। 7.10 ।।
कोष्ठानि सन्ति तत्रान्तष्षट्त्रिंशत्कोष्ठ मध्यतः ।
स्थापयित्वाततश्शङ्कुं भ्रामये त्सूत्रवर्त्मना ।। 7.11 ।।
पञ्चवृत्तानि बिम्बानि समान्येकं तु मध्यमम् ।
कर्णिकाक्षेत्रमेतस्माद्बहिर्बिम्बं त्रिधा पुनः ।। 7.12 ।।
विभज्य सूत्रमार्गेण प्रथमा केसरावनिः ।
दलभूमिर्द्वितीया तु तृतीया नाभिमण्डलम् ।। 7.13 ।।
तदेकं द्विविधं वापि त्रिविधं सूत्रवर्त्मना ।
विभजेन्नाभि भूभागाद्बहिर्द्वे मण्डले भत् ।। 7.14 ।।
अरक्षेत्रं बहिर्नेमिभूरेकं मण्डलं भवेत् ।
कोष्ठैरथाष्टविंशत्यापरितो बहिरासनम् ।। 7.15 ।।
चतुरश्रं भवेत्कोष्ठैरशीत्यावीधिका बहिः ।
पङ्त्किद्वयेन (8) विश्वात्मन् चतुरश्राद्बहिःपुनः ।। 7.16 ।।
(8. बिम्बात्मन् चतुरश्रान् बहिःपुनः.)
कोष्ठानि द्वादशाधिक्यं शतं पङ्क्तिद्वये भवेत् ।
प्रत्याशं तेषु कोष्ठेषु चतुर्द्वारं प्रकल्पयेत् ।। 7.17 ।।
कोष्ठेश्चतुर्भिःप्रत्येकं द्वयोः पङ्त्क्योश्चतुर्मुख ।
चतुर्षु कोणेषु तथा प्रत्येकं शङ्खसिद्धये ।। 7.18 ।।
कोष्ठध्वयं तु सम्मार्ज्यं द्वयोःपङ्त्क्योश्चतुर्मुख ।
प्रतिद्वारं तदभ्यर्णे पार्श्वयो रुभयोरपि ।। 7.19 ।।
अर्थ (9) शोभा प्रसिद्यर्थं बाह्यानन्तर रथ्ययोः ।
द्वे द्वे कोष्ठे बहिःपङ्त्क्या (10) मैकैकं तदनन्तरम् ।। 7.20 ।।
(9. अर्धशोभा प्रक्लुप्त्यर्थं.)
(10. पङ्त्क्या एकैकम्.)
सम्मार्ज्य मेवं शोभार्थमेकैकं बहिरन्यतः ।
त्रीणि त्रीणि च कोष्ठानि मार्जनीयानि पद्मज ।। 7.21 ।।
उपशोभार्थमप्येवं व्यत्यासेन चतुष्टयम् ।
सम्मार्जनीयं कोष्ठानां विनियोगः (11) प्रदर्शितः ।। 7.22 ।।
(11. प्रशिक्षितः.)
यद्वापीठादिनिर्माणं विना कोष्ठानि विंशतिः ।
शतद्वयं च परितः (12) परिमृज्य चतुर्मुख ।। 7.23 ।।
(12. परिगृह्य.)
आदिपद्म प्रमाणेन कुर्यादावरणत्रयम् ।
चतुर्दिशं चतुर्द्वार कल्पनं पद्ममानतः ।। 7.24 ।।
यद्वैक (13) वलजं कुर्यादभीष्टदशि पद्मज ।
द्वादशाब्जानि कल्प्यानि प्रत्यावरणकल्पनम् ।। 7.25 ।।
(13. वलयं.)
चतुर्षु कोणेष्वेकैकं द्वे द्वे (14) वलज पार्श्वयोः ।
दलैर्द्वादशभिर्युक्तं कर्णिकाके सरान्वितम् ।। 7.26 ।।
(14. वलयं.)
आदिपद्मार्धमानेन पद्मजातं प्रकल्पयेत् ।
मध्यमे पङ्कजे बिन्दून् कर्णिकायां प्रकल्पयेत् ।। 7.27 ।।
द्वादशा (15) ब्बजरेखाश्च शतं च नवतिं तथा ।
केसरोर्व्यां पिधायान्वग्दलक्षेत्रे प्रकल्पयेत् ।। 7.28 ।।
(15. ब्जार.)
विदिक्षु दिक्षु च तथा चतस्रो विंशतिं तथा ।
रेखे द्वे द्वे दलानि स्युस्सूच्य (16) ग्रवदनन्तरे ।। 7.29 ।।
(16. ग्राणि तदन्तरे.)
प्रदर्शयेदुपदलान्न्यरक्षेत्रे दिशःप्रति ।
अरे द्वे द्वे विहिक्षु स्यादेकैकं द्वाशशारता ।। 7.30 ।।
अराणिन्दीवरदलैस्तुल्यान्यब्जपलाशवत् ।
यद्वा यपोदराभानि मातुलुङ्ग (17) समानि च ।। 7.31 ।।
(17. सदृंशि.)
पिपीलिकोदराभानि परस्परमानि च ।
अन्तरालानि चै तेषां तुल्यमानानि पद्मज ।। 7.32 ।।
ईदृशं मण्डलं शस्तं पासुदेव समर्चने ।
नारायणे तु यष्टव्ये (18) बिन्द्वाद्याः पूर्वमीरिताः ।। 7.33 ।।
(18. बिम्बाद्याः.)
अष्टावष्टौ विधातव्याः केसरा नवतिस्सषट् ।
पूर्वेरितानि कोष्ठानि मार्जयित्वाषडुत्तरम् ।। 7.34 ।।
त्रिंशश्च (19) तत्र नाभ्यादि विनापद्मं प्रकल्पयेत् ।
शङ्कुमाहृत्य सूत्रेण तत्समं विभजेद्द्विधा ।। 7.35 ।।
(19. त्रिंशतं.)
प्रथमं कर्णिकाक्षेत्रं द्वितीयं विभजेत्त्रिधा ।
त्रिष्वाद्यं केसरक्षेत्रं दलक्षेत्र मनन्तरम् ।। 7.36 ।।
तृतीयमन्तरालं स्या (20) द्दलपीठिकयोर्द्वयोः ।
अष्टौ द्वादश वा कुर्या (21) द्बिन्द्वादीन् कमलासन ।। 7.37 ।।
(20. दलम्.)
(21. द्बिम्बादीन्.)
मण्डलं भद्रकं नाम तदिदं सर्वकामदम् ।
चिकीषन् स्वस्तिकं बिम्बं क्षेत्रं षट्त्रिंशतायुम् ।। 7.38 ।।
संमृज्य तत्र कोष्ठानि (22) एकं दश च पातयेत् ।
प्रागायतानि सूत्राणि उदिचीनायतानिच ।। 7.39 ।।
(22. एकादश.)
संमृज्य मध्यतो द्वे द्वे (23) वीधीं प्रागायतामपि ।
तथोदगायतामेकां कुर्यान्निर्ग मनं पुनः ।। 7.40 ।।
(23. द्वौ द्वौ.)
प्रागायताभ्यां कोष्ठाभ्यां बहिःपङ्त्का (24) उदङ्मुखम् ।
प्राचीनं पश्चिमं चापि दक्षिणामुख मिष्यते ।। 7.41 ।।
(24. पङ्त्क्या उ.)
तथोदगा यताभ्यां स्या (25) दुदक्प्रत्यङ्मुखं शुभम् ।
दक्षिणाग्रं भवेत्प्राच्या मितिस्वस्तिक मीरितम् ।। 7.42 ।।
(25. दुदक्पङ्क्त्यामुदङ्मुखम्.)
द्विधा विभज्य पूर्वोक्तं षट्त्रिंशत्कोष्ठमण्डलम् ।
मध्यतः पद्मकरण मवशिष्टे त्रिधाकृते ।। 7.43 ।।
द्वाभ्यां सुवृत्तं भागभ्यां भ्रान्तं वृत्त्यस्य मण्डलम् ।
अवशिष्टेन भागेन (26) त्वन्तरालं भवेद्बहिः ।। 7.44 ।।
(26. चान्तरालं.)
सौरमण्डल मेतत्स्यादे तदेवेन्दु मण्डलम् ।
सर्वेषामेव बिम्बानां पीठाद्बाह्यं यथापुरम् ।। 7.45 ।।
विना विदध्यात्पीठादीन् केवलं (27) चक्रपङ्कजम् ।
* कर्तुश्शक्त्यपेक्षया चक्रं विना पद्ममण्डलम्.*
चक्रं (28) विना वा पद्मं स्या त्कर्तुश्शक्ति समीक्षया ।। 7.46 ।।
(27. पद्मचक्रजम्.)
(28. विनापि.)
* सितादिपञ्चवर्णै र्मण्डल शोभा.*
मण्डलं शोभयेद्रत्नैः पञ्चवर्णैस्सितादिभिः ।
* तत्र द्रव्य विकल्पः.*
(29) तच्चूर्णै रथवा चूर्णै र्लोहजै र्वाथ धातुजैः ।। 7.47 ।।
(29. तच्चूर्णैरथपारत्नैः. अथवा चूर्णितैरत्नैः.)
चन्दनागुरुकुष्ठादि गन्धचूर्णै रथापि वा ।
शाल्यादि तण्डुलैः पिष्टैस्सित्रेर्व्रीहि भिरप्युत ।। 7.48 ।।
पुटदग्धै रवक्षुण्णै रसितै र्याज्ञिकैश्छदैः ।
श्यामै श्शुक्लैरवक्षुण्णौः कौसुम्भै (30) रपि पाटलैः ।। 7.49 ।।
(30. रथ.)
निशा चूर्णैः प्रसूनैर्वापङ्चवर्णैश्च कालजैः ।
शोभयेत्कर्णिकादीनि यद्वर्णानि चतुर्मुख ।। 7.50 ।।
तद्वर्णैरेव रत्नादि द्रव्यैराकारशोभनम् ।
अन्तरालानि सर्वत्र कृष्णैश्श्यामैरथापि वा ।। 7.51 ।।
शोभ येत्कर्णि कां पीतै श्शुक्लैर्बिन्दून्वि शोभयेत् ।
पाटलैः कर्णिकारेखां कृष्णैर्वा केसरावनिम् ।। 7.52 ।।
द्विधा कृत्वा पूर्वभागं श्वैतैर्भाग मथोत्तरम् ।
पीतैरक्तैर्विरामेषु प्रतिकेसरमर्जुनैः ।। 7.53 ।।
बिन्दून्विदध्याद्रद्नैस्तु दलकोटिषु रेखयेत् ।
आद्यन्तानि च बर्हाणां (31) सितर क्तैर्विशोभयेत् ।। 7.54 ।।
(31. सितैरक्तैः)
बर्हान्त वलयं रक्तैस्सितैर्वा र्भूषये त्पृथक् ।
श्यामैः पीतैश्च रक्तैश्च नाभिरेखात्रयं क्रमात् ।। 7.55 ।।
द्विनाभित्वे श्यामपीतै श्श्यामैरेवैकनाभिके ।
रेखयेदसितै रेव त्वरकोटी रराणि तु ।। 7.56 ।।
रक्तैररान्तवलयं कृष्णैर्नेम्यन्तमेदिनीम् ।
सितैर्नेमि (32) महीभागं द्विधा (33) कृत्वैक मादितः ।। 7.57 ।।
(32. महाभागं)
(33. कृत्वैव.)
भागं कृष्णैस्सितैरन्यन्नेमिभागं विशेषयेत् ।
पीठं पीतैः पाटलैर्वा सितैर्वा वीधिकां पुनः ।। 7.58 ।।
लतावितान (34) पत्रादियुक्तां चूर्णैश्च चित्रयेत् ।
रक्तैश्शोभां तथा पीतै (35) रूपशोभां च शोभयेत् ।। 7.59 ।।
(34. पत्राणि. युक्तैश्चूर्णैर्विचित्रयेत्.)
(35. रूपशोभां.)
द्वारं शुक्लैश्च रक्तैश्च पीतैः कृष्णै र्यथाक्रमम् ।
शोभये दुत्तरादींश्च कोणान् कृष्णैरथार्जुनैः ।। 7.60 ।।
(36) शङ्खं च कुर्यात्तैरेव स्वस्तिकं पाटलप्रभम् ।
यद्वा पीतनिभं सौरं मण्डलं पाटलप्रभम् ।। 7.61 ।।
(36. शङ्खंश्चकुर्यात्तेनैव)
मण्डलं चैन्दवं शुक्लमन्तरालं तु (37) सर्वशः ।
* मण्डलविस्तारानुसारेण पूरणीय चूर्णोत्सेधः.*
यथेष्टवर्ण सुभगं मण्डले हस्तसम्मिते ।। 7.62 ।।
(37. सर्वतः.)
रेखानु (38) चूर्णैरुत्सेधः कनिष्ठाङ्गुलि सम्मितः ।
द्विहस्तेऽनामि का (39) मानस्त्रिहस्ते (40) मध्यमासमः ।। 7.63 ।।
(38.पूर्णैः.)
(39. नाहः.)
(40. अनामिकासमः.)
चतुर्हस्ते मण्डले तु तर्जन्य ङ्गुलिसम्मितः ।
पञ्छहस्ते (41) समोऽङ्गुष्ठेनेत्युत्सेधः प्रदर्शितः ।। 7.64 ।।
(41. समाङ्गुष्ठै रित्युत्सेधः.)
मण्डलं चित्रयित्वैव मारभेत समर्चनम् ।
* मन्त्राध्वादि षडध्वार्चनम्.*
आराध येत्कर्णिकायां मन्त्राध्वानमनन्तरम् ।। 7.65 ।।
तत्वाध्वानं केसरेषु वर्णाध्वानं दलेषु च ।
पदाध्यानं नाभिभागि कलाध्वान मरेषु च ।। 7.66 ।।
षष्ठं तु भुवनाध्वानं नेमिभागे चतुर्मुख ।
* बिन्दुषु द्वादशाक्षरावाहनम्.*
कर्णिकायां द्वादशसु बिन्दुषु द्वादशार्चयेत् ।। 7.67 ।।
अक्षराणि समावाह्य कर्णिकायां समाहितः ।
यजेत परमात्मानं सकलीकृत्य (42) तत्ववित् ।। 7.68 ।।
(42. कृत्य.)
* केसरेषु श्रियादीनामर्चनम्.*
केसरेषु श्रियादींश्च यजेत दलभूमिषु ।
शक्तीस्तदीया दश च द्वे च पूज्या यथाविधि ।। 7.69 ।।
श्रीवत्सा द्याश्शक्तयश्च (43) व्याप्त्याद्याः परितस्थ्सिताः ।
* नाभिक्रमेण विष्ण्वादीनां पूजा.*
दला न्तवलये पूज्यो विष्णुः प्रथमनाभिगः ।। 7.70 ।।
(43. मासाद्या.)
ब्रह्मा द्वितीयनाभिस्थस्तृणेत्रस्तु तृतीयगः ।
* द्वादशस्वरेषु विष्ण्वादिद्वादश मूर्तिपूजा.*
द्वादशारेषु विष्ण्वाद्वाः पूज्या द्वादशमूर्तयः ।। 7.71 ।।
* अरान्तवलये मीनादिदशमूर्तीनामर्चनम्.*
अरान्तवलये पूज्या मीनाद्या दश मूर्तयः ।
* प्रथमनेमिवलये शङ्ख्याद्यायुधपूजा.*
प्रथमे नेमिवलये शङ्ख्याद्यायुध पूजनम् ।। 7.72 ।।
* पीठरोणेषु नराहादीनां पूजा.*
पीठकोण चतुष्केषु वराहो नरकेसरी ।
अनन्तश्च हयग्रीवस्तदाग्नेयादिषु क्रमात् ।। 7.73 ।।
* वीधिकायां लोकपालपूजा.*
(44) वीधिकायां लोकपालाः पुरुहूता दयः क्रमात् ।
* द्वारेषु चण्डादीनां पूजा.*
पूज्या द्वारेषु चण्डाद्या द्वौ द्वौ प्रति चतुर्ष्वपि ।। 7.74 ।।
(44. वेदिकायांद्वारपालाः.)
* ईशानकोणे विष्वक्सेनपूजा.*
ईशान कोणे रथ्यायां विष्वक्सेनं समर्चयेत् ।
* पूर्वद्वारे अभिमुख्येन गरुडस्य पूजा.*
गरुडोऽभि मुखस्तिष्ठन् पूर्वद्वारा द्बहिः क्षितौ ।। 7.75 ।।
* चक्रगदाशज्खानां दक्षिणादिद्वारेषु पूजा.*
चक्रं च दक्षिणद्वारि गदां च द्वारि पश्चिमे ।
वलजे चोत्तरे शङ्खं प्रथमा वरणे ततः ।। 7.76 ।।
* द्वितीयावरणपद्मेषु विष्ण्वादिद्वादशमूर्तिपूजा.*
विष्ण्वादि मूर्तयः पूज्या द्वादशा ब्जेषु पद्मज ।
अनन्तरे चावरणे पद्मेषु द्वादशस्वपि ।। 7.77 ।।
पासुदेवादि कृष्णान्ता मूर्तयो द्वादशैव ते ।
* तृतीयावरण पद्मेषु द्वादशादित्यपूजा.*
पद्मेष्वावरणे चान्ते द्वादशा दित्य पूजनम् ।। 7.78 ।।
* मण्डले वासुदेवार्चनम्.*
एतस्मिन् मण्डले देवं पासुदेवं समर्चयेत् ।
* बिन्दुषु अष्टाक्षरन्यासः.*
बिम्बे नारायणाख्ये तु बिन्दुष्वष्टसु तावताम् ।। 7.79 ।।
अष्टाक्षराणां (45) न्यसनम्
* केसरेषु अष्टौ शक्तयः पूज्याः.*
व्याप्त्याद्याश्शक्तयोऽष्ट च ।
केसरेषु समाराध्या
* दलेषु श्रियादयः पूज्याः.*
दलेष्वष्टौ श्रियादयः ।। 7.80 ।।
(45. सन्यासम्.)
* अरेषु शङ्खाद्यष्टायुधपूजा.*
अरेष्वष्टनु शङ्खादीन्यायुधान्यष्ट पूजयेत् ।
* चतुर्विंशतिपद्मेषु तावन्मूर्ति पूजनम्.*
चतुर्विंशतिपद्मेषु चतुर्विं शतिमूर्तयः ।। 7.81 ।।
त्रिषु चावरणेष्वेषु पूज्याः
* अस्मिन् चक्राब्जमण्डले नारायणस्य यजनम्.*
तन्मण्डले हरिम् ।
नारायणं समावाह्य यजेत परमेश्वरम् ।। 7.82 ।।
* भगवतो यजने मुख्यःकालः.*
दर्शेच पौर्णमास्यां च सङ्क्रान्तौ श्रावणेषु च ।
द्वादश्यां विषुवे चैव ग्रहणेष्व यनेषु च ।। 7.83 ।।
जन्मऋक्षे (46) विशेषेण मण्डले हरिमर्चयेत् ।
मण्डलाराधनमिदं धर्मका मार्थमोक्षदम् ।। 7.84 ।।
(46. जन्मर्क्षेतु.)
* दीक्षायाश्चक्राब्जमण्डलं प्रशस्तम्.*
चक्राब्जमण्डले शस्ता दीक्षा तस्याश्च मण्डलम् ।
* ब्राह्मणादिभेदेन मण्डलक्षेत्रवर्णभेदः.*
एकद्वारं भवेत्तच्च सौम्यं स्यादग्रजन्मनाम् ।। 7.85 ।।
चित्रितं श्वेतवर्णेन प्राग्द्वारं पृथिवी भुजाम् ।
रक्तेन चित्रितं द्वारं पाश्चात्यं पीतवर्णकम् ।। 7.86 ।।
विशां भवेद्दाक्षिणात्य मसितं पादजन्मनाम् ।
* अनुलोमानामुत्पादकवत् द्वाराणि.*
द्वाराणि चानुलोमाना मुत्पादकवदिष्यते ।। 7.87 ।।
* सूतस्य विशेषः.*
सूतस्य वलजं प्राच्यां
* स्त्रीणां द्वारनिरूपणम्.*
शूद्राणामिव योषिताम् ।
* कर्षणादिक्रिया योग्याधिकारी.*
शिष्यं सुतं वा सर्वज्ञ मनसूयं जितेन्द्रियम् ।। 7.88 ।।
आचार्यवंशजन्मानं निग्रहानु ग्रहे क्षमम् ।
शान्तिके पौष्टिके चैव कर्मणि क्षममर्थिनाम् ।। 7.89 ।।
वेद (47) वेदान्त तत्वज्ञ माचार्य (48) पदकाङ्क्षिणम् ।
देशिकेन्द्रो विधानेन वक्ष्यमाणेन तत्ववित् ।। 7.90 ।।
(47. वेदङ्ग.)
(48.वरकाङ्क्षिणम्.)
कर्षणादिषु सर्वेषु विधानेष्वधिकारिणम् ।
कुर्यान्मण्डल पूजादि कुम्भयागावसानिकम् ।। 7.91 ।।
* अधिकारसम्पादका स्संस्काराः.*
दीक्षायामिव तत्सर्वं कृत्वा शिष्यस्य सन्निदौ ।
आज्येन चरुणा चैव समिद्भः कुसुमै स्तिलैः ।। 7.92 ।।
जुहुयान्मूलमन्त्राभ्या मष्टोत्तरसहस्रकम् ।
शिष्यस्य दक्षिणे हस्ते बध्वाप्रति सरं गुरुः ।। 7.93 ।।
नृत्तैर्गेयैस्तथा पाद्यै र्वेदघोषैर्नयेन्नि शाम् ।
ततःप्रभाते शिष्यं तं स्नातं नूतन वासनम् ।। 7.94 ।।
(49) समाहोया समाराध्य मण्डलं कुम्भमेव च ।
चतुर्विधं निवेद्यान्नं होमं कुर्याद्यथा निशि ।। 7.95 ।।
(49. समालभ्य.)
कलशां श्चतुरो द्रोण पूर्णान् होमादि निर्मितान् ।
मृण्मयान्वा यथावित्तं सूत्र वस्त्रादिवेष्टितान् ।। 7.96 ।।
संस्थाप्य धान्यराशौ तु रत्नादीनि विनिक्षिपेत् ।
अग्नेयकुम्भे रत्नानि सर्वाणि विनिवेशयेत् ।। 7.97 ।।
नैरृते सर्वलोहानि गन्धद्रव्याणि मारुते ।
ऐशाने तीर्थवारीणि ततो देवं समर्चयेत् ।। 7.98 ।।
(50) अग्निकोणे वासुदेवं सङ्गर्षण मनन्तरे ।
प्रद्युम्नं वायुकोणे तु कोणे रौद्रेऽनिरुद्धकम् ।। 7.99 ।।
(50. अग्निकुम्भे.)
ततोऽनु शिष्यं संस्थाप्य पीठे भद्रादिविद्यया ।
शिष्यं प्राङ्मुखमासीनं षडङ्ग न्यासपूर्वकम् ।। 7.100 ।।
अर्चयित्वाघृतारोप माचरे दविलम्बयन् ।
तूर्य घोषेण गेयेन ब्रह्मघोषेण घोषयेत् ।। 7.101 ।।
चतुर्दिक्षु ततोगन्धैः पुष्पैस्ताम्बालविटिभिः ।
धनैर्बहु विधैरिष्टैस्सदस्यान् तोषयेद्द्विजान् ।। 7.102 ।।
तोषयेच्च विशेषण भगवद्भक्तिमा श्रितान् ।
* मन्त्रित कुम्भजलै श्शिष्याभिषेकः.*
मुहोर्ते शोभने प्राप्ते ब्राह्मणानामनुज्ञया ।। 7.103 ।।
ऋग्वेद मन्त्रितं कुम्भ माग्नेयदिशि निष्ठितम् ।
तमुपादाय पाणिभ्यां सूक्तेन पुरुषात्मना ।। 7.104 ।।
द्वादशाक्ष रमन्त्रेण (51) सम्पुटीकृतमूर्तिना ।
अभिषिञ्चेद्गुरुश्शिष्यं कुम्भेव तदनन्तरम् ।। 7.105 ।।
(51. केषु चित्कोशेषु "सम्पुटीकृत्यमूर्तिना" इति पाठोZस्ति.)
नैरृतस्थेन यजुषा मन्त्रितेन समाहितः ।
वैष्णवेन च सू क्तेन ब्रह्मन्नाद्यवसानयोः ।। 7.106 ।।
सङ्कर्षणाख्य मन्त्रेण सम्मुटीकृतमूर्तिना ।
कुम्भेन मारुतस्थेन (52) सामाघोषितवारिणा ।। 7.107 ।।
(52. सामस्थापित.)
प्रद्युम्नसम्पुटेनाथ ब्रह्मन् वारुणसामभिः ।
कुम्भेनाथर्ववेदेन पवित्री कृतवारिणा ।। 7.108 ।।
ईशान कोणसंस्थेन सम्पुटीकृतमूर्तिना ।
अनिरुद्धाख्य मन्त्रेण नारायण समाह्वाया ।। 7.109 ।।
विद्यया कलशैस्सर्वै रभिषिञ्चेद्यथोदितम् ।
* एवमभिषिक्तस्य अधिकारलाभः.*
अभिषिक्तस्ततश्शिष्यो नवाम्बरथंश्शुचिः ।। 7.110 ।।
आचान्तश्चन्दनक्षोदै (53) र्लिप्तमाति रलङ्कृतः ।
स्रग्वी पासोभि रुष्णीषं बद्ध्वा मुकुट सन्निभम् ।। 7.111 ।।
(53. लिप्ताङ्गस्समलङ्कृतः.)
उत्तरीयं च बिभ्राणो बिभ्राणो योगपट्टिकाम् ।
अञ्जनाक्तेक्षणद्वन्द्वो बाहुमाला परिष्कृतः ।। 7.112 ।।
निरीक्षितादर्शतलो ब्राह्मणैस्स्वस्ति (54) पाचकैः ।
दत्तप्रसव वृष्टिश्च श्वेतव्यजनवीजितः ।। 7.113 ।।
(54. वाचितैः.)
(55) दत्तोपानट् सितच्छत्रो दत्ताश्व गजवाहनः ।
नीराजितश्च कल्याणो जायते गुर्वनुग्रहात् ।। 7.114 ।।
(55. दत्तप्रसन्ययष्टिः.) (56.सितोपानट्.)
अनेनैवाभिषेकेण लब्ध्वाचार्य पदं स्वयम् ।
आचार्य कृत्यमखिलं कर्तुमिच्छे च्चतुर्मुख ।। 7.115 ।।
गुरुवे दक्षिणां दद्वा द्गोभूहेमादिकं तथा ।
यथाविभवविस्तारं ततो हस्त्यादि वाहनम् ।। 7.116 ।।
आरुह्य धवलच्छत्र श्वेत चामर वीजितः ।
आचार्यचिह्नैरखिलै र्लक्षितो ब्राह्मणै स्सह ।। 7.117 ।।
रथयानेनाग्रहारं प्रादक्षिण्येन रथ्यया ।
गत्वा देवस्य सदनं प्रविशेत्स्वस्य धाम वा ।। 7.118 ।।
इति श्रीपाञ्चिरात्रे महोपनिषदि पाद्मे तन्त्रे चार्यापादे मण्डलाराधनचार्याभिषेकविधिर्नाम सप्तमोऽध्यायः.
------******-------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_७&oldid=206971" इत्यस्माद् पुनः प्राप्तिः