← अध्यायः ९ चर्यापादः
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
चर्यापादस्य अध्यायाः

पाद्मसंहितायाम्
दशमोऽध्यायः.
-----
* सकामनिष्कामानुष्ठेय महोत्सवप्रश्नः.*
ब्रह्मा :---
कथं महोत्सवः कश्चित् कीदृक्तस्य फलं च किम् ।
फलकामैरनुष्ठातुमविज्ञातो न शक्यते ।। 10.1 ।।
मह्यं जिज्ञासमानाय प्रसीद भगवन्निदम् ।
आख्यातुमर्हसि यथा महोत्सव मनुत्तमम् ।। 10.2 ।।
श्रीभगवान् :---
* तस्योत्तरम्.*
आराधनमिदं ब्रह्मन् मोक्षकामै रनुष्टितम् ।
पश्वादिफलकामैस्तु दुरनुष्ठेयमद्भुतम् ।। 10.3 ।।
तोषणं मम कल्याण मनुष्ठितममानुषम् ।
देवैरेव पुरावृत्रवधे तत्पापनुत्तये ।। 10.4 ।।
इन्द्रेणापि दिविष्ठेन मामुद्दिश्य कृतं शुभम् ।
रूपं तस्य प्रवक्ष्यापि यथा तदवधारय ।। 10.5 ।।
* उत्सवशब्दनिर्वचनम्.*
सवस्सांसारिकं दुःखमुत्तरन्ति तदम्भुधिम् ।
यष्टार इति विद्वंसो निर्ब्रुवन्त्युत्सवाह्वयम् ।। 10.6 ।।
* उत्सवत्त्रेविध्यम्.*
नित्यो नैमित्तिकः काम्य स्त्रिविध स्स महोत्सवः ।
* नित्योत्सवः.*
तत्र नित्यं प्रतिसमं मासपक्षव्यवस्थया ।। 10.7 ।।
शुभे च तथिनक्षत्रे विषुवे चायनद्वये ।
कल्पितावभृथस्नानस्सेवितस्सर्वदैवतैः ।। 10.8 ।।
नैमित्तिक स्स विज्ञेयो निमित्ते सति कल्पितः ।
अवग्रहे च दुर्भिक्षे चोल्कापाते तथा निशि ।। 10.9 ।।
दर्शने सुरचापन्य वालमीनस्य दर्शने ।
(1) देवता प्रतिकायानां कम्पने भेदने तथा ।। 10.10 ।।
(1.देवतानां निकायानां.)
(2) हसने चलने चैव रोदने पतने तथा ।
गोपुरालयसालानां मण्टपस्य च भेदने ।। 10.11 ।।
(2. "वृक्षे त्वन्यफले" इत्यर्ध मत्रापिलिखितमस्ति क्वचित्कोशे.)
भङ्गे वा पतने वापि पर्वतानां तथैव च ।
निपाते चैत्यवृक्षस्य भङ्गे ज्वलनदर्शने ।। 10.12 ।।
वृक्षे त्वन्यफले दृष्टे दिवा नक्षत्रदर्शने ।
भूतादिदर्शने घोरे भूमिकम्पे तथैव च ।। 10.13 ।।
दिग्दाहे च महावाते महावृष्टै तथैव च ।
ग्रहयुद्धे च सञ्जाते प्रतिसूर्यस्य दर्शने ।। 10.14 ।।
नृपे रोगाभिभूते च ग्रामे जनपदे तथा ।
मसूरिकादि घोराणां व्याधीनां च प्रवेशने ।। 10.15 ।।
परचक्रप्रवेशे च व्योम्नि नेमिस्वने तथा ।
दिव्यदुन्दिभि निर्ह्रदे निर्मले गगने सति ।। 10.16 ।।
(3) वर्षेवाऽशनिपाते च शक्रध्वजनिपातने ।
जलेऽग्निजनने चैव तथैवाद्भुतदर्शने ।। 10.17 ।।
(3. अनर्षेZशनिपाते च.)
एवमादौ महोत्पातेनैमित्तिक महोत्सवः ।
चतुर्णां पुरुषार्थाना मुद्दिश्यान्यतमं फलम् ।। 10.18 ।।
उत्सवोनुष्ठितः काम्यस्सङ्कल्पितफलप्रदः ।
* अवभृथस्नानसमयः.*
कथ्यतेऽवभृथस्नानसमयस्त्रिविधोत्सवे ।। 10.19 ।।
मासर्क्षे विषुवे चैव ग्रहणे चायनद्वये ।
दर्शे च पूर्णमास्यां च श्रवणे सर्वमासिके ।। 10.20 ।।
रोहिण्यां च पुनर्वस्वोः प्रतिष्ठादिवसे तथा ।
राज्ञां जन्मदिने कुर्यादभिषेकदिने तथा ।। 10.21 ।।
एते ष्ववभृथस्नानं ब्रह्मन् सर्वार्थसाधनम् ।
* उत्सवकालपरिमाणम्.*
मासेन वा तदर्धेन द्वादशाहेन वा पुनः ।। 10.22 ।।
नवाहेनोत्सवः कार्यः स्सप्ताहेन चतुर्मुख ।
अहोभिः पञ्चभि र्वापि त्रिभिर्वैकेन वा पुनः ।। 10.23 ।।
* द्वजारोहणरहित उत्सवः.*
एकाहे त्र्यहके धीमान् ध्वजकर्मन कारयेत् ।
* अवभृथसमयस्यापवादः.*
सङ्कल्पपूर्वमालोच्य मासऋक्षे तथा तिथौ ।। 10.24 ।।
तीर्थावगाहनं यद्वा संयोग तिथितारयोः ।
विषुवे चायने चैव नादरस्तिथि (4) तारयोः ।। 10.25 ।।
(4. वारयोः.)
दुष्टवारादि संयोगे शुभमेव यथोदितम् ।
* बलिदानस्य धामविशेषनिबन्धनत्वम्.*
पत्तने नगरे ग्रामे प्रतिलोमाऽनधिष्ठिते ।। 10.26 ।।
अशून्ये बलिदानादीन् रथ्यासु बहिराचरेत् ।
नोचेदावरणेष्वेव कुर्यादन्तर्महोत्सवम् ।। 10.27 ।।
ग्रामादि रहिते धाम्नि नोत्सवं बहिराचरेत् ।
अन्तरावरणेष्वेन न तु त्याज्यं कथं चन ।। 10.28 ।।
पास्त्वेङ्गे च स्वतन्त्रे च धामन्युत्सव सम्पदि ।
यौगपद्ये न दोषस्याद्दोषो वास्त्वङ्गयोर्द्वयोः ।। 10.29 ।।
* आश्रयद्वैविध्यम्.*
स्वतन्त्रं परतन्त्रं च आश्रयं समुदाहृतम् ।
* उत्तमादित्रैविध्यम्.*
उत्तमादिविभेदेन आलयस्त्रिविधोभवेत् ।। 10.30 ।।
* उत्तमस्स्वतन्त्रालयः.*
विष्ण्वालयं पुराऽऽकल्य पश्चाद्ग्रामादि कल्पनम् ।
स्वन्त्रमिति विज्ञेय मालयं तूत्तमं भवेत् ।। 10.31 ।।
* मध्यमः परतन्त्रालयः.*
ग्रामादिकं पूराऽऽकल्प्य पश्चादालयकल्पनम् ।
अस्वतन्त्रमिति ख्यातमालयं मध्यमं भवेत् ।। 10.32 ।।
* अधमः वीध्यन्तराकल्पितालयः.*
स्वतन्त्रालय क्लृप्तासु रथ्यावीधीषु पद्मज ।
अन्तरे स्थापितं यत्त दाश्रयं त्वधमालयम् ।। 10.33 ।।
* उत्सवसन्नि पाते स्वतन्त्रालये पूर्वमर्चनम्.*
स्वतन्त्रे परतन्त्रे वा उत्सवादौ कृते सति ।
पूर्वं स्वतन्त्रे कर्तव्यं वास्त्वङ्गे द्विगुणार्चनम् ।। 10.34 ।।
* आश्रयादिबिम्बानामुत्सवं तत्तदावरण एव कुर्यात्.*
आश्रयादिषु बिम्बेषु उत्सवादौ कृते सति ।
तत्तदावरणे कुर्या द्बाह्यवीध्यां तु नाचरेत् ।। 10.35 ।।
मोहाद्वा यदिवा लोभा द्विपरीते कृते सति ।
अरातिभिः परिभवो महाव्याध्यादिपीडनम् ।। 10.36 ।।
प्राङ्गणएषु च सर्वेषु प्रासादादिषु मूर्तिषु ।
प्रीत्याभिषेकमात्रं च स्नपनाद्युत्सवं विना ।। 10.37 ।।
(5) कारयेद्यदि सम्मोहात्प्रजानां पीडनं तथा ।
तस्मात्सर्वप्रयत्नेन विपरीतं तु नाचरेत् ।। 10.38 ।।
(5. सदा देशाधिपस्य स्यात्प्रजानाम्.)
अन्यथा कारयेन्मोहाद्राजा राष्ट्रं च नश्यति ।
* ग्रामवास्तुबलिनिषेधः.*
ग्रामाश्रयादिभेराणामालयाश्रयकेषु च ।। 10.39 ।।
ग्रामवस्तु बलिहीनं केवलोत्सवमाचरेत् ।
* वैष्णवोत्सवे देवतान्तरोत्सवनिशेधः.*
देवतान्तरकल्याणे वर्तमानेऽपि वैष्णवम् ।। 10.40 ।।
कुर्याद्देवोत्सवं नैव वैष्णवेऽन्यं कदाचन ।
वासुदेवो हि देवानां देवताम्नायते यतः ।। 10.41 ।।
* देवोत्सवमध्ये मानुषोत्सवनिषेधः.*
उत्सवे देवदेवस्य ध्वजारोहणपूर्वके ।
प्रवर्तिते (6) देवयागे चौलादि र्नैव संस्क्रिया ।। 10.42 ।।
(6. नैव यागश्चौलादिश्चैव.)
* पूर्वापपादः.*
ग्रामाद्यनङ्गायतने प्रवृत्तेऽप्युत्सवे पुनः ।
कुर्याद्देवान्तरं यागं चौलादिं चैव संस्क्रियां ।। 10.43 ।।
* अन्यदेवतोपयुक्ततोरणादीनां प्रतिक्षेपः.*
तोरणादीनि चान्येषां देवानामुत्सवे सताम् ।
उत्पाट्य रथ्यासु हरे रुत्सवो नान्यथा भवेत् ।। 10.44 ।।
* पूर्वापवादः.*
क्लृप्तानामुत्सवे विष्णो रथ्यादिष्वितरोत्सवे ।
स्थिराणां तोरणादीनां कुर्यं नोत्पाटनं भवेत् ।। 10.45 ।।
* अधिमासादौ प्रथमोत्सवनिषेधः.*
अधिके मासि शुक्रादौ गुरौ च स्तमिते सति ।
नोत्सवः प्रथमःकल्प्यः कल्पने राजराष्ट्रयोः ।। 10.46 ।।
प्रजानां चैव दुःखं स्या द्व्याधिर्वा मृतिरेव वा ।
उत्सवे च द्विदीयादौ नोक्तदोषः कथञ्चन ।। 10.47 ।।
* ध्वजारोहणस्य मुख्यकालः.*
मासादावुत्सवदिने पञ्चाहावधिके क्रमात् ।
ध्वजारोहणकालस्तु ब्रह्मन्नद्य प्रदर्श्यते ।। 10.48 ।।
एकोनविंशतितमे दिने तीर्थाङ्कुरार्पणात् ।
अष्टादशदिने वापि प्रागेव समये शुभे ।। 10.49 ।।
वैनतेयध्वजारोहाद्द्वादशाहेऽथवा भवेत् ।
यद्वा कल्याण दिवसं त्रिगुणीकृत्य तावताम् ।। 10.50 ।।
आदौ दिनानां कर्तव्यं ध्वजारोहणमब्जज ।
अङ्कुरानपर्ययित्वाह्नि पुण्ये पुर्वे यथोदिते ।। 10.51 ।।
ध्वजमारोपयेत्पश्चान्मङ्गलं मङ्गले दिने ।
* अनुकल्पकालः.*
दैवाद्वामानुषाद्वापि कुतश्चित्कारणाद्यदि ।। 10.52 ।।
(7) उत्सवाहर्गणा त्पूर्वं यथोक्तैन कृते ध्वजे ।
उत्सवारम्भणदिने दिवाऽऽरोप्य ध्वजं निशि ।। 10.53 ।।
(7. उत्सवारम्भणात्.)
* ध्वजारोहण भेरीताडनयोः पौर्वापर्यविकल्पः.*
भेरीताडनमन्वक्च पालिकास्वङ्कुरान् क्षिपेत् ।
अघोष्य भेरीं प्रथमं ध्वजारोहणमन्वतः ।। 10.54 ।।
ततोऽङ्कुरार्पणं यद्वा यद्वा निश्यङ्कुरार्पणम् ।
प्रदोषेऽन्वग्ध्वजारोहो भेरीताडनमन्वतः ।। 10.55 ।।
तत्कालेऽपि ध्वजारोहे त्रैविध्यं चतुरासन ।
* ध्वजपटायामादिमानम्.*
तन्तूत्थं क्षौमवसनं निर्देषं सूक्ष्ममाहृतम् ।। 10.56 ।।
कार्पासं वा यथावित्तं ध्वजार्थे कल्पयेद्बुधः ।
आयतं दशभिर्हस्तै र्विस्तीर्णं पञ्चभिर्दृढम् ।। 10.57 ।।
नवभिर्वाष्टभिर्वापि सप्तभिर्वा चतुर्मुख ।
मूलभेरसमायामं द्वारायाम मथापि वा ।। 10.58 ।।
आयामार्धेन विस्तीर्णं पादेन कृते शेखरम् ।
शेखरेण समं पुच्छं तदर्धं कर्णपुच्चकम् ।। 10.59 ।।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ।
* गरुडमूर्ति लक्षणम्.*
आहृत्य मध्ये वस्त्रस्य गरुडं काञ्चनप्रभम् ।। 10.60 ।।
नवतालप्रमाणेन द्विभुजं धृतञ्चुकम् ।
धृतपुष्पाञ्जलिपुटं श्वेताम्बर धरं विभुम् ।। 10.61 ।।
दंष्ट्राकरालवदनं ब्रुकुटीकुटिलेक्षणम् ।
नीलनासाग्रसंयुक्तं कुञ्चितासव्यपादकम् ।। 10.62 ।।
पृष्ठे निविष्टसर्वाङ्घ्रिं पक्षविक्षेपशोभितम् ।
गगने गमनारम्भं (8) सुवृत्तं घोरदर्शनम् ।। 10.63 ।।
(8. वृत्ताक्षम्.)
करण्डिकामुकुटिनं ललाटे रचितालकम् ।
हारकेयूरवलयनूवुराभरणोज्ज्वलम् ।। 10.64 ।।
अनन्तो वामकटको यज्ञसूत्रं तु वासुकिः ।
उरसि न्यस्तकार्कोटं कटिसूत्रिततक्षकम् ।। 10.65 ।।
बिभ्राणं दक्षिणे कर्णे पद्माह्वयसरीसृपम् ।
महापद्मं तथान्यत्र शङ्खं शिरसि भोगिनम् ।। 10.66 ।।
गुलिकं चाङ्गदे सर्पं वर्णस्तेषां च कध्यते ।
स्फटिकाभश्पोणिताभःपीताभोधूम्रवर्णकः ।। 10.67 ।।
रक्ताम्बुज निभश्छैव पिङ्गलस्तु हिनप्रभः ।
भ्रमराभः
* गरुडप्रतिमाया उपरि पार्श्वेऽधस्ताच्च लेखनीयानि.*
क्रमाच्छत्रं मुक्ताहेम परिष्कृतम् ।। 10.68 ।।
उपरिष्टाच्च कर्तव्यं पार्श्वयोश्चामरद्वयम् ।
अधस्तादम्बजं पुर्ण कुम्भमद्भिश्च पालिकाः ।। 10.69 ।।
सङ्कुरा लिखितव्यास्स्युर्दीपौ द्वौ पार्श्वयोर्द्वयोः ।
पञ्चवर्णैर्लिखेदेव मन्तरं श्यामवर्णकम् ।। 10.70 ।।
अन्तरालंच (9) कृष्णेन चित्रये च्चित्रकृत्तमः ।
ध्वजार्धसम्मितां चैव पताकां चैव चित्रयेत् ।। 10.71 ।।
(9. अन्तरालं न.)
* अधिपासदिने कर्तव्यानि.*
अधिवासे दिने प्राप्ते तमिस्रायां गुरुस्स्वयम् ।
कारुशालां प्रविश्याथ कारयित्वाथ शिल्पिना ।। 10.72 ।।
नयनोन्मीलनं तस्मिन् विसृष्टे शिल्पिनी (10) प्सितैः ।
अर्थैश्च तोषिते सश्चा (11) निक्षिप्य शिरसि ध्वजम् ।। 10.73 ।।
(10. प्सिते.)
(11. निक्षिपेत्.)
(12) मूर्त्रिपस्य सुवर्णादि लोहपात्रे समर्पितम् ।
प्रादक्षिण्येन धामादीन्नी त्वा तूर्य (13) निनादितम् ।। 10.74 ।।
(12. मूर्तिपश्च.)
(13. निनादितैः.)
ततःप्रवेशयेद्याग मण्डपं देशिकोत्तमः ।
नयनोन्मीलनादन्य त्प्रतिष्ठायामिवाचरेत् ।। 10.75 ।।
* अधिवासः.*
छायाधिवासनं सद्यो जले कुर्याद्यथाविधि ।
कुम्भैष्टोडशभि (14) श्छायास्नपनं दर्पणे भवेत् ।। 10.76 ।।
(14. स्नायात् स्नपनम्.)
पौरुषेणैव सूक्तेन (15) गायत्र्या स्वस्य पूजयेत् ।
शाययेच्छालि भारादावास्तीर्णे नववाससि ।। 10.77 ।।
(15. गाधया.)
शायितस्य पटस्याथ अपसव्ये सहाष्टभिः ।
परितो न्यस्तकलशैर्वर्धन्या च घटं क्षिपेत् ।। 10.78 ।।
आवाह्य गरुडं कुम्भे करके च सुदर्शनम् ।
इन्द्रादीनष्टपूर्वादि कलशेषु सुपूजयेत् ।। 10.79 ।।
शोधयित्वा च गरुडं पटस्थं शोषणादिभिः ।
संहृत्य तत्वानि ततः क्रमादुत्पाद्य पक्षिणम् ।। 10.80 ।।
चतुर्षु पार्श्व कुण्डेषु होमे स्थण्डिलभूषु वा ।
कुण्डे महानसे वापि (16) समिधाज्यै र्यथापुरम् ।। 10.81 ।।
(16. समिधाद्यै.)
शान्तिहोमस्स्पर्शनं च सेचनं च यथापुरम् ।
पटं विस्तीर्णगरुडं मन्दिराभिमुखं यथा ।। 10.82 ।।
प्रदर्श्यापाहयेत्तत्र व्याहृत्या
* गरुड प्रार्थना.*
सन्निधिं ततः ।
प्रार्थयेत गुरुस्तस्य गाधया वक्ष्यमाणया ।। 10.83 ।।
महाबल महाबाहो वैनतेय वयोधिप ।
सन्निधत्स्व पटे तुभ्यं समः प्रणवमूर्तये ।। 10.84 ।।
कर्मणां सिद्धिमाहोतः कुरुष्व विहगेश्वर ।
अहुतव्यास्त्रयो लोका देवस्योत्सव संपदि ।। 10.85 ।।
यजेदात्मीय गायत्र्या तमर्घ्याद्युपचर्यया ।
निवेदयेत्ततस्तस्मै निवेद्यं च चतुर्विधम् ।। 10.86 ।।
कुम्भाय च निवेद्यान्नं स्तोत्रेर्गरुडतोषणम् ।
वाहनाय महाविष्णो स्तार्क्ष्याया मिततेजसे ।। 10.87 ।।
गरुडाय समस्तुभ्यं सर्वसर्पेन्द्र मृत्यवे ।
नमो नमस्ते पक्षीन्द्र स्वाध्यायवपुषे नमः ।। 10.88 ।।
विहगन्द्रे मनस्तेऽस्तु समुत्पाटितकल्पक ।
आहृतामृतकुंभाय जननीदास्यमोचिने ।। 10.89 ।।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते ।
यदाधार्मिदं सर्वं तदाधाराय ते नमः ।। 10.90 ।।
पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम् ।
अक्षिणी चापि गायत्रि त्रिवृत्सामशिरः स्मृतम् ।। 10.91 ।।
स्तोम आत्मा नमस्तस्मै वामदेव्याङ्गसम्पदे ।
नमःप्राणादि वायूना (17) मिशाय गरुडात्मने ।। 10.92 ।।
(17. मिशानाय गरुत्मते.)
दोषानपयायाखण्डन् गुणानावह सर्वतः ।
विघ्नानि जहि सर्वाणि आत्मसात्कूरु मामपि ।। 10.93 ।।
स्तुत्वैवं गारुडं मन्त्रं जपेदेकाग्रमानसः ।
तुर्याघोषैर्वेदघोषैर्जागरेण नयेन्निशाम् ।। 10.94 ।।
* गरुडनि वेदित पिण्डभक्षणं सन्तानप्रदम्.*
निवेद्यं कबलीकृत्य मन्त्रयित्वाच मन्त्रवित् ।
पौरुषैर्गारुडैर्मन्त्रै र्वस्थ्यानामपि योषिताम् ।। 10.95 ।।
क्षिपेदञ्जिलिषु ध्वात्वा गरुडं चाच्युतं हरिम् ।
भक्षयित्वा त्रयः पिण्डान् जनयेयुस्सुतान् बहून् ।। 10.96 ।।
* ध्वजपटोत्सवः.*
तं प्रभाते समाराध्य निवेद्य च हर्विःक्रमात् ।
वस्त्राभरण पुष्पैस्तु पटस्थं शोभयेत्खगम् ।। 10.97 ।।
आरोप्य हस्तिपृष्ठे पारथे वान्यत्र मङ्गले ।
शिभिकादौ नयेद्ग्रामं प्रादक्षिण्येन धाम वा ।। 10.98 ।।
भेरीमृदङ्गपटहौश्शङ्खकाहलचिह्नकैः ।
घोषयेत्पुरतस्तस्य नृत्तैर्गेयैश्च सर्वतः ।। 10.99 ।।
* खगेश वाद्ययोर्मध्ये साङ्कुरपालिकानयनम् *
खगेश वाद्ययोर्मध्ये पालिकास्सङ्कुरान्विताः ।
वहेयुर्ब्राह्मणास्सर्वे शिरोभिस्संयतेन्द्रियाः ।। 10.100 ।।
बिम्बमौत्सवमन्यच्च (18) गरुडस्यान्तिकेऽथवा ।
*ध्वजस्तम्भस्थापनस्थानम्.*
इच्छया यजमानस्य सर्वमङ्गलसंयुतम् ।। 10.101 ।।
(18. गरुडस्यानयेत वा.)
अग्रतो बलिपीठस्य (19) बहिर्वा धाम गोपुरात् ।
ध्वजस्तम्भं खनेद्भूमौ निर्देषं दारवं स्थिरम् ।। 10.102 ।।
(19. बहिःप्रासाद.)
* स्थम्भोपयोगिदारुमानम्.*
(20) अन्तस्सारो बहिस्सारो निस्सारस्त्रिविध स्तरुः ।
क्रमुकादि बहिस्सारं प्रशस्तं विदुरुत्तमम् ।। 10.103 ।।
(20. अन्तस्सारे बहिस्सारे नि स्सारे त्रिविधे तरौ.)
अन्तस्सारं चन्दनादि प्रशस्तं स्तम्भकल्पने ।
निस्सारं वर्जयेत्त्सम्भं शततालायतं शुभम् ।। 10.104 ।।
मानाङ्गुलप्रमाणेन (21) विंशत्यूनमथापि वा ।
प्रासादोच्छ्रायमथवा यद्वा गोपुरुसम्मितम् ।। 10.105 ।।
(21. विंशत्तालमथापि. विंशन्न्यूनम्.)
चतुर्धा विभजेत्त्सम्भमेकांशेनैव मस्तकम् ।
तस्यचाधारभूतानां (22) च्छेदितानां तु मूलतः ।। 10.106 ।।
(22. च्छिद्रितानां त्रि.)
त्रयाणामपि पीठानां स्तम्भाग्रे विनिवेशनम् ।
आयतानि च पूठानि द्वितालेन चतुर्मुख ।। 10.107 ।।
विस्तीर्णानि तदर्धेन तदर्धेन घनानि च ।
मूले स्थूलानि सूक्ष्माणि चाग्रे युञ्जीत भूरुहान् ।। 10.108 ।।
अग्रे पीठद्वयेच्छिद्रे ध्वजयष्णिं च स्स्कृताम् ।
निवेशयेच्छिद्रयित्वा ध्वजस्तम्भं चतुर्मुख ।। 10.109 ।।
निवेशयेद्वेणुकं वासव वा सप्तपञ्च वा ।
* ध्वजस्तम्भंसंस्कारः.*
इत्थं भूतं ध्वजस्तम्भं पीठस्योत्तरपार्श्वतः ।। 10.110 ।।
(23) आराध्य वेदविद्विप्रैः प्रागग्रं शाययेद्गुरुः ।
यद्वोदगग्रं प्रक्षाल्य स्तम्भमब्लिङ्गमन्त्रतः ।। 10.111 ।।
(23. आनाय्य.)
कुशैश्च साग्रैः प्रच्छाद्य स्तम्भमूर्ध्वमुखैश्शुभैः ।
संवेष्ट्य दर्भमालाभि र्विष्णुसूक्तेन देशिकः ।। 10.112 ।।
ध्वजस्तम्भावटे न्यस्य लोहबीजादि शोधितम् ।
तत्रावटे ध्वजस्तम्भं स्थापयित्वादृढं यथा ।। 10.113 ।।
प्रासादाभिमुखं
* स्तम्भशिरसि ध्वजपटबन्धनम्.*
तस्य वेण्वग्रविवरे ध्वजम् ।
पाशेनाङ्गुष्ठनाहेन त्रिगुणीकृत्य तन्तुना ।। 10.114 ।।
ध्वजं निवेशयेद्यद्वा स्तम्भमारुह्य बन्धयेत् ।
बद्धध्वजाग्रस्तम्भं वा स्थापयेच्छक्त्यपेक्षया ।। 10.115 ।।
* ध्वजारोपणकालः.*
एवं नियोज्य यष्ट्यग्रे मुहूर्ते शोभने गुरुः ।
पूर्वाह्णे वाथ मध्याह्ने ध्वजमारोपयेत्तथा ।। 10.116 ।।
* आरोपणमन्त्रः.*
बध्वा पुरुषमन्त्रेण सपताकं सघण्टकम् ।
सुवर्णोऽसीति मन्त्रेण ध्वजस्यारोपणं भवेत् ।। 10.117 ।।
प्रासादाभिमुखं स्थाप्य खगेन्द्रं पटसंस्थितम् ।
तूर्यघोषं तथाम्नायघोषं दिक्षु च घोपयेत् ।। 10.118 ।।
खगेशमालामन्त्रादीं स्तत्काले देशिको जपेत् ।
* स्तम्भमूल वेदीकल्पनम्.*
स्तम्भमूलस्थले वेदिं हस्तैस्सप्तभिरायताम् ।। 10.119 ।।
तापद्भिरेव विस्तीर्णामेकहस्तसमुच्छृताम् ।
पञ्चभिर्वा त्रिभिर्वापि चतुरश्रां प्रकल्पयेत् ।। 10.120 ।।
वेदिकायास्तृतीयांशे मध्ये पीठं प्रकल्पयेत् ।
चतुष्टयाङ्गुलोत्सेधं मेखलात्रयसंयुतम् ।। 10.121 ।।
भागे तृतीये तस्यापि पद्ममष्टदलै र्युतम् ।
कर्णिकास्थो यथा स्तम्भस्तथा कुर्याद्विचक्षणः ।। 10.122 ।।
षोडश स्तम्भसंयुक्ता प्रपा स्यात्परित स्ततः ।
चतुर्द्वारसमायुक्ता दर्भमालाद्यलङ्कृता ।। 10.123 ।।
पुण्याहं पाचयित्वाथ प्रोक्षयेत्कुम्भवारिणा ।
गारुडेनैव मन्त्रेण कलशैश्चाष्टभि स्तथा ।। 10.124 ।।
इन्द्राद्यैःप्रोक्षयेत् स्तम्भंस्वैस्वैर्मन्त्रैर्यथाक्रमम्
* ध्वजे गरुडसान्निध्य प्रार्थनम्.*
प्रार्थयेत स्थितिं तस्य गरुडस्य ध्वजोदरे ।। 10.125 ।।
उत्सवावभृथं यावद्गाधया वक्ष्यमाणया ।
पक्षीन्द्र पक्षविक्षेपतरङ्गानिलसम्पदा ।। 10.126 ।।
निरस्तासुरसन्नाह समरे शत्रुसूदन ।
सन्निधत्स्य पटे यावदुत्सवावभृथावधि ।। 10.127 ।।
* गरुडाय अशेषलोकाह्वानाज्ञापनम्.*
उत्सवप्रतिमां यानमारोप्य शिभिकादिकम् ।
ध्वजस्तम्भसमीपोर्वीमानीयादर्शयेत्खगम् ।। 10.128 ।।
आह्वोनार्थमशेषाणां लोकानां पतगेश्वरम् ।
नियुज्य देवस्तदनु प्राप्नुयान्मण्डपावनिम् ।। 10.129 ।।
* गरुडस्य कालत्रये आराधनम्.*
आराधयेत्त्रिकालं तु गरुडं च निवेदयेत् ।
* अनिर्वाण दीपस्थापनम्.*
अनिर्वाणं तथा दीपं रक्षेन्नक्तंदिवा सदा ।। 10.130 ।।
* उत्सवप्रतिमाया रात्रौ होमान्तमर्चनम्.*
उत्सवप्रतिमां तत्र मण्डपे च यथाविधि ।
पूजयित्वा निवेद्याथ हविर्होमान्तमर्चयेत् ।। 10.131 ।।
रात्रौ तु पूजयित्वैवं
* भेरीताडनसिद्धये कल्पनीयानि.*
भेरीताडन सिद्धये ।
ध्वजपीठसंय पुरतः क्षितिं गोमयपारिणा ।। 10.132 ।।
आलिप्य चतुरश्रं च सुधाचूर्णैश्चशोभयेत् ।
चतुरश्रं धान्यपीठं द्रोणपञ्चकशालिना ।। 10.133 ।।
कल्पयित्वा कालचक्रं तस्य मध्ये निवेशयेत् ।
बल्यर्चामपितत्रैव स्थापयेद्ध्वज सम्मुखम् ।। 10.134 ।।
पूजयित्वा निवेद्याथ हवींषि विविधानि च ।
* भेर्यर्चनम्.*
आपिप्ते पुरतस्तस्य भूतले धान्यपीठके ।। 10.135 ।।
तावदेव महाभेरीं वेष्टितां नववाससा ।
दक्षिणेतरयोस्तस्या भेरिकाया यथाक्रमम् ।। 10.136 ।।
भागयोरर्चयेद्विष्णुं श्रियं चैव यथाविधि ।
त्रिगुणां प्रकृतिं चैव मध्यभागे सभाजयेत् ।। 10.137 ।।
* भेरीताडनम्.*
मुहूर्ते शोभने भेरीं शब्दतन्मात्रविद्यया ।
कोणेन ताडयेन्मूर्तित्रयं ध्यायेद्गुरुस्स्वयम् ।। 10.138 ।।
ततः पारशवस्स्नातो दर्भपाणिरलङ्कृतः ।
सोपवीतोत्तरीयश्च वहन् भेरीमलङ्कृताम् ।। 10.139 ।।
शङ्खादिवाद्यसहितां तालभेदविधानवित् ।
घोषयेद्गुरुणेन्द्रादौ हूयमाने मरुद्गणे ।। 10.140 ।।
* आहूतव्य देवताः.*
दिव्यायुधानामाह्वानं तथा वैकुण्ठवासिनाम् ।
तथा पारिषदास्सर्वे विष्वक्सेनाभिरक्षिताः ।। 10.141 ।।
आह्वातव्या मखे तस्मिन् कुमुदाद्या स्सनायकाः ।
ऋषिभिश्च मरीच्याद्यैर्ब्रह्मलोकनिवासिभिः ।। 10.142 ।।
समाह्वानं विरिञ्चस्य रुद्रलोकनिवासिभिः ।
सार्दं प्रमथसार्धैश्च रुद्रश्च वृषवाहनः ।। 10.143 ।।
आह्वातव्यास्तथान्ये च तत्तल्लोकनिपासिनः ।
वाहनैःपरिवारैश्च साकं तस्मिन् महूत्सवे ।। 10.144 ।।
विद्याश्च मूर्तिधारिण्यस्त्रयू चङ्गैर्वपुष्मती ।
अह्वातव्यास्समाह्वानं सर्वेषां च स्वनामभिः ।। 10.145 ।।
नित्योत्सवार्चं परितो वीधिकासु सुदर्शनम् ।
अन्नर्मूर्तिविधानं च प्रदीपैर्बहुभिर्वृतम् ।। 10.146 ।।
गमयित्वा प्रतिदिशं भेरीताडनपूर्वकम् ।
* ग्राममध्ये चतुर्मुखस्यावाहनम्.*
ग्राममध्यं समासाद्य तत्रावाह्य चतुर्मुखम् ।। 10.147 ।।
अर्चयित्वा मखे तस्मिन् याचित्वा सन्निधिं गुरुः ।
इन्द्रादींश्च प्रतिदिशं बल्यर्थं सन्निधिं तदा ।। 10.148 ।।
अर्चयित्वा तूर्यघोषं घोषयित्वास्वतालवत् ।
अन्यत्र गारुडं तालमन्तरालेषु घोषयेत् ।। 10.149 ।।
प्रविश्य मन्दिरं तत्र यथापूर्वं निवेशयेत् ।
* वीधीषु देवताह्वानम्.*
आदायोत्सवबिम्बं वा केवलं वा सुदर्शनम् ।। 10.150 ।।
अन्नमूर्तिविधानं वा भेरीमादाय केवलाम् ।
रथ्यासु देवताह्वानं तत्र तत्र यथाविधि ।। 10.151 ।।
* भेरीशब्दं श्रुत्वा अवभृथान्तमन्यत्र न यायात्.*
देवताह्वानवेलायां भेरीं शृण्वन्तिये नराः ।
तैर्नदीतरणं नैव यानं वा योजनात्परम् ।। 10.152 ।।
अनादृत्योत्सवं मोहाद्दूरं यायाज्जनो यदि ।
स याति निरयस्थानं प्रेत्य दुःखमिहापि च ।। 10.153 ।।
तस्मादवभृथं यावद्वसेत्तत्रैव नो प्रजेत् ।
ध्वजार्थमङ्कुरा येन न्यस्तास्स यदि कारणात् ।। 10.154 ।।
कुतश्चिदसमर्थो वा मृतो वा देशिकोत्तमः ।
शेषं समापयेदन्यः पुत्रो वा तदनुज्ञया ।। 10.155 ।।
शिष्यो वा यदि वा ब्राता ऋत्विक्वा गुणवत्तरः ।
इति श्रीपाञ्चरात्रे महोपनिषदि पाद्म संहितायां चर्यापादे ध्वजारोहण विधिर्नाम दशमोऽध्यायः
--------*******--------

"https://sa.wikisource.org/w/index.php?title=चर्यापादः/अध्यायः_१०&oldid=206974" इत्यस्माद् प्रतिप्राप्तम्