ऋग्वेदः सूक्तं १.१९०

(ऋग्वेद: सूक्तं १.१९० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१८९ ऋग्वेदः - मण्डल १
सूक्तं १.१९०
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१९१ →
दे. बृहस्पतिः। त्रिष्टुप्।
गुरु-तारा


अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।
गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥१॥
तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।
बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥२॥
उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।
अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥३॥
अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।
मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायाँ अभि द्यून् ॥४॥
ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः ।
न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥५॥
सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥६॥
सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥७॥
एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।
स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥८॥


सायणभाष्यम्

‘अनर्वाणम्' इत्यष्टर्चमेकादशं सूक्तमागस्त्यं बार्हस्पत्यं त्रैष्टुभम् । अनर्वाणं बार्हस्पत्यम्' इत्यनुक्रान्तम् । श्रौतविनियोगो लैङ्गिकः । अत्र शौनकः-- स्नात्वा जपेदनर्वाणं नमस्कृत्य बृहस्पतिम् । वीरान् धनं च प्राप्नोति सोऽश्लोक्यं च नियच्छति' (ऋग्वि. १. १५३-१५४ ) इति ॥


अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।

गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः॑ ॥१

अ॒न॒र्वाण॑म् । वृ॒ष॒भम् । म॒न्द्रऽजि॑ह्वम् । बृह॒स्पति॑म् । व॒र्ध॒य॒ । नव्य॑म् । अ॒र्कैः ।

गा॒था॒न्यः॑ । सु॒ऽरुचः॑ । यस्य॑ । दे॒वाः । आ॒ऽशृ॒ण्वन्ति॑ । नव॑मानस्य । मर्ताः॑ ॥१

अनर्वाणम् । वृषभम् । मन्द्रऽजिह्वम् । बृहस्पतिम् । वर्धय । नव्यम् । अर्कैः ।

गाथान्यः । सुऽरुचः । यस्य । देवाः । आऽशृण्वन्ति । नवमानस्य । मर्ताः ॥ १ ॥

हे होतः "नव्यं नवतरं स्तुत्यं वा तम् "अनर्वाणम् अगन्तारम् । स्तोतुरधीनमित्यर्थः । "वृषभम् अपां फलानां वर्षितारं "मन्द्रजिह्वं मादकवाचं “बृहस्पतिं मन्त्रस्य पालयितारमेतन्नामकं देवम् “अर्कैः अर्चनसाधनैर्मन्त्रैः "वर्धय प्रवृद्धं कुरु । "सुरुचः शोभनदीप्तेः "नवमानस्य स्तूयमानस्य ॥ कर्मणि कर्तृप्रत्ययः ॥ "यस्य बृहस्पतेः ॥ कर्मणि षष्ठ्यः ॥ रोचमानं स्तूयमानं “गाथान्यः । गाथेति वाङ्नाम । स्तुतिवचसो नेतारः "देवाः व्यवहर्तारः "मर्ताः मनुष्याः होत्रादयः । यद्वा । नवमानस्य स्तुवानस्य यजमानस्य संबन्धिनस्ते । "आशृण्वन्ति आश्रावयन्ति पुरा तं बृहस्पतिं वर्धय । अत्र ‘अनर्वाणमप्रत्यृतमन्यस्मिन् ' (निरु. ६. २३ ) इत्यादि निरुक्तं द्रष्टव्यम् ॥


बार्हस्पत्ये पशौ ‘तमृत्वियाः' इत्येषा वपायाज्या । सूत्रितं च- बृहस्पते अति यदर्यो अर्हात्तमृत्विया उप वाचः सचन्ते' (आश्व. श्रौ. ३. ७ ) इति ॥

तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।

बृह॒स्पति॒ः स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त्समृ॒ते मा॑त॒रिश्वा॑ ॥२

तम् । ऋ॒त्वियाः॑ । उप॑ । वाचः॑ । स॒च॒न्ते॒ । सर्गः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ।

बृह॒स्पतिः॑ । सः । हि । अञ्जः॑ । वरां॑सि । विऽभ्वा॑ । अभ॑वत् । सम् । ऋ॒ते । मा॒त॒रिश्वा॑ ॥२

तम् । ऋत्वियाः । उप । वाचः । सचन्ते । सर्गः । न । यः। देवऽयताम् । असर्जि ।

बृहस्पतिः । सः । हि । अञ्जः । वरांसि । विऽभ्वा । अभवत् । सम् । ऋते । मातरिश्वा ॥२॥

“तं बृहस्पतिम् "ऋत्विया वर्षर्तुसंबन्धिन्यः “वाचः माध्यमिकाः “उप "सचन्ते समीपे सेवन्ते । “यः "सर्गो "न उदकस्य स्रष्टापि । नशब्दोऽप्यर्थे । "देवयतां देवानिच्छतां यजमानानाम् "असर्जि फलम् । यद्वा । देवं तमिच्छतां मनुष्याणाम् असर्जि सृष्टवान्वृष्ट्युदकम् । यद्वा । ऋत्वियाः प्राप्तकालीना वाचः होत्रादिप्रेरिता वाचः उप सचन्ते तं यः सर्गो न उदकसृष्टिरिव । "सः स एव "बृहस्पतिः "अञ्जः "हि व्यञ्जकः खलु। तस्मिन् वर्षति सर्वे भवन्ति। अत एव "विभ्वा विभुर्व्याप्तः “मातरिश्वा वृष्टिनिर्मातरि अन्तरिक्षे चेष्टमानो वायुसदृशो वा “वरांसि वरणीयानि वृष्ट्यादिफलानि संपादयन् "ऋते उदके निमित्तभूते सति "सम् "अभवत् संभूतः । अथवा । अञ्जो यज्ञियानां व्यञ्जकः मातरिश्वा फलस्य निर्मातरि यज्ञे श्वसिता वर्तमानः स बृहस्पतिर्ऋते यज्ञे निमित्तभूते सति वरांसि वरणीयानि हवींषीच्छन् विभ्वा विभुः समभवत् ॥


उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत्सवि॒तेव॒ प्र बा॒हू ।

अ॒स्य क्रत्वा॑ह॒न्यो॒३॒॑ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥३

उप॑ऽस्तुतिम् । नम॑सः । उत्ऽय॑तिम् । च॒ । श्लोक॑म् । यं॒स॒त् । स॒वि॒ताऽइ॑व । प्र । बा॒हू इति॑ ।

अ॒स्य । क्रत्वा॑ । अ॒ह॒न्यः॑ । यः । अस्ति॑ । मृ॒गः । न । भी॒मः । अ॒र॒क्षसः॑ । तुवि॑ष्मान् ॥३

उपऽस्तुतिम् । नमसः । उत्ऽयतिम् । च । श्लोकम् । यंसत् । सविताऽइव।प्र। बाहू इति ।

अस्य । क्रत्वा । अहन्यः । यः । अस्ति । मृगः । न । भीमः । अरक्षसः । तुविष्मान् ॥३॥

अयं बृहस्पतिः “उपस्तुतिं यजमानेनोपेत्य क्रियमाणां स्तुतिं "नमसः हविर्लक्षणस्यान्नस्य “उद्यतिम् उद्धारं "च “श्लोकम् अन्यो यो मन्त्रविशेषोऽस्ति तं च “प्र “यंसत् प्रकर्षेण यतते स्वीकर्तुम् । यजमानो वा तत्सर्वं प्रयच्छत्यस्मै । तत्र दृष्टान्तः । "सवितेव सूर्य इव । स यथा स्तोत्रादिकं स्वीकरोति तद्वत् । यजमानप्रदानपक्षे सविता सर्वस्य प्रसविता सूर्य इव । स यथा बाहुभ्यः प्रकाशादि प्रयच्छति तद्वत् “बाहू बाहुभ्यां यजमानोऽपीत्यर्थः। तस्य महत्त्वमाह । "अरक्षसः स्वविरोधिरक्षोरहितस्य "अस्य बृहस्पतेः "क्रत्वा कर्मणा सामर्थ्येन "अहन्यः अह्नि साधुः "यः सूर्यः "अस्ति सः "भीमः “न "मृगः इव भयजनकः सिंहादिरिव भीमो भयहेतुः "तुविष्मान् बलवान् परिभ्रमतीति शेषः । यस्य माहात्म्येन मन्त्राभिमानिनो बृहस्पतेः सामर्थ्यात् मन्देहाद्यसुराञ्जित्वातितेजस्वी भवति तादृशो महानुभावो यजमानदत्तं हविरादिकं स्वीकरोतीत्यर्थः ॥


अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद्यक्ष॒भृद्विचे॑ताः ।

मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥४

अ॒स्य । श्लोकः॑ । दि॒वि । ई॒य॒ते॒ । पृ॒थि॒व्याम् । अत्यः॑ । न । यं॒स॒त् । य॒क्ष॒ऽभृत् । विऽचे॑ताः ।

मृ॒गाणा॑म् । न । हे॒तयः॑ । यन्ति॑ । च॒ । इ॒माः । बृह॒स्पतेः॑ । अहि॑ऽमायान् । अ॒भि । द्यून् ॥४

अस्य । श्लोकः । दिवि । ईयते । पृथिव्याम् । अत्यः । न । यंसत् । यक्षऽभृत् । विऽचेताः ।

मृगाणाम् । न । हेतयः । यन्ति । च । इमाः । बृहस्पतेः । अहिऽमायान् । अभि । द्यून् ॥४॥

“अस्य बृहस्पतेः “श्लोकः स्तुत्यात्मिका कीर्तिः गर्जितवाक् वा "दिवि द्योतमाने द्युलोके पृथिव्यां च “ईयते गच्छति व्याप्नोति । यो बृहस्पतिः "अत्यो “न अतनशील आदित्य इव “यक्षभृत् पूजितं हविरादिकं दधानः "विचेताः विविधं चेतयिता प्राणिनां विशिष्टप्रज्ञायुक्तो वा "यंसत् नियच्छति फलम् । किंच "मृगाणां हन्तुमन्विष्यतां "हेतयः न आयुधानीवास्य “बृहस्पतेः “इमाः हेतयो हिंस्राणि आयुधानि "यन्ति गच्छन्ति "च ॥ ‘चवायोगे प्रथमा ' इति न निघातः । "अहिमायान् आगत्य हन्त्र्योऽन्तरिक्षचारिण्यो वा माया येषां वृत्रादीनां तानसुरान् “द्यून दिवसान् ।' कालाध्वनोः०' (पा. सू. २. ३. ५) इति द्वितीया ॥ तान्यायुधानि “अभि लक्षयन्ति च ।। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ।।


ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।

न दू॒ढ्ये॒३॒॑ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया॑रुम् ॥५

ये । त्वा॒ । दे॒व॒ । उ॒स्रि॒कम् । मन्य॑मानाः । पा॒पाः । भ॒द्रम् । उ॒प॒ऽजीव॑न्ति । प॒ज्राः ।

न । दुः॒ऽध्ये॑ । अनु॑ । द॒दा॒सि॒ । वा॒मम् । बृह॑स्पते । चय॑से । इत् । पिया॑रुम् ॥५

ये। त्वा । देव । उस्रिकम् । मन्यमानाः । पापाः । भद्रम् । उपऽजीवन्ति । पज्राः ।

न। दुःऽध्ये । अनु । ददासि । वामम् । बृहस्पते । चयसे । इत् । पियारुम् ॥ ५ ॥

हे "देव बृहस्पते “ये "पापाः पापबुद्धयोऽल्पाः "पज्राः हविर्लक्षणान्नवन्तः पापेन जीर्णा वा नराः “भद्रं कल्याणं “वा त्वाम् “उस्रिकम् । उस्रियेति गोनाम । कुत्सितामल्पक्षीरोत्स्राविणीं गां जीर्णमनड्वाहं वा 'मन्यमानाः “उपजीवन्ति उपेत्य प्राणन्ति अल्पं याचन्ते इत्यर्थः। दूढये दुर्धिये ॥ वचनव्यत्ययः ।। दुर्बुद्धिभ्यस्तेभ्यः "वामं वननीयं धनं "न “अनु "ददासि अनुकूलं न वितरसि । हे “बृहस्पते देव "पियारुं सोमपानशीलं सोमेन यष्टारं महाफलरिप्सुं तु "चयसे “इत् गच्छस्येवानुग्रहीतुम् ॥ ‘चय गतौ ' इत्यस्येदं रूपम् ॥ यद्वा । हे बृहस्पते पियारुं हिंसकम् ॥ पीयतेर्हिंसाकर्मणः इदं रूपम् ॥ तं प्राणिहिंसकं चयसे इत् । हंस्येव । बृहस्पते यच्चातयसि देवपीयुम् (निरु. ४. २५) इति निरुक्तम् ॥ ॥ १२ ॥


सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तु॒ः परि॑प्रीतो॒ न मि॒त्रः ।

अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥६

सु॒ऽप्रैतुः॑ । सु॒ऽयव॑सः । न । पन्थाः॑ । दुः॒ऽनि॒यन्तुः॑ । परि॑ऽप्रीतः । न । मि॒त्रः ।

अ॒न॒र्वाणः॑ । अ॒भि । ये । चक्ष॑ते । नः॒ । अपि॑ऽवृताः । अ॒प॒ऽऊ॒र्णु॒वन्तः॑ । अ॒स्थुः॒ ॥६

सुप्रैतुः । सुऽयवसः । न । पन्थाः । दुःऽनियन्तुः । परिऽप्रीतः । न । मित्रः ।

अनर्वाणः । अभि। ये। चक्षते । नः । अपिऽवृताः । अपऽऊर्णवन्तः । अस्थुः ॥ ६ ॥

हे बृहस्पते त्वं "सुप्रैतुः सुष्ठु गन्तुर्मनुष्यस्य "सुयवसः शोभनान्नस्य "पन्थाः "न मार्गं इव सुष्ठु यज्ञमार्गगामिनः सुयवसः पन्था इव सुखकारी भवेत्यर्थः । किंच "दुर्नियन्तुः दुःखेन नियमितुः राज्ञः "परिप्रीतः सर्वप्रकारेण संतुष्टो द्वेषादिरहितः "मित्रः "न सुहृन्मन्त्रीव । स यथा दुर्नयात् निवर्तयति तद्वत् त्वमपि तथा अस्मभ्यं कुर्वित्यर्थः । सखिवत् अमार्गान्निवर्त्य मार्गे यज्ञादिरूपे योजयित्वा तत्रापि फलप्रदो भवेत्यर्थः । किंच "अनर्वाणः अपापाः "ये नराः “नः अस्मान् "अभि आभिमुख्येन “चक्षते बोधयन्ति ते "अपीवृताः अज्ञानेनावृता अपि “अपोर्णुवन्तः अपगतावरणवन्तो ज्ञानवन्तः "अस्थुः तिष्ठन्तु । यद्वा । अनर्वाणस्त्वामप्राप्नुवन्तो येऽस्मद्विरोधिनो नोऽस्मानभि चक्षते अभिवदन्ति निन्दन्ति तेऽपीवृता आच्छादित रक्षिता अपि अपोर्णुवन्तः अपगतरक्षणा भवन्ति ॥


‘सं यं स्तुभः' इत्येषा बार्हस्पत्ये पशौ पुरोडाशस्य याज्या । सूत्रितं च- सं यं स्तुभोऽवनयो न यन्त्येवा पित्रे' ( आश्व. श्रौ. ३. ७ ) इति ।।

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।

स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ॥७

सम् । यम् । स्तुभः॑ । अ॒वन॑यः । न । यन्ति॑ । स॒मु॒द्रम् । न । स्र॒वतः॑ । रोध॑ऽचक्राः ।

सः । वि॒द्वान् । उ॒भय॑म् । च॒ष्टे॒ । अ॒न्तः । बृह॒स्पतिः॑ । तरः॑ । आपः॑ । च॒ । गृध्रः॑ ॥७

सम् । यम् । स्तुभः । अवनयः । न । यन्ति । समुद्रम् । न । स्रवतः । रोधऽचक्राः ।।

सः । विद्वान् । उभयम् । चष्टे । अन्तः । बृहस्पतिः। तरः । आपः । च । गृध्रः ॥ ७ ॥

“यं बृहस्पतिं “स्तुभः स्तोत्राणि "अवनयो "न सर्वा अवनयो भूमयो मनुष्या यथा स्वामिनं कर्म प्रति वा "सं "यन्ति संगच्छन्ति तद्वत् तथा "समुद्रं “रोधचक्राः । नदीनामैतत् । रोधनशीलानि चक्राणि यासु तास्तादृश्यः कूलं क्रममाणाः वा "स्रवतः स्रवन्त्यो नद्यो यथा यन्ति तद्वत् सर्वा अपि स्तुतयो यमेव प्राप्नुवन्ति “गृध्रः गर्धनशीलो वृष्टिमाकाङ्क्षमाणः "सः “बृहस्पतिः "विद्वान् वक्ष्यमाणाभिज्ञः “तरः तरणं जलाभिवृद्धिम् "आपः उदकानि “च उभयम् “अन्तः मध्ये स्थित्वा चष्टे पश्यति करोतीत्यर्थः ॥


ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥८

ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः ।

सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥८

एव । महः । तुविऽजातः । तुविष्मान् । बृहस्पतिः । वृषभः । धायि । देवः ।।

सः । नः । स्तुतः । वीरऽवत् । धातु । गोऽमत् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥८॥

“महः महान् "तुविजातः बह्वर्थमुत्पन्नः "तुविष्मान् बलवान् "वृषभः अपां वर्षिता "देवः "बृहस्पतिः “एव एवं स्तुतिप्रकारेण “धायि धीयते स्तूयते इत्यर्थः । "सः "स्तुतः देवः “नः अस्माकं “वीरवत् पुत्राद्युपेतं "गोमत् गोभिर्युक्तं फलं “धातु करोत्वित्यर्थः । विद्याम इति गतम् ॥ ॥ १३ ॥



मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१९०&oldid=314268" इत्यस्माद् प्रतिप्राप्तम्