ऋग्वेदः सूक्तं १.१९१
← सूक्तं १.१९० | ऋग्वेदः - मण्डल १ सूक्तं १.१९१ अगस्त्यो मैत्रावरुणिः |
दे. अप्तृणसूर्याः (विषघ्नोपनिषद्)। अनुष्टुप्, १०-१२ महापङ्क्तिः, १३ महाबृहती। |
कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥१॥
अदृष्टान्हन्त्यायत्यथो हन्ति परायती ।
अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥२॥
शरासः कुशरासो दर्भासः सैर्या उत ।
मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥३॥
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
नि केतवो जनानां न्यदृष्टा अलिप्सत ॥४॥
एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव ।
अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥५॥
द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥६॥
ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः ।
अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥७॥
उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः ॥८॥
उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् ।
आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥९॥
सूर्ये विषमा सजामि दृतिं सुरावतो गृहे ।
सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१०॥
इयत्तिका शकुन्तिका सका जघास ते विषम् ।
सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥११॥
त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ।
ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१२॥
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥१३॥
त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥१४॥
इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना ।
ततो विषं प्र वावृते पराचीरनु संवतः ॥१५॥
कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥१६॥
सायणभाष्यम्
‘कङ्कतः' इति षोडशर्चं द्वादशं सूक्तम् । ऋषिरगस्त्यः । अप्तृणसूर्यास्त्रयो देवताः । त्रिष्टुप् छन्दः। ‘सूर्ये विषम्' इत्याद्यास्तिस्रो महापङ्क्तयः। ‘अष्टकौ सप्तकः षट्को दशको नवकश्च' (अनु. १०. ३) इत्युक्तलक्षणोपेतत्वात् । ‘नवानाम्' इत्येषा त्रयोदशी महाबृहती। चत्वारोऽष्टका जागतश्च महाबृहती ' (अनु. ९. ९) इति ह्युक्तम् । अत्र यद्यपि अक्षराणि न्यूनानि तथापि व्यूहेन पूरणीयानि । अत्रानुक्रमणिका- कङ्कतः षोळशोपनिषदानुष्टुभमप्तृणसौर्यं विषशङ्कावानगस्त्यः प्राब्रवीद्दशम्याद्याश्च तिस्रो महापङ्क्तयो महाबृहती च' इति । उपनिषदिति रहस्यमित्यर्थः । विषशङ्कायुक्तोऽगस्त्यः तत्परिहाराय इदमुक्तवान् । श्रौतस्य विशेषविनियोगो लैङ्गिकः । अत्र शौनकः- कङ्कतो नेति सूक्तं तु विषार्तः प्रयतो जपेत् । विषं न क्रमते चास्य सर्पाद्दृष्टिविषादपि ॥ यत् कीटलूतासु विषं दंष्ट्रिवृश्चिकतश्च यत् । मूलं च कृत्रिमं चैव जपन्सर्वमपोहति ' ( ऋग्वि. १. १५४,-१ ५६ ) इति ।।
कङ्क॑तो॒ न कङ्क॒तोऽथो॑ सती॒नक॑ङ्कतः ।
द्वाविति॒ प्लुषी॒ इति॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥१
कङ्क॑तः । न । कङ्क॑तः । अथो॒ इति॑ । स॒ती॒नऽक॑ङ्कतः ।
द्वौ । इति॑ । प्लुषी॒ इति॑ । इति॑ । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥१
कङ्कतः । न । कङ्कतः । अथो इति । सतीनऽकङ्कतः ।।
द्वौ । इति । प्लुषी इति । इति । नि । अदृष्टाः । अलिप्सत् ॥ १ ॥
“कङ्कतः अल्पविषः कश्चित् “न “कङ्कतः तद्विपरीतोऽनल्पविषो महोरगादिः ॥ तकतेर्गत्यर्थस्य वर्णव्यत्ययेन कङ्कत इति सरन् भवति । “अथो अपि च “सतीनकङ्कतः । सतीनमित्युदकनाम 'सतीनं गहनम्' (नि. १. १२.५९) इति तन्नामसु पाठात् । उदकचारी अल्पविषवान् कश्चिद्दुन्दुभादिः । एवं “द्वाविति अल्पविषमहाविषभेदेन जलस्थलभेदेन वा द्विप्रकाराविति। “प्लुषी "इति प्लोषणाविति । प्रकारद्वैविध्यदाहकत्वयोः प्रतिपादनाय इतिकारद्वयम् । तथा “अदृष्टाः अदृश्यमानरूपा एतत्संज्ञकाश्च केचिद्विषधराः एवमुक्तप्रकारा ये सन्ति ते नूनं मां “नि अलिप्सत विशेषेण लिम्पन्ति । सर्वाण्यङ्गानि विषमावृणोति । केन एवं कृतमिति न ज्ञायते इति भावः ॥
अ॒दृष्टा॑न्हन्त्याय॒त्यथो॑ हन्ति पराय॒ती ।
अथो॑ अवघ्न॒ती ह॒न्त्यथो॑ पिनष्टि पिंष॒ती ॥२
अ॒दृष्टा॑न् । ह॒न्ति॒ । आ॒ऽय॒ती । अथो॒ इति॑ । ह॒न्ति॒ । प॒रा॒ऽय॒ती ।
अथो॒ इति॑ । अ॒व॒ऽघ्न॒ती । ह॒न्ति॒ । अथो॒ इति॑ । पि॒न॒ष्टि॒ । पिं॒ष॒ती ॥२
अदृष्टान् । हन्ति । आऽयती । अथ इति । हन्ति । पराऽयती ।
अथो इति । अवऽघ्नती । हन्ति । अथो इति । पिनष्टि । पिंषती ॥ २ ॥
अनेन विषघ्न्योषधिः स्तूयते । “आयती विषदष्टस्य सकाशमागच्छन्ती विषनिर्हरणसाधनौषधिः “अदृष्टान् अदृश्यमानान्विषधरान् “हन्ति हिनस्ति । “अथो अपि च “परायती परागच्छन्ती संमार्जनसमये अर्वाक्प्रवृत्ता “हन्ति नाशयति जलचरविषधरान् । अथो अपि च अवघ्नती । कर्मणि कर्तृप्रत्ययः ॥ अवहन्यमानौषधिः स्वगन्धेन हन्ति बहुविषान् । यद्वा । काचिदोषधिर्दंशकान्मारयत्येव । “अथो अपि च “पिंषती पेषणकर्त्री दृषत्पिष्यमाणा वौषधिः “पिनष्टि चूर्णीकरोत्यल्पविषान् । अथवा सर्वेषु वाक्येष्वविशेषेण सर्वविषकारिणां नाश उक्तः ।।
श॒रास॒ः कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त ।
मौ॒ञ्जा अ॒दृष्टा॑ वैरि॒णाः सर्वे॑ सा॒कं न्य॑लिप्सत ॥३
श॒रासः॑ । कुश॑रासः । द॒र्भासः॑ । सै॒र्याः । उ॒त ।
मौ॒ञ्जाः । अ॒दृष्टाः॑ । वै॒रि॒णाः । सर्वे॑ । सा॒कम् । नि । अ॒लि॒प्स॒त॒ ॥३
शरासः । कुशरासः । दर्भासः । सैर्याः । उत ।
मौञ्जाः । अदृष्टाः । वैरिणाः । सर्वे । साकम् । नि । अलिप्सत ॥ ३ ॥
अन्यांश्च विषहेतूनाह । “शरासः शरा वेणुदण्डसदृशा अन्तश्छिद्रास्तृणविशेषाः । “कुशरासः कुत्सितशराः अन्तश्छिद्राः शरसदृशास्तृणविशेषाः । “दर्भासः दर्भाः कुशाः । "सैर्याः तटाकादिप्रान्तोद्भवास्तृणविशेषा अश्ववाला इति प्रसिद्धाः। “मौञ्जाः मुञ्जाः प्रसिद्धाः । वैरिणाः वीरणप्रकाराः। एतेषु वर्तमानाः अदृष्टाः उक्तरूपाः “सर्वे विषधराः “साकं मिलित्वा “न्यलिप्सत निलिम्पन्ति स्म ॥
नि गावो॑ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो॑ अविक्षत ।
नि के॒तवो॒ जना॑नां॒ न्य१॒॑दृष्टा॑ अलिप्सत ॥४
नि । गावः॑ । गो॒ऽस्थे । अ॒स॒द॒न् । नि । मृ॒गासः॑ । अ॒वि॒क्ष॒त॒ ।
नि । के॒तवः॑ । जना॑नाम् । नि । अ॒दृष्टाः॑ । अ॒लि॒प्स॒त॒ ॥४
नि । गावः । गोऽस्थे । असदन् । नि । मृगासः। अविक्षत ।।
नि । केतवः । जनानाम् । नि । अदृष्टाः । अलिप्सत ।। ४ ।।
“गावो “गोष्ठे “नि असदन् निषीदन्ति । “मृगासः मृगाः "नि अविक्षत निविष्टाः । स्वस्वस्थाने उपरताः । “जनानां प्राणिनां “केतवः प्रज्ञानानि “नि । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ।। नीचान्यभवन् । एते अस्मिन्समये “अदृष्टाः अदृश्यमानरूपाः सन्तः “नि “अलिप्सत निलिम्पन्ति विशेषेण ॥
ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव ।
अदृ॑ष्टा॒ विश्व॑दृष्टा॒ः प्रति॑बुद्धा अभूतन ॥५
ए॒ते । ऊं॒ इति॑ । त्ये । प्रति॑ । अ॒दृ॒श्र॒न् । प्र॒ऽदो॒षम् । तस्क॑राःऽइव ।
अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । प्रति॑ऽबुद्धाः । अ॒भू॒त॒न॒ ॥५
एते । ऊँ इति । त्ये । प्रति । अदृश्रन् । प्रऽदोषम् । तस्कराःऽइव ।।
अदृष्टाः । विश्वऽदृष्टाः । प्रतिऽबुद्धाः । अभूतन ॥ ५ ॥
“त्ये एते “ते सर्पाः प्रत्यदृश्रन् प्रतिदृश्यन्ते रात्रौ श्वासादिलिङ्गेन । यद्वा । ते रात्रौ हन्तारो दिवा एते प्रतिदृश्यन्ते । तत्र दृष्टान्तः । “प्रदोषम् । रात्रिर्दोषा । रात्रिं प्रति तमसाभिभूतासु रात्रिषु “तस्कराइव हिंसकाश्चौरा दृश्यन्ते यथा तद्वत् । कीदृशास्ते । “अदृष्टाः अपरिदृश्यमानाः “विश्वदृष्टाः विश्वं दृष्टं यैस्ते तादृशाः प्रतिदृश्यन्ते । अतो हे नराः “प्रतिबुद्धा “अभूतन भवत ॥ ॥ १४ ॥
द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑ति॒ः स्वसा॑ ।
अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क॑म् ॥६
द्यौः । वः॒ । पि॒ता । पृ॒थि॒वी । मा॒ता । सोमः॑ । भ्राता॑ । अदि॑तिः । स्वसा॑ ।
अदृ॑ष्टाः । विश्व॑ऽदृष्टाः । तिष्ठ॑त । इ॒ळय॑त । सु । क॒म् ॥६
द्यौः । वः। पिता । पृथिवी । माता। सोमः । भ्राता । अदितिः । स्वसा ।
अदृष्टाः । विश्वऽदृष्टाः । तिष्ठत । इलयत । सु । कम् ॥ ६ ॥
अतःपरं विषविचिकित्सा । तत्र तावत् हे सर्पाः “वः युष्माकं “द्यौः “पिता। “पृथिवी “माता । “सोमो “भ्राता । “अदितिः देवमाता “स्वसा। एवंमहानुभावा महोरगाः “अदृष्टाः अन्यैरदृश्यमानरूपाः स्वयं तु “विश्वदृष्टाः सर्वस्य द्रष्टारो यूयं “तिष्ठत स्वस्वस्थाने। मां प्रति मा गच्छत । "सु सुतरां “कं सुखं यथा तथा “इलयत ईरयत गच्छत । सोमशब्देन सोमाधारो द्युलोक उच्यते । पृथिव्यन्तरिक्षद्युस्थानस्थाः सर्पाः स्वस्वस्थानं प्राप्नुत अस्मद्बाधं मा कुरुतेत्यर्थः ॥
ये अंस्या॒ ये अङ्ग्याः॑ सू॒चीका॒ ये प्र॑कङ्क॒ताः ।
अदृ॑ष्टा॒ः किं च॒नेह व॒ः सर्वे॑ सा॒कं नि ज॑स्यत ॥७
ये । अंस्याः॑ । ये । अङ्ग्याः॑ । सू॒चीकाः॑ । ये । प्र॒ऽक॒ङ्क॒ताः ।
अदृ॑ष्टाः । किम् । च॒न । इ॒ह । वः॒ । सर्वे॑ । सा॒कम् । नि । ज॒स्य॒त॒ ॥७
ये। अंस्याः । ये । अङ्ग्याः । सूचीकाः । ये । प्रऽकङ्कताः ।
अदृष्टाः । किम् । चन । इह । वः । सर्वे । साकम् । नि । जस्यत ॥ ७ ॥
“ये “अंस्याः अंसार्हाः अंसगाः अंसे भवा अंसाभ्यां खादन्तो वा । तथा “ये "अङ्ग्याः अङ्गगा अङ्गेन शरीरेण हन्तारो वा लूतिकादयः । “सूचीकाः सूचीसदृशपुच्छरोमाणो वृश्चिकाद्याः । ये च “प्रकङ्कताः प्रकृष्टविषाः प्रकृष्टगामिनो वा महोरगाः “अदृष्टाः अदृश्यमानाः “किं “चन यत्किंचित्सर्पजातमस्ति । “इह अस्मिन् समीपे “वः युष्माकं किमस्ति । अतो यूयं “सर्वे “साकं सह नितरां “जस्यत मुञ्चत अस्मान् ॥ ‘जसु मोक्षणे' । दैवादिकः ॥
उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा ।
अ॒दृष्टा॒न्सर्वा॑ञ्ज॒म्भय॒न्सर्वा॑श्च यातुधा॒न्यः॑ ॥८
उत् । पु॒रस्ता॑त् । सूर्यः॑ । ए॒ति॒ । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ।
अ॒दृष्टा॑न् । सर्वा॑न् । ज॒म्भय॑न् । सर्वाः॑ । च॒ । या॒तु॒ऽधा॒न्यः॑ ॥८
उत् । पुरस्तात् । सूर्यः । एति । विश्वऽदृष्टः । अदृष्टऽहा ।।
अदृष्टान् । सर्वान् । जम्भयन् । सर्वाः । च । यातुऽधान्यः ॥ ८ ॥
असौ सूर्यः “पुरस्तात् पूर्वस्यां दिशि “उत् “एति । कीदृशः सः । “विश्वदृष्टः । विश्वे द्रष्टव्या यस्य स तादृशः । “अदृष्टहा । अदृष्टा विषविशेषा विषधरविशेषा वा । तेषां हन्ता । यद्वा । अदृष्टमदर्शनमज्ञानमन्धकारः । तस्य हन्ता । सूर्ये उदिते सति सर्वे विषधरा विषाणि वा पलायन्ते । किं कुर्वन्नुदेति इति चेत् उच्यते । “सर्वान् “अदृष्टान् अद्रष्टव्यान्विषराक्षसादीन् जम्भयन् हिंसयन् । तथा “सर्वाः “यातुधान्यः । यातवो यातनास्तीव्रवेदनाः । तासां धात्रीरुत्पादयित्रीर्महोरगीः राक्षसीर्वा जम्भयन पुरस्तादुदेति । अतोऽस्मत्तो नि जस्यत इति संबन्धः ॥
उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा॑नि॒ जूर्व॑न् ।
आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ॥९
उत् । अ॒प॒प्त॒त् । अ॒सौ । सूर्यः॑ । पु॒रु । विश्वा॑नि । जूर्व॑न् ।
आ॒दि॒त्यः । पर्व॑तेभ्यः । वि॒श्वऽदृ॑ष्टः । अ॒दृ॒ष्ट॒ऽहा ॥९
उत् । अपप्तत् । असौ । सूर्यः । पुरु। विश्वानि । जूर्वन् ।
आदित्यः । पर्वतेभ्यः । विश्वऽदृष्टः । अदृष्टऽहा ॥ ९ ॥
“असौ पुरस्तात् दृश्यमानः “सूर्यः सर्वस्य प्रेरकः आदित्यः “उदपप्तत् ऊर्ध्वं गच्छति ॥ पततेर्लुङि पुमागमे रूपम् ॥ किं कुर्वन् । “विश्वानि बहूनि विषाणि “पुरु प्रभूतं “जूर्वन् हिंसन् । कीदृशोऽसौ । “पर्वतेभ्यः पर्ववद्भ्यः प्राणिभ्यः तेषामुपकाराय “आदित्यः विपोदकादीनामदनशीलः “विश्वदृष्टः विश्वं दृष्टं येन तादृशः “अदृष्टहा अदृष्टानां विषविशेषाणां हन्ता । एवंमहानुभावः सूर्यः ऊर्ध्वमारोहति । अतो विषशङ्का न कार्या ॥
सूर्ये॑ वि॒षमा स॑जामि॒ दृतिं॒ सुरा॑वतो गृ॒हे ।
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१०
सूर्ये॑ । वि॒षम् । आ । स॒जा॒मि॒ । दृति॑म् । सुरा॑ऽवतः । गृ॒हे ।
सः । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥१०
सूर्ये । विषम् । आ । सजामि । दृतिम् । सुराऽवतः । गृहे ।
सः । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला। चकार ॥ १० ॥
आदित्यमण्डले चतुर्थेनाङ्गुलिना विषमादाय मधुकृत्य योजयित्वा निर्विषो भवेदिति यदेतद्विषविद्यायामुक्तं तदिदमत्रोच्यते । अहं विषावृतोऽगस्त्यः “सूर्ये सर्वस्य प्रेरयितरि मधुविद्यारूपे सूर्यमण्डले “विषम् आवृत्य वर्तमानं सूर्ये “आ “सजामि आसक्तं करोमि । तत्र दृष्टान्तः । “सुरावतो “गृहे सुरानिर्मातृसदने “दृतिम् इव चर्ममयं सुरापात्रमिव । यथा तत्कर्तुः न दोषाय भवति तद्वद्विषम् आदित्यस्य न बाधकमित्यर्थः । “सो “चित् । चित् पूजायाम् । नुः प्रसिद्धौ । पूज्यः सः सूर्यः खलु न मराति न म्रियते । "नो “वयं “मराम । तदनुग्रहात्तत्रैव विषस्य योजितत्वात् वयमपि न म्रियामहे । उभयोरमरणे कारणमाह । “हरिष्ठाः । हरयोऽश्वाः । तेषु स्थित आदित्यः "आरे दूरे “अस्य विषस्य “योजनं प्रापणं चकार । तदेवाच्यते । हे विष “त्वा त्वां “मधु अमृतं “चकार । विषस्य विषभावं दूरेऽपनोद्य अमृतीचकारेति । एषैव “मधुला मधुदात्री निर्विषीकर्त्री मधुविद्या । यदेतदादित्यस्य विषयोजनं तेन च अमृतीकरणं यदस्ति एषा मधुविद्या ॥ ॥ १५ ॥
इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् ।
सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥११
इ॒य॒त्ति॒का । श॒कु॒न्ति॒का । स॒का । ज॒घा॒स॒ । ते॒ । वि॒षम् ।
सो इति॑ । चि॒त् । नु । न । म॒रा॒ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥११
इयत्तिका । शकुन्तिका । सका । जघास । ते । विषम् ।
सो इति । चित् । नु । न । मराति । नो इति । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ ११ ॥
“इयत्तिका इयत्तां कुर्वाणा इयत्तावती वा । बालेत्यर्थः । “शकुन्तिका । शकुन्तः शकुनः । तस्य स्त्री । तां कपिञ्जलीमाहुः । “सका सा “ते तव “विषं “जघास भक्षितवती । सा विषहर्त्रीति प्रसिद्धा । “सो “चित् ॥ सा उ इति निपातसमुदायः एकं पदम् । सापि शकुन्तिका न म्रियते नित्यप्रतिपक्षत्वाद्विषस्य । शिष्टं व्याख्यातचरम् । अनेन विद्यायां यद्देहावृतं विषं तस्य शकुनेभ्यः आदित्याय च प्रदानमस्तीत्युक्तं भवति ।
त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् ।
ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१२
त्रिः । स॒प्त । वि॒ष्पु॒लि॒ङ्ग॒काः । वि॒षस्य॑ । पुष्य॑म् । अ॒क्ष॒न् ।
ताः । चि॒त् । नु । न । म॒र॒न्ति॒ । नो इति॑ । व॒यम् । म॒रा॒म॒ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥१२
त्रिः । सप्त । विष्पुलिङ्गकाः । विषस्य । पुष्यम् । अक्षन् ।
ताः । चित् । नु । न । मरन्ति । नो इतिं । वयम् । मराम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ १२ ॥
“त्रिः “सप्त त्रिगुणिताः सप्तसंख्याकाः विष्पुलिङ्गकाः विविधाः विष्पुलिङ्गकाः । सप्तसु जिह्वासु लोहितशुक्लकृष्णभेदेन एकविंशतिर्यासां ताः। यद्वा । त्रिः सप्त एकविंशतिभेदा विष्पुलिङ्गकाः सूक्ष्मचटकिका विषप्रतिपक्षभूताः । “विषस्य अस्मदावरकस्य पुष्यं पोषम् “अक्षन् अदन्तु नाशयन्तु । “ताः च “न “मरन्ति न “वयम् अपि । शिष्टमविशिष्टम् ॥
न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् ।
सर्वा॑सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ॥१३
न॒वा॒नाम् । न॒व॒ती॒नाम् । वि॒षस्य॑ । रोपु॑षीणाम् ।
सर्वा॑साम् । अ॒ग्र॒भ॒म् । नाम॑ । आ॒रे । अ॒स्य॒ । योज॑नम् । ह॒रि॒ऽस्थाः । मधु॑ । त्वा॒ । म॒धु॒ला । च॒का॒र॒ ॥१३
नवानाम् । नवतीनाम् । विषस्य । रोपुषीणाम् ।
सर्वासाम् । अग्रभम् । नाम । आरे । अस्य । योजनम् । हरिऽस्थाः । मधु । त्वा । मधुला । चकार ॥ १३ ॥
“नवानां “नवतीनां नवाधिकानां नवतिसंख्याकानां नदीनाम् । पुनः कीदृशीनाम् । “विषस्य अस्मद्व्यापकस्य सर्वस्य विषस्य “रोपुषीणां लोपयित्रीणां छेत्त्रीणाम् । “सर्वासाम् उक्तानां गङ्गादिनदीनां “नाम अग्रभं गृह्णामि संकीर्तयामि ॥ गृहेश्छन्दसे लुङि छान्दसः च्लेर्लुक् । हृग्रहोर्भः ॥ अस्य योजनमित्यादि गतम् ॥
त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा॑रो अ॒ग्रुवः॑ ।
तास्ते॑ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी॑रिव ॥१४
त्रिः । स॒प्त । म॒यू॒र्यः॑ । स॒प्त । स्वसा॑रः । अ॒ग्रुवः॑ ।
ताः । ते॒ । वि॒षम् । वि । ज॒भ्रि॒रे॒ । उ॒द॒कम् । कु॒म्भिनीः॑ऽइव ॥१४
त्रिः । सप्त । मयूर्यः । सप्त । स्वसारः । अग्रुवः ।
ताः । ते । विषम् । वि । जभ्रिरे । उदकम् । कुम्भिनीःऽइव ॥ १४ ॥
“त्रिः सप्त एकविंशतिसंख्याकाः मयूर्यः मयूरस्त्रियः । ता विषकारिसर्पद्वेषिण्यः इति प्रसिद्धाः नागद्वेषिगरुडपक्षादुत्पन्नत्वात् । तथा “सप्त एतसंख्याकाः सर्पणस्वभावाः “स्वसारः स्वयमेव सरणाः “अग्रुवः । नदीनामैतत् । सुरगङ्गाद्याः प्रसिद्धाः सप्त नद्यः सन्ति । “तास्ते हे देह तव “विषं “वि “जभ्रिरे विशेषेण हरन्तु । तत्र दृष्टान्तः । “उदकं “कुम्भिनीः कुम्भिन्यः कुम्भवत्यः कुम्भेन जलहारिण्यः “इव । ता यथा तद्धरन्ति तद्वत् नद्यो मयूर्यश्च अतिप्रभूतं हरन्तु ॥
इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना ।
ततो॑ वि॒षं प्र वा॑वृते॒ परा॑ची॒रनु॑ सं॒वतः॑ ॥१५
इ॒य॒त्त॒कः । कु॒षु॒म्भ॒कः । त॒कम् । भि॒न॒द्मि॒ । अश्म॑ना ।
ततः॑ । वि॒षम् । प्र । व॒वृ॒ते॒ । परा॑चीः । अनु॑ । स॒म्ऽवतः॑ ॥१५
इयत्तकः । कुषुम्भकः । तकम् । भिनद्मि। अश्मना ।
ततः । विषम् । प्र । ववृते । पराचीः । अनु । सम्ऽवतः ॥ १५ ॥
“इयत्तकः कुत्सितेयत्तः अल्पप्रमाण इत्यर्थः । “कुषुम्भकः कुं पृथ्वीं सुम्भति विलिखतीति सर्पाणां कुत्सितं सुम्भयिता निग्रहीता' कुषुम्भको नकुलः । स ते विषं हरत्विति शेषः । यदि न तथा स करोति “तकं कुत्सितं तं नकुलम् “अश्मना “भिनद्मि विदारयामि । विषनिर्हरणप्रयोगे यावद्विषापगमं तं पाषाणानुघातमनुतिष्ठन्ति तद्विदः । तदिदमत्रोक्तम् । “ततः एवं प्रयोगे सति “विषं “प्र “वावृते विषावृताद्देहात् विषं प्रवर्तते निर्गच्छतु । काः प्रति । उच्यते । “पराचीः परागञ्चनवतीः अतिदूरगाः “संवतः संविभागवतो दिशः “अनु लक्षीकृत्य दिगन्तं प्रति गच्छतु न मां प्रति गच्छत्वित्यर्थः ॥
अध्यायोपाकरणोत्सर्गयोः ‘कुषुम्भकस्तत्' इत्यन्त्या विनियुक्ता। ' दधिसक्तूञ्जुहोति' इत्युपक्रम्य ' कुषुम्भकस्तदब्रवीत् ' ( आश्व. गृ. ३. ५, ७ ) इति सूत्रितत्वात् ॥
कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः ।
वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ॥१६
कु॒षु॒म्भ॒कः । तत् । अ॒ब्र॒वी॒त् । गि॒रेः । प्र॒ऽव॒र्त॒मा॒न॒कः ।
वृश्चि॑कस्य । अ॒र॒सम् । वि॒षम् । अ॒र॒सम् । वृ॒श्चि॒क॒ । ते॒ । वि॒षम् ॥१६
कुषुम्भकः । तत् । अब्रवीत् । गिरेः । प्रऽवर्तमानकः ।
वृश्चिकस्य । अरसम् । विषम् । अरसम् । वृश्चिक । ते । विषम् ॥ १६ ॥
एवं महानुभावेन अगस्त्यमहर्षिणा उच्यमाने सति "गिरेः सकाशात् प्रवर्तमानकः प्रवर्तमानः अतिशीघ्रमभिगच्छन् “कुषुम्भकः नकुलः “तदब्रवीत् तद्वाक्यमाचख्यौ। किं तदिति उच्यते । “वृश्चिकस्य एतत् “विषम् "अरसम् असारं बाधकं न भवतीत्यर्थः । तथा लोकेऽपि सर्पदष्टमपि क्रिम्यादिदंशनमेव अतो न बाधः इति हि वदन्ति । एवमभिवचनेन सोऽपि निर्विषोऽभवत् । अथ तं वृश्चिकं प्रति नकुल आह । हे “वृश्चिक “ते “विषम् “अरसम् । अतस्तमृषिं किं करिष्यति । तस्मात् परिहरेति । यदा एवमवादीत् तदाप्रभृति वृश्चिकविषम् असारमभवत् । एषा विषनिर्हरण्युपनिषत् ॥ ॥ १६ ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे द्वितीयाष्टके प्रथमे मण्डले चतुर्विंशोऽनुवाकः प्रथमं मण्डलं च ॥
टिप्पणी
कङ्कोपरि पौराणिकसंदर्भाः एवं संक्षिप्त टिप्पणी
सतीनकङ्कतम् शब्दस्य एका व्याख्या डा. तोमरस्य शोधप्रबन्धे कृतमस्ति - सती सच्चिदानन्द परमात्मा की वह शक्ति है, जो सत् और असत् के द्..वन्द्व से परे है। उसी शक्ति का स्वामी होने वाला प्राणोदक सतीन समझा जाना चाहिए। अन्या संभावित व्याख्या शतिनं शब्दोपरि आधृता संभवमस्ति। वैदिकवाङमये दशतः विभाजनं ऋग्वेदे भवति, शततः यजुर्वेदे एवं सहस्रतः सामवेदे।
१.१९१.१० दृतिं सुरावतो गृहे।
१.१९१.१०-१३ हरिष्ठा मधु त्वा मधुला चकार
आधुनिकवनस्पतिविज्ञानानुसारेण, सर्वेषु पादपेषु क्लोरोप्लास्टसंज्ञकः तन्त्रः विद्यमानः भवति यस्य साहाय्येन पादपः सूर्यरश्मि एवं कार्बनडाईआक्साईड गैसतः मधोः संपादनं करोति। अस्मिन् प्रक्रियायां आक्सीजनगैसस्य मोचनं वायुमण्डले भवति। जंगमप्राणिषु क्लोरोप्लास्टाः न भवन्ति, अतएव, तेषु सूर्यरश्मितः भोजनसंपादनस्य क्षमता न भवति। शैवालः (आंग्लभाषायाम् एल्गी) जलाशयानां जलोपरि साधारणतया दृश्यते। आधुनिकविज्ञानानुसारेण शैवालस्य वर्गीकरणं स्थावर एवं जंगमप्राणिषु मध्ये भवति। नायं पूर्णरूपेण पादपः अस्ति, न प्राणी। शैवाले क्लोरोप्लास्टतन्त्रः विद्यते येन अयं मधोः संपादनं करोति। शैवालस्य उपयोगस्य केचन संदर्भाः अधोलिखिताः सन्ति -
बहवो मुनयस्तत्र तपस्यंतो मुनिव्रताः ।। शैवालभोजनाः केचित्केचिदंतर्जलेशयाः ।। ब्रह्माण्ड १.२.२७.७
शेवालभोजनश्चैव तथाऽऽचामेन वर्तयन्।। वर्तयञ्शीर्णपर्णैश्च प्रकीर्णफलभोजनः। महाभारतम् शान्तिपर्व 12-309-19a
अब्भक्षैर्वायुभक्षैश्च शैवालोत्तरभोजनैः । अश्मकुट्टैस्तथा दान्तैः संप्रक्षालैस्तथापरैः ॥महाभारतम् अनुशासन 130.11
शैवालं शीर्णपर्णं वा तद्व्रतो यो निषेवते । शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥ महाभारतम् अनुशासन 130.41
अपि च, अन्तरिक्षयात्रिभ्यः शैवालः भोजनमस्ति।
वसिष्ठस्य प्रकृतिः मुख्यतया ऊर्ध्वारोहणस्य भवति। तस्य पुत्रस्य नाम शक्तिरस्ति। शक्तेः प्रसारणं तिर्यक् रूपेण भवति, किन्तु पुराणेषु एको राक्षसः शक्तेः भक्षणं करोति। अतः परं वसिष्ठस्य विकासस्य संभावना ऊर्ध्वमुखीरेव अस्ति। वसिष्ठस्य विपरीते, अगस्त्यस्य विकासः अधोमुखी भवति, अयं प्रतीयते। अगः – न प्रसारः, पर्वतः। पुराणेषु पर्वतस्य कार्यं पृथिव्याः, प्रकृत्याः प्रतिष्ठा भवति। पर्वतः पुरुषः अस्ति, पृथिवी प्रकृति। पर्वतस्य एवं वृक्षस्य समानं कार्यमस्ति। वृक्षः स्वमूलेभिः प्रकृत्याः प्रतिष्ठापनं करोति। सर्वेषु जंगमेषु जीवेषु मूलस्य अभावमस्ति। जंगमेषु जीवेषु मुख-आन्त्रादि रूपेण मूलस्य विपर्ययं, दर्पणं दृश्यते। केन प्रकारेण जीवः दर्पणं विस्मृत्वा वृक्षस्य वास्तविक मूलस्य विकासं करिष्यति, अयं अगस्त्यस्य साधनायाः लक्ष्यं प्रतीयते।
जैमिनीय ब्राह्मणे २.२२० कथनमस्ति यत् यदि आगस्त्यः ब्राह्मणं आगच्छति, तर्हि सः ब्राह्मणस्य अनुचर इवैव भवति। साधनायां अनुचरं किं अस्ति, अयं अनुसंधेयः। संभावितरूपेण, प्रतिध्वनिः अनुचरमस्ति। प्रतिध्वनिः स्मृतिस्तरे भवति। यदा मंत्रस्य प्रतिध्वनिः भविष्यति, तदैव प्रकृत्याः रूपान्तरणं भविष्यति। ऋग्वेद १.१९१ सूक्ते कङ्कतो न कङ्कतो इति ऋचा अस्ति। कङ्कशब्दस्य सायणभाष्यम् अल्पविषमस्ति। महाभारते विराड्नगरे युधिष्ठिरस्य नामधेयः अपि कङ्कः अस्ति। कङ्कः अर्थात् केका, प्रतिध्वनि।
अस्मिन् सूक्ते अगस्त्य ऋषेः मुख्या चिन्ता अयं अस्ति यत् मनुष्यस्य चेतनायाः जाग्रदवस्थायां यः विस्तारः अस्ति, तत् केभिः कारणेभिः सीमितः अस्ति। कानि कारणानि सन्ति येभिः मनुष्यः भूत-भविष्यस्य ज्ञानं न धारयति। कारणस्य कुञ्जी अन्तिमया ऋचया प्रदीयते - वृश्चिकस्यारसं विषं इत्यादि। आध्यात्मिके क्षेत्रे अयं सर्वविदितं अस्ति यत् यस्य जन्मराशिः वृश्चिकः भवति, तस्य साधना ऊर्ध्वमुखी भवति। सः परिवारस्य, आश्रमस्य स्थापनां न करोति। अगस्त्यस्य साधना वृश्चिक राशेः गुणेभ्यः विपरीतमस्ति - सामाजिके क्षेत्रे विस्तारं, जगतः कल्याणम्। अस्मिन् लक्ष्ये कानि बाधाः सन्ति। बहवः प्रकाराणां विषाः सन्ति ये चेतनायाः जागरणे विषरूपाः सन्ति। ऋषिः कथयति यत् सूर्योदयेन सर्वस्य तमस्य नाशं भवति, सर्वे प्राणिनः जाग्रन्ति, तदा केन कारणेन अस्याः चेतनायाः जागरणं आंशिकरूपेणैव भवति। ये स्थावराः, जङ्गमाः विषाः सन्ति, ते चेतनां सुप्तावस्थां प्रति नयन्ति। तेषां विषाणां चिकित्सा अपि अस्मिन् संसारे उपलब्धा भवति। ओषधिरूपेण कश्चित् अप्तृणसूर्यायाः उल्लेखः सूक्तस्य देवतारूपेण अस्ति। अप्तृण शब्दः दुर्बोधनीयमस्ति। ऋग्वेदे तूर्णि शब्दः प्रकटयति। तूर्णि - त्वरमाणः। त्वरा- त्वरिता, शीघ्रता।
स्कन्दपुराणे ४.१.४१.११० कथनमस्ति यत् यस्य देहः नित्यसोमकलातः पूर्णा अस्ति, तस्योपरि विषस्य प्रभावं न भवति। प्रस्तुते सूक्ते नित्या कलायाः कः विकल्पः अस्ति, अयं अन्वेषणीयमस्ति। किं अयमेव अप्तृणसूर्या अस्ति।
अप्तृणसूर्या -- द्र. (अ) विश्वेदेवासो अप्तुरः सुतमा गन्त तूर्णयः - ऋ. १.३.८, (आ) वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् - ऋ. ३.५१.२।
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|