प्रश्नसंहिता
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →
प्रश्नसंहितायाः अध्यायाः


।। श्रीप्रश्नसंहिता ।।
।। प्रथमोऽध्यायः ।।
(1)नमो जगन्निवासाय वासुदेवाय साक्षिणे।
निर्गुणाय परव्योम्ने (2)शंखचक्रगदाधृते।। 1.1 ।।
(1.मुद्रित-ग्र. पुस्तके इतः पूर्वं पञ्च स्लोकाः दृश्यन्ते-
1.नमश्श्रीवासुदेवाय सच्चिदानन्दमूर्तये।
 एकायनत्रयीं यस्तामुपादिक्षच्छ्रियै प्रभुः।।
2.नमः श्रीवत्सवासिन्यै या जगत्क्षेमहेतवे।
 एकायनमुपादिक्षदेकताय महात्मने।।
3.वासुदेवपदाम्भोजपरमामृतपायिने।
 एकताय मुनिन्द्रौघवन्दिताय नमो नमः।।
4.वन्दे लभ्मीपतिं देवं शङ्खचक्रगदाधरम्।
 विद्यामूर्तिं हयग्रीवं शब्दार्थज्ञानलब्धये।
5.अमृताध्मातमेघाभममृताहरणं विभुम्।
 पाञ्चरात्रागमाचार्यं वन्दे वैकुण्ठभूपतिम्।।)
(2.ग्र. कमलाङ्कितवक्षसे)
महर्षयः पुरा केचिद् ब्रह्म (3)जिज्ञासवो महीम्।
पर्यटन्तो महर्षीणामग्निहोत्राणि जुह्वताम्।। 1.2 ।।
(3.ग्र. जिज्ञासितुं)
पुत्रदारैः समेतानामाश्रमा (मां)श्चैव(4) सर्वशः।
गत्वा तत्र स्थितान् पूर्वं नमस्कृत्य यथाक्रमम्।। 1.3 ।।
(4.ग्र. माणि च)
पप्रच्छुः केन शास्त्रेण ब्रह्मज्ञानं भविष्यति।
आराधनं भगवतः (5)कर्तुं शास्त्रेण केन वा।। 1.4 ।।
(5.ग्र. कर्तुमिच्छामहे)
तत्कर्म केन शास्त्रेण कर्तव्यं भगवत्प्रियम्।
तत्सर्वं ब्रूत मुनयः संसारार्णवमज्जताम्।। 1.5 ।।
(6)इति पृष्टेषु तेष्वेकः कहोलो नाम वै मुनिः।
वयं तु कर्मकाण्डोक्तकर्म ब्रह्मैव वेदिनः।। 1.6 ।।
(6.ग्र. पुस्तके अधोनिर्दिष्टरीत्या श्लोकक्रमः दृश्यतेः-
 इति पृष्टेतु तेष्वेकः कहोलो नाम वै मुनिः।
 तानुवाच महाभागान् प्रसन्नेनान्तरात्मना।।
 कहोलः-
 वयं तु कर्मकाण्डोक्तकर्म ब्रह्मैव वेदिनः।
 उपास्महे विष्णुमेव ह्यग्निहोत्रादिरूपिणम्।।
 मुनयाः-
 को वा जानाति तद्विद्यां क्वास्ते स च महामुनिः।)
मुनयः-
उपास्महे विष्णुमेव ह्यग्निहोत्रादिरूपिणम्।
को वा जानाति तद्विद्यां क्वास्ते स च महामुनिः।। 1.7 ।।
कहोलः-
तानुवाच महाभागान् प्रसन्नेनान्तरात्मना।
[कहोलो वचनं श्रुत्वा मुनींस्तानिदमब्रवीत्।। 1.8 ।।]
ब्रह्मविद्याप्राप्त्युपायं शृणुध्वं मुनिपुंगवाः।
मेरोरुत्तरतः पार्श्वे सिद्धगन्धर्वसेविते।। 1.9 ।।
सिद्धाश्रमे ब्रह्मसुतः एकतो नाम वै मुनिः।
स तु श्रीशादवाप्तं तच्छास्त्रमित्यनुशुश्रुमः(7)।। 1.10 ।।
(7.ग्र. शुश्रुम)
इति तस्य वचः श्रुत्वा नमस्कृत्य प्रतस्थिरे।
(8)मेरोत्तरमासाद्य प्रणेमुस्तं महामुनिम्।। 1.11 ।।
(8.ग्र. गत्वा मेरुं समासाद्य)
आगतानेकतो दृष्ट्वा संपूज्य तदनन्तरम्।
[स्वागतादिपरिप्रश्नैः कन्दमूलफलादिभिः।। 1.12 ।।
तृप्तांस्तानेकतो वाक्यमिदमाह तपस्विनः।]
मदनुग्रहाय मुनय आगता नात्र संशयः।। 1.13 ।।
अथापि ब्रूत वः (9)कार्यं किमस्त्यत्र महर्षयः।
इति तस्य वचः श्रुत्वा मनुयो हृष्टमानसाः।। 1.14 ।।
(9.किंमत्तः प्राप्तुमिच्छथ)
सर्वे प्राञ्जलयः स्थित्वा मनस्कृत्य यथाविधि।
भगवन् पृथिवीं सर्वामटामो ब्रह्मणः सुत।। 1.15 ।।
(10)वेदितुं ब्रह्मविद्यां वै ज्ञाता तस्य न विद्यते।
कहोलवचनात् (11)मेरुमागता मुनिपुंगव।। 1.16 ।।
(10.ग्रं. अधीतुं)
(11.ग्र. त्वां वै ज्ञात्वा वयमिहागताः)
त्वं ब्रह्मवित् ब्रह्मसुतः सर्वशास्त्रार्थसारवित्।
तपसा च (12)परं ब्रह्म दृष्टवांश्च श्रियः पतिम्।। 1.17 ।।
(12.ग्र. सुतप्तेन)
तस्माच्छास्त्रमधीतं (13)यन्महर्षे तदुपादिश।
आर्तानां संसृतेर्भीतिं प्राप्तानां नो भवान् गतिः।। 1.18 ।।
(13.ग्र. यत्तदादिश महामुने।)
इति तेषां वचः श्रुत्वा (14)प्रसन्नेनान्तरात्मना।
(15)एकतः प्रीणयन् सर्वान् इदं मधुरमब्रवीत्।। 1.19 ।।
(14.ग्र. हरेर्वाक्यमनुस्मरन्।)
(15.ग्र. तानाह भगवद्भक्तानेकतो भगवत्प्रियः।)
स्वागतं वो महर्षयो विन्ध्यशैलनिवासिनः।
(16)तत्त्वं वदामि शृणुत पुरावृत्तं मुनीश्वराः।। 1.20 ।।
(16.ग्र. बहोः कालाद्भगवतश्चादेशं मनसा स्मरन्।)
[युषमाकं दर्शनाकाङ्क्षी मेरौ वासमकल्पयम्।
मद्भाग्याद्भगवानद्य वासुदेवः सनातनः।। 1.21 ।।
युष्माकं मानसमनुप्रविश्य प्रेषयत्स्वयम्।
तदद्य सफलं जन्म भवतां ज्ञानदानतः।। 1.22 ।।
श्रीनिकेतपदं लप्स्ये भक्तसूनिनिषेवितम्।
आदौ युगे यथा श्रीशाद् ब्रह्मज्ञानमवाप्तवान्।। 1.23 ।।
तत्क्रमेणैव वक्ष्यामि शृणुध्वं मुनिपुंगवाः।]
वयं तु (17)ब्रह्मणा सृष्टा एकतश्च द्वितस्त्रितः।। 1.24 ।।
(17.ग्र. ब्रह्मणः पुत्रा)
तेष्वहं प्रथमो नाम्ना एकतो मुनिपुंगवाः।
संसारासारतां ज्ञात्वा मेरोरुत्तर (18)मागमम्।। 1.25 ।।
(18.ग्र. माश्रितः।)
श्रीपतिं हरिमुद्दिश्य (19)तपाम्यहमहर्निशम्।
ततो वर्षसहस्रान्ते भगवान् भक्तवत्सलः।। 1.26 ।।
(19.तपामि स्म सुदारुणम्।)
दर्शयामास चात्मानं (20)अपश्यं श्रीनिकेतनम्।
दृष्ट्वोत्फुल्लमना देवं देवीं च तदनु श्रियम्।। 1.27 ।।
(20.ग्र. श्रिया सह जगत्पतिः।)
आनन्दसागरे मग्नस्ततोऽस्तौषं हरिं श्रियम्।
नमः (21)पङ्कजनेत्राय नमस्ते पीतवाससे।। 1.28 ।।
(21.ग्र। पद्मपलाशाक्ष।)
(22)नमः पङ्कजनाभाय नमस्ते पङ्कजांघ्रये।
[अरूपाय सुरूपाय सच्चिदानन्दमूर्तये।। 1.29 ।।]
(22.ग्र. नमो विश्वात्मने तुभ्यं सृष्टिस्थित्यन्तकारिणे।)
नमो हिरण्यगर्भादिस्रष्ट्र ब्रह्मस्वरूपिणे।
(23)नमः पद्मासमेताय भक्तरक्षणमूर्तये।। 1.30 ।।
(23.ग्र. कारुण्यनिधये तुभ्यं भक्तरक्षणकाम्यया।)
(24)अवतारविशेषाणां धारिणे वनमालिने।
क्षीरोदमथनोद्भूते जगद्रक्षणदीक्षिते।। 1.31 ।।
(24.ग्र. मत्स्याद्यनेकरूपाणां)
नमः पङ्कजमालिन्यै नमस्तेऽमृतयोनये।
त्रैलोक्यमात्रे शरणं प्रपन्नोऽस्मि च वामहम्।। 1.32 ।।
इति नत्वोत्थितं मां तु शरण्यो भक्तवत्सलः।
नारायणस्ततस्तुष्टः श्रिया सह जगत्पतिः।। 1.33 ।।
(25)प्रसन्नोऽस्मि विधेः पुत्र मत्तः किं वरमिच्छसि।
{मत्तो वृणीष्व वरदाद्वरमित्यब्रवीत्तदा।। 1.34 ।।]
(25.ग्र. मुने तुष्टोऽस्मि भद्रं ते तपसा दुश्चरेण ते।)
हरेरित्थं वचः श्रुत्वा कृताञ्जलिपुटोऽब्रुवम्।
जन्मकोटिसहस्राणि मयावाप्तानि वै हरे।। 1.35 ।।
अतः संसारजलधेरुत्तीर्य भगवन्नहम्।
श्रुतिस्मृतीतिहासाद्यैः प्रोक्तं विष्णोः परं पदम्।। 1.36 ।।
यत्र स्थितानां भक्तानामावृत्तिर्न भवेत् किल।
नय मां तत्पदं देव भीतं संसारसागरात्।। 1.37 ।।
[एष मेऽस्तु वरः कामः नान्यं किंचिद् वृणे हरे।]
इति संप्रार्थ्यमानं मां भगवान् प्रत्यभाषत।। 1.38 ।।
मुने ददामि (26)ते लोकमपुनर्भवलक्षणम्।
अथापि किंचिद्वक्ष्यामि तत्कुरुष्व (27)महामते।। 1.39 ।।
(26.ग्र. मत्स्थानं)
(27.ग्र. महामुने)
इयं श्रीर्मन्मुखा(28)देकं लोकस्य हितकाम्यया।
(29)अधीतिनी शास्त्रमेकमुपदेष्टुं तवेच्छति।। 1.40 ।।
(29.ग्र. अध्यैष्ट तदुपदेशाय कञ्चिदन्वेषते मुनिम्।)
तस्य पात्रं (30)त्वमेवैकस्तदधीहि श्रियो मुखात्।
किं च त्वं कतिचित्कालादागच्छन्ति महर्षयः।। 1.41 ।।
(30.ग्र. भवानेव तदधीतां)
वासिष्ठादिषु गोत्रेषु ह्युत्पन्ना दीक्षिता मया।
गर्भ एव च तेषां त्वमिदं शास्त्रमुपादिश।। 1.42 ।।
ततो मल्लोक(31) मागत्य मोदन्तां नित्यसूरिवत्।
इत्युक्त्वा श्रियमालोक्य मुनये त्वमुपादिश।। 1.43 ।।
(31.ग्र. मासाद्य)
नारायणमुखोद्गीतं श्रुत्वा श्रीर्मुनिपुंगवाः।
उपादिशत् पाञ्चरात्रं श्रीप्रश्नमितिसंज्ञितम्।। 1.44 ।।
(32)तयोः पूजामकरवं यथावन्मुनिपुंगवाः।
ततस्तु भगवानाह बद्धाञ्जलिपुटस्थितम्।। 1.45 ।।
(32.ग्र. अधीत्य च श्रियो वक्त्रात् तच्छास्त्रमखिलं शुभम्।
    प्रदक्षिणनमस्कारान् कृत्वा तच्छास्त्रवर्त्मना।)
[पूजामपि च कृत्वा मां पुरःस्थितमथो हरिः।]
उपदिष्टमिदं शास्त्रं पावनं (33)मोक्षसाधकम्।। 1.46 ।।
(33.ग्र. मोक्षदं परम्।)
नाभक्ताय साकामाय न च मद्‌द्वेषिणे स्त्रियै।
न तस्करायानृजवे नोपदेष्टुं त्वमर्हसि।। 1.47 ।।
इत्युक्त्वान्तर्हितो देवः श्रिया सार्धं जगत्पतिः।
केषु गोत्रेषु चोत्पन्ना ब्रूत यूयं महर्षयः।। 1.48 ।।
वेदशिराः-
भरद्वाजो वसिष्ठश्च विश्वामित्रस्तथा परः।
कोण्डिन्यश्चापि मुनयो ह्यस्मद्गोत्रप्रवर्तकाः।। 1.49 ।।
अहं (34)वेदशिरा नाम (35)कवषश्चज तथारुणिः।
(36)भरद्वाजश्च चत्वारो भगवत्प्रीतिभाजनाः।। 1.50 ।।
(34.ग्र. वेदशिरो)
(35.ग्र. भार्गवोऽयं मरिचिपः।)
(36.ग्र. अस्य नामा तु कवषश्चत्वारो भगवत्प्रियाः।)
(37)गर्भे दीक्षामनुप्राप्तास्तस्मान्मोक्षार्थसाधकम्।
[शिष्यतां समनुप्राप्ताननुगृह्णातु नो भवान्।। 1.51 ।।
(37.गर्भे दीक्षां हरेः प्राप्तास्तस्मान्मोक्षैकचिन्तकाः।)
श्रीप्रश्नमिति यच्छास्त्रं श्रियो वक्त्रात् त्वया श्रुतम्।
मोक्षदं सर्वशास्त्रार्थसारमाराधनादिकम्।। 1.52 ।।]
(38)श्रियो मुखात् त्वया प्राप्तं ब्रूहि ब्रह्मन् हिताय नः।
आराधनं भगवतः कृत्वा मोक्षमवाप्नुमः।। 1.53 ।।
(38.ग्र. तच्छास्त्रविधिनाश्रीशमाराध्य श्रीपतेः पदम्।
   प्राप्य मोदामहे सर्वे वयं सूरिभिरञ्जसा।)
इति संप्रार्थितो विद्वानेकतः श्रीपतिं नमन्।
(39)मनसा समनुध्यात्वा वक्तुमेवोपचक्रमे।। 1.54 ।।
(39.ग्र श्रियं च भनसा ध्यात्वा तेभ्यो वक्तुं प्रचक्रमे।)

।। इति श्रीश्रीप्रश्नसंहितायां शास्त्रावतरणं नाम प्रथमोऽध्यायः ।।