प्रश्नसंहिता/अध्यायः १९
← अध्यायः १८ | प्रश्नसंहिता अध्यायः १९ [[लेखकः :|]] |
अध्यायः २० → |
।। 19.एकोनविंशोऽध्यायः ।।
द्वारेषु स्युश्चतृषु च प्रतिष्ठामण्डपस्य तु।
अश्वत्थोदुम्बरवटप्लक्षाः प्रागादितोरणाः।। 19.1 ।।
चतुर्णामप्यलाभे तु वृक्षेणैकेन कल्पयेत्।
यद्वा चन्दनवृक्षेण सर्वं कुर्याद्यथाविधि।। 19.2 ।।
सप्तहस्तायता वापि पञ्चहस्तायतास्तु वा।
वृत्ता वा चतुरश्रा वा द्वाविंशत्यङ्गुलैर्घनैः।। 19.3 ।।
युक्ता वा द्व्यङ्गुलघना विस्तारस्तु षडङ्गुलः।
पूर्वोक्तनहनेनापि फलकाकृतिनापि वा।। 19.4 ।।
आयामं द्विभुजं कुर्यात् तोरणोपर्युदुम्बरम्।
संज्ञाभेदेन तस्यैव पट्टिकेत्यभिदीयते।। 19.5 ।।
तस्य मध्ये चक्रमेकं पार्श्वयोर्गरुडावुभौ।
फलकेनैव कल्प्या स्युस्तोरणं तोरणं प्रति।। 19.6 ।।
द्वौ द्वौ ध्वजौ प्रतिद्वारं वर्णभेदैरलंकृतौ।
द्वाविंशत्यङ्गुलायामास्तदर्धेन च विस्तृताः।। 19.7 ।।
फलका द्व्यङ्गुलघनाः यज्ञवृक्षसमुद्भवाः।
स्वर्णादिलोहजा वापि संपाद्य तदनन्तरम्।। 19.8 ।।
एतेषु विलिखेद्धीमानष्टमङ्गलनामकम्।
श्रीवत्सं वनमालां च भेरीं दर्पणमेव च।। 19.9 ।।
मत्स्ययुग्मं च शङ्खं च चक्रं काश्यपनन्दनम्।
पद्मासनानामेतेषामुभयोः पार्श्वयोरपि।। 19.10 ।।
दीपस्तम्भांश्चामराणि छत्रं शिरसि वै लिखेत्।
बिम्बानुरूपं स्नानस्य जलाधिवसनस्य च।। 19.11 ।।
औदुम्बरं भद्रपीठमाचार्यस्यर्त्विजामपि।
पीठानि पादुकाश्चापि यज्ञवृक्षेण कल्पयेत्।। 19.12 ।।
यज्ञपात्राणि सर्वाणि (1)शरावादीनि वै रमे।
षडङ्गुलान्युच्छ्रितानि विस्तृतान्यायतानि च।। 19.13 ।।
(1.ग्र. पाठान्तरं-यज्ञवृक्षैश्च कल्पयेत्।)
तेषां मध्ये तु निम्नानि ह्यधस्ताच्चतुरङ्गुलम्।
पञ्चाङ्गुलं चोर्ध्वभागे विशालं कल्पयेद् गुरुः।। 19.14 ।।
ध्वजान् कुम्भान् सकरकान् धान्यानि विविधानि च।
शालिभारांस्तण्डुलांश्च तिलान् (2)वस्त्राणि वै रमे।। 19.15 ।।
(2.ग्र. वस्त्रांस्तथैव च।)
रत्नानि चैव धान्यानि गावः कन्याश्च मृत्तिकाः।
घृतादीनि च वस्तूनि पूर्वं संपादयेद् गुरुः।। 19.16 ।।
श्लक्ष्णा न सुषिराः कुम्भाश्चतुर्विंशाङ्गुलोन्नताः।
सौवर्णा राजतास्त्राम्राः कल्प्या भेदविवर्जिताः।। 19.17 ।।
विस्तृतेर्मध्यतस्तद्वत्तद्गलं त्र्यङ्गुलोन्नतम्।
ततमङ्गुलिषट्केन तदास्यं त्र्यङ्गुलं स्मृतम्।। 19.18 ।।
मेखला परितो ज्ञेया त्रयङ्गुला जलजोद्भवे।
यद्वा तदर्धमानं तु सर्वमुच्छ्रायमपूर्वकम्।। 19.19 ।।
यद्वोत्तमोत्तमो भद्रे द्रोणमानोदपूरकाः।
तदर्धमंशतो(3)न्यूनं प्रस्थद्वय(4)जलावधिः।। 19.20 ।।
(3.ग्र. न्यूना)
(4.ग्र. जलावधि।)
अनुकल्पे मृण्मया वा छिद्रभेदविवर्जिताः।
न द्वितप्ताः सुतप्ताश्च कृष्णवर्णादिवर्जिताः।। 19.21 ।।
महाकुम्भार्धमानेन करकं तु प्रकल्पयेत्।
तस्योदरे कोणयुक्ता जलनिर्गमनी भवेत्।। 19.22 ।।
स्नानार्थं द्वारकुम्भादि स्थापनार्थं घटान् रमे।
पूर्वोक्तार्धप्रमाणैर्वा लोहैर्वा कल्पयेद् गुरुः।। 19.23 ।।
लक्षणं पालिकादीनां संख्यां च शृणु वल्लभे।
साङ्गुलं हस्तमुत्सेधं षोडशाङ्गुलमाननम्।। 19.24 ।।
तावदङ्गुलमायामं कण्ठान्तं तस्य वै भवेत्।
कण्ठवर्तुलविस्तारं सप्ताङ्गुलमुदीरितम्।। 19.25 ।।
कण्ठादारभ्य पादान्तं दीर्घं नवभिरङ्गुलैः।
अधस्ताद्विस्तृतिस्तस्या दशाङ्गुलमुदीरितम्।। 19.26 ।।
एवं कृते मध्यबिलादुपर्यम्भोजवद्भवेत्।
अधश्चोन्मत्तकुसुमसमं चेत् पालिकां विदुः।। 19.27 ।।
घटिकालक्षणं वक्ष्ये निबोध कमलोद्भवे।
सा द्वादशाङ्गुलायामा षष्ट्यङ्गुलविशालता।। 19.28 ।।
उदरं तु प्रधानास्य विस्तारं तु षडङ्गुलम्।
उदरे च चतुर्दिक्षु चतुरङ्गुलमायतम्।। 19.29 ।।
चतुरङ्गुलविस्तारं कल्पयेच्च चतुर्मुखम्।
घटिकालक्षणं त्वेवं पञ्चवक्त्रा घटाकृतीः।। 19.30 ।।
शरावस्य त्वङ्गुलयोर्विस्तारो द्वौ च विंशतिः।
उत्सेधोऽङ्गुलिविंशत्या ह्यधश्चाष्टाङ्गुलिर्भवेत्।। 19.31 ।।
प्रत्येकमुत्तमा संख्या षट्त्रिंशो मध्यमा रमे।
षोडश स्युर्हीनसंख्या त्वष्टौ हीनमतो नहि।। 19.32 ।।
सर्वार्थे पालिका वापि ह्यष्टौ वित्तानुसारतः।
देवतानां प्रतिष्ठादिकार्ये युग्मास्तु पालिकाः।। 19.33 ।।
भक्तबिम्बप्रतिष्ठादि मनुष्याणां तु शोभने।
अयुग्माः स्युः पालिकाद्यास्तेषां भेदं कदाचन।। 19.34 ।।
न कुर्याद्यदि कुर्वीत दोषाय महतो भवेत्।
परितो मण्डपस्य स्युरलंकारार्थपालिकाः।। 19.35 ।।
यथा प्रतिष्ठादिवसात् सप्तमे नवमेऽपि वा।
साङ्कुराश्च भवेयुस्तास्तथा कल्प्या गुरूत्तमैः।। 19.36 ।।
मण्डपस्य प्रतिष्ठायाः परितो वेदवादिनाम्।
स्थित्यर्थं तु प्रपां कुर्यात् क्षीरसागरसंभवे।। 19.37 ।।
देशान्तरादागतानामृग्यजुःसामशाखिनाम्।
इतरेषां ब्राह्मणानां सर्वविद्याभिशोभिनाम्।। 19.38 ।।
वासार्थं शयनार्थं च भोजनार्थं च सर्वतः।
प्रपां कुर्यात् तृतीयादौ प्राकारे वीथिकासु च।। 19.39 ।।
।। इति श्रीश्रीप्रश्नसंहितायां प्रतिष्ठाकर्मणि (5)एकोनविंशोऽध्यायः ।।
(5.अष्टादशोऽध्याय इति मातृकायाम्।)