← अध्यायः ४५ प्रश्नसंहिता
अध्यायः ४६
[[लेखकः :|]]
अध्यायः ४७ →
प्रश्नसंहितायाः अध्यायाः

।। षट्‌चत्वारिंशोऽध्यायः ।।


अपरं देवि वक्ष्यामि धनुर्मासे तु पूजनम्।
उत्सवं संपदायुष्यपुष्टिदं मोक्षदं रमे।। 46.1 ।।
कोदण्डस्थे सवितरि यावन्मकर(1)संक्रमम्।
तावद्दिनेषु प्रत्यूषे भगवन्तं जनार्दनम्।। 46.2 ।।
(1.ग्र. संक्रमः।)
यथावत् पूजयेद् देवि स्नानार्थं प्रोक्षणं चरेत्।
अलंकारासनं नीत्वा भक्तगाथासमन्वितैः।। 46.3 ।।
स्तोत्रैरनैर्नृत्तगीतैस्तोषयेद्धरिमव्ययम्।
मुद्गान्नं सघृतं क्षीरं मरीच्यादिसमन्वितम्।। 46.4 ।।
सोपदंशं शर्करां च कदलीफलसंयुतम्।
सुगन्धरससंयुक्तं लेह्यचोष्यादिभिर्युतम्।। 46.5 ।।
एवं प्रतिदिनं प्रातर्देवस्य विनिवेदयेत्।
द्वादशाब्दार्चनफलं दिनेनैकेन लभ्यते।। 46.6 ।।
कार्तिके मार्गशीर्षे वा श्रीमदध्ययनोत्सवम्।
मार्गशीर्षस्य शुक्लस्य प्रथमायामुपक्रमेत्।। 46.7 ।।
दशम्यन्तं ततो भूयः एकादश्यां तथारभेत्।
पञ्चमी कृष्णपक्षस्य तावद् दशदिनं भवेत्।। 46.8 ।।
तद्विधानं तु कमले भक्तमोक्षदमुत्सवम्।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 46.9 ।।
तृतीयावरणे यद्वा यत्र कुत्रापि वा भवेत्।
प्राच्यां वा कल्पनीयं स्यादापयोधरमुन्नतम्।। 46.10 ।।
नालिकेरैश्च पूगादिफलैर्नानाविधैस्तथा।
वितानैर्दीपमालाभिः प्रतिमाभिः सुशोभितम्।। 46.11 ।।
देवगन्धर्वदैत्यानां सुखसंचरणक्षमम्।
एवं लक्षणसंयुक्तं कुर्यान्मण्डपमुत्तमम्।। 46.12 ।।
श्रीः-
देवदेव जगन्नाथ ब्रह्मरुद्रादि(2)सेवित।
मार्गशीर्षे मासि मुख्ये उषःकाले तु पूजनम्।। 46.13 ।।
(2.ग्र. पूजित।)
मुद्गान्नादि च तत्काले किमर्थं वा निवेदनम्।
उत्सवो मोक्षदः कस्मात् मण्डपं तादृगुन्नतम्।। 46.14 ।।
श्रोतुमिच्छामि विस्ताराद् भगवन् भक्तवत्सल।
श्री भगवान्-
विस्मृतासि पुरावृत्तं स्मारयामि तव प्रिये।। 46.15 ।।
प्रलयोदे ह्यहं सुप्तो वटपत्रे पुरा रमे।
बालरूपधरो देवि तदा त्वं वक्षसि स्थिता।। 46.16 ।।
मन्नाभिकमलाद् ब्रह्मा मत्संकल्पादजायत।
आननैश्चतुरो वेदानुच्चरन् शास्त्रसंमितान्।। 46.17 ।।
सर्वज्ञस्य जगत्स्रष्टुः स्मयोऽभून्मां च नास्मरत्।
मम कर्णात् समुद्‌भूतावसुरौ लोककण्टकौ।। 46.18 ।।
ब्रह्माणं हन्तुमारब्धौ सोऽरोदीत् प्राकृतो यथा।
जलेशयं च मां दृष्ट्वा ह्यस्तौषीच्चतुराननः।। 46.19 ।।
ततोऽवबुध्य तौ दृष्ट्वा प्रावोचं दानवोत्तमौ।
वरं वृणीतं मत्तो वां तावब्रूतामनन्तरम्।। 46.20 ।।
वृणीष्व मत्तो देवेश वरं दास्याव दुर्लभम्।
तयोरित्थं वचः श्रुत्वा प्रहस्याहमथाब्रुवम्।। 46.21 ।।
मया हतौ युवां दैत्यौ पुनः प्रकृतिमेष्यतः।
इत्युक्तावसुरौ मां तु मासमावां त्वया सह।। 46.22 ।।
युध्वा त्वत्तो वधं प्राप्य सिद्धिमिष्टामवाप्नुतः।
एवं निश्चित्य तदनु युद्धसंरम्भिणौ मया।। 46.23 ।।
नियुद्धं मासमेकं तु कृत्वा सार्धं सुमध्यमे।
मया हतौ तौ देवत्वं प्राप्तौ चक्राब्जधारिणौ।। 46.24 ।।
मत्स्वरूपमपि ज्ञात्वा नमस्कृत्य कृताञ्जली।
त्वत्स्वरूपं प्राप्तवतो दैत्यारे नावयोः पुनः।। 46.25 ।।
किंच त्वल्लोकवासं च नित्यं (3)स्यात्कमलेक्षण।
इति संप्रार्थितोऽहं हि दैत्यौ तौ मत्स्वरूपिणौ।। 46.26 ।।
(3.ग्र. कमलेक्षणे।)
चापमासे शुक्लपक्षस्यैकादश्यामिनोदये।
द्वारमुत्तरमुद्धाट्य तन्मार्गात् प्रापयं च तौ।। 46.27 ।।
श्रीवैकुण्ठे सत्यलोकादुपरिष्ठात् स्थिते शुभे।
शुद्धसत्त्वे सूरिगणैर्नित्यैश्चापि निषेविते।। 46.28 ।।
रत्नमण्डपमध्यस्थे रत्नपर्यङ्कशोभिते।
तिष्ठन्तं शेषशयने तत्फणामणिशोभितम्।। 46.29 ।।
सूरिभिः स्तूयमानं मामेकायनऋगादिभिः।
आयुधैः शङ्खचक्राद्यैर्मूर्तिभिः परिसेवितम्।। 46.30 ।।
उपस्थितं प्राञ्जलिना विनतानन्दनेन च।
विष्वक्सेनेन चान्यैश्च पार्षदैः कुमुदादिभिः।। 46.31 ।।
जयादिभिश्च मां दृष्ट्वा विस्मितेनान्तरात्मना।
मत्स्वरूपं परं दृष्ट्वा पुलकाञ्चितविग्रहौ।। 46.32 ।।
स्तुत्वा च विविधैः स्तोत्रैरब्रूतामसुरोत्तमौ।
परमात्मन् परं ब्रह्म परात्पर जगत्पर।। 46.33 ।।
ज्ञानानन्द ज्ञानमूर्ते सर्वज्ञाचिन्त्यविग्रह।
नित्यानन्द निराकार संसारोदधितारक।। 46.34 ।।
सत्यलोकादिलोकस्थास्त्वत्स्वरूपं कदाचन।
न जानन्ति जना लोके संसारवशवर्तिनः।। 46.35 ।।
कोटिकोटिसहस्रेण जन्मना कृपया च ते।
संसारसागरात्पारं प्राप्तौ त्वां शरणं गतौ।। 46.36 ।।
प्रार्थयाव विशालाक्ष प्रार्थनां सफलां कुरु।
त्वया विगृह्य चावां यत्प्राप्तौ स्वः श्रीपते पदम्।। 46.37 ।।
ब्रह्मादयोऽपि त्वल्लोकसदृशं रत्नमन्दिरम्।
कल्पयित्वा त्वदर्चायामेकादश्युत्सवं चरेत्।। 46.38 ।।
तदा पश्यन्ति ये त्वां तु नमस्यन्ति च ये जनाः।
उत्तरद्वारमार्गेण प्रविशन्ति च ये हरे।। 46.39 ।।
ते वैकुण्ठमिमं प्राप्य मोदन्तां नित्यसूरिवत्।
तयोस्तद्वचनं श्रुत्वा भक्तवश्यस्तदाब्रुवम्।। 46.40 ।।
युवयोस्तृप्तये होष उत्सवः कार्यते मया।
तदारभ्याहमादिक्षं सर्वलोकेषु वै रमे।। 46.41 ।।
कृत्वोत्सवं तथाभूतमेकादश्यां विशेषतः।
विशन्ति मोक्षं तस्मात् सो मोक्षोत्सव इतीर्यते।। 46.42 ।।
प्रपाया उन्नतेर्हेतुं वदामि कमलेक्षणे।
उत्सवोऽयं प्रथमतो दैत्याभ्यां प्रार्थितः किल।। 46.43 ।।
मोक्षं चापि प्राप्तवन्तौ तस्मात् सेवामहे वयम्।
इति निश्चित्य दैतेया मोक्षकामाश्च राक्षसाः।। 46.44 ।।
महोन्नताः समागत्य नमस्यन्ति दिने दिने।
तेषां सुखप्रवेशार्थं प्रपा तादृक् समुन्नता।। 46.45 ।।
मार्गशीर्षो देवतानां प्रातःकाल इति स्मृतः।
प्रातःकालो महद्भिस्तु सात्त्विकः समुदाहृतः।। 46.46 ।।
तस्मिन्नभिगमे काले पूजनं सात्त्विकं स्मृतम्।
मुद्गान्नं च गुलान्नं च सात्त्विकं परिचक्षते।। 46.47 ।।
तत्काले सात्त्विकान्नेव वासुदेवं तु तर्पयेत्।
पूर्वोक्तयोरुत्सवयोः पूर्वापरविभेदतः।। 46.48 ।।
प्रातः सायं च कर्तव्यं तद्विधानं शृणु प्रिये।
उत्सवारम्भपूर्वेद्युरङ्कुरानर्पयेद् गुरुः।। 46.49 ।।
प्रातर्नित्यार्चनं कृत्वा प्रार्थयेत् कमलापतिम्।
पीताम्बरधर श्रीमन् कौस्तुभानतकंधर।। 46.50 ।।
मखायाध्ययनायास्मिन् बिम्बे संनिधिमावह।
इति संप्रार्थ्य देवेशं मूलाच्छक्तिं नियोज्य च।। 46.51 ।।
बन्धयेन्मङ्गलं सूत्रं मूलादीनां तथात्मनः।
देवेशं यानमारोप्य नीत्वा धाम प्रदक्षिणम्।। 46.52 ।।
महामण्डपमानीय देवेशं स्वर्णविष्टरे।
देवस्याभिमुखे भक्तबिम्बान् संस्थापयेत् ततः।। 46.53 ।।
देवं संपूज्य भक्ष्यादि विनिवेद्य ततः परम्।
भक्तबिम्बान् पूजयित्वा तेभ्यस्तानि निवेदयेत्।। 46.54 ।।
गाथापाठकभक्तेभ्यो वैष्णवेभ्यश्च दापयेत्।
अपराह्णे वासुदेवमाराध्य विधिवद् गुरुः।। 46.55 ।।
चतुर्विधान्नभक्ष्यादि विनिवेद्य समाहितः।
मुखवाससमोपेतं ताम्बूलं च निवेदयेत्।। 46.56 ।।
अन्नादीन् भक्तबिम्बानां निवेद्य प्राणवल्लभे।
देवेशं यानमारोप्य नृत्तगीतादिभिः सह।। 46.57 ।।
अन्तः प्रवेश्य देवेशं शक्तिमूले नियोजयेत्।
एवं दशदिनं कृत्वा चतुःस्थानस्थितं विभुम्।। 46.58 ।।
मूले नियोजयेद् देवं प्रार्थयेत् प्राञ्जलिः स्थितः।
त्वत्प्रीतये जगन्नाथ मया ह्यध्ययनोत्सवः।। 46.59 ।।
तस्मिन् मोहाच्छास्त्रहीनं तत्क्षमस्व दयानिधे।
अथ मोक्षोत्सवविधिं शृणु क्षीराब्धिसंभवे।। 46.60 ।।
सायाह्नसमये प्राप्ते दशम्याः प्रार्थद्धरिम्।
प्रलयाब्धिजले शायिन् मधुकैटभसेवित।। 46.61 ।।
प्रार्थितं तूत्सवं ताभ्यामुत्सवं कर्तुमारभे।
अनुज्ञां देहि देवेश वैकुण्ठालयभूषण।। 46.62 ।।
इति संप्रार्थ्य देवेशमनुज्ञां प्राप्य देशिकः।
मृत्संग्रहादिकं सर्वमाचरेच्छास्त्रवर्त्मना।। 46.63 ।।
एकादश्यामुषःकाले नित्यपूजां समाप्य च।
मोक्षोत्सवमहं कर्तुं तव दैत्यनिषूदन।। 46.64 ।।
इच्छामि कर्मबिम्बेऽस्मिन्नायाहि जगतीपते।
इति विज्ञाप्य देवेशं बिम्बे कर्मणि देशिकः।। 46.65 ।।
आवाह्यार्घ्यादिनाभ्यर्च्य बिम्बे प्रतिसरं नयेत्।
भद्रपीठं समारोप्य देवं स्तोत्रपुरःसरम्।। 46.66 ।।
उत्तरं द्वारमानाय्य कवाटाभिमुखं गुरुः।
देवस्य श्रमशान्त्यर्थमर्घ्याद्यैः पूजयेद् विभुम्।। 46.67 ।।
स्तुत्वा ऋगादिभिर्देवं कवाटमपि पूजयेत्।
द्वाराद् बहिः सर्ववेदैः सर्ववाद्यैश्च घोषिते।। 46.68 ।।
गाथाभिः स्तुतिभिश्चैव संस्तुते ज्ञानिभिस्तदा।
गुरुः कवाटमुद्धाट्य पथा तेन हरिं नयेत्।। 46.69 ।।
तदा पश्यन्ति ये देवं तेन द्वारेण यान्ति(4) ये।
महापातकिनोऽपि स्युर्मोक्षभाजो भवन्ति ते।। 46.70 ।।
(4.ग्र. च।)
ततो देवं प्रपां नीत्वा महतीं सिंहविष्टरे।
स्थापयित्वार्घ्यपाद्याद्यैरुपचर्य यथाक्रमम्।। 46.71 ।।
एकैकशो भक्तबिम्बानानाय्य च हरेः पुरः।
गन्धमाल्यं च तुलसीं दत्वा भक्तस्य मूर्धनि।। 46.72 ।।
निक्षिप्य पादुकां चैव भूमौ भक्तान्निवेशयेत्।
तैरुक्ताभिर्गाधिकाभिस्तोषयेद् भक्तवत्सलम्।। 46.73 ।।
समाराघ्य ततो देवं पिष्टदीपं प्रदर्शयेत्।
निवेदयेद् भक्ष्यभोज्यं विविधानि फलान्यपि।। 46.74 ।।
ताम्बूलं च निवेद्याथ हरेर्नीराजनं चरेत्।
अन्तर्नीत्वा हरिं मूले नियोज्य प्रार्थद्धरिम्।। 46.75 ।।
मोक्षोत्सवो मया तेऽद्य क्रियते भक्तवत्सल।
आयासस्तव संप्राप्तः क्षन्तुमर्हसि तं हरे।। 46.76 ।।
इति विज्ञाप्य देवेशं शय्यान्तं पूजयेद् गुरुः।
द्वादशीदिनमारभ्य सायाह्ने त्वित्थमाचरेत्।। 46.77 ।।
एवं कृत्वा नवदिनं दशमेऽहनि देशिकः।
तीर्थस्थानमथानाय्य विष्णोरवभृथं चरेत्।। 46.78 ।।
प्रापय्य मण्डपं देवं स्थापयेत् सिंहविष्टरे।
पूर्ववद् भक्तबिम्बानां मर्यादादि समाचरेत्।। 46.79 ।।
वह्निमण्डलकुम्भेभ्यः शक्तिं बिम्बे नियोज्य च।
ततो गर्भगृहं नीत्वा मूले शक्तिं नियोजयेत्।। 46.80 ।।
उत्तरायणकालं तु निश्चित्यावभृथं हरेः।
महोत्सवं यत्र देवि करोति विधिपूर्वकम्।। 46.81 ।।
मार्गशीर्षप्रथमदिनाद्यावद्विंशति वै दिनम्।
पूर्वोक्तोत्सवयुग्मं च कृत्वा तु तदनन्तरम्।। 46.82 ।।
ध्वजारोहणपूर्वं तु कुर्यात् तत्र महोत्सवम्।

इति श्रीश्रीप्रश्नसंहितायां मोक्षोत्सवो नाम (5)पञ्चचत्वारिंशोऽध्यायः ।।
(5.`षट्‌चत्वारिंशोऽध्याय' इति भाव्यम्।
      `सप्तचत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)