← अध्यायः १४ प्रश्नसंहिता
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
प्रश्नसंहितायाः अध्यायाः

।। पञ्चदशोऽध्यायः ।।

भगवान्-
पूजार्थं परिवाराणां शोभार्थं मन्दिरस्य च।
[प्रथमावरणाद्येषु कल्पनीया विशेषतः।। 15.1 ।।]
अर्धमण्डपकद्वारे शङ्खचक्रोत्तमाङ्गिनौ।
(1)दंष्ट्राकरालौ भीमाक्षौ करण्डिमकुटान्वितौ।। 15.2 ।।
(1.पा. दंष्ट्राकरालवदनौ भीमौ वा दण्डधारिणौ।)
दक्षिणोत्तरपार्श्वस्थौ मुनिवेषौ (2)गदाधरौ।
चण्डप्रचण्डौ कर्तव्यौ (3)लोहैर्वा शिलयापि वा।। 15.3 ।।
(2.पा. सहस्त्रियौ।)
(3.पा. द्वारे गर्भगृहस्य तु।)
अन्तर्मण्डलसंज्ञस्य सालस्य द्वारपार्श्वयोः।
जयश्च विजयश्चैव (4)प्रतिष्ठाप्यौ वरानने।। 15.4 ।।
(4.पा. कर्तव्यौ तस्य गोपुरे।)
अन्तर्हारस्य पूर्वस्यां द्वारि पद्मगदाधरौ।
खड्गशार्ङ्गधरौ द्वारि दक्षिणस्यां प्रकल्पयेत्।। 15.5 ।।
प्रतीच्यां वज्रमुसलधारिणौ (5)स्थापयेद् गुरुः।
(6)उत्तरस्यां भवेतां तौ पाशाङ्कुशधरौ रमे।। 15.6 ।।
(5.पा. दिशि कल्पयेत्।)
(6.पा. पाशाङ्कुशधरौ ब्रह्मन्नुत्तरस्यां दिशि स्थितौ।)
मध्यान्तर्हारसालस्य प्राच्यादिषु यथाक्रमम्।
दिक्षु धातृविधातारौ ततो भद्रसुभद्रकौ।। 15.7 ।।
कृतान्तासुरविध्वंसौ कुबेराक्षकुबेरकौ।
एवमेवेष्यतेऽन्येषां चतुर्दिक्षु च गोपुरे।। 15.8 ।।
प्राच्यादिषु तथा दिक्षु मर्यादा सालगोपुरे।
दुर्जयप्रबलौ (7)स्यातां विश्वभावनपुष्करौ।। 15.9 ।।
(7.पा. कार्यौ।)
संभवः प्रभव(8)श्चैव सुशोभनसुभद्रकौ।
जघन्यावरणद्वारे (9)प्राच्यादिषु च कल्पयेत्।। 15.10 ।।
(8.पा. स्यातां)
(9.पा. प्राच्यादौ कुमुदादयः।)
कुमुदः कुमुदाक्षश्च पुण्डरीकश्च वामनः।
शङ्कुकर्णः सर्वनेत्रः सुमुखः सुप्रतिष्ठितः।। 15.11 ।।
अष्टौ द्वौ द्वौ प्रतिद्वारं कल्पनीया यथाविधि।
विष्णुपारिषदा एते सेनाभिः कोटिभिर्वृताः।। 15.12 ।।
दण्डहस्ता विरूपाक्षा(10) श्चतुर्बाहुसमन्विताः।
प्राङ्कणे प्रथमे वाथ द्वितीये वापि मण्डपे।। 15.13 ।।
(10.पा. करण्डमुकुटान्विताः।)
अग्रदेशे प्रकुर्वीत मूलार्चाभिमुखं रमे।
प्राञ्जलिं द्विभुजं वीरं करण्डिमकुटान्वितम्।। 15.14 ।।
संस्थापयेद् वैनतेयं लोहेन शिलयापि वा।
वीरलक्ष्मीं नैर्ऋते वा दिक्ष्वन्यासु यथाक्रमम्।। 15.15 ।।
परिकल्प्यालयं तस्मिन् चरस्थिरविभागतः।
पूजने तु हरेः काले प्रत्येकं पूजयेद् गुरुः।। 15.16 ।।
(11)सोमेशानान्तरे (12)देवं विष्वक्सेनं प्रकल्पयेत्।
गोपुरस्य भवेदन्तर्बहित्वा बलिपीठकम्।। 15.17 ।।
(11.पा. सोमेशयोरन्तराले।)
(12.ग्र. देवि)
बह्वावरणयुक्तस्य परिवाराः पुरोदिताः।
एकावरणयुक्तस्य परिवारानिमान् शृणु।। 15.18 ।।
पार्श्वयोर्गर्भगेहस्य चण्डं चापि प्रचण्डकम्।
पुरतो वैनतेयं च वीरलक्ष्मीं च नैर्ऋते।। 15.19 ।।
ईशाने सेननाथं च कल्पयेत् कमलासने।
एतान् विग्रहरूपेण स्थापयेच्च गुरूत्तमः।। 15.20 ।।
ततः पूजोपकरणं कारयेल्लक्षणान्वितम्।
शब्दब्रह्ममयी घण्टा हस्तोत्सेध(13) समुच्छ्रया।। 15.21 ।।
(13.पा. प्रमाणिका।)
ब्रह्माण्डगोलकाकारा सौराष्ट्रा(14)वयवैः कृता।
(15)अधोमुखी तालमानविस्तारा शोभनाकृतिः।। 15.22 ।।
(14.पा. अवयवो भवेत्।)
(15.पा. अधोमुखस्तालमानविस्तारोत्सेधसंमितः।)
घण्टादण्डस्तालमानस्तदूर्ध्वे पक्षिभूपतिम्।
चक्रं शङ्खं पङ्कजं वा कल्पयेत् पद्मसंभवे।। 15.23 ।।
पूजादिसर्वकार्येषु सर्वदैवोपयोगिनी।
अर्घ्यादीनां च पात्राणां स्थापनाय मधुद्विषः।। 15.24 ।।
स्थापयेद् देवदेवस्य चतुष्पादसमन्विताम्।
स्वर्णादिलोहजां वापि दारुजां वापि पीठिकाम्।। 15.25 ।।
जलनिर्गमसंयुक्तां हस्तोच्छ्रायादि(16)लक्षणाम्।
पात्राण्यर्घ्यादितीर्थानां स्थापनाय वरानने।। 15.26 ।।
(16.ग्र. लक्षिताम्।)
प्रस्थाम्बुपूर्तियोग्यानि ह्यरविन्दाकृतीनि च।
पात्राणि पञ्च तेष्वन्तश्चक्राणि परिकल्पयेत्।। 15.27 ।।
एषां प्रतिग्रहार्थाय पञ्चैकं वापि कल्पयेत्।
अर्घ्यादीनामुद्धरणात् कीर्तितोद्धरणीति सा।। 15.28 ।।
प्रादेशदीर्घा चरमे चक्रं शङ्खाकृतिं न्यसेत्।
अपरान्ते जलाधारं कारयेत् कनकादिभिः।। 15.29 ।।
पात्रं पादावनेजस्य ग्रहणाय रमापतेः।
उन्मत्तकुसुमाकारं पादेन सहितं भवेत्।। 15.30 ।।
धूपपात्रं सरोजाभं पादद्वयसमन्वितम्।
(17)सकोणनालपत्राभ्यां शोभितं स्वर्णनिर्मितम्।। 15.31 ।।
(17.ग्र. सकोणनालं)
नालदण्डं हस्तमानं त्रिपाद्वापि द्विपादकम्।
प्रोतानां दीपपात्राणां चक्राकारेण शोभिनाम्(18)।। 15.32 ।।
(18.ग्र. शोभिनम्।)
सप्त वा पञ्च वा त्रिर्वा क्रमहीनं तु वै भवेत्।
प्रथमे दीपपात्रे च वर्तिस्थानं शतं भवेत्।। 15.33 ।।
द्वितीयादिषु हीनं स्यादन्ते कुमुदकुड्मलम्।
दीपपात्रमिदं प्रोक्तं स्नानासनमथो शृणु।। 15.34 ।।
हस्तमानायतं दीर्घं त्रिहस्तं चतुरश्रकम्।
पर्यन्ते द्व्यङ्गुलोत्सेधं जलनालेन संयुतम्।। 15.35 ।।
द्विहस्तोन्नतपादं च सिंहव्याघ्रपदं तु वा।
स्वर्णादिलोहजैर्वापि कल्पयेन्मध्यपङ्गजम्।। 15.36 ।।
स्नानपात्राणइ सर्वाणि लोहैः स्वर्णादिभी रमे।
शङ्खचक्राकृती पात्रे मध्ये द्वारं शतं भवेत्।। 15.37 ।।
सहस्रधारमपरं वर्तुलं हेमनिर्मितम्।
अरत्निमात्र(19)विस्तारं मध्ये पद्मसमन्वितम्।। 15.38 ।।
(19.पा. विस्तीर्णं तन्मानोत्सेधदण्डकम्।)
दलेषु कर्णिकायां च सहस्रं सुषिरं भवेत्।
सपर्याविष्टरं (20)लक्ष्मीः शृणु हस्तमथोन्नतम्।। 15.39 ।।
(20.पा. ब्रह्मन् हस्तमानोन्नतं शुभम्।)
अरत्निमात्रविस्तारं स्वर्णैरन्यैश्च (21)कल्पनम्।
चतुरश्रं मध्यक्लृप्तं सरोरुहसमन्वितम्।। 15.40 ।।
(21.ग्र. कल्पितम्।)
व्याघ्रपादसमैः पादैश्चतुर्भिश्च (22)समन्वितम्।
इत्थं भोज्यासनं सुभ्रु पादहीनं परं भवेत्।। 15.41 ।।
(22.ग्र. विराजितम्।)
नैवेद्यार्थानि पात्राणि सौवर्मरजतानि च।
हविर्द्रव्यप्रमाणानि वृत्तानि परिकल्पयेत्।। 15.42 ।।
कल्पयेन्नागलतिकादलपात्रं हिरण्मयम्।
अरत्निमात्रविस्तारं वर्तुलं नालदण्डवत्।। 15.43 ।।
पीठं तदर्धविस्तारं चित्रैश्च समलंकृतम्।
बलिपात्रं चतुस्तालं हेमादिद्रव्यनिर्मितम्।। 15.44 ।।
वृत्तं प्रकल्पयेद्धीमान् यथेच्छं छदसंयुतम्।
नीराजनक्रियापात्रं हेमादिद्रव्यनिर्मितम्।। 15.45 ।।
द्वितालमेकतालं वा वृत्तं मध्यसरोरुहम्।
मूलबेरस्य पुरतः शयानस्य स्थितस्य वा।। 15.46 ।।
(23)मूलबिम्बोन्नतिः कार्या स्वर्णेन रजतेन वा।
(24)अथवा पैत्तलाभिःस्युरयोभिर्न तु कारयेत्।। 15.47 ।।
(23.ग्र. तत्तद्बिम्बानुरूपं तु)
(24.ग्र. शिलया पैत्तलाभिश्च कारयेत् सिंहविष्टरम्।)
चतस्रो दीपिका मुख्या द्वे वा वित्तानुसारतः।
घृतधारणपात्राणि भवेयुस्त्रीणि पञ्च वा।। 15.48 ।।
अन्ते तु शङ्खं चक्रं वा स्थापयेत् पक्षिपार्थिवम्।
मुक्तातपत्रं धवलं (25)स्वर्णादिभिरलंकृतम्।। 15.49 ।।
(25.पा. शशिबिम्बसमन्वितम्।)
शुद्धस्वर्णेन वा कुर्याद्रजतेनाथवा रमे।
स्वर्णदण्डं राजतं वा रत्नजालसमन्वितम्।। 15.50 ।।
छत्रमेवंविधं कुर्यात् चामराणि च कल्पयेत्।
चत्वारि कनकाद्यैश्च कृतदण्डानि वै रमे।। 15.51 ।।
व्यजनानि विचित्राणि उशीरैः शिखिपिञ्छकैः।
अलंकृतैश्च रत्नाद्यैश्चत्वारि परिकल्पयेत्।। 15.52 ।।
कङ्कतं कनकं रूप्यमष्टाङ्गुलमथायतम्।
षडङ्गुलं स्याद्विस्तारं दन्तैर्विंशतिभिर्युतम्।। 15.53 ।।
यद्वा षोडशदन्ताः स्युः कल्पनीया वरानने।
सौवर्णमञ्जनक्षोदभाजनं वृश्चिकाकृतिः।। 15.54 ।।
सिंहहंसाकृतिर्यद्वा मृगाकृति भवेद् रमे।
उदरे मस्तके यद्वा बिलं तस्य प्रकल्पयेत्।। 15.55 ।।
दर्पणं प्रतिमामानं तदर्धं वा सुशोभनम्।
वृत्तं वा चतुरश्रं वा कांस्यं रत्नैरलंकृतम्।। 15.56 ।।
पानीयपात्रं सौवर्णमाठकाम्बुप्रपूरकम्।
तालोन्नतं स्याद् विस्तारं वृत्तं पञ्चाङ्गुलं भवेत्।। 15.57 ।।
द्व्यङ्गुलं तस्य वै कल्प्यं पादमेकाङ्गुलं (26)भवेत्।
यात्रासनं च विस्तीर्णं समायामं द्विहस्तकम्।। 15.58 ।।
(26.ग्र. तु वा।)
द्विगुणं वायतं तस्य तालं पादं प्रकल्पयेत्।
परितश्चोन्नतं बालं तालमानसमन्वितम्।। 15.59 ।।
दशावतारलिखितं रत्नैश्चापि विचित्रितम्।
आसनानि यथोक्तानि सुवर्णविकृतानि वा।। 15.60 ।।
दारुजानि यथालाभमर्चानुगुणविस्तरम्।
पादुके देवदेवस्य कल्पयेत् कनकादिभिः।। 15.61 ।।
पीठं तयोः स्वर्णमयं विकसत्पङ्कजाकृति।
कर्णिकायां स्थापयेत्ते पादुके पङ्कजस्य तु।। 15.62 ।।
यात्रासनं रथं (27)चैव गजमश्वं विनायकम्।
स्वर्णैर्वा कल्पयेद्यानमन्यद्वापि मनोहरम्।। 15.63 ।।
(27.पा. वापि कुर्याद्वित्तानुसारतः।)
शिबिकां रत्नविकृतां सोपच्छदसमन्विताम्।
सितासितारुणामिश्रदुकूलपरिकल्पितान्।। 15.64 ।।
ध्वजान् (28)कार्तस्वरैर्दण्डैस्तत्र तत्रापि कल्पयेत्।
जलद्रोणीं कटाहं च हेमादिद्रव्यनिर्मितम्।। 15.65 ।।
(28.पा. कार्तस्वरमयैर्दण्डैश्चापि विराजितान्।)
अगाधमभिषेकार्थं देवस्य परिकल्पयेत्।
नानाविधानि वाद्यानि (29)तूर्यशङ्खयुतानि च।। 15.66 ।।
(29.पा. वीणादीनि च कल्पयेत्।)
मद्दलं काहलं कांस्यं भेरीपटहमेव च।

।। इति श्रीश्रीप्रश्नसंहितायां पञ्चदशोऽध्यायः(30) ।।
(30.मातृकायाम् `चतुर्दशोऽध्यायः' इति दृश्यते।)