← अध्यायः १३ प्रश्नसंहिता
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →
प्रश्नसंहितायाः अध्यायाः

।। चतुर्दशोऽध्यायः ।।

भगवान्-
कर्मार्चादिविशेषाणां संज्ञाभेदं च लक्षणम्।
उपयोगस्तथैतेषां कथ्यते (1)कमलोद्भवे।। 14.1 ।।
(1.ग्र. कमलेक्षणे।)
कर्मार्चा चोत्सवार्चा च बल्यर्चा च (2)तथापरे।
(3)(4)स्नानतीर्थोभये स्यातामपरा शयनार्थिका।। 14.2 ।।
(2.पा. तथैव च।)
(3.ग्र. तीर्थस्नानो)
(4.पा. स्नानतीर्थोभयार्चा च स्वापोत्थानार्चया सह।)
(5)पूज्यन्ते यत्र षड्‌बेरं तां पूजामुत्तमं विदुः।
(6)मध्यमं त्रीणि बिम्बानि चरमं त्वेकपूजनम्।। 14.3 ।।
(5.पा. प्रतिमाः षड् विधातव्याः पूजायामुत्तमं भवेत्।)
(6.पा. तिसृभिर्मध्यमा ज्ञेया आद्या या चरमा भवेत्।)
बहुबेरे विधिरयमे(7) कबेरे तु(8) कथ्यते।
मूलार्चायां पूजनं च स्नपनं च भवेत् सदा।। 14.4 ।।
(7.पा. कथितः कमलासन।)
(8.ग्र. बेरस्य वै रमे।)
तस्मात् स्नपनपूजार्थं नेष्यते कौतुकद्वयम्।
ध्रुवबेरसमुच्छ्राये विभक्ते दशधा रमे।। 14.5 ।।
भागद्वयेन कर्मार्चामौत्सवं तु वरानने।
बिम्बमेकादशांशेन दशांशैः शयनं भवेत्।। 14.6 ।।
बलिबिम्बं नवांशे(न) तैर्थबिम्बमथाष्टकम्(9)।
षडंशैः स्नपनं बेरमित्थमुच्छ्रायकल्पनम्।। 14.7 ।।
(9.कः)
मूलबेराङ्गुलं यद्वा गृहीत्वा प्रथमं रमे।
कर्मबेरो(10)च्छ्रयं भद्रे षड्विंशाङ्गुलिभिर्भवेत्।। 14.8 ।।
(10.ग्र. यथोच्छ्रायं)
चतुर्विंशाङ्गुलं (11) यद्वा (12)कुर्यादष्टादशाङ्गुलम्।
षोडशाङ्गुलमानं वा (13)द्वादशाष्टाङ्गुलं तु वा।। 14.9 ।।
(11.पा. अङ्गुला)
(12.ग्र. भवे-)
(13.पा. यद्वा स्याद् द्वादशाङ्गुला।)
षडङ्गुलं वा कल्याणि चतुरङ्गुलमेव वा।
पूर्वोक्ताङ्गुलं(14) मानेषु कर्तव्यं बिम्बमुत्तमम्।। 14.10 ।।
(14.पा. मानानि कर्तव्यानि यथारुचि।)
बहुबेरे विधिरयं कथितः कमलासने।
एकबेरेऽप्येष एव विधिः कल्प्यो मनीषिभिः।। 14.11 ।।
आसीनं वा शयानं वा यानगं मूलकौतुकम्।
तेषां समं वा कुर्वीत तिष्ठेयुर्वा यथारुचि।। 14.12 ।।
नित्योत्सवार्थ(15) बिम्बस्य सर्वत्रैव स्थितिर्भवेत्।
अर्चायामं त्रिधा कृत्वा पद्ममेकेन कल्पयेत्।। 14.13 ।।
(15.पा. प्रतिकृतिः सर्वत्रैव स्थिता भवेत्।)
उपानहादिपञ्चाङ्गयुक्तं वृत्तं (16)मनोहरम्।
(17)अथवा चतुरश्रं स्याद्(18) विस्तारं तुलितायति।। 14.14 ।।
(16.पा. सुखावहम्।)
(17.पा. चतुरश्रं मनोहारी)
(18.ग्र. विस्तारतुलिता.)
(19)तृतीयमानतुलितप्रभा शङ्कुद्वयान्विता।
पीठोत्सेधं त्रिधा कृत्वा पद्ममेकेन कल्पयेत्।। 14.15 ।।
(19.पा. तृतीयभागविहित)
दलैर्द्वादशभिर्युक्तमष्टाभिर्वा (20)भवेद्रमे।
तावदूर्ध्वदलोपेतं मध्ये विपुलकर्णिकम्।। 14.16 ।।
(20.पा. यथारुचि।)
उपच्छदसमायुक्तमीषत्फुल्लाम्बुजाकृति।
पादमानं दलायामं केवलं वा सरोरुहम्।। 14.17 ।।
(21)पीठं वापि यथाकामं सुषिरं नैव कारयेत्।
स्थितस्य कौतुकस्येदं पीठनिर्माणमीरितम्।। 14.18 ।।
(21.पा. पीठं वा केवलं वापि सुषिरं नैव कारयेत्।)
आसीनस्यायतं वृत्तं (22)चतुरश्रायतं तु वा।
प्रतिमार्धसमुत्सेधं पद्मवत् परिकल्पयेत्।। 14.19 ।।
(22.पा. चतुरश्रं यदायतम्।)
तस्य देवस्य सव्याङ्घ्रिमाकुञ्चनमथेतरम्।
पद्मोपरि स्थितं कल्प्यं लम्बमानं पदं हरेः।। 14.20 ।।
श्रीर्दक्षिणे धरा वामे (23)देवस्य परिकल्पयेत्।
कर्मार्चा तु सदा ताभ्यां पार्श्वयोरविना भवेत्।। 14.21 ।।
(23.देव्यौ देवस्य कल्पयेत्।)
इतरेषां तु बिम्बानां सहिता रहिता तु वा।
पत्न्यौ प्रभा वाप्येकस्मिन् विष्टरे पृथगेव वा।। 14.22 ।।
देवे स्थिते तथा देव्यावासीनस्यापि ते तथा।
बिम्बे यानाधिरूढे तु कर्तव्या तोरणप्रभा।। 14.23 ।।
द्रावयित्वा मधूच्छिष्टं प्रतिमां तेन कल्पयेत्।
(24)धान्यादिपीठं संकल्प्य चक्राब्जं च ततोपरि।। 14.24 ।।
(24.पा. धान्यराशिं विनिक्षिप्य तदूर्ध्वे तिलतण्डुलम्।)
विलिख्य दर्भशयनं प्रागग्रं परिकल्पयेत्।
वस्त्रं च नूतनं तस्मिन् (25)प्रतिमां शाययेद् गुरुः।। 14.25 ।।
(25.पा. विस्तीर्य प्रतिमां क्षिपेत्।)
प्राचीनशिरसं पश्चात् जुहुया(26)ज्ज्वलितेऽनले।
पुष्पैः समिद्भिर्लाजैश्च सर्पिषाष्टोत्तरं शतम्।। 14.26 ।।
(26.पा.दनले गुरुः।)
मूलमन्त्रेण सूक्तैश्च चरुणा च ततः पुनः।
संपाताज्येन संसिच्येत् प्रतिमां तत्त्वपद्धतिम्।। 14.27 ।।
ध्यायेत् तत्र शुभे लग्ने पूजयेन्मूलविद्यया।
यजमानस्ततो वित्तैर्गौभिर्धान्यैर्गुरूत्तमम्।। 14.28 ।।
इतरान् ब्राह्मणश्रेष्ठाञ्छिल्पिनश्चापि तोषयेत्।
स्थपतिः प्रतिमां कुर्यात् रथकाराभ्यनुज्ञया।। 14.29 ।।
मानोन्मानप्रमाणैस्तां प्रतिमां (27)कल्पयेच्छुभाम्।
मृदालेपं ततः कुर्याच्छिल्पशास्त्रानुसारतः।। 14.30 ।।
(27.पा. कारयेत्।)
सुवर्णं रजतं ताम्रं विशुद्धं लोहमुत्तमम्।
आदाय धान्यपीठे तु पूर्ववन्न्यासकल्पनम्।। 14.31 ।।
जुहुयात्पूर्ववच्चैव शास्त्रदृष्टेन वर्त्मना।
द्रावयित्वा ततः शुद्धं लोहं न्यायसमार्जितम्।। 14.32 ।।
(28)प्रतिमां तेन कुर्वीत स्थपतिः शिल्पशास्त्रवित्।
मूलादिप्रतिमा इत्थं शिल्पशास्त्रोक्तवर्त्मना।। 14.33 ।।
(28.प. स्थपतिः प्रतिमां तेन कुर्यात् शास्त्रोक्तवर्त्मना।)
कारयित्वा शिल्पिवर्गैर्गर्भगेहादिकाः क्रमात्।
परिवा(रा)न्(29)कारयित्वा तत्तत्स्थानेषु स्थापयेत्।। 14.34 ।।
(29.ग्र. ततः कुर्यात् देशिकः शास्त्रवित्तमः।)

।। इति श्रीश्रीप्रश्नसंहितायां चतुर्दशोऽध्यायः(30) ।।
(30.मातृकायां, `त्रयोदशोऽध्यायः' इति दृश्यते।)