← अध्यायः ३ प्रश्नसंहिता
अध्यायः ४
[[लेखकः :|]]
अध्यायः ५ →
प्रश्नसंहितायाः अध्यायाः

।। चतुर्थोऽध्यायः ।।

श्रीः-
त्वया प्रोक्तो योगसारो दुर्लभार्थस्य साधकः।
तथाप्येतेषु योगेषु विघ्नान् बहुविधान् हरे।। 4.1 ।।
अनेककालसाध्याश्च तेषु को वा प्रवर्तते।
प्रायेण जन्तवो लोके कामक्रोधपरायणाः।। 4.2 ।।
तस्मादिमं परित्यज्य मार्गं लोकेहिताय वै।
सिद्धिदं चातिशीघ्रेण विघ्नैश्चापि न चाल्यते।। 4.3 ।।
तन्मार्गं वद देवेश लोकस्य हितकाम्यया।
भगवान्-
पद्मस्थिते पद्महस्ते त्वत्प्रश्नसदृशोत्तरम्।। 4.4 ।।
यद्दर्शनं हि जन्तूनां सर्वसिद्धिप्रदं भवेत्।
एतावत्कालपर्यन्तं ज्ञानिनो योगिनोऽपि वा।। 4.5 ।।
इतरे वा नाभ्यजानन् अर्चारूपं वरानने।
देवो वा मानुषो वापि पुमर्थेषु चतुर्ष्वपि।। 4.6 ।।
एकं वा चतुरो वापि प्रार्थयेन्मां वरानने।
निष्कामो वा सकामो वा वैकुण्ठोपममन्दिरम्।। 4.7 ।।
पुण्यक्षेत्रे पुरा कृत्वा त्वया सह समुध्यमे।
अर्चारूपं पाञ्चरात्रविधिना सर्वकामदम्।। 4.8 ।।
मन्त्रमूर्तिं प्रतिष्ठाप्य मन्दिरान्तर्गतं हरिम्।
तच्छास्त्रोक्तां पुरा दीक्षां कृत्वा देशिकसत्तमः।। 4.9 ।।
पूजयेद्यदि मद्बिम्बं वेदवेदाङ्गपारगः।
गृहे वापि प्रतिष्ठाप्य नित्यं पूजयते यदि।। 4.10 ।।
अहं तद्बिम्बमाविशअय भक्तानामिष्टसाधकः।
त्वया सह भविष्यामि नात्र संदेह अस्तु ते।। 4.11 ।।
श्रीः-
भगवन् केषु देशेषु केन द्रव्येण वा पुनः।
यजमानः कीदृशः स्यादाचार्यः कैर्गुणैर्युतः।। 4.12 ।।
कीदृग्लक्षणसंयुक्तमालयं ते प्रियं भवेत्।
भगवान्-
आस्तिकः कर्मकाण्डोक्तकर्मानुष्ठानतत्परः।। 4.13 ।।
श्रद्धावाननसूयुश्च (1)दाता धान्यनैर्युतः।
मद्भक्तो देवपूजादौ प्रीतिमानपरैर्गुणैः।। 4.14 ।।
(1.ग्र. धनधान्यधनैर्युतः।)
(2)संयुक्तो ब्राह्मणो वैश्यः क्षत्रियः शूद्र एव वा।
अनुलोमो भवेद्वापि यजमानो भवेद्रमे।। 4.15 ।।
(2.[ई.15] ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा भगवन्मयः।)
सर्वविद्यासु कुशलः शान्तो ब्राह्मणपुंगवः।
जितेन्द्रियो जितक्रोधः कर्मठस्तपसि स्थितः।। 4.16 ।।
विष्णुभक्तो वास्तुशास्त्रे निष्णातः शिल्पवित्तमः।
पाञ्चरात्रोक्तविधिना दीक्षितो दीक्षितोत्तमैः।। 4.17 ।।
पाञ्चरात्रार्थतत्त्वज्ञो मदंशो गुरुरीदृशः।
एवंविधं गुरुं ज्ञात्वा गृहं तस्य व्रजेत् सुधीः।। 4.18 ।।
नत्वा तं शिरसा पूर्वं प्रार्थयेत्सौधकर्मणि।
अहं भगवतो विष्णोर्मन्दिरं कर्तुमुद्यतः।। 4.19 ।।
लक्षणज्ञो भवान् सौधं कर्तुमर्हति शिल्पिभिः।
इति संप्रार्थ्य विप्रेन्द्रं नालिकेरफलं ततः।। 4.20 ।।
दद्यात् तस्मै सर्वकार्यभारं तस्मिन् निवेशयेत्।
प्रार्थितो यजमानेन तत्फलावाप्तये गुरुः।। 4.21 ।।
शुभे दिवसनक्षत्रे शुभे लग्ने स्वयं गुरुः।
क्ष्मापरिग्रहपूर्वादि कुर्यात् कार्तान्तिकैः सह।। 4.22 ।।
(3)क्ष्मापरिग्रहपूर्वाणामारम्भे सर्वकर्मणाम्।
(4)द्वादशाक्षरपूर्वैस्तु (5)सर्वैः (मन्त्रैः)मन्त्रे(सर्वे)श्वरः पुरा।। 4.23 ।।
(3.[ई.15]SL. 23a, b is the same as sl.14-a-6.)
(4.ई. द्वादशाक्षरपूर्वैस्तु मन्त्रैः सर्वेश्वरः पुरा।)
(5.ग्र. मंत्रैः सर्वेश्वरः)
(6)आराध्यो भगवान् भक्त्या चक्राब्जे गलशेऽनले।
(7)संतर्प्या(8)र्घ्यादिकैर्भक्त्या मन्त्रैः श्रुत्युक्तकर्मभिः।। 4.24 ।।
(6.ई. आराध्यो भगवान् भक्त्या वेद्यां च कलशे स्थले।)
(7.ई. सन्तर्प्याज्यादिकैर्भक्त्या मन्त्रैः श्रुतिमयैस्ततः।)
(8.ग्र. ज्यादिकैः)
(9)विश्वकर्मस्वरूपेण भगवन्तमधोक्षजम्।
(10)विविधैरुपचारैश्च धूपदीपानुलेपनैः।। 4.25 ।।
(9.ई. भगवान् विश्वकर्मात्मा सगणेशं तु याजयेत्।)
(10.ई.विविधैरुपचारैस्तु पुष्पधूपानुलेपनैः।)
[हुत्वा च पायसान्नं च सगणं याजयेद् गुरुः।]
(11)विसर्जने कृते विष्णौ सानके कमलासने।। 4.26 ।।
(11.ई. विसर्जने कृते विष्णोः सानले कमलोद्भव।)
सुमुहूर्ते गृहाद्धीमान् यजमानेन संमितः।
अनुज्ञां ब्राह्मणेभ्यश्च प्राप्य शिल्पिगणैः सह।। 4.27 ।।
ब्राह्मणैः साधकैश्चापि रथकारवरैस्तथा।
भद्रं कर्णेति वै मन्त्रं घोषयन् वेदपारगैः।। 4.28 ।।
आदाय पूर्णकलशमाचार्यो मन्त्रवित्तमः।
ध्वजच्छत्रपताकाभिर्वाद्यैश्च विविधैरपि।। 4.29 ।।
ताम्बूलपत्रक्रमुकपुष्पाणि फलवन्ति च।
चन्दनं च स्वर्णपात्रे बलिद्रव्याणि वै रमे।। 4.30 ।।
स्नातानां परिचाराणां मूर्धसु स्थाप्य देशिकः।
हरेरालयनिर्माणे भूपरिग्रहसिद्धये।। 4.31 ।।
गच्छेत् प्राचीमुदीचीं वा ध्यात्वा सर्वार्थदं हरिम्।
पशुपक्षिमनुष्याणां शकुनानि निरीक्षयन्।। 4.32 ।।
(12)पुण्यक्षेत्रेऽनुकूले च मनोज्ञे मुनिसेविते।
(13)फलवृक्षसमाकीर्णे कुशकाशैश्च संयुते।। 4.33 ।।
(12.[ई.15]पुण्ये देशेऽनुकूले च मनोज्ञे साधुसेविते।)
(13.ई. मृद्वारिफलपुष्पाढ्ये कुशेन्धनसमन्विते।।)
(14)गोसस्यशालिसुभगे क्षुद्रप्राणिविवर्जिते।
(15)पर्वताग्रे नदीतीरे समुद्रपुलिनादिषु।। 4.34 ।।
(14.ई. Sl.34 a, b same as sl.9a, b.)
(15.ई. पर्वताग्रे च तन्मध्ये सानुदेशे द्विजोचिते।)
ग्राममध्ये पत्तने विप्रवासस्थलेषु वा।
परीक्ष्य शकुनं पूर्वं भुवं संशोधयेत् ततः।। 4.35 ।।
(16)उद्दिष्टां भुवमासाद्य मनसा हरिमव्ययम्।
ध्यात्वा प्राचीशयोः कोणे स्थण्डिलं कल्पयेत् पुरा।। 4.36 ।।
(16.ई. स्थानमासाद्य सर्वेषां वासुदेवं हृदि स्मरन्।।)
पञ्चगव्यैः प्रोक्षयित्वा पुण्याहेन च वारिणा।
नारायणमपां मूर्तिं सरित्तीर्थाभिपूरितम्।। 4.37 ।।
हेमादिकलशे ध्यात्वा हेतीशं चान्तिके घटे।
भोगैरर्घ्यादिभिर्देवं हेतीशं च ततोऽर्चयेत्।। 4.38 ।।
स्थण्डिले स्थापिते वह्नौ वासुदेवं हुनेद् गुरुः।
ततो विसर्जिते देवे सानले कमलोद्भवे।। 4.39 ।।
(17)विश्वकर्मकुलोद्भूता वास्तुशास्त्रविशारदाः।
रथकारवरा ये च तैरप्याराध्यतां हरिः।। 4.40 ।।
(17.ई [ई.15]विश्वकर्मकुलोद्भुतानाहूयाग्रे निवेश्य च।)
(18)यजमानश्चन्दनाद्यैर्मल्यवस्त्रादिकङ्कणैः।
शिल्पिनो रथकारांश्च तोषयेद्यत्नमास्थितः।। 4.41 ।।
(18.ई. माल्यचन्दनसूष्णीषैः भूषितानङ्गुलीयकैः।)
(19)कार्पासं सुदृढं सूत्रं सहस्राराभिमन्त्रितम्।
(20)तेषां हस्ते गुरुर्दद्यात् सहानेकशलाकया।। 4.42 ।।
(19.ई. Sl.42 a-b is the same sl.49 a-b.)
(20.ई. स्थपतीनां करे दद्यात्सह चैकशलाकया।)
यजमानो गुरुश्चैव सर्ववादित्रसंयुतः।
ऐन्द्रात्स्थानादुपक्रम्य ब्राह्मणैर्वेदपाठकैः।। 4.43 ।।
भूसूक्तं चाप्यधीयानैः साधकैर्मन्त्रवित्तमैः।
प्रादक्षिण्येन गच्छन् स भूतानां रक्षसामपि।। 4.44 ।।
पिशाचानां ग्रहाणां च नागानां च सुरद्विषाम्।
ईशानस्थानपर्यन्तं बलिं दत्वा ततो गुरुः।। 4.45 ।।
भूमेर्मध्यममासाद्य गाथामेतामुदीरयन्।
(21)भूताः पिशाचा (22)यक्षाश्च असुरा राक्षसा ग्रहाः।। 4.46 ।।
(21.ई. भूतानि राक्षसा वापि यत्र तिष्ठन्ति केचन।)
(22.पा. नागाश्च.)
(23)व्यपगच्छन्तु ते सर्वे स्थानादस्माद्यथायथम्।
वासुदेवस्य देवस्य सर्वभूतात्मकस्य च।। 4.47 ।।
(23.पा. सर्वे तेऽप्यपगच्छन्तु बलितुष्टाः यथायथम्।
   ई. ते सर्वेऽद्यापगच्छन्तु स्थानं कुर्यामिमं हरेः।)
आलयं कर्तुमिच्छामि भूम्यामत्र श्रियः पतेः।
इति मन्त्रं समुच्चार्य पायसान्नं बलिं क्षिपेत्।। 4.48 ।।
अस्त्रमन्त्रेण विकिरेत् सिद्धार्थान् (24)सर्वतो गुरुः।
(25)एवं बलिं यथाशास्त्रं दत्वा सूत्राणि पातयेत्।। 4.49 ।।
(24.पा. सर्वतः क्षिपेत्।)
(25.पा. कृत्वा बलिं यताशास्त्रं सूत्राण्यपि च पातयेत्।)
(26)क्षीरवृक्षोत्थितान् शङ्कूनष्टदिक्षु च लाञ्छयेत्।
तस्या ईशानकोणे तु प्रतीच्यां मस्तकं रमे।। 4.50 ।।
(26.[ई.15] शङ्कुभिर्यज्ञदारूत्थैर्मुद्रयेच्च दिशाष्टकम्।)
अधोमुखं पाणियुग्मं पादौ चापि प्रसारितम्।
प्रसारिततिले पूर्वं विलिखेद्वास्तुदैवतम्।। 4.51 ।।
तस्य चाङ्गे वासवादीनावाह्या(27)र्चयेत् ततः।
तस्य दक्षिणपार्श्वे तु प्रतिष्ठाप्य हुताशनम्।। 4.52 ।।
(27.ग्र. भ्य)
घृतं पञ्चोपनिषदा सहस्रं शतमेव वा।
जुहुयाद्वास्तुशान्त्यर्थमष्टाविंशतिमेव वा।। 4.53 ।।
अन्नं पुरुषसूक्तेन जुहुयात् षोडशाहुतीः।
यक्षरक्षःपिशाचानां नागानां दानवैः सह।। 4.54 ।।
अपामार्गस्य शम्याश्च (28)खादिरस्य यथाक्रमम्।
शतमष्टोत्तरं कुर्यात् प्रत्येकं समिदाहुतीः।। 4.55 ।।
(28.ग्र. खदिरस्य)
वास्तुनाथस्य मन्त्रेण चरुणा जुहुयाच्छतम्।
पूर्णाहुतिं ततो हुत्वा त्विन्द्रादीनां बलिं क्षिपेत्।। 4.56 ।।
दिक्ष्वष्टसु क्रमाद्देवि तथा ग्रामादिषु क्रमः।

।। इति श्रीश्रीप्रश्नसंहितायां चतुर्थोऽध्यायः ।।