प्रश्नसंहिता/अध्यायः १७
← अध्यायः १६ | प्रश्नसंहिता अध्यायः १७ [[लेखकः :|]] |
अध्यायः १८ → |
।। सप्तदशोऽध्यायः ।।
श्रीः-
गुरुः शिष्ययोपदिशेत् पञ्चकालविधिं पुरा।
इति त्वयोक्तं गोविन्द विस्तरेण तमुच्यताम्।। 17.1 ।।
श्रीभगवान्-
आद्यं कर्माभिगमनमुपादानमतः परम्।
इज्या च पश्चात् स्वाध्यायस्ततो (1)योग इति क्रमः।। 17.2 ।।
(1.पा. यागस्ततः परम्।)
कालानित्थं विभज्यैव भगवत्प्रीतये नरः।
तत्तत्कालेषु सत्कर्म नित्यं कुर्याद्यथाविधि।। 17.3 ।।
तत्क्रमानिह वक्ष्यामि शृणु पद्मसमुद्भवे।
पञ्चपञ्च उषः काल इति शास्त्रे समीरितः।। 17.4 ।।
ब्राह्मो मुहूर्तः सैव स्यात् तदा निद्रां परित्यजेत्।
प्रक्षाल्य पाणिपादं च स्मरेत् पापहरं हरिम्।। 17.5 ।।
गुरोरनुग्रहाज्ज्ञानं वैष्णवत्वमनुत्तमम्।
शेषशेषित्वसंबन्धं जीवात्मपरमात्मनोः।। 17.6 ।।
नित्ययोगमिति ज्ञात्वा सदाचार्यादिपूर्वकम्।
ततः स्नानोपकरणं शुद्धां मृत्स्नां दधन्नरः।। 17.7 ।।
तटाकं वा नदीं गच्छेत् कीर्तयन् हरिमव्ययम्।
नद्यादीनां तटे शुद्धे तत्सर्वं निक्षिपेत् सुधीः।। 17.8 ।।
वेष्टयेद् दक्षिणे कर्णे यज्ञसूत्रं तु मूर्धनि।
उत्तरीयं निर्ऋतेश्च भूमिं गच्छेदतन्द्रितः।। 17.9 ।।
तत्र भूमिं छादयित्वा तृणपर्णैर्विचक्षणः।
दिवा च संध्ययोश्चापि उत्तराभिमुखो द्विजः।। 17.10 ।।
दक्षिणाभिमुखो रात्रौ (2)मलमूत्रं विसर्जयेत्।
जलाशयं ततो गत्वा शौचाय मृदमात्मनः।। 17.11 ।।
(2.पा. वाति वातानुसारिणि।)
अरत्निमात्रमुद्धृत्य जलान्तर्निक्षिपेत् स्थले।
(3)गुदे द्वादश मृत्संख्या लिङ्गे तिस्रस्तु शुद्धये।। 17.12 ।।
(3.पा. मृत्तिकाभिर्द्वादशभिर्गुदं )
मध्ये मध्ये हस्तशुद्धिं कुर्याद् द्विजवरो रमे।
प्रत्येकं हस्तयोः सप्त ततः संहत्य सप्तकम्।। 17.13 ।।
पादयोः पूर्वसंख्याभिर्मृत्स्नाभिः शोधयेत् क्रमात्।
कुर्याद् द्वादश गण्डूषमुपवीतं ततो धरेत्।। 17.14 ।।
आचम्य दन्तान् काष्ठेन पत्रैर्वा धावयेद् द्विजः।
गण्डूषाद्यं ततः कृत्वा स्नानार्थं पुनराचमेत्।। 17.15 ।।
प्राणायामत्रयं कृत्वा सव्याहृतिविधानतः।
विष्ण्वाद्याचार्यकैंकर्यसिद्ध्यर्थं शुद्धिदं हरेः।। 17.16 ।।
अनुज्ञया स्नानमिदं करिष्ये विधिपूर्वकम्।
द्व्यङ्गुलं वलयं प्रोक्तं ग्रन्थिरेकाङ्गुली मता।। 17.17 ।।
चतुरङ्गुलमग्रं स्यात् पवित्रं तु सलक्षणम्।
कुशेन वा सुवर्णेन पवित्रं द्विजसत्तमः।। 17.18 ।।
अनामिकामध्यदेशे शुद्ध्यार्थं धारयेत् सदा।
तुलसीधाममृत्स्नानामन्यद्वा वैष्णवी तु वा।। 17.19 ।।
आनीतां विभजेन्मृत्स्नां त्रिधा कृत्वा क्रमाद्रमे।
भागेनैकेन दिग्बन्धं (4)द्वितीयमृदया द्विजः।। 17.20 ।।
(4.ग्र. द्वितीयेन मृदा)
परिकल्प्य जले पीठं विष्णुतीर्थानि भावयेत्।
ततस्तृतीयभागेन त्वात्मनोऽङ्गेषु लेपयेत्।। 17.21 ।।
अघमर्षणसूक्तेन पुंसूक्तेन हरिं स्मरन्।
मूलमन्त्रेण रत्नेन स्नानं कुर्याद् विचक्षणः।। 17.22 ।।
विष्णुपादक्षालितान्तां गङ्गान्तां विरजानदीम्।
सरिद्वरां च कावेरीं स्मृत्वाचार्यपदाम्बुजम्।। 17.23 ।।
दीक्षाचार्यं ततो देवान् ऋषीन् पितृ(5)गणानपि।
तत्पत्नीश्च समुद्दिश्य जले तिष्ठंस्तु तर्पयेत्।। 17.24 ।।
(5.ग्र. गणांस्तथा।)
नदीतीरं समासाद्य आवहन्तीति वै मनुम्।
उच्चार्य शुद्धवस्त्रे द्वे कौपीनमपि धारयेत्।। 17.25 ।।
ततः प्रक्षाल्य चरणौ पाणी चाचमनं चरेत्।
ललाटादि द्वादशसु धरेत् पुण्ड्राणि वै द्विजः।। 17.26 ।।
षट्पुण्ड्राण्यथवाप्येकं (6)ललाटे धारयेद्रमे।
अतः परं प्रवक्ष्यामि संध्योपासनलक्षणम्।। 17.27 ।।
(6.ग्र. ललाटादिषु वै रमे।)
सूर्योदयात्पूर्वमेव स्वसूत्रोक्तेन वर्त्मना।
(7)भगवत्कैंकर्यसिद्ध्यर्थं संध्योपास्तिं समाचरे।। 17.28 ।।
(7.ग्र. विष्णु)
इति संकल्प्य मनसा सात्त्विकत्यागपूर्वकम्।
प्रातः सायं चार्घ्यदानं गायत्रीमन्त्रमुच्चरन्।। 17.29 ।।
गोशृङ्गमात्रमुद्धृत्य जलमध्ये जलं क्षिपेत्।
एकं शस्त्रास्त्रनाशाय त्वेकं वाहननाशने।। 17.30 ।।
असुराणां वधायैकं हरिं स्मृत्वा तु वै द्विजः।
प्रायश्चित्तार्थमेकं च ततस्तन्मन्त्रसिद्धये।। 17.31 ।।
षडङ्गन्याससहितं प्रणवेन सदा शुचिः।
असावादित्यो ब्रह्मेति तद्दोषस्य प्रशान्तये।। 17.32 ।।
कुर्यात् प्रदक्षिणं चैकं सूर्यनारायणं स्मरन्।
मार्गशीर्षादिमासानामधिदेवांस्तु तर्पयेत्।। 17.33 ।।
अष्टोत्तरसहस्रं वा ह्यष्टोत्तरशतं तु वा।
अथवाष्टाविंशतिः स्याद्यवत्सूर्योदयावधि।। 17.34 ।।
नारायणं हृदि ध्यायन् गायत्रीं वेदमातरम्।
शोषणादींस्ततः कृत्वा बहिरन्तश्च मातृकाम्।। 17.35 ।।
(8)मूले वा केशवादीन् कुर्याद्वै शास्त्रमार्गतः।
पञ्चोपनिषदा ध्यानं पुंसूक्तन्यासमेव च।। 17.36 ।।
(8.ग्र. मूलेन)
चतुर्विंशत्संख्यया वा षडङ्गन्यासपूर्वकम्।
प्राणप्रतिष्ठां कृत्वैव गायत्रीजपमाचरेत्।। 17.37 ।।
पूजारम्भे भयस्थाने नित्यनैमित्तिके तथा।
प्राणान्तिके च दुर्गेषु षडङ्गन्यासमाचरेत्।। 17.38 ।।
मुद्राणां चक्रमुद्रा तु विष्णुसायुज्यसिद्धिदम्।
अग्निप्राकारमुद्रा तु सर्वसिद्धिकरी सदा।। 17.39 ।।
रविमण्डलमध्यस्थं शङ्खचक्रगदाधरम्।
किरीटवनमालादि भूषणैरपि भूषितम्।। 17.40 ।।
पुण्डरीकासनासीनं सर्वदेवनमस्कृतम्।
श्रीभूमिसहितं देवं विभुं नारायणं स्मरन्।। 17.41 ।।
मानसैरुपचारैस्तं षोडशैरर्चयंस्ततः।
मूलमन्त्रेण सहितां गायत्रीं रहितां तु वा।। 17.42 ।।
उपस्थानं ततः कुर्यात् स्वसूत्रोक्तेन वर्त्मना।
औपासनेनाग्निरूपं भगवन्तं यजेद् गृहे।। 17.43 ।।
ततोऽभिगमनं कुर्यात् पूजनं भगवत्प्रियम्।
कृत्वा ततो बहिर्गच्छेदुपादानाय वै द्विजः।। 17.44 ।।
हरेराराधनार्थाय सात्त्विकानि शुचिन्यपि।
पुष्पादीनिच संगृह्य गच्छेद्गेहमथात्मनः।। 17.45 ।।
इज्याकाले तु संप्राप्ते स्नात्वाथ नियतः शुचिः।
स्वसूत्रोक्तविधानेन कुर्यान्माध्याह्निकीः क्रियाः।। 17.46 ।।
परार्थपूजको यस्तु (9)धाम सा प्रवशेद् गुरुः।
(10)वासुदेवार्चनापूर्वम् उत्सवान्तं च पूजयेत्।। 17.47 ।।
(9.ग्र. पूर्वाह्ने भगवद्गृहम्।)
(10.ग्र. प्रविश्य यजनं कुर्यात् ततो माध्याह्नकीः क्रियाः।)
[परदीक्षाविहीनैश्च न भुज्यादेकपङ्क्तिषु।
स्वगृहाराधको यस्तु पूजयेत् पाञ्चरात्रतः।
स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्चैस्तु सस्वरम्।। 17.48 ।।
विष्णोर्निवेदितान्नेन विष्णुपादाम्बुना रमे।
नित्यश्राद्धादिकं कृत्वा वैश्वदेवबलिं ततः।। 17.49 ।।
पङ्क्तिपावनयोग्यैस्तु बन्धुभिः पितृभिस्तथा।
वृद्धैरतिथिभिः साकं मौनी भुञ्जीत (11)वैष्णवैः।। 17.50 ।।
(11.ग्र. वैष्णवः।)
तत्तद्योग्यस्थले तावद् बालानपि च भोजयेत्।
विष्णुशेषं च ताम्बूलं तेभ्यो दद्याच्च चन्दनम्।। 17.51 ।।
तत्तत्काले समश्नीयाद् विष्णुनैवेद्यभक्षणम्।
स्त्रीभिर्वानुपनीतैर्वा न भुज्यादेकपङ्क्तिषु।। 17.52 ।।
तिष्ठन् भुञ्जीत चेद्विप्रः स तु चान्द्रायणं चरेत्।
त्रपुकांस्यादिपात्रेषु करे वामे तथैव च।। 17.53 ।।
अन्नादिकं वै निक्षिप्य दक्षिणेन च पाणिना।
विप्रो भुञ्जीत चेद्देवि स याति नरकं ध्रुवम्।। 17.54 ।।
[स्वाध्यायं ब्रह्मयज्ञाय पठेदुच्चैश्च सस्वरम्।]
सायाह्नकाले संप्राप्ते वेदं वेदार्थमेव (12)वा।। 17.55 ।।
(12.ग्र. च।)
पुराणं धर्मशास्त्रं त पाञ्चरात्रार्थमेव च।
वेदान्तमितिहासादि ह्यन्यं वा सूरिभिः कृतम्।। 17.56 ।।
हरेः कथां च शृणुयात् स्वयं वापि पठेत्तदा।
कर्मणा मनसा वाचा विष्णुसेवापरो भवेत्।। 17.57 ।।
एतेषु शक्तिहीनस्तु द्वयमष्टाक्षरं तु वा।
द्वादशार्णं षडर्णं वा स्मरेन्नान्यं तु चिन्तयेत्।। 17.58 ।।
लम्बमाने ततः सूर्ये स्वसूत्रोक्तक्रमान्वितः।
संध्याकर्म ततः कृत्वा औपासनमथाचरेत्।। 17.59 ।।
पूर्ववत्पूजयेद्विष्णुं भक्तिनम्रो यथाक्रमम्।
अनुयागादिकं सर्वं कृत्वा (13)देशिकसत्तमः।। 17.60 ।।
(13.ग्र. ब्राह्मणपुंगवः।)
शुद्धायां तु स्वशय्यायां ध्यायन्नारायणं विभुम्।
शयीत यदि सेवेत साध्व्या स्वस्य स्त्रिया सह।। 17.61 ।।
शय्यां ततो गुरुः स्नात्वा शुद्धवस्त्रादिकं धरन्।
भजेदन्यं तु शयनं पूर्ववद् वैष्णवः पुमान्।। 17.62 ।।
महानिशि समुत्थाय योगाकाले प्रसन्नधीः।
पादशुद्ध्यादिकं कृत्वा त्वाचम्य च यथाविधि।। 17.63 ।।
बृस्याद्यासनमासीनो योगपर्यङ्कमारुहन्।
प्राणायामेन पुरुषं शङ्खचक्रगदाधरम्।। 17.64 ।।
पीताम्बरं श्वेतवर्णं वनमालादिभूषितम्।
वासुदेवं परं ध्यायन् योगं कृत्वा विचक्षणः।। 17.65 ।।
संहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत्।
हृदि स्थिते वासुदेवे स्वात्मानमपि योजयेत्।। 17.66 ।।
कंचित्कालं तथा ध्यात्वा सृजेद्देहात्तमात्मनः।
शनैर्योगासनमपि त्यक्त्वा गुरुरतन्द्रितः।। 17.67 ।।
भजेत् स्वशयनं देवि सर्वक्लेशापहं शुचि।
इत्थं च कथितो देवि योगकालश्च पञ्चमः।। 17.68 ।।
[एवं कुर्वन्यावदायुर्हरेः सायुज्यतामियात्।
सामान्यदीक्षितानां तु कर्मकाण्डादि कर्म च।। 17.69 ।।
पञ्चकालविधिस्त्वेषा कथिता कमलालये।
विष्णुयागाविरोधेन त्रिसंध्यायां मदंशजाः।। 17.70 ।।
परदीक्षासंस्कृताश्च कर्मकाण्डोक्तवर्त्मना।
तत्तन्मासार्कचेतो(तः)स्थकेशवादीन् समर्चयेत्]।। 17.71 ।।
।। इति श्रीश्रीप्रश्नसंहितायां (14)सप्तदशोऽध्यायः ।।
(14.षोडशोऽध्याय इति मातृकायाम्)