← अध्यायः २३ प्रश्नसंहिता
अध्यायः २४
[[लेखकः :|]]
अध्यायः २५ →
प्रश्नसंहितायाः अध्यायाः

।। चतुर्विंशोऽध्यायः ।।

ततोऽपराह्नसमये त्वस्त्रमन्त्राभिमन्त्रितैः।
वस्त्राभरणमाल्याद्यैरलंकृत्य विशेषतः।। 24.1 ।।
बिम्बान्यर्घ्यादिनाभ्यर्च्य कौतुकं बन्धयेत् क्रमात्।
हेमादिभद्रपीठेषु श्रीभूमिभ्यां जगत्प्रभुम्।। 24.2 ।।
अन्यानि देवबिम्बानि समारोप्य गुरूत्तमः।
पठद्भिः शाकुनं सूक्तं कर्णेति चापरैः।। 24.3 ।।
तथा रथन्तरं साम घोषद्भिस्त्रयीमपि।
ब्राह्मणैः सर्ववादित्रशङ्खैश्छत्रादिधारिभिः।। 24.4 ।।
अन्यैर्यात्रोपकरणैः प्रादक्षिण्येन मन्दिरम्।
नद्यादीनां तटं नीत्वा प्रपां पुण्येन वारिणा।। 24.5 ।।
संप्रोक्ष्य तत्र संस्थाप्य पीठे प्राङ्मुखतो विभुम्।
पुण्याहवाचनं कुर्यादृत्विग्भिः सह देशिकः।। 24.6 ।।
(1)वातवृष्टिक्षमे शुद्धे वारिमध्ये प्रकल्पिते।
(2)चतुर्द्वारसमायुक्ते चतुस्तोरणमण्डिते।। 24.7 ।।
[ईश्वरसंहिता-अध्यायः 18]
(1.मण्डपं जलमध्ये तु वातवृष्टिक्षमं शुभम्।)
(2.चतुस्स्तम्भसमायुक्तं चतुस्तोरणभूषितम्।।)
(3)वितानध्वजसंयुक्ते मुक्ताजालविलम्बिते।
मण्डपे मध्यदेशे तु प्रतिमानुगुणं रमे।। 24.8 ।।
(3.वितानध्वजसंयुक्तं वेष्टितं दर्भमालया।
     प्रतिमानुगुणं भद्रपीठमास्तरणान्वितम्।)
शय्यापीठं सोपधानं मृद्वास्तरणभूषितम्।
निधाय पुण्यसलिलैः प्रोक्षयेन्मण्डपादिकान्।। 24.9 ।।
नद्यादीनां जलं पूर्वं शोधयेच्छोषणादिभिः।
सौरभेयीं प्रदर्श्याथ द्वारपूजां प्रकल्पयेत्।। 24.10 ।।
जलमध्यस्थशय्यायां पीठं संकल्प्य पूजयेत्।
(4)तदूर्ध्वे शेषशय्यां च तीरमासाद्य देशिकः।। 24.11 ।।
(4.अनन्तं कल्पयित्वोर्ध्वे)
देवस्य पुरतो भूमौ कल्पिते धान्यविष्टरे।
विन्यसेत् नवकुम्भांश्च करकं च वरानने।। 24.12 ।।
कुम्भे विशाखयूपं (5)च करके दीप्तचक्रिणम्।
इन्द्रादीनुपकुम्भेषु समावाह्यार्चयेत् क्रमात्।। 24.13 ।।
(5.तु करके च सुदर्शनम्।)
(6)मूलमन्त्रेण (7)देवस्य दद्यादर्घ्यादिकान् गुरुः।
बिम्बाभिमानिनं जीवं संहरेत् क्रमशो रमे।। 24.14 ।।
(6.मूलमन्त्रेण बिम्बस्य अर्घ्यं पाद्यं तथैव च।)
(7.ग्र. बिम्बस्य)
(8)आत्मानं सर्वगं ध्यात्वा सर्वज्ञं निष्कलं विभुम्।
(9)कुर्याद्भावान्वितो मन्त्री तद्विष्णोरधिवासनम्।। 24.15 ।।
(8.आत्मानं सर्वगं ध्यात्वा सर्वज्ञं विष्णुमव्ययम्।)
(9.[ई.अ.18]Sl. 15 c, d is the same as sl.111-c-d.)
(10)प्रणवेन समारोप्य जीवमर्चाभिमानिनम्।
(11)उत्क्राम्यात्मैकतां कृत्वा स्वस्मिन्ना(12) त्मेश्वरं हरिम्।। 24.16 ।।
(10.Sl. 16 a, b same as sl. 112-a, b.)
(11.ग्र. उत्क्रम्य)
(12.सर्वेश्वरे हरौ।।)
(13)संशोध्य मलिनां पृथ्वीं दग्ध्वा बीजान्विताग्निना।
अद्भिः संप्लाव्य तां वायुशुष्कां वह्णौ विलाप्य च।। 24.17 ।।
(13. Sl. 17 a, b, c, d same as sl. 113 a, b, c, d.
       Sl. 18 a, b, c, d " sl. 114 a, b, c, d.
       Sl. 19 a, b, c, d " sl. 115 a, b, c, d.
       Sl. 20 a, b, c, d " sl. 116 a, b, c, d.)
संहृत्य वायुना वह्निं वायुमाकाशतां नयेत्।
आध्यात्मिकाधिदैवैश्च करणैर्विषयैः सह।। 24.18 ।।
तन्मात्रासंस्थितान्येव क्रमात् संहृत्य देशिकः।
नभो मनसि संहृत्य तन्मनोऽहंकृतौ पुनः।। 24.19 ।।
महत्यात्मनि तां चापि नयेदव्याकृतैकताम्।
शान्तानन्ते परे व्योम्नि निष्कले ज्ञानविग्रहे।। 24.20 ।।
तं ध्यायेत् परमानन्दे (14)वासुदेवेऽखिलात्मनि।
यस्मिन्नव्याकृतं लीनं सावस्थं यत्स्वरूपकम्।। 24.21 ।।
(14.संस्थितं शान्तविग्रहम्।)
      Sl. 21c, d same as sl. 117. c,d.
      Sl. 22a, b " sl. 118. c,d.)
तस्मिन्नेव तु संहृत्य पृथिव्यादीनि देशिकः।
बिम्बान्याच्छादयेद्वस्त्रैरापादशिरसोऽवधि।। 24.22 ।।
भट्टाचार्यनियोगेन मूर्तिपा मन्त्रवित्तमाः।
(15)पठन्तः शाकुनं सूक्तं सायाह्ने विष्णुमव्ययम्।। 24.23 ।।
(15.पठद्भिः शाकुनं सूक्तं तता चान्यैस्त्रयीमयैः।)
श्रीभूमिभ्यां नयेन्मन्दं शयने सलिलस्थिते।
अम्भस्येति च मन्त्रेण प्राक्शिरोदङ्मुखं हरिम्।। 24.24 ।।
देवीभ्यां शाययेत् पूर्वमन्यानि परितो रमे।
मध्यकुम्भं च करकं शिरोभागे निवेशयेत्।। 24.25 ।।
बिम्बानां परितः कुम्भांस्तत्तद्दिक्षु निधाय च।
रक्षोहणेति मन्त्रेण चक्रमुद्रां प्रदर्शयेत्।। 24.26 ।।
ऋत्विजो गुरुणादिष्टाः प्रविश्य यजनालयम्।
त्रिस्थानेष्वर्चनं कुर्याद्विधिवत् कमलेक्षणे।। 24.27 ।।
गुरुर्भागवतैः सार्धं कथयन् वैष्णवीः कथाः।
पाठयेयुः पुराणानि चतुर्वेदांश्च भूसुराः।। 24.28 ।।
तीरेषु सर्ववादित्रान् वादयेयुः सवैणिकाः(16)।
नर्त्तक्यो गायनैर्नृत्यैस्तोषयेयुस्तदा हरिम्।। 24.29 ।।
(16.ग्र. वैणिकैः।)
एवं नीत्वा निशां तत्र सर्वे भक्तिसमन्विताः।
एवं दिनं त्रियामं वा द्वियाममथवा रमे।। 24.30 ।।
यामं यामार्धकं वापि जलवासं समाचरेत्।
यावज्जले हरिः शेते तावन्मर्त्यास्तु तज्जले।। 24.31 ।।
प्रविश्य स्नानपानादि पादेनाक्रमणं यथा।
न कर्तव्यं तथा रक्षा कार्या देशिकसत्तमैः।। 24.32 ।।
दुर्गन्धेषु कषायेषु कर्दमेषु जलेषु च।
सक्षारेषु सतिक्तेषु सफेनेषु जलेष्वपि।। 24.33 ।।
दूषितेषु श्मशानाद्यैश्चण्डालाध्यासितेषु च।
(17)एतेषु जलवासादि न कर्तव्यं हरे रमे।। 24.34 ।।
(17.[ई.] एवमादिषु दुष्टेषु जलवासं न कारयेत्।)
(18)परिशुद्धजलाभावे जलद्रोण्यां जलोद्भवे।
प्रपायामेव कर्तव्यं जलाधिवसनं हरेः।। 24.35 ।।
(18.असम्भवे जलद्रोण्यां कटाहे धातुनिर्मिते।)
(19)प्रभाते देशिकेन्द्रस्तु कृतस्नातः कृताह्निकः।
[उत्थानकाले संप्राप्ते कृत्वा चाचमनं गुरुः।]
कुमुदादिबलिं दद्यादृत्विग्भिः मूर्तिपैः सह।। 24.36 ।।
(19.ग्र. एष अर्धश्लोकः लुप्तः।)
उत्थाप्य (20)बिम्बान्युदकात् कुम्भं च कलशानपि।
बिम्बानि पीठे संस्थाप्य वस्त्राण्युद्‌घाट्य देशिकः।। 24.37 ।।
(20.बिम्बमुदकात्)
तत्त्वसृष्टिं च बिम्बानां कुर्यान्न्यसनपूर्वकम्।
(21)तिन्त्रिणीसलिलैः पूर्वं लोहबिम्बानि शोधयेत्।। 24.38 ।।
(21.लोहजाश्चेद्विशुद्ध्यन्ति तिन्त्रिणीफलवारिमिः।)
(22)पूर्वोक्ताभिश्च मृत्स्नाभिरालिप्यापादमस्तकम्।
ततस्तु मध्यकुम्भेन स्नापयेन्मन्त्रपूर्वकम्।। 24.39 ।।
(22.तत्स्थाने एष अर्धश्लोकः दृश्यते-
      अश्वत्थबिल्वतुलसीमृद्भिरालिप्य देशिकः।)
उपकुम्भस्थितान् देवानुद्वास्य तदनन्तरम्।
यानेष्वारोप्य बिम्बानि मण्डयेद्वस्त्रभूषणैः।। 24.40 ।।
यात्रोपकरणैः सार्धं गमयेद्देवमन्दिरम्।
प्रतिकायानि पीठेषु स्थापयेयुश्च मूर्तिपाः।। 24.41 ।।
प्रासादगुरुणा सार्धमाचार्यो मन्त्रवित्तमः।
छायाधिवासकूर्चेभ्यो देवान् बिम्बेषु चिन्तयेत्।। 24.42 ।।
मध्यकुम्भेन मूलार्चां स्नापयेत् स्तूपिका(23)मपि।
लोहादिमूलबिम्बानां महतां मृण्मयस्य च।। 24.43 ।।
(23.ग्र. तथा।)
सुधया निर्मितस्यापि भित्तिस्थानां तथैव च।
चित्रार्धचित्रितानां च गर्भगेहे गुरूत्तमः।। 24.44 ।।
छायाधिवासं स्नपनं दृग्दानं च समाचरेत्।
सुधामयादिबिम्बानामादर्शे कूर्चसंयुते।। 24.45 ।।
छायायां स्नपनं कुर्यात् प्रासादस्य च तद्गुरुः।
छायाधिवासं पूर्वाह्ने सायाह्ने जलवासनम्।। 24.46 ।।
तथा नयनदानं स्याच्छयनं च महानिशि।
प्रातः प्रतिष्ठां कुर्वीत मुहूर्ते शास्त्रचोदिते।। 24.47 ।।
जलाधिवसने चैव तथा नयमनोक्षणे।
शयने च प्रतिष्ठायां नान्यकालो भवेद्रमे।। 24.48 ।।
नयनोन्मीलनात्पूर्वं नवभिः पञ्चभिस्तु वा।
कलशैः स्नापयेत्पूर्वं नयनोन्मीलनं ततः।। 24.49 ।।
तत्त्वन्यसनहोमादीन् कृत्वा देशिकसत्तमः।
पुनः पूर्वोक्तकलशैः संस्नाप्य पुरुषोत्तमम्।। 24.50 ।।
(24)देवीभ्यां देवदेवेशं शय्यायां शाययेत्ततः।
प्रातरुत्थाप्य राज्ञीव भोगान् संदर्शयेत् क्रमात्।। 24.51 ।।
(24.ग्र. देवीभिः)
कलशैः सप्तदशभिर्षोडशैर्द्वादशैस्तु वा।
अभिषिच्याथ देवाय मुद्गान्नं विनिवेदयेत्।। 24.52 ।।
प्रतिष्ठादिवसे प्रातस्त्रींशद्भिः पञ्चविंशकैः।
एकविंशैस्तु वा जिष्णुं कलशैरभिषेचयेत्।। 24.53 ।।
तदन्येद्युः प्रभातायामष्टोत्तरशतैर्घटैः।
एकाशीतिघटैर्वापि संख्यैकेन विहीनया।। 24.54 ।।
पञ्चाशता वा (25)देवीभ्यां देवं संस्नापयेद्रमे।
संस्नाप्य विधिवद्देवं नेत्रदानात् पुरा गुरुः।। 24.55 ।।
(25.ग्र. देवीभिः)
वस्त्राद्यैः समलंकृत्य बिम्बमाच्छाद्य वाससा।
पुरतो धान्यपीठे तु सौवर्णं पात्रमुत्तमम्।। 24.56 ।।
राजतं पात्रमपरं स्थापयित्वा गुरूत्तमः।
मधुनाढकमानेन तथाज्येन च पूरयेत्।। 24.57 ।।
(26)अष्टाङ्गुलायतां हैमां राजतीं च शलाकिकाम्।
पुण्याहवारिणा प्रोक्ष्या शोधयेच्छोषणादिभिः।। 24.58 ।।
(26.[ई.अ. 18] अष्टांगुला च सौवर्णीं शलाका राजती तथा।)
मधुपात्रे पाटलाभं कोटिसूर्यसमप्रभम्।
तेजोमुद्रासमोपेतं नारायणमनामयम्।। 24.59 ।।
मार्ताण्डमण्डलाद्ध्यायेच्छङ्घचक्रगदाधरम्।
(27)चन्द्रकोटिप्रतीकाशं धेनुमुद्रासमन्वितम्।। 24.60 ।।
(27.ग्र. कोटिचन्द्र)
आज्यपात्रे हयग्रीवं चन्द्रमण्डलमध्यतः।
मधुवातेति वै मधु सविराजेति वै घृतम्।। 24.61 ।।
मन्त्रयित्वा नूतनेन वस्त्रेणाच्छादयेत्ततः।
अष्टधान्येषु परितः पात्रेष्वष्टसु वै गुरुः।। 24.62 ।।
(28)आवाहयेत् अष्टलक्ष्मीः कन्यकाः समलंकृताः।
गाश्चापि (29)स्थापयेत् पार्श्वे ब्रह्मघोषेण घोषिते।। 24.63 ।।
(28.ग्र. अष्टलक्ष्मीः समावाह्य)
(29.ग्र. स्थापिताः)
तिरस्करिण्या द्वाराणि निश्छिद्रे पिहिते सति।
(30)हिरण्मयीं शलाकां तु नेत्रमन्त्रेण मन्त्रिताम्।। 24.64 ।।
(30.स्वयं शलाकां सौवर्णीं कृत्वा नेत्राभिमन्त्रिताम्।)
(31)मध्वक्तामभिसंगृह्य दक्षिणं नेत्रमुल्लिखेत्।
(32)आज्याक्तयाथ राजत्या वामं नेत्रं समुल्लिखेत्।। 24.65 ।।
(31.मध्वाक्तां च तथा नेत्रं दक्षिणं त्वीषदुल्लिखेत्।)
(32.आज्याक्तया तया वापि राजत्या वाममुल्लिखेत्।)
नारायणहयग्रीवौ पात्राभ्यां नेत्रयोः स्मरेत्।
(33)अष्टधान्यानि गाः कन्या दर्शयेद्धरये रमे।। 24.66 ।।
(33.अष्टघान्यानि गाश्चैव कन्यकाः पुरतः स्थिताः।)
तत्पात्रमधुसर्पिभ्यां शलाकाभ्यां च देशिकः।
श्रीभूमिवीरलक्ष्मीनां तार्भ्य(34)सेनपयोरपि।। 24.67 ।।
(34.ग्र. सेनपयोस्ततः।)
प्राकारेषु स्थितानां च (35)नेत्रोन्मीलनमाचरेत्।
गुरुस्ततो देवदेवं स्नापयेद्विधिपूर्वकम्।। 24.68 ।।
(35.ग्र. नेत्रदानं समाचरेत्।)
स्थापितानां गोपुरेषु प्रतिमानां च पद्मजे।
प्रासादस्य पुरा देवि दिङ्मूर्तीनां च तद्‌गुरुः।। 24.69 ।।
अन्येषां दिव्यबिम्बानां नेत्रदानं (36)प्रकल्पयेत्।
एवं कृत्वा नेत्रादनं कुर्याच्छायाभिषेचनम्।। 24.70 ।।
(36.ग्र. समाचरेत्।)
ततोऽपराह्नसमये याजकैर्देशिकोत्तमः।
कर्मादिलोहबिम्बानि स्नापयेदुक्तवर्त्मना।। 24.71 ।।
संशोधयेच्छुष्कवस्त्रै(37)र्देवीभ्यां पुरुषोत्तमम्।
वस्त्राद्यैः समलंकृत्य नयनोन्मीलनाय वै।। 24.72 ।।
(37.ग्र. देवीभिः)
(38)कल्पिते तु पुरा पीठे शाययेदैन्द्रमस्तकम्।
उत्तानशयनं कृत्वा हेमतन्तुविनिर्मितैः।। 24.73 ।।
([ई. अ. 18] तत्र पूर्वशिरस्कं च बिम्बं प्रस्वापयेत् द्विजाः।)
(39)कम्बलाद्यैः समाच्छाद्य सर्वाङ्गं जगतीपतेः।
सायाह्नकाले संप्राप्ते पूर्ववद्धान्यविष्टरे।। 24.74 ।।
(39.ततः समन्ताद्बिम्बं तु छादयेत्कम्बलादिभिः।)
मध्वाज्यधान्यपात्राणि निधायाभ्यार्च्य देशिकः।
कर्मबिम्बमुखादीनां नयनोन्मीलनं चरेत्।। 24.75 ।।
दर्शयेदष्टधान्यानि गाश्च कन्याः सुलक्षणाः।
नेत्रोन्मीलनशान्त्यर्थं प्राक्‌कुण्डे देशिकोत्तमः।। 24.76 ।।
(40)वौषडन्तेन मूलेन नेत्रेण मधुना तथा।
घृतेनाष्टोत्तरशतं प्रत्येकं जुहुयाद्रमे।। 24.77 ।।
(40[ई. अ. 18] वौषडन्तेन मूलेन तेनैव जुहुयात्ततः।)
देवमर्ध्यादिनाभ्यर्च्य द्वादशाक्षरविद्यया।
मदुपर्कं निवेद्याथ देवं नीराजयेद् (41)रमे।। 24.78 ।।
(41.ग्र. ततः)
चतुरश्रस्य कुण्डस्य वामे तालोन्नतां शुभाम्।
वेदिं पुरा कृतां शुद्धैर्दर्भैराच्छाद्य देशिकः।। 24.79 ।।
(42)धान्यपीठं प्रकल्प्याथ लाजानूर्ध्वे तु विन्यसेत्।
[लाजोर्ध्वे नूतनं वस्त्रं तदूर्ध्वे रत्नकम्बलम्।। 24.80 ।।]
(42.उपर्युपरि निक्षिप्य लाजानूर्ध्वे तु विन्यसेत्।)
क्षौमं चाभिनवं वस्त्रं सोपधानं न्यसेद् गुरुः।
शय्यां पुण्याहतोयेन प्रोक्ष्य तस्यां फणीश्वरम्।। 24.81 ।।
अभ्यर्च्य देवं देवीभिः प्राक्‌शीर्षं हृन्मनुं स्मरन्।
देशिको मूर्तिपैः साकं शय्यायां शाययेत्ततः।। 24.82 ।।
पूजयित्वार्ध्यगन्धाद्यैः शयनस्थं (43)वरानने।
(44)मूलेन शयनस्थस्य कुर्यादाप्यायनं गुरुः।। 24.83 ।।
(43.विभुं ततः।)
(44.Sl. 84 c, d is same as sl, 269-c, d.)
(45)लेख्यादौ मूलबिम्बे च प्रासादस्थे च कौतुके।
महद्भ्यो मूलबिम्बेभ्यो जीवतत्त्वादिकान् गुरुः।। 24.84 ।।
(45.लेख्यादौ मूलबिम्बे तु प्रासादस्थे द्विजोत्तमाः।)
कर्मबिम्बे विचिन्त्याथ तत्त्वहोमं समाचरेत्।
संकल्प्य तत्त्वहोमार्थं तमग्निं परिषेचयेत्।। 24.85 ।।
प्रतितत्त्वाधिदेवस्य प्रणवं पूर्वमुच्चरन्।
चतुर्थ्यन्तं तु तन्नाम्ना स्वाहान्तं कपिलाघृतैः।। 24.86 ।।
काल्यां तु जुहुयान्मन्त्री द्विचतुःसंख्यया रमे।
संपातेन नमोऽन्तेन तत्तत्स्थानेषु च न्यसेत्।। 24.87 ।।
श्रियादिभ्योऽपि तच्छक्तीः स्मरन्नेवं न्यसेद्‌गुरुः।
संपातन्यसनस्थानं प्रणवेन पिधापयेत्।। 24.88 ।।
ब्रह्मादीनां तथा भक्तबिम्बानां तत्त्वनामभिः।
तत्तत्स्थाने न्यसेद्विद्वान् सावित्र्या तु पिधापयेत्।। 24.89 ।।
पुरा तत्त्वानि संहृत्य सृष्टिन्यासं ततश्चरेत्।
भ्रूमध्ये वासुदेवाख्यं बीजमं रविसंनिभम्।। 24.90 ।।
ध्यायेदीश्वरतत्त्वं तत्तस्मिन् स्थाने तु विन्यसेत्।
स्फटिकाभं जीवतत्त्वं मं बीजं हृत्कजे न्यसेत्।। 24.91 ।।
नारायणश्चाधिदेवस्ततः प्रकृतिसंज्ञितम्।
भं बीजमनिरुद्धस्तु देवतासितवर्णवत्।। 24.92 ।।
उपेन्द्रो बुद्धितत्त्वस्य देवता स्फटिकप्रभः।
बं बीजं पूर्ववन्न्यासो हृदये कमलेक्षणे।। 24.93 ।।
पाटलाभस्त्वहंकारः फंबीजं देवता हरिः।
न्यसनं पूर्ववद्विद्यात् मनसस्तु जनार्दनः।। 24.94 ।।
सितासितनिभो विद्यात् पंबीजं हृदये न्यसेत्।
मधुहाः श्रोत्रयोः शब्दः शुक्लो नं बीजमुच्यते।। 24.95 ।।
त्वचि स्पर्शं लोहिताभं धं बीजं स्यात्त्रिविक्रमः।
दं बीजं वामनो देवस्तेजोवर्णस्तु चक्षुषोः।। 24.96 ।।
रूपतत्त्वं न्यसेद्विद्वान् थं बीजं पाण्डरप्रभः।
रसतत्त्वं श्रीधराख्यो रसनायां न्यसेत् सुधीः।। 24.97 ।।
तं बीजमसितो वर्णः शब्दतत्त्वस्य देवता।
हृषीकेशो नासिकायां न्यसनं शास्त्रसंमतम्।। 24.98 ।।
(46)श्रोत्रं तत्त्वं पाटलाभं णं बीजं देवता रमे।
अनिरुद्धः श्रोत्रदेशे न्यासमाहुर्मनीषिणः।। 24.99 ।।
(46.ग्र. श्रोत्र)
ठं बीजं हेमवर्णः स्यात् त्वक्तत्त्वं पुरुषोत्तमः।
देवताबाहुमूलेषु न्यासः शास्त्रेण चोदितः।। 24.100 ।।
कृष्णवर्णं नेत्रतत्त्वं डंबीजमधिदेवता।
अधोक्षजो नेत्रमध्ये न्यसेत् कमलसंभवे।। 24.101 ।।
जिह्वातत्त्वं गौरवर्णो ठं बीजं नृहरी रमे।
देवतारसनायां च न्यसेत् पञ्चाङ्गभूषणः।। 24.102 ।।
अच्युतो घ्राणतत्त्वस्य देवतानासिकोपरि।
न्यसेद्बीजं टकारं स्यादसितो वर्ण ईरितः।। 24.103 ।।
वाक्तत्त्वस्याधिदेवः स्यात् पद्मनाभः सितप्रभः।
ज्ञं बीजं वाचि विन्यस्य सर्वसिद्धिमवाप्नुयात्।। 24.104 ।।
झं बीजं रक्तवर्णस्तु हस्ततत्त्वस्य देवता।
दामोदरस्तु भुजयोर्न्यासः पद्मसमुद्भवे।। 24.105 ।।
पादतत्तवं रक्तवर्णो जं बीजमधिदेवता।
संकर्षणः पदो न्यासः पाञ्चरात्रेषु चोदितः।। 24.106 ।।
छंबीजं रक्तकान्तिः स्यात् पायुतत्त्वं च देवता।
वासुदेवः पायुपदे न्यसेत्कमललोचने।। 24.107 ।।
प्रद्युम्नस्त्वधिदेवः स्याच्चं बीजं हेमवर्णभाक्।
तत्त्वं मेहनमित्याहुरुपस्थे विन्यसेत् सुधीः।। 24.108 ।।
आकाशस्याधिदेवस्तु केशवोऽञ्जनसंनिभः।
ङं बीजं तत्त्वमाकाशं निराकारमुदीरितम्।। 24.109 ।।
मूर्ध्न आरभ्य नासान्तं विन्यसेत् क्षीरसंभवे।
मारुतो देवता(47)वृन्तं तत्त्वं बीजं(48)घमीरितम्।। 24.110 ।।
(47.ग्र. वृत्तं)
(48.ग्र. समीरितम्।)
नारायणो घ्राणदेशान्नाभ्यन्तं विन्यसेत् क्रमात्।
पाटलाभस्त्रिकोणं च गं बीजं वह्नितत्त्ववत्।। 24.111 ।।
देवता माधवो नाभ्या गुह्यान्तं त्वाज्यसेचनम्।
खं बीजं श्वेतवर्णः स्यादप्तत्त्वं चार्धचन्द्रयुक्।। 24.112 ।।
अधिदेवस्तु गोविन्दो जान्वन्तं विन्यसेत्ततः।
कं बीजं पीतवर्णश्च चतुरश्रं महामते।। 24.113 ।।
पृथ्वीतत्त्वं विष्णुदेवो पादान्तं न्यसनं क्रमात्।
प्राणादिदशवायूनां न्यसनं वक्ष्यतेऽधुना।। 24.114 ।।
यं बीजं राजतो वर्णो मत्स्यः प्राणादिदेवतः (ता)।
आनाभिब्रह्मरन्ध्रान्तं सुषुम्नायां यथाक्रमम्।। 24.115 ।।
होमान्ते विन्यसेद्‌देवि संपाताज्येन देशिकः।
अपाननाथो रं बीजं श्यामाभः कूर्मरूपधृत्।। 24.116 ।।
आनाभि वामनासान्तमिलायां न्यासमिष्यते।
लं बीजमसितो व्यानदेवः पोत्री जगत्पतेः।। 24.117 ।।
आनाभिदक्षिणे घ्राणे पिङ्गलायां तु विन्यसेत्।
नारसिंह उदानेशो वंबीजं श्वेतवर्णभाक्।। 24.118 ।।
नाभ्यादिवामनेत्रान्तं गन्धिन्यां न्यसनं चरेत्।
समानाधिपतिर्हैमः शंबीजं वामनः प्रभुः।। 24.119 ।।
न्यसेद्धस्तिरसज्ञायामानाभि नयनावधि।
पीताभो भार्गवो रामः षंबीजं नागदैवतम्।। 24.120 ।।
आनाभिवामकर्णान्तं पूषाख्यायां न्यसेत्ततः।
कूर्नाड्यधिदेवः स्यात् संबीजं श्यामलप्रभः।। 24.121 ।।
रामो दक्षिणकर्णान्तं यशस्विन्यां न्यसेद्‌गुरुः।
बलरामो धूम्रवर्णो हंबीजं कृकराधिपः।। 24.122 ।।
अलम्बुसायामानाभि पाय्वन्तं न्यासमिष्यते।
देवदत्ताधिपो नीलो ळंबीजं कंस(49)मारकः।। 24.123 ।।
(49.ग्र. वैरिहा।)
आनाभिकन्दान्मेढ्रान्तं कुहूनाड्यां न्यसेद्रमे।
क्षंबीजं श्वेतवर्णस्तु कल्की देवो धनंजयः।। 24.124 ।।
कैशिन्यां विन्यसेद्विद्वानानाभि प्रपदावधि।
बिम्बाभिमानजीवादितत्त्वानां कमलेक्षणे।। 24.125 ।।
अप्राकृतत्वसिद्ध्यर्थमग्नौ तत्त्वान्यथाक्रमम्।
पूर्वोक्तरीत्या हुत्वैव शुद्धीकृत्य जगद्‌गुरोः।। 24.126 ।।
अङ्गेषु संपाताज्येन (50)न्यस्य न्यस्य महामते।
देवतास्थापनेनापि प्राकृतत्वं विमुञ्चति।। 24.127 ।।
(50.ग्र. न्यसनेन)
तस्मादप्राकृतं देवं मांसास्थिरहितं विभुम्।
शुद्धसत्त्वं ज्ञानघनं सृष्टिस्थित्यन्तहेतुकम्।। 24.128 ।।
ध्यायेद् ब्रह्मादिबिम्बानां तत्त्वम् (51)अप्राकृतं भवेत्।
भगवद्बिम्बमात्रस्य देवतान्यसनादिकम्।। 24.129 ।।
(51.ग्र. प्राकृतवच्चरेत्।)
कर्तव्यं तद्विनान्येषां न तत्कार्यविधिर्भवेत्।
ब्रह्माधिपः पद्मनाभः नाभेर्दक्षिणतः स्थितः।। 24.130 ।।
नाभेरुत्तरतो देवि स्थानं संकर्षणस्य तु।
न्यसेदिन्द्रं दक्षिणे तु न्यासो बाहौ तथोत्तरे।। 24.131 ।।
नरोत्तमः प्रजाधीशो मुनीनामधिपस्ततः।
विष्णुर्दक्षिणजङ्घे स्यादुत्तरे यक्षनायकः।। 24.132 ।।
श्रीधरः पादयोर्न्यासो गन्धर्वेशस्तु वामनः।
संवत्सरेशः पीताभस्त्वच्युतं मूर्ध्नि विन्यसेत्।। 24.133 ।।
मासाधिपान् केशवादीनामूर्ध्नश्चरणावधि।
स्फटिकाभो वासुदेवो हृदये प्रणवाधिपः।। 24.134 ।।
नारायणस्त्वगाधीशः श्यामः शिरसि विन्यसेत्।
दक्षिणोत्तरयोर्देवि यजुःसाम्नोस्तु देवयोः।। 24.135 ।।
संकर्षणश्च प्रद्युम्नो नाभिदेशे त्वथर्वणः।
न्यसनं चानिरुद्धस्य वृक्षेशस्याच्युतस्य च।। 24.136 ।।
अब्धिनाथं न्यसेद्‌गुह्ये पाण्डराभं त्रिविक्रमम्।
शैलाधिपं हरिं पीतं (52)न्यसेत् जङ्घाद्वये गुरुः।। 24.137 ।।
(52.ग्र. जङ्घयोर्न्यसनं भवेत्।)
अनिरुद्धं श्यामलाभं भुवनानामधीश्वरम्।
उत्तमाङ्गे हरेर्नाभौ पादयोश्च न्यसेद्रमे।। 24.138 ।।
द्वादशार्णानि हुत्वाथ सृष्टिन्यासं समाचरेत्।
न्यसेद्‌धृदादि षण्मन्त्रान् स्थानेषु हृदयादिषु।। 24.139 ।।
किरीटं शीर्षदेशे तु श्रीवत्सं दक्षिणोरसि।
कौस्तुभं वामभागे तु वनमालां गले न्यसेत्।। 24.140 ।।
(53)चक्रं शङ्खं दक्षवामकरयोर्न्यासमिष्यते।
गदा सव्ये करे दक्षे पद्मं न्यस्याद् गुरूत्तमः।। 24.141 ।।
(53.ग्र. चक्रं दक्षिणहस्ते स्याच्छङ्खमुत्तरतो रमे।)
वामे शार्ङ्गं करे बाणं दक्षिणे कटिनन्दकम्।
देवस्य दक्षिणे लक्ष्मीर्वक्षस्युत्तरतो भुवम्।। 24.142 ।।
ऊरुमूले वैनतेयमनन्तं चरणाम्बुजे।
न्यासं द्विभुजबिम्बस्य वदामि कमलासने।। 24.143 ।।
देवस्य दक्षिणे हस्ते चक्रं शङ्खं च वामके।
कौमोदकीं नन्दकं च न्यसेद्धवनपूर्वकम्।। 24.144 ।।
एष न्यासो नवीनानां बिम्बानामालयस्य च।
जीर्णोद्धारप्रोक्षणादौ तेषां न्यासो न विद्यते।। 24.145 ।।
सहस्रशीर्षचरणहस्तनेत्रादिभिर्युताम्।
गर्भगृहगतां शक्तिं पञ्चविंशतिभिः कुशैः।। 24.146 ।।
हस्तैकायामकूर्चे तु ध्यात्वाऽऽवाहनपूर्वकम्।
तदाचार्यस्तस्य कुण्डे प्राङ्मुखोऽवस्थितस्ततः।। 24.147 ।।
तत्त्वाध्वानं न्यसेत् कूर्चे हुत्वाज्येन वरानने।
भुवनाध्वानमधिकं विमानन्यासमिष्यते।। 24.148 ।।
उत्तमाङ्गे सत्यलोकं तपोलेकं न्यसेन्मुखे।
जनोलोकं कण्ठमध्ये महोलोकं भुजान्तरे।। 24.149 ।।
स्वर्गलोकमधोभागे भुवर्लोकं पिचण्डिके।
नाभिदेशे त्वन्तरिक्षं मध्ये भूलोकसंज्ञिकम्।। 24.150 ।।
पादाध्वानं ततोऽधस्ताद्विन्यसेत् प्रपदावधि।
गुह्ये त्वतललोकं च सक्थ्यां वितलसंज्ञिकम्।। 24.151 ।।
नितलाख्यं द्वयोरूर्वोर्जानुदेशे रसातलम्।
जङ्घाद्वये तु सुतलं पादयोस्तु तलातलम्।। 24.152 ।।
ततः प्रपदयोर्देवि पातालं विन्यसेद् गुरुः।
कालाध्वानं ततः कुर्यात् सृष्टिन्यासक्रमाद्रमे।। 24.153 ।।
परार्धं प्रथमं शीर्ष्णि द्वितीयमलके न्यसेत्।
स्वायंभुवं नासिकायां वाचि स्वारोचिषं न्यसेत्।। 24.154 ।।
उत्तमं चुबुके कण्ठे तामसाख्यं मनुं न्यसेत्।
कण्ठमध्ये रैवताख्यं चाक्षुषं वक्षसि न्यसेत्।। 24.155 ।।
वैवस्वतमनुं चित्ते सूर्यसावर्णिनामकम्।
जठरे नाभिदेशे तु दत्तसावर्णिनामकम्।। 24.156 ।।
ऊरुमूलद्वये ब्रह्मसावर्णिकमनुं तथा।
रुद्रसावर्णिनामानमूरुमध्ये जलोद्भवे।। 24.157 ।।
धर्मसावर्णिकं जान्वोर्जङ्घयो रौच्यनामकम्।
अङ्घ्रियुग्मे भौच्यमनुं विन्यसेत् कमलेक्षणे।। 24.158 ।।
मुखे कृतयुगं नाभौ त्रेतायुगमनिन्दिते।
द्वापरं विन्यसेदूर्वोः कलिमङ्घ्र्योश्च विन्यसेत्।। 24.159 ।।
संवत्सरं ललाटे तु चित्ते च परिवत्सरम्।
न्यसेदिदावत्सरं तु नाभिदेशे गुरूत्तमः।। 24.160 ।।
जान्वोरिद्वत्सरं विद्याद्वत्सरं पादपद्मयोः।
विन्यसेद्दक्षिणे हस्ते दक्षिणायनमब्जजे।। 24.161 ।।
दक्षिणेतरहस्ते तु विन्यसेदुत्तरायणम्।
वसन्तग्रीष्मवर्षाश्च शरद्धेमन्तसैशिरान्।। 24.162 ।।
स्कन्धे मध्ये पदे दक्षे वामभागे तथा न्यसेत्।
मार्गसीर्षं मूर्ध्नि तैषं भ्रुवोर्मध्ये तु विन्यसेत्।। 24.163 ।।
नासिकायां माघमासं फाल्गुनं वदने न्यसेत्।
कण्ठे चैत्रं तु वैशाखं वक्षसि ज्येष्ठमब्जजे।। 24.164 ।।
हृदयेऽषाढमासं च कुक्षौ नाभ्यां तथा गुरुः।
श्रावणं तूरुमूले च देवि भाद्रपदं न्यसेत्।। 24.165 ।।
तथा चाश्वयुजं जान्वोर्जङ्घापादेषु कार्तिकम्।
वामनेत्रे शुक्लपक्षं कृष्णपक्षं तथेतरे।। 24.166 ।।
कलादि दिवसान्तं तु मूर्धादेः प्रपदावधि।
शिरोरुहेषु रजनीं ललाटे दिवसं न्यसेत्।। 24.167 ।।
संधिदेशेषु संध्यां च यामां नेत्रद्वये रमे।
मुखे मुहूर्तं कण्ठे तु नाडिं वक्षःस्थले क्षणम्।। 24.168 ।।
नाभौ कलां गुह्यदेशे काष्ठां जान्वोर्लवं ततः।
त्रुटिं पादद्वये न्यस्य वर्णाध्वानं ततश्चरेत्।। 24.169 ।।
ब्राह्मणं वदने बाह्वोः (54)ऊर्वोः क्षत्रियमूरुजम्।
(55)पादयोः शूद्रजातिं च संधिष्वप्यनुलोमजम्।। 24.170 ।।
(54.ग्र. क्षत्रियं चोरुवोस्तथा।)
(55.ग्र. विशं पादद्वये शूद्रं)
गुरुरित्थं तत्तदङ्गे न्यसेत्कमलसंभवे।
उद्गीथं मूर्ध्नि विन्यस्य त्वष्टार्णं वदने न्यसेत्।। 24.171 ।।
हृदये द्वादशमनुं षडर्णं नाभिदेशतः।
ततो (56)बिम्बं समुत्थाप्य उत्तिष्ठेति च मन्त्रतः।। 24.172 ।।
(56.ग्र. कूर्चं)
स्नानमण्डपमानाय्य स्नापये (57)द्विधिवद् गुरुः।
निवेद्य सात्त्विकान्नानि ताम्बूलं मुखवासनम्।। 24.173 ।।
(57.ग्र. अर्चया सह।)
ततो नीराज्य तद्बिम्बं शय्यास्थानं नयेत्सुधीः।
रम्ये च मण्डपे वेद्यां धान्यपीठं प्रकल्प्य च।। 24.174 ।।
दारुजं सुदृढं स्निग्धं चतुरश्रायतं शुभम्।
(58)दान्तं राजतहेमादि चतुष्पादसमन्वितम्।। 24.175 ।।
(58.ग्र. चतुरश्रसमायुक्तं)
खट्वासंज्ञिकपर्यङ्कं तदूर्ध्वे स्थापयेद्रमे।
तस्मिन् रत्नमयीं डोलां किंकिणीशतशोभिताम्।। 24.176 ।।
मृदूपधानतूलाढ्यां मुक्तादामविलम्बिताम्।
धूपितामगरूभिश्च (59)कर्पूराद्यभिवासिताम्।। 24.177 ।।
(59.ग्र. कर्पूरैश्चाधिवासिताम्।)
प्रकल्प्यैवंविधां शय्यां डोलायाः परितो गुरुः।
खट्वासंज्ञिकपर्यङ्के प्रसार्य तिलसंहतिम्।। 24.178 ।।
व्याघ्रचर्म तदूर्ध्वे तु मृगचर्माथवा रमे।
विन्यसेत् कलसानष्टौ प्रागादिषु यथाक्रमम्।। 24.179 ।।
शिरोभागे व्यूहकूम्भं दक्षिणे करकं न्यसेत्।
पुण्याहवारिभिः प्रोक्ष्य द्वारपूजादिकं चरेत्।। 24.180 ।।
विशाखयूपं कुम्भे तु करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु ध्यात्वावाह्य (60)पूजयेत्।। 24.181 ।।
(60.ग्र. प्रपूजयेत्।)
विमानकूर्चं पर्यङ्के शाययेत् प्राक्‌शिरो रमे।
डोलायां पन्नगाधीशमभ्यर्च्य गुरुसत्तमः।। 24.182 ।।
देवीभिर्देवदेवेशं भद्रं कर्णेति मन्त्रतः।
मूर्तिपैः सह शय्यायां प्राक्‌शीर्षं शाययेद्रमे।। 24.183 ।।
अर्घ्यादिभिः समभ्यर्च्य भक्ष्यादीन् घृतपाचितान्।
चतुर्विधान्नसहितं फलानि विविधानि च।। 24.184 ।।
गोक्षीरं नवनीतं च शर्करासंयुतं (61)तथा।
निवेद्य दद्यात् ताम्बूलं मुखवाससमन्वितम्।। 24.185 ।।
(61.ग्र. रमे)
नीराजयेद्वर्ममन्त्रमुच्चरन् दीक्षितोत्तमः।
वाससा गन्धयुक्तेन सर्वाङ्गं छादये(62)त्ततः।। 24.186 ।।
(62.ग्र. रमे)
चक्रमुद्रां तु रक्षार्थं दर्शयेन्मन्त्रपूर्वकम्।
ततोऽवशिष्टयामिन्यां वीणागानादिभिर्विभुम्।। 24.187 ।।
तोषयेद्यजमानं तु शाययेत् स्वप्नसिद्धये।
उपोषितं च सुस्नातं नियमेन समनवितम्।। 24.188 ।।
देशिकेन्द्रः प्रभातान्तमित्थं नीत्वा च मूर्तिपैः।
स्नानादि नित्यकर्माणि कृत्वर्त्विग्भिश्च मण्डपम्।। 24.189 ।।
प्रविश्य देवदेवेशं द्वारपूजादिपूर्वकम्।
पूजयित्वा च देवीभिरुत्थाप्य शयनाद्रमे।। 24.190 ।।
अर्घ्यादिभिर्निवेद्यान्नं क्षीरादीनि च देशिकः।
प्रबुद्धं यजमानं तु स्नातं मण्डपमागतम्।। 24.191 ।।
पृच्छेत् स्वप्नं हरिं ध्यात्वा शुभं वाप्यशुभं (63)ततः।
अशुभं चेद्देशिकेन्द्रः तच्छान्त्यर्थं हुताशने।। 24.192 ।।
(63.ग्र. प्रभुम्)
स्वप्नाधिपतिमन्त्रेण ह्यस्त्रसंपुटितेन च।
दोषं जहि जहि स्वाहेत्यष्टाविंशतिसंख्यया।। 24.193 ।।
हुत्वाज्यं पादमारभ्य जान्वन्तं कौतुके न्यसेत्।
दध्ना हुत्वाथ जान्वादि नाभ्यन्तं तेन संस्पृशेत्।। 24.194 ।।
क्षीरेण हुत्वा नाभ्यादि नासान्तं न्यासमाचरेत्।
मधुना च तथा हुत्वा स्पृशेत् घ्राणाच्छिरोऽवधि।। 24.195 ।।
स्नानमण्डपमानीय देवीभिः सहितं विभुम्।
स्नापयित्वा यताशास्त्रं पूजयित्वा यथाविधि।। 24.196 ।।
अन्नादीन् विनिवेद्याथ मूलबिम्बात् समागताम्।
शक्तिमावाहने पात्रे ध्यात्वा मूले नियोजयेत्।। 24.197 ।।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेद् गाथयानया।
ईश त्वमसि सर्वज्ञः षाड्गुण्यपरिकर्मितः।। 24.198 ।।
बहुभिर्हायनैर्देव योगिभिर्दैवतैरपि।
न गम्यः किं पुनर्मर्त्याः पश्यन्ति भवतस्तनुम्।। 24.199 ।।
श्रीवत्सकौस्तुभधर श्रीपते पुरुषोत्तम।
यथा दारुषु गूढोऽग्निस्तथा त्वं सर्वगः प्रभुः।। 24.200 ।।
तथापि प्रार्थयेऽर्चायां त्वां भक्त्या जगतः (64)कृते।
भक्तवत्सल भक्तानां दर्शयात्मानमच्युत।। 24.201 ।।
(64.ग्र. पते)
पूजां गृहाण मद्दत्तां लोकानां हितकाम्यया।
इति (65)संप्रार्थ्य देवेशमर्ध्यपाद्यादिभिर्यजेत्।। 24.202 ।।
(65.ग्र. विज्ञाप्य)
अन्नादीन् विनिवेद्याथ स्तूयाद्विष्णुं जगत्पतिम्।
पाठयेद् ब्राह्मणान् धातर्यद्दक्षेति च मन्त्रपम्।। 24.203 ।।
यो विश्वतश्चक्षुरिति पतिं विश्वस्य इत्यृचा।
द्वा सुपर्णेति तदनु अतो देवेति वै (66)मनुम्।। 24.204 ।।
(66.ग्र. ततः)
ऋङ्मयं पौरुषं सूक्तं ततः परतमान्विति।
अजस्य नाभाविति च सामगांश्चार्चतेति च।। 24.205 ।।
ततो (67)नीराज्य लक्ष्मीशं व्योमयानगुरुस्तथा।
कूर्चाच्छक्तिं (68)समावाह्य विमाने पूजयेत्ततः।। 24.206 ।।
(67.ग्र. विमाने तु ध्यात्वा संपूजयेत् ततः।)
(68.ग्र. नीराजयेद्देवं)
नित्यहोमादिकान् कृत्वा पूर्णान्तं मन्त्रवित्तमाः।
धरन्तः स्रुक्स्रुवौ हस्तैर्ब्राह्मणैर्वेदपारगैः।। 24.207 ।।
शं नो मित्राद्युपनिषदं पठन्तस्तूर्यघोषवत्।
धाम प्रदक्षिणीकृत्य ऋत्विग्भिर्देशिकोत्तमः।। 24.208 ।।
संपाताज्यधरो गर्भगेहमन्तः प्रविश्य च।
न्यसेद्देवस्य शिरसि पुंसूक्तेनाभिमन्त्रितम्।। 24.209 ।।
विमानं च समारुह्य तद्‌गुरुस्तत्र वै न्यसेत्।
उपक्रमदिनादित्थं प्रतिष्ठान्तं च कालयोः।। 24.210 ।।
न्यसनीयं त्वाज्यशेषं नो चेत्कर्म निरर्थकम्।
नित्यवन्मध्यकुम्भे च संपाताज्यं न्यसेत्ततः।। 24.211 ।।
आज्यैः पञ्चोपनिषदा प्रायश्चित्ताहुतीस्चरेत्।
चतुःस्थानस्थितानां च नीराज्याथं बलिं क्षिपेत्।। 24.212 ।।
प्रतिष्ठादिनपर्यन्तमेवं कुर्यात् विचक्षणः।
प्रतिष्ठासमयो देवि मध्याह्ने भविता यदि।। 24.213 ।।
पूर्वोक्तकाले स्नपनं कुर्याद्रक्षापुरःसरम्।
तल्लग्नकालं प्रत्यूषे संभवेद्यदि पद्मजे।। 24.214 ।।
तद्दिनात्पूर्वदिवसे सायाह्ने त्वभिषेचयेत्।
वीरलक्ष्म्यादिबिम्बानि तार्क्ष्यसेनाधिपावपि।। 24.215 ।।
भक्तबिम्बान्यलंकृत्य लोहजानि चतुर्भुजे।
मूर्तिपैः स्थापयेत्तत्तत् स्थानेषु क्रमशो गुरुः।। 24.216 ।।

।। (69)(69.मातृकायां अत्र अध्यायसमाप्तिः दृश्यते। चतुर्विंशोऽध्याय इति भाव्यम्। ग्र. पुस्तके तु एतदुत्तरश्लोकाः अस्मिन्नेवाध्यायेऽन्तर्भाविताः सन्ति।)इति श्रीश्रीप्रश्नसंहितायां प्रतिष्ठाकर्मणि त्रयोविंशोऽध्यायः ।।

प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकाः क्रियाः।
[ऋत्विग्भिर्यजमानेन विमानगुरुणा सह।। 24.217(1) ।।]
प्रविश्य यजनागारं नित्यहोमादिकं चरेत्।
ततश्च मन्त्रलोपादिशान्त्यर्थं जुहुयाद्रमे।। 24.218(2) ।।
मन्त्रलोपप्रशान्त्यर्थं स्वकुण्डे देशिकोत्तमः।
आज्यैस्तिलैः पायसैश्च सिद्धान्नैर्भक्ष्यवस्तुभिः।। 24.219(3) ।।
मधुना च प्रतिद्रव्यमष्टाविंशतिसंख्यया।
मूलमन्त्रेण हुत्वाथ कुर्यात् पूर्णाहुतिं रमे।। 24.220(4) ।।
क्रियालोपस्य शमनं कुण्डे कोदण्डसंज्ञिते(79)
घृतेन पयसा दध्ना बीजैर्धान्यैश्च तण्डुलैः।। 24.221(5) ।।
(70.ग्र. संज्ञिके।)
फलमूलादिभिर्बिल्वपल्लवैः पूर्वसंख्यया।
संकर्षणाख्यमन्त्रेण हुत्वा पूर्णाहुतिं चरेत्।। 24.222(6) ।।
द्रव्यलोपप्रशान्त्यर्थं वृत्तकुण्डे वरानने।
पुण्डरीकैरन्यपुष्पैराज्यैर्दूर्वाङ्कुरैरपि।। 24.223(7) ।।
प्रद्युम्नाविद्यया मन्त्री जुहुयात् पूर्वसंख्यया।
स्वरलोपादिशान्त्यर्थं त्रिकोणे पयसा सह।। 24.224(8) ।।
धात्रीफलैर्बिल्पफलैराज्यान्नैः कदलीफलैः।
शर्कराभिः पद्मबीजैरनिरुद्धाख्यविद्यया।। 24.225(9) ।।
याजकाः स्वस्वकुण्डे तु हुत्वा पूर्णाहुतिं चरेत्।
तिलानां संहतेर्होमो हरिणाननमुद्रया।। 24.226(10) ।।
घृतस्य कार्षिको होमः क्षीरस्य च विशेषतः।
शुक्तिमात्राहुतिर्दध्नः प्रसृतिः पायसस्य तु।। 24.227(11) ।।
ग्रासार्धमानमन्येषां भक्ष्याणां स्वप्रमाणतः।
सर्वेषामपि बीजानां (71)मुष्टिमात्रं तु होमयेत्।। 24.228(12) ।।
(71.ग्र. मुष्टिमानेन)
अग्राङ्गुलिस्तु शालीनां लाजानां हवनं तथा।
फलानां स्वप्रमाणं च पल्लवानां (72)तथा भवेत्।। 24.229(13) ।।
(72.ग्र. भवेद्रमे।)
गुलं कर्कन्धुमात्रेण (73)गुग्गुलुर्मुष्टिमात्रतः।
समित्प्रादेशमात्रेण न वक्राः सत्वचस्तथा।। 24.230(14) ।।
(73.गुग्गुलूम्मुष्टि)
अष्टाङ्गुलिप्रमाणैर्वा चतुरङ्गुलिभिस्तु वा।
दूर्वाकाण्डानि जुहुयात् तत्तत्काले तु देशिकः।। 24.231(15) ।।
भट्टाचार्यो मूर्तिपाभ्यामुत्तिष्ठ इति मन्त्रतः।
संप्रार्थ्य भूमिनीलाभ्यां कर्मार्चां भद्रविष्टरे।। 24.232(16) ।।
स्थापयित्वा वस्त्रमाल्यैर्भूषणैर्गन्धवस्तुभिः।
अलंकृत्याथ बिम्बानि यजेदर्घ्यादिना ततः।। 24.233(17) ।।
भक्ष्यादीनि निवेद्याथ ताम्बूलं दर्पणं तथा।
कुण्डेषु प्रार्थितान् पूर्वं वासुदेवादिकाननु।। 24.234(18) ।।
बालबिम्बस्थितमपि मध्यकुम्भे हरिं स्मरेत्।
चक्रब्जकर्णिकामध्ये वासुदेवे जगन्मये।। 24.235(19) ।।
तद्दलेषु स्थितान् देवान् केशवादीन् नियोजयेत्।
विचिन्तयेत् कर्णिकायां स्थितं देवं घटे तथा।। 24.236(20) ।।
करकस्थं चक्रराजं गर्भद्वारे नियोजयेत्।
द्वारकेतनकुम्भेषु स्थितान् पार्षदपुंगवान्।। 24.237(21) ।।
उद्वासयेन्महत्पूर्वे बलेः पीठे सरोद्भवे।
सोमकुम्भाच्चन्द्रमसं पालिकाद्यधिदेवताः।। 24.238(22) ।।
तत्तत्स्थाने विचिन्त्याथ वासुहोमं गुरूत्तमः।
आचरेदेकबेरे तु गर्भद्वारस्य दक्षिणे।। 24.239(23) ।।
सुस्नातान् धौतवसनान् स्वच्छमृत्स्नोर्ध्वपुण्ड्रकान्।
चन्दनाद्यनुलिप्ताङ्गान् पुष्पमाल्यैरलंकृतान्।। 24.240(24) ।।
आहूय पुण्यसलिलैः प्रेष्यानपि च शुद्धयेत्।
पक्षीन्द्रं तेषु संभाव्य तल्लग्ने समुपस्थिते।। 24.241(25) ।।
यात्रादानं वैष्णवेभ्यो ज्योतिःशास्त्रविदे तदा।
दत्वा कुम्भस्थितं देवं प्रार्थयेन्मन्त्रवित्तमः।। 24.242(26) ।।
मन्त्रात्मन् रूपमात्मीयं विभुत्वमुपसंहर।
राजराष्ट्राभिवृद्ध्यर्थं स्थित्यर्थं जगतां प्रभो।। 24.243(27) ।।
नमस्तेऽस्तु हृषीकेश उत्तिष्ठ जगतां पते।
मदनुग्रहाय च विभो (74)मूलिबम्बं समाश्रय।। 24.244(28) ।।
(74.ग्र. त्वदर्चायां)
संप्रार्थ्यैवं महाकुम्भमुपकुम्भपुरःसरम्।
उत्तिष्ठेति समुद्‌धृत्य स्थापयेत्प्रेष्यमूर्धसु।। 24.245(29) ।।
शिरःसु परिचाराणां (75)वैमानिकघटानपि।
पक्षीन्द्रास्ते (76)वहेयुस्तु भद्रपीठगतं हरिम्।। 24.246(30) ।।
(75.ग्र. घटान् वैमानिकानपि।)
(76.ग्र. भद्रपीठं वहेयुः स्कन्धदेशतः।)
भट्टाचार्यः पुरस्तेषां धारयाच्छिद्रया सह।
करकं तु समादाय गच्छेदस्त्रं समुच्चरन्।। 24.247(31) ।।
बिम्बकुम्भधृतानां च गुरोश्चैव यद्तरम्।
तन्मध्येऽन्ये न गच्छेयुर्यदि गच्छेददीक्षितः।। 24.248(32) ।।
दीक्षितो वा तेन देवि तत्कार्यं विफलं भवेत्।
अतश्च यजमानेन सर्वेषां पुरतो रमे।। 24.249(33) ।।
हरिं पश्यन् गुरुश्चापि सावधानेन चेतसा।
गच्छेत्ततः पुरोभागे वेदघोषपुरःसरम्।। 24.250(34) ।।
तूर्यादि सर्ववादित्रं घोषयेयुश्च वै रमे।
बिम्बस्य पश्चाद्वेदज्ञाः पठेयुः शाकुनं तथा।। 24.251(35) ।।
भद्रं कर्णं दक्षिणस्यामुत्तरस्यां निषद्वरम्।
नानारत्नानि पुष्पाणिविकीर्य(किर?)न्तो महाजनाः।। 24.252(36) ।।
गच्छेयुरादरान्मन्दं देवेन सहिता रमे।
निनयेद् बिम्बकुम्भादीनित्थमाचार्यसत्तमः।। 24.253(37) ।।
दर्शनं यत्र वै देवि व्योमयानस्य तत्स्थलम्।
प्रादक्षिण्येन देवेशं तत्स्थाने स्तापयेत्ततः।। 24.254(38) ।।
प्रासादाग्रं समासाद्य महाकुम्भेन तद्‌गुरुः।
स्तूपिकायाः पुरा कृत्वा सूक्ष्मस्नपनमब्जजे।। 24.255(39) ।।
विमानमूलदेशे तु चिन्तयेद्योगपीठिकाम्।
महाकुम्भं स्तूपिकां च स्वात्मानं क्षौमवाससा।। 24.256(40) ।।
आच्छाद्य कुम्भमध्यस्थमनिरुद्धं समर्च्य च।
सहस्रशीर्षचरणहस्तनेत्रैरलंकृत।। 24.257(41) ।।
त्वद्रूपसदृशार्चायां सांनिध्यं शाश्वतं कुरु।
इति संप्रार्थ्य कुम्भस्थं व्योमयाने विचिन्तयेत्।। 24.258(42) ।।
ततस्तु कलशाधारवेदिकायां सुदर्शनम्।
ध्यात्वा कुम्भे वासुदेवं मन्त्रन्यासादिकं चरेत्।। 24.259(43) ।।
महाकुम्भे स्थितं कूर्चमा(77)श्वत्थं पल्लवं तथा।
वस्त्रं च तत्कुम्भगले बन्धयेदभिषेचयेत्।। 24.260(44) ।।
(77.ग्र. आम्रपल्लवमेव च।)
नीराजयित्वा देवेभ्यो दिक्‌स्थितेभ्यो बलिं क्षिपेत्।
पललं रजनीचूर्णं लाजांश्च दधिसक्तवः।। 24.261(45) ।।
बल्यन्नेन च संयोज्य गाथामेतामुदीरयन्।
आद्याश्च कर्मजाश्चैव ये भूताः प्राग्दिशि स्थिताः।। 24.262(46) ।।
यूयं प्रसन्ना (78)मद्दत्तां गृह्णीत बलिमादरात्।
दक्षिणस्यां दिशि तथा वृक्षाग्रे पर्वते स्थिताः।। 24.263(47) ।।
(78.ग्र. मद्दत्तं)
भूमौ व्योम्नि स्थिता ये च ते गृह्नन्तु बलिं मम।
विनायकाः क्षेत्रपालाः पश्चिमस्यां दिशि स्थिताः।। 24.264(48) ।।
पूष्णाद्याः पार्षदा ये च गुह्णन्तु बलिमद्य मे।
चण्डाद्याः कुमुदाद्याश्च दिशि सोमस्य वै स्थिताः।। 24.265(49) ।।
विष्णुपारिषदाः सर्वे गृह्णन्तु बलिमुत्तमम्।
इत्थं बलिं चतुर्दिक्षु (79)कृत्वान्यैः कलशोदकैः।। 24.266(50) ।।
(79.ग्र. क्षिप्त्वा)
दिङ्मूर्तिव्योमयानस्थाः मण्डपान् गोपुरानपि।
यागशालां पाकशालां स्थलान्यन्यानि सेचयेत्।। 24.267(51) ।।
बलिदानात् परं देवं महापीठपुरो भुवि।
यद्वा गर्भगृहद्वारे संनिरोध्यार्ध्यवस्तुभिः।। 24.268(52) ।।
नीराजनान्तमभ्यर्च्य बिम्बकुम्भादिभिः सह।
हृन्मन्त्रमुच्चरन्नन्तः प्रविशे(80)द्देशिकोत्तमः।। 24.269(53) ।।
(80.ग्र. देशिकस्ततः।)
महाकुम्भोपकुम्भांश्च स्थापयेद्धान्यविष्टरे।
जाम्बूनदार्चनापीठे ध्रुवार्चापुरतः स्थिते।। 24.270(54) ।।
कर्मार्चां स्तापयेद्ब्राह्मे श्रीभूम्यौ पार्श्वयोस्ततः।
वामे तु मखबिम्बादीन् स्थापयेल्लौकिकं रमे।। 24.271(55) ।।
हेमादिलोहजं बिम्बं स्थापयेदिष्टभूमिषु।
भद्रपीठं बहिर्नीत्वा गर्भद्वारं गुरूत्तमः।। 24.272(56) ।।
तिरस्करिण्या चाच्छाद्य बध्वा पद्मासनाह्वयम्।
मूलबिम्बादिपीठेषु योगपीठं प्रकल्प्य च।। 24.273(57) ।।
अर्घ्यादिना समभ्यर्च्य महाकुम्भादिषु स्थितान्।
पुष्पाञ्जलौ स्मरेत् पद्मं तत्पद्मे योगपीठिकाम्।। 24.274(58) ।।
[उत्थानशायिनं विष्णुं वासुदेवं परात्परम्।
परमानन्दवैकुण्ठाच्छ्रिया सार्धं समागतम्।। 24.275(59) ।।
अनन्तभोगिपीठे तु सुखासीनं चतुर्भुजम्।
तार्क्ष्यसेनेशचण्डादिपार्षदैरुपशोभितम्।। 24.276(60) ।।]
(81)ततः कुम्भगतं देवं प्रार्थयेद्गाथयानया।
वासुदेव जगद्योने षाड्गुण्यपरिकर्मित।। 24.277(61) ।।
(81.ग्र. महा)
निर्मर्याद गुणातीत स्वयंज्योति(ः)(82)निराकुल।
निर्विकल्प निराकार निष्कलङ्क निरामय।। 24.278(62) ।।
(82.मातृकायां ज्योति, ग्र. ज्योते)
सहस्ररविवह्नीन्दुकोटिकोटिसमप्रभ।
सर्वत्रशीर्षनयनवक्त्रबाहुपदान्वित।। 24.279(63) ।।
जगतां क्षेमलाभाय दुष्कृतामभवाय च।
एतत्कुम्भाद् दिव्यबिम्बे सांनिध्यं कर्तुमर्हसि।। 24.280(64) ।।
एवं संप्रार्थ्य लक्ष्मीशं (83)वासुदेवमनामयम्।
परमानन्दवैकुण्ठान्महाकुम्भे समागतम्।। 24.281(65) ।।
(83.ग्र. तुल्सीदामभूषितम्।)
कुम्भात् पुष्पाञ्जलौ ध्यात्वा मूलबेरे नियोज्य च।
देवस्य मूर्ध्नि तत्कुम्भतोयं कूर्चेन सेचयेत्।। 24.282(66) ।।
ब्रह्मरन्ध्रपथा बिम्बे प्रविष्टं चिन्तयेत्ततः।
ब्रह्मरन्ध्रं च तारेण पिदध्यात् परमात्मनः।। 24.283(67) ।।
आत्मनोऽभिमुखं कृत्वा पुण्डरीकाक्षविद्यया।
उत्थाय कमलानाथं चतुर्वारं प्रणम्य च।। 24.284(68) ।।
आवाहनादिषण्मुद्रां दर्शयेन्मन्त्रपूर्वकम्।
मन्त्रन्यासं ततः कुर्यात् (84)द्वादशाक्षरविद्यया।। 24.285(69) ।।
(84.पा. मूलमन्त्रेण देशिकः।)
सृष्टिन्यासो भवेत् सृष्टौ शयने चासने तथा।
स्थितिन्यासः स्थितौ कुर्याच्छयने भोगसंज्ञिके।। 24.286(70) ।।
(85)योगे च विश्वरूपे च सर्वत्रैवासनादिषु।
संहारे संहृतिन्यासो यानारूढे त्रयं भवेत्।। 24.287(71) ।।
(85.ग्र. भोगे)
ततो देवं समभ्यर्च्य मधुपर्कं निवेदयेत्।
चक्राब्जमण्डलस्थं तु संस्मरेत् कर्म (86)कौतुकम्।। 24.288(72) ।।
(86.ग्र. कौतुके।)
पुण्डरीकाक्षमन्त्रेण न्यासं कुर्याद्विचक्षणः।
स्मरेदानन्दलोकेभ्यश्चागतानुत्सवादिषु।। 24.289(73) ।।
बिम्बेषु मन्त्रन्यसनमष्टार्णेन समाचरेत्।
स्वापार्चायां समावाह्य बालबिम्बस्थितं विभुम्।। 24.290(74) ।।
न्यासं विष्णुषडर्णेन कृत्वा विधिवदर्चयेत्।
श्रीभूम्यो (87)रर्चयोर्देवि श्रीवत्सात्पार्श्वयोर्द्वयोः।। 24.291(75) ।।
(87.ग्र. स्तत्तदर्चायाः)
ध्यात्वा षडङ्गन्यसनं कुर्या(88)त्पूजां ततः परम्।
वीरलक्ष्मीगृहं गत्वा महाकुम्भेन देशिकः।। 24.292(76) ।।
(88.ग्र. पूजापूरस्सरम्।)
श्रीवत्सादागतां लक्ष्मीं चतुर्बाहुविराजिताम्।
ध्रुवार्चादिषु चावाह्य प्रोक्षयेत् कुम्भवारिभिः।। 24.293(77) ।।
षडङ्गन्यसनं कृत्वा मधुपर्कं निवेदयेत्।
गर्भद्वारोदुम्बरस्थान् खगेशं सेननायकम्।। 24.294(78) ।।
महानसे स्थितां लक्ष्मीं ब्रह्मरुद्रादिकानपि।
बाहनानि रथादीनि चण्डादिद्वार्स्थितानपि।। 24.295(79) ।।
ध्वजस्तम्भं च भक्तार्चास्तटाकादीनि पद्मजे।
महाकुम्भजलेनैव प्रोक्षयेत् स्वस्वविद्यया।। 24.296(80) ।।
बलिपीठे क्षिपेत्तोयमवशिष्टं गुरुः स्वयम्।
ब्रह्मणः सर्गविन्यासं संहारः पार्वतीपतेः।। 24.297(81) ।।
पूर्वकुण्डात्समादाय गार्हपत्यं हुताशनम्।
पचनागारकुण्डे तु नित्यहोमार्थमब्जजे।। 24.298(82) ।।
तेजोमन्त्रेण संस्थाप्य प्रविशेद् गर्भमन्दिरम्।
ततो भोज्यासने देवान् प्रार्थयेन्मूलविद्यया।। 24.299(83) ।।
चतुर्विधान्नं भक्ष्यैश्च फलैस्ताम्बूलसंयुतैः।
प्रभूतं तु निवेद्याथ नीराज्य गुरुसत्तमः।। 24.300(84) ।।
प्रविश्य पचनागारमाग्नेय्यां स्थापितेऽनले।
नित्यहोमं तु विधिवत् कुर्याद्धोमान्तपूजने।। 24.301(85) ।।
नो चेत्तिरस्कृतिं (89)नीत्वा पिष्टदीपं प्रदर्शयेत्।
साष्टाङ्गेन चतुर्वारं प्रणम्य रचिताञ्जलिः।। 24.302(86) ।।
(89.ग्र. त्यक्त्वा)
देवस्य पार्श्वमासाद्य गाथामेनामुदीरयेत्।
भगवन् पुण्डरीकाक्ष मन्त्रमूर्ते सनातन।। 24.303(87) ।।
प्रतिष्ठाङ्कुरमारभ्य प्रोक्षणान्तं जगत्पते।
यन्मयानुष्ठितं कर्म तव संप्रीतये विभो।। 24.304(88) ।।
साधकैर्मदनुज्ञातैः ऋत्विग्भिश्चापि यत्कृतम्।
तत्त(90)त्संपरिपूर्णाय न्यूनाधिक्योपशान्तये।। 24.305(89) ।।
(90.ग्र. संपूरणार्थाय)
भक्तवत्सल भक्ताना(91)मभिप्रेतार्थदायक।
प्रार्थये त्वामहं देव मदनुग्रहकाम्यया।। 24.306(90) ।।
(91.ग्र. मभिप्रेतार्थदो भव।)
संनिधत्स्व चिरं स्थाने कल्पिते श्रद्धया(92)नया।
प्रसीद देवदेवेश पूजामपि गृहाण मे।। 24.307(91) ।।
(92.ग्र. मया।)
ग्रामस्य राज्ञो राष्ट्रस्य प्रजानां श्रीपते हरे।
देहि पुष्टिं च तुष्टिं च गतिं च परमां तथा।। 24.308(92) ।।
इति विज्ञाप्य देवस्य पादयोर्मौक्तिकादिकान्।
नवरत्नानक्षतांश्च स्वर्णपुष्पाणि देशिकः।। 24.309(93) ।।
समर्पयेत् ततो (93)वेदान् वैदिकाश्च (कैश्च?) समापयेत्।
भोज्यासने स्थिते देवे गुरुणादिष्टयाजकः।। 24.310(94) ।।
(93.ग्र. त्वेदान्(?))
वीरलक्ष्म्यालयं गत्वा गुडान्नादीनि वीटिकाम्।
निवेद्य पिष्टदीपं च प्रदर्श्ये प्रार्थयेत् ततः।। 24.311(95) ।।
अरविन्दासने देवि पद्मगर्भसमुद्भवे।
पद्ममालिनि पद्माक्षि सर्वबूतेश्वरीन्दिरे।। 24.312(96) ।।
सर्वज्ञे सर्वबूतानामन्तःस्थे सर्वसाक्षिणि।
अशेषजगदीशाने विष्णुवक्षःस्थलस्थिते।। 24.313(97) ।।
भक्तानां पुत्रपौत्रादिभूमिसंपत्प्रदायिनि।
अस्मिन् बिम्बे चिरं कालं सांनिध्यं कर्तुमर्हसि।। 24.314(98) ।।
इति लक्ष्मीपदाम्भोजे (94)रत्नादीनि समर्पयेत्।
ततो भगवतो गेहद्वारपार्श्वस्तितानपि।। 24.315(99) ।।
(94.ग्र. त्वक्षतादीन्)
चण्डादीन् समुपक्रम्य महापीठान्तमब्जजे।
बलिं दद्याच्छ्रियो गेहे चण्ड्यादीनां यथाक्रमम्।। 24.316(100) ।।
साधकोऽन्यः प्राङ्कणेषु प्राकारेषु च भित्तिषु।
गोपुरेषु स्थितानां च देवानामर्घ्यपूर्वकम्।। 24.317(101) ।।
निवेद्यान्नं पार्षदानां स्मरन् गाथां क्षिपेद्‌बलिम्।
गुह्णन्तु भगवद्भक्ता भूताः प्रासादबाह्यगाः।। 24.318(102) ।।
बलमन्त्रपवित्राश्च तेषामनुचराश्च ये।
प्रतिष्ठायां मया दत्तं सोदकं वैष्णवं बलिम्।। 24.319(103) ।।
गृहीत्वा तृप्तिमासाद्य स्थानं रक्षत वै हरेः।
इत्युक्त्वा खे बलिं दद्याद्वाद्यघोषपुरःसरम्।। 24.320(104) ।।
देवदेवं ततोऽर्ध्याद्यैरभ्यर्च्य विधिवद्रमे।
गोघृतैः पाचितैर्दिव्यशाकमूलफलादिभिः।। 24.321(105) ।।
शुद्धान्नं पायसान्नं च घृतभक्ष्यादिसंमितम्।
दध्ना सूपेन सहितं विनिवेद्य गुरूत्तमः।। 24.322(106) ।।
तृप्तिकामो हरेर्विप्रान् वैष्णवान् भोजयेत्ततः।
सायाह्नसमये प्राप्ते नित्यपूजां समाप्य च।। 24.323(107) ।।
तार्क्ष्यादिवाहने देवमलंकृत्य समर्च्य च।
यात्रोपकरणैः सार्धं घृतदीपैरनेकशः।। 24.324(108) ।।
वेदघोषैर्वाद्यघोषैर्वीथीषु भ्रामयेद् गुरुः।
बलिपीठपुरोभागे संनिरुध्य जगद्‌गुरुम्।। 24.325(109) ।।
अर्घ्यादिभिः समभ्यर्च्य दृष्टिदोषस्य शान्तये।
घटदीपं प्रदर्श्याथ पृथुकादीन् निवेद्य च।। 24.326(110) ।।
नीराज्य यानाद्देवेशं निनयेद्गर्भमन्दिरम्।
अन्नं चतुर्विधं शुद्धं प्रभूतं विनिवेदयेत्।। 24.327(111) ।।
ततोऽन्नादीन् ब्राह्मणेभ्यो भक्तेभ्यश्च प्रदापयेत्।
शय्यान्तं पूजयित्वाथ कवाटं बन्धयेद् गुरुः।। 24.328(112) ।।
ततः प्रभाते देवस्य पूजां नित्यां समाप्य च।
विधिवत् स्नपनं कृत्वा मुद्गान्नादि निवेदयेत्।। 24.329(113) ।।
ततः काण्डपटं त्यक्त्वा नीराज्य प्रार्थद्विभुम्।
भगवन् देवदेवेश लोकनाथ मम प्रिय।। 24.330(114) ।।
सर्वादे सर्वमध्यान्त सर्व सर्वोत्तराच्युत।
गोविन्द पुण्डरीकाक्ष पुराण पुरुषोत्तम।। 24.331(115) ।।
दुस्तरापारसंसारसागरो(95)त्तरणक्षम।
व्यक्ताव्यक्तज्ञ कालाख्यक्लृप्तभावचतुष्टय।। 24.332(116) ।।
(95.ग्र. रोत्तारकारण।)
वासुदेव जगन्नाथ संकर्षण जगत्प्रभो।
प्रद्युम्न भगवन् श्रीमन्ननिरुद्धापराजित।। 24.333(117) ।।
नानाविभवसंस्थान नानाविभवभावन।
दिव्य शान्तोदितानन्द षाड्गुण्योदयविग्रह।। 24.334(118) ।।
स्फुरत्किरीटकेयूरहारनूपुरकौस्तुभ।
पीताम्बर महोदार पुण्डरीकनिभेक्षण।। 24.335(119) ।।
चतुर्मूर्ते चतुर्व्यूह शरदिन्दीवरद्युते।
कोटिमन्मथसौन्दार्य नारायण कृपानिधे।। 24.336(120) ।।
त्वया विना न मे किंचिन्मां विना तव किंचन।
तस्मान्मामात्मसात्कर्तुं प्रसीद परमेश्वर।। 24.337(121) ।।
भूमौ स्खलितपादानां भूमिरेवावलम्बनम्।
त्वयि विप्रतिपन्नानां त्वमेव शरणं विभो।। 24.338(122) ।।
इति विज्ञाप्य देवेशं साष्टाङ्गं प्रणमेद् गुरुः।
मधुपर्कोपचारान्ते गुर्वनुज्ञां प्रगृह्य सः।। 24.339(123) ।।
यजमानो भक्तिनम्रः तोयपूर्वं हरेः करे।
दक्षिणे नित्यपूजार्थं सस्यपूर्णां भुवं तथा।। 24.340(124) ।।
आरामं स्वर्णभूषादि नवरत्नानि कम्बलम्।
आच्छादनानि दासीश्च दासान् वाद्यानि वाहनम्।। 24.341(125) ।।
कटाहादीनि पात्राणि पूजोपकरणानि च।
दत्वा सहोदकं पश्चात् पुत्रदारसमन्वितम्।। 24.342(125) ।।
दासीदासं च सर्वस्वमात्मानं च वसूनि च।
अर्पयेद्वासुदेवस्य पादयोः प्रभुसत्तमः।। 24.343(126) ।।
दासीदासं च सर्वस्वमात्मानं च वसूनि च।
अर्पयेद्वासुदेवस्य पादयोः प्रभुसत्तमः।। 24.344(127) ।।
ततो मातृपितृत्वाभ्यां बन्धुत्वेन गुरूत्तमम्।
सखात्मत्वेन संभाव्य प्रणम्य च पुनः पुनः।। 24.345(128) ।।
केयूरहारवलयैः स्वर्णयज्ञोपवीतकैः।
क्षेत्रारामगृहैर्वित्तैर्जीवाजीवधनैस्तथा।। 24.346(129) ।।
दासीदासेन हस्त्यश्वसुवर्णशिबिकादिभिः।
तोषयेद्यजमानस्तु भट्टाचार्यमनिन्दिते।। 24.347(130) ।।
सहस्रं धेनवो देया दक्षिणा गुरवे तदा।
तदर्धमृत्विजां दद्यात् साधकानां यथोचितम्।। 24.348(131) ।।
यागद्रव्याण्यशेषाणि भट्टाचार्यः स्वयं हरेत्।
ब्राह्मणानां च विदुषां तथाम्नायानधीयताम्।। 24.349(132) ।।
पुराणगाथावक्तॄणां जापकानां च मन्त्रिणाम्।
कालज्ञानां सदस्यानां तत्तत्कर्मानुसारतः।। 24.350(133) ।।
गोभूहिरण्य (96)रूप्याणि वस्त्राण्याभरणानि च।
देयात् कलासु नृत्तेषु वाद्येषु विविधेषु च।। 24.351(134) ।।
(96.ग्र. रौप्याणि)
(97)यथाश्रमं वस्त्रभूषाः वादित्राणां धनानि च।
यानमारोप्य चाचार्यं सर्ववादित्रनिःस्वनैः।। 24.352(135) ।।
(97.ग्र. यथाक्रमं)
ध्वजैश्छत्रैश्चामरैश्च नीत्वा ग्रामं प्रदक्षिणम्।
प्रापयेत् तद्‌गृहं देवि क्ष्मापयेद्वन्दनादिभिः।। 24.353(136) ।।
एकबेरविधाने तु प्रोक्षणानन्तरं रमे।
दुकूलैर्नूतनैर्वस्त्रैः प्रतिमां छादयेत्ततः।। 24.354(137) ।।
त्र्यहं कवाटमाच्छाद्य द्वारि चक्रं विनिक्षिपेत्।
तत् त्र्यहं ब्रह्मरुद्रादि देवा देवर्षयस्तथा।। 24.355(138) ।।
सिद्धा ब्रह्मर्षयश्चापि पूजयन्ति रमापतिम्।
चतुर्थेऽहनि संप्राप्ते द्वारमुद्धाट्य मन्त्रवित्।। 24.356(139) ।।
विधिवत्स्नपनं कृत्वा ध्वजारोहणपूर्वकम्।
तीर्थान्तमुत्सवं कुर्यात् तच्छ्रमस्याभिशान्तये।। 24.357(140) ।।
[एकबेरे चोत्सवं तु कुर्यात् तच्छ्रमशान्तये।]
यजमानो निष्कशतं तथा गाः कम्बलानि च।। 24.358(141) ।।
आविकं बहुमूल्यं च वस्त्राण्याभरणानि च।
गुरवे साधकेभ्यश्च ऋत्विग्भ्यश्च यथाक्रमम्।। 24.359(142) ।।
दद्याद्दैवस्य रक्षार्थं नियुञ्ज्यादनुजीविनः।
न क्लेशयेद् भागवतांस्तथैव परिचारकान्।। 24.360(143) ।।
एवं सर्वं प्रकल्प्याथ यजमानो गृहं विशेत्।
कर्षणादिप्रतिष्ठान्तं यः करोति रमापतेः।
(98)स एव भट्टाचार्यस्तु नित्यपूजां समाचरेत्।। 24.361(144) ।।
(98.ग्र. स एव भट्टाचार्योऽसौ)
तत्सुतो निर्गुणो वापि तद्वंश्यो वा तथाविधः।
पूजयेद्यदि सर्वज्ञे सांनिध्यं तत्र नित्यशः।। 24.362(145) ।।
कुर्यात् तदितरेषां तु पूजनं मे प्रियो न च।
तस्मात्तद्वंशजा एव पूजयन्तु सदा मम।। 24.363(146) ।।
य इत्थं स्थापनं कुर्यात् देवदेवस्य शार्ङ्गिणः।
तस्य देवि प्रवक्ष्यामि भुक्तिमुक्तिफलं शुभम्।। 24.364(147) ।।
यजमानो (99)ब्राह्मणश्चेत् सर्वविद्याधिपो भवेत्।
क्षत्रियश्चेत् सार्वभौमो भवेद्वैश्यस्तु पद्मजे।। 24.365(148) ।।
(99.ग्र. ब्राह्मणस्तु)
पश्वारामगृह(100)क्षेत्रे धनधान्यसमृद्धिमान्।
शूद्रश्चेद्यजमानस्तु मोदते द्रविणादिभिः।। 24.366(149) ।।
(100.ग्र. क्षेत्र)
पुत्रार्थो पुत्रमाप्नोति वित्तार्थी धनमाप्नुयात्।
यद्यत्कामयते कर्ता तत्सर्वं लभते जवात्।। 24.367(150) ।।
आदेवालयभूभागा(द्?) ध्वजान्तादपि मण्डपात्।
सर्वोपकरणोपेतात् सर्वेष्वावरणेषु च।। 24.368(151) ।।
समन्तात् परमाणूनां सर्वेषां यावती रमे।
संख्या संजायते तासु एकैकस्य वरानने।। 24.369(152) ।।
प्रेरको यजमानश्च कोटिकोटिशतं समाः।
उषित्वा विष्णुलोके तु यात्यन्ते परमं पदम्।। 24.370(153) ।।

।। इति श्रीश्रीप्रश्नसंहितायां चतुर्विंशोऽध्यायः ।।