← अध्यायः १५ प्रश्नसंहिता
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →
प्रश्नसंहितायाः अध्यायाः

।। षोडशोऽध्यायः ।।

[श्री]भगवान्-

यजमानो हरेरित्थं सर्वलक्षणलक्षितम्।
भुवः परीक्षाप्रभृतिमूलमूर्त्यादिभिर्युतम्।। 16.1 ।।
आलयं तत्समालोक्य प्रतिष्ठां कर्तुमुद्यतः।
आचार्यं वरयेत् पूर्वं पाञ्चरात्रोक्तलक्षणम्।। 16.2 ।।
तल्लक्षणं प्रवक्ष्यामि पद्ममालाविराजिते।
चतुर्वेदविदो विप्रान् प्राहुः श्रोत्रियसंज्ञितान्।। 16.3 ।।
दशश्रोत्रियतुल्यांस्तु पाञ्चरात्रविदोऽर्चकान्।
पाञ्चरात्रांश्च वेदांश्च वेत्ति सः पूर्णसंज्ञिकः।। 16.4 ।।
योऽधीते वेदवेदाङ्गं पाञ्चरात्रमपि द्विजः।
अध्यापयति शिष्यांस्तु पाञ्चरात्रमपि श्रुतीः।। 16.5 ।।
दशपूर्णसमः सोऽयं दीक्षितो गुरुरुच्यते।
दीक्षितस्य कुले जातो भट्टाचार्येण दीक्षितः।। 16.6 ।।
गुरोर्मुखात् त्रयीं विद्यामर्थवत्पाञ्चरात्रकम्।
प्राप्तः शमदमोपेतः स तु भट्टारको भवेत्।। 16.7 ।।
दशभट्टारकसमो वेदवेदाङ्गपारगः।
वेदान्तार्थप्रवीणश्च पाञ्चरात्रार्थतत्त्ववित्।। 16.8 ।।
परंपरादीक्षितस्य कुले जातः समाधिमान्।
दीक्षामुभयतः प्राप्तः पञ्चकालक्रियापरः।। 16.9 ।।
योगशास्त्रप्रवीणश्च ज्ञानवान् मोक्षचिन्तकः।
भुवः परिग्रहाद्यावत् प्रतिष्ठान्तं च या क्रिया।। 16.10 ।।
असहायेन तां कर्तुं शक्तो मध्यो न रोगवान्।
स्वतन्त्रो वृद्धसेवी च रूपवानपि चास्तिकः।। 16.11 ।।
परैरनिन्दितश्चैव कीर्तिमान् विजितेन्द्रियः।
(1)मानसाराधने दक्षो मन्त्रसास्त्रविचक्षणः।। 16.12 ।।
(1.ग्र. श्रीः)
सिद्धमन्त्रः सर्वदर्शी भट्टाचार्यः स उच्यते।
(2)श्रीरुवाच-
(2.पा. मानसाराधनपरः पञ्चरात्रपरायणः।)
चक्राब्जमण्डले दीक्षामकरोद्यस्य वै गुरुः।। 16.13 ।।
अभिषेकः कृतो यस्य पूर्वोक्तैश्च गुणैर्युतः।
कर्षणादिप्रतिष्ठान्तं विशेषयजनादिकम्।। 16.14 ।।
स एव कुर्यादितरस्तत्साधनपरो भवेत्।
परदीक्षाविहीनो यः साधयेत् कर्षणादिकम्।। 16.15 ।।
कृतं निरर्थकं कर्म पुनरन्येन कारयेत्।
इति प्रोक्तं त्वया नाथ दीक्षा सा कीदृशी मता।। 16.16 ।।
चक्राब्जमण्डलं किं वा ह्यभिषेकः कथं तु वा।
मह्यं जिज्ञासमानायै वद त्वं पुरुषोत्तम।। 16.17 ।।
भगवान्-
दीक्षास्वरूपं प्रथमं वदामि कमलालये।
ईक्षते कर्मणा येन तद्विष्णोः परमं पदम्।। 16.18 ।।
द्यति संसारमखिलं तेन दीक्षेति भण्यते।
एषा दीक्षा विरक्तेन कर्तव्या न तु कर्मिभिः।। 16.19 ।।
यथैव कर्मकाण्डेषु दीक्षोक्ता यागसिद्धये।
तथैवैकायने वेदे पूजायागादिसिद्धये।। 16.20 ।।
दीक्षायाः श्रेष्ठतां कर्तुं विभज्यात्मानमब्जजे।
प्रथमं शब्दरूपेण वृत्तिरूपमतः परम्।। 16.21 ।।
अर्थरूपं तृतीयं तु तथैवाचार्यरूपिणम्।
दीक्षारूपं पञ्चमं (3)तु प्रविश्य च यथाक्रमम्।। 16.22 ।।
(3.ग्र. तत्)
मया कृतो यस्य दीक्षा सोऽहमेव न संशयः।
दीक्षा सा त्रिविधा प्रोक्ता स्थूला सूक्ष्मा परा तथा।। 16.23 ।।
पुनर्दीक्षाविभेदेन त्रिधा सापि चतुर्विधा।
समयी पुत्रकश्चैव तृतीयः साधकः स्मृतः।। 16.24 ।।
आचार्यश्चेति विज्ञेयाश्चत्वारोऽपि च दीक्षिताः।
धर्मशास्त्रोक्तधर्माणामनुतिष्ठन् हरेः प्रियम्।। 16.25 ।।
प्रत्यहं पूजनं कुर्यां पञ्चसंस्कारसंस्कृतः।
इति निश्चित्य यः पूजां प्रत्यहं कुरुते रमे।। 16.26 ।।
समयी तस्य सा दीक्षा मानसी परिकीर्तिता।
वैष्णवानां हि सर्वेषां योग्या सा गृहपूजने।। 16.27 ।।
एषा स्थूलेति विज्ञेया शास्त्रेषु परिकीर्तिता।
अन्यगोत्रसमुत्पन्नं दीक्षयत्यभिमानतः।। 16.28 ।।
पाञ्चरात्रप्रतिष्ठादौ ज्ञानं यस्य न विद्यते।
उभयोरपि या दीक्षा क्रियते दीक्षितोत्तमैः।। 16.29 ।।
सैषा सूक्ष्मा मध्यमेति कीर्त्यते वेदवित्तमैः।
एतयोर्नाभिषेकः स्याद् दीक्षामात्रं भवेद्रमे।। 16.30 ।।
आचार्यसाधकौ स्यातामुत्सवादिषु वल्लभे।
आचार्यदीक्षा द्विविधा निर्बीजा च सबीजका।। 16.31 ।।
तन्त्रान्तरे त्वागमे च सिद्धान्ते तन्त्रसंज्ञिके।
तेषु पूजाप्रवृत्तानां दीक्षा निर्बीजसंज्ञिका।। 16.32 ।।
अन्येषां दीक्षाकरणे तेषामनधिकारिता।
अतो निर्बीज इत्युक्ता विद्वद्भिः कमलेक्षणे।। 16.33 ।।
सबीजं मन्त्रसिद्धान्तदीक्षाक्रममुदीर्यते।
चतुर्वेदोक्तमन्त्रैश्च मन्त्रैरेकायनीस्थितैः।। 16.34 ।।
मन्त्रसिद्धान्तविधिना मदुक्तेन च गोत्रिणा।
वृद्धेनाचार्यरूपेण दीक्षितो यः पुरा मया।। 16.35 ।।
या दीक्षा क्रियते तेन सा दीक्षा तु परा स्मृता।
दीक्षां परां तु प्राप्यैव पूजयेदालयेषु वै।। 16.36 ।।
आचार्यः प्रथमं देवि कर्मानुष्ठानतत्परम्।
भगवद्भक्तिसंयुक्तं विरक्तं श्रद्धयान्वितम्।। 16.37 ।।
त्रय्यादिषु कृतप्रज्ञं प्रायश्चित्तैश्च शोधितम्।
शिष्यं सर्वगुणोपेतं वीक्ष्याचार्यस्तु संमतम्।। 16.38 ।।
दीक्षानि(र्वृ)र्त्तये पूर्वं कल्पयेद् यागमण्डपम्।
(4)मध्यवेदिं प्रतीच्यां तु तालद्वयसमन्वितम्।। 16.39 ।।
(4.ग्र. मध्यवेद्यप्रतीच्यान्तु)
चतुरश्रं ब्राह्मणानां वृत्तं कुण्डं तु भूपतेः।
वैश्यस(स्य) चापकुण्डं स्याच्छूद्रजातेस्त्रिकोणकम्।। 16.40 ।।
संभारानपि संभृत्य दीक्षार्थं कृतपूर्वकान्।
मण्डपादीनि सर्वाणि शोधयेत् प्रथमं रमे।। 16.41 ।।
ततः पुण्याहसलिलैः पञ्चगव्यैः समन्त्रकैः।
इत्थं संशोध्य विधिवदङ्कुरानर्पयेत् पुरा।। 16.42 ।।
एकादशि(5)तिथौ प्राप्ते कुम्भानामधिवासनम्।
कृत्वा ततो घटान् सूत्रैः सर्वतः परिवेष्टितान्।। 16.43 ।।
(5.ग्र. दिने)
स्रक्‌चन्दनैरक्षतैश्च भूषितान् वस्त्रवेष्टितान्।
आम्राङ्कुरैर्नालिकेरफलैः कूर्चैरलंकृतान्।। 16.44 ।।
अस्त्रेण शतवारं तु करकस्थं जलं जपेत्।
तज्जलेन च संभारान् यागमण्डपमेव च।। 16.45 ।।
आत्मानं शिष्यवर्गं च पुण्याहसलिलैरपि।
संप्रोक्ष्य च ततो वेदिं द्विहस्तोच्छ्रायविस्तृताम्।। 16.46 ।।
चतुरस्रां तु निर्माय तामपि प्रोक्षयेत् पुरा।
चक्राब्जमण्डलं तस्यां द्वादशच्छदशोभितम्।। 16.47 ।।
मध्ये कर्णिकया युक्तं वर्णभेदैरलंकृतम्।
विलिख्य तस्य चेशाने पार्श्वे वेदिं प्रकल्प्य च।। 16.48 ।।
तस्यां धान्यादिपीठं च चक्रवत्परिकल्पयेत्।
चक्राब्जमण्डलं तस्मिन् विलिख्य दलसंयुतम्।। 16.49 ।।
कर्णिकायां मुख्यकुम्भं परितो द्वादशान् घटान्।
उत्तरे करकं न्यस्य गन्धोदैः पूरयेद् घटान्।। 16.50 ।।
घटेषु तेषु प्रतिमास्तत्तन्मूर्तिविलेखिताः।
निक्षिपेत् परितोऽप्यष्टौ मङ्गलान् स्थापयेद्‌गुरुः।। 16.51 ।।
द्वारतोरणकुम्भांश्च पूजयेच्च यथाक्रमम्।
वासुदेवं चक्रमध्ये परितः केशवादिकान्।। 16.52 ।।
तथा घटेषु चावाह्य पूजयेत् कमलेक्षणे।
मथित्वाष्टाक्षरेणाग्निं कुण्डे तं विनिवेशयेत्।। 16.53 ।।
श्रपयित्वा चरुं तस्मिन् चतुर्धा विभजेत् पुरा।
कुम्भमण्डलवह्निस्थान् त्रिभिर्भागैस्तु पूजयेत्।। 16.54 ।।
भागमेकं स्वयं देवि प्राशयेद् गुरु(6) सत्तमः।
(7)मूलमन्त्रं समुच्चार्य समिधाष्टोत्तरं शतम्।। 16.55 ।।
(6.ग्र. रात्मवान्)
(7.पा. समिधश्शतमष्टौ च जुहुयाद्देशिकोत्तम।)
(8)आज्याहुतिं च तावद्भिर्नृसूक्तेन च षोडश।
(9)आहुतीश्चरुणा हुत्वा पूर्णाहुतिमथाचरेत्।। 16.56 ।।
(8.पा. आज्यहोमोऽपि तद्ब्रत्स्यान्मुलमन्त्रेण मन्त्रवित्।)
(9.पा. चरुं नृसूक्तेन तथा पूर्णाहुत्यन्तमन्यतः।।)
(10)ततः शिष्यं स्नातशुद्धं शुचिं वस्त्रैरलंकृतम्।
पत्नीसमेतमथवा कन्यां वा ब्रह्मचरिणम्।। 16.57 ।।
(10.पा. शिष्यं स्नातं ज्रितक्रोधं मदाद्यैर्वर्जितं शुचिम्।)
(11)आहूय तेषां नेत्राणि वासोभिर्नूतनै रमे।
नेत्रमन्त्रं जपन् बध्वा (12)स्वस्य पार्श्वे तु दक्षिणे।। 16.58 ।।
(11.पा. आहूय वाससा बद्‌ध्वा गुरुर्नेत्रे स्वविद्यया।)
(12.पा. आत्मनः दक्षिणे पार्श्वे निवेश्य प्राङ्मुखं यथा।)
(13)निवेशितैश्च तैः स्पृष्टो दर्भपुञ्जैर्गुरूत्तमः।
(14)आज्येन समिधा चैव चरुपुष्पैस्तिलैस्तथा।। 16.59 ।।
(13.पा. तेन दर्भैश्च संस्पृष्टः पुण्डरीकाक्षविद्यया।)
(14.पा. द्वाशताहुतिमाज्येन जुहुयाच्चरुणा तथा।)
(15)पुण्डरीकाक्षमन्त्रेण प्रत्येकं द्वादशाहुतीः।
(16)हुत्वा तु मूलमन्त्रेण कुण्डाग्नेर्भस्मना रमे।। 16.60 ।।
(15.पा. समित्पुष्पतिलैश्चापि ततः प्रसूतिमुद्रया।)
(16.पा. अष्टाक्षरेण मंत्रेण ततो भस्मसमुद्भवम्।)
(17)शिष्यमूर्ध्नि समालभ्य दोःसु प्रतिसरं ततः।
(18)अस्त्रमंत्रशतं जप्त्वा वध्नीयात् क्षीरसंभवे।। 16.61 ।।
(17.पा. त्रिमूर्ध्नि शिष्यमालभ्य।)
(18.पा अस्त्रमन्त्रेण बध्नीयात्सूत्रं प्रतिसरं करे।)
प्राशयेत् पञ्चगव्यं च चरुं चापि यथाक्रमम्।
[शिष्यः पीत्वा पञ्चगव्यं प्रणवेन चरुं ततः।। 16.62 ।।]
धावयेद् दन्तकाष्ठेन दन्तान् वै गुर्वनुज्ञया।
शिष्येण भूमौ निक्षिप्तं दन्तकाष्ठं रमे यदि।। 16.63 ।।
दक्षिणाभिमुखं वापि पश्चिमाभिमुखं पतेत्।
अशुभं तद्विजानीयात् तद्दोषस्य प्रशान्तये।। 16.64 ।।
नारसिंहेन मन्त्रेण (19)घृतेन जुहुयाच्छतम्।
पूर्वं गण्डूषितं शिष्यमाचान्तं देवसंनिधिम्।। 16.65 ।।
(19.पा. तिलैरष्टोत्तरं शतम्।)
(20)नीत्वा संप्रार्थयेद्देवमिमां गाथामुदीरयन्।
संसारपाशबद्धानां नृपशूनां विमोक्षणे।। 16.66 ।।
(20.पा. विज्ञापयेदिमां गाथामुच्चार्य कमलासन।)
त्वमेव शरणं देव गतिरन्या न विद्यते।
पाशमोक्षणहेतुर्यस्त्वत्समाराधनात्मकः।। 16.67 ।।
दीक्षादि(21)कर्मणैतान्वै कृत्वा पूजाधिकारिणः।
विपाशयामि देवेश तदनुज्ञातुमर्हसि।। 16.68 ।।
(21.ग्र. कर्मणैकान्वै)
इति विज्ञाप्य देवेशं माया(22) सूत्रैस्तु बन्धयेत्।
(23)सितरक्तासितैः सूत्रैस्त्रिगुणैस्त्रिगुणात्मकैः।। 16.69 ।।
(22.पा. सूत्रेण वेष्टयेत्।)
(23.पा. शुक्लं रक्तं च कृष्णं च त्रिवर्णं त्रिगुणीकृतम्।)
षड्विंशत्तत्त्वसंख्यैश्च ग्रन्थियुक्तैर्गुरुः स्वयम्।
(24)शिष्यगात्रं ललाटादिपादान्तं तत्त्वसंख्यया।। 16.70 ।।
(24.पा. शिखां प्रक्रम्य पादान्तं पञ्चविंशतिसंख्यया।)
पूर्ववत् स्थापयित्वा तानात्मनो दक्षिणे (25)स्थले।
(26)मूलमन्त्रेण जुहुयात् सर्पिषाष्टोत्तरं शतम्।। 16.71 ।।
(25.ग्र. करे)
(26.पा. जुहुयात्तेन मंत्रेण)
ततो माषोदनेनैव (27)द्वार्षु गाथामिमां पठन्।
ये विष्णु(28)यायिनो भूता (29)ये तु ताननुयायिनः।। 16.72 ।।
(27.ग्र. पार्ष)
(28.ग्र. भाविनो)
(29.ये च)
गृह्णन्तु बलिमेतेषां प्रयच्छन्तु शुभं मम।
इति तेभ्यो बलिं दत्वा पादौ प्रक्षाल्य चाचयेत्।। 16.73 ।।
ततः शिष्यशरीरेभ्यो मायासूत्रं च नेत्रयोः।
वस्त्रमोक्षं च कृत्वाथ मायासूत्राणि देशिकः।। 16.74 ।।
शरावे तानि निक्षिप्य शरावेण पिधाय च।
कुम्भपार्श्वे निधायैतं सांध्यं कर्म समाचरेत्।। 16.75 ।।
भगवन्तं समाराध्य मण्डपे दर्भसंस्तरे।
संवेशयेच्च तान् शिष्यान् सुस्वप्नप्राप्तये गुरुः।। 16.76 ।।
नेत्रे तस्याग्निमन्त्रेण स्पृष्ट्वाग्नौ जुहुयाद्रमे।
स्वप्नाधिपतिमन्त्रेण सर्पिषा (30)षोडशाहुतीः।। 16.77 ।।
(30.पा. अष्टोत्तरं शतम्)
जागरेणैव तां रात्रिं गुरुरन्यैश्च दीक्षितैः।
वैष्णवीश्च कथाः कुर्याच्छिष्यक्षेममनुस्मरन्।। 16.78 ।।
स्नात्वा प्रभाते नैयत्यं कर्म कृत्वा यथाविधि।
मण्डपं तु समासाद्य शिष्यान् स्नातान् गुरूत्तमः।। 16.79 ।।
पृच्छेत् स्वप्नं सुपूर्वं चेद् दीक्षयेच्च यता(31)क्रमम्।
दुःश्वप्नं चेच्छान्तिहोमं कृत्वा दीक्षेत वै ततः।। 16.80 ।।
(31.ग्र. विधि)
ध्वजतोरणकुम्भांश्च (32)मण्डलं चापि पूजयेत्।
भगवन्तं च संपूज्य गुडान्नादि निवेदयेत्।। 16.81 ।।
(32.पा. पूजापूर्ववदिष्यते।)
नित्यकर्मकृतः शिष्यान् पुनर्नेत्रे च बन्धयेत्।
पूर्ववद् दक्षिणे पार्श्वे निवेश्य च यथाक्रमम्।। 16.82 ।।
पूर्ववद् समिदन्नाद्यैर्मूलमन्त्रेण देशिकः।
प्रत्येकमष्टोत्तरशतं (33)जुहुयात् पद्ममालिनि।। 16.83 ।।
(33.पा. मूलमन्त्रेण देशिकः।)
मायासूत्रं ततश्छित्वा (34)शिष्यतत्त्वमनुस्मरन्।
पृथिव्यां ईश्वरान्तं च पुरा संहारवर्त्मना।। 16.84 ।।
(34.पा. संहारक्रममास्थितः।)
प्रत्येकमष्टोत्तरशतं (35)साज्यमष्टाक्षरेण वै।
अष्टाविंशतिसंख्या वाप्यष्टौ वा जुहुयात्ततः।। 16.85 ।।
(35.पा. अष्टकृत्वोऽथवा गुरुः।)
(36)स्वमानसे परं ध्यात्वा नारायणमनामयम्।
तस्मिन् (37)शिष्यस्य जीवं तु संहरेद् गुरुरात्मवान्।। 16.86 ।।
(36.पा. हृत्पद्मे परमं ज्योतिर्ध्यात्वा परमपूरुषम्।)
(37.पा. जीवं च शिष्यस्य संहरेन्मन्त्रवित्तमः।)
(38)कुर्यात् ततः सिष्यदेहं शोषणादिविशोधनम्।
(39)स्मरेत्ततोऽण्डं तद्देहे प्रकृत्यादिक्रमात् सृजेत्।। 16.87 ।।
(38.पा. शोषणादीनि देहस्य शिष्यसम्बन्धिनस्तथा।)
(39.पा. कृत्वा तत्र स्मरेदण्डं)
(40)ललाटे चेश्वरं ध्यायन् जिद्रूपं सर्वतोमुखम्।
(41)स्वबीजेन स्थितं देवं जुहुयात् तत्त्वसंख्यया।। 16.88 ।।
(40.[जयाख्यायां] श्लो-157. पटल-16.
       ललाटे चेश्वरं साक्षाच्छिद्रूपं सर्वतोमुखम्।
       समग्रैश्वर्यसंपूर्णं स्वबीजेन महामते।।)
(41.पा. सर्गकाले च जुहुयात्तत्वानि क्रममास्थितः।)
तदधस्ताल्ललाटभ्रूमध्ययोर्भास्करप्रभम्।
स्वबीजेन स्थितं ध्यायन् (42)जुहुयात् जीवसंज्ञितम्।। 16.89 ।।
(42.ग्र. जीवं तु जुहुयात्ततः।)
(43)सिन्दूरबिन्दुसंकाशं प्रकृतिं भ्रूयुगे स्मरन्।
(44)तालुमूले स्थितां बुद्धिं पूर्णेन्दुसदृशप्रभाम्।। 16.90 ।।
(43.ज. प्रधानं च भ्रुवोर्मध्ये स्वमंत्रेण तु भावयेत्।
      सिन्धूरपुञ्जसंकाशं होमयेत्तद्वदेव हि।। 16.Sl.162a, b,c,d.)
(44. ज. तालुमूले त्वहंकारं तालुंकर्णान्तरे ततः। Sl.164a, b.)
(45)तालुमध्ये त्वहंकारं रक्तपुष्पोपमं स्मरन्।
(46)तालुकर्णान्तरे ध्यायेन्मनो राजोपलद्युति।। 16.91 ।।
(45.ज. सितेन्दुरश्मिवर्णाभं तालुमध्ये धियं स्मरेत्। Sl.163a, b.)
(46.ज. राजोपलद्युति मुषंषः (माकृतेः?) कदम्बकुसुमोपमम्। Sl. 164c,d.)
(47)हृत्कण्ठपद्मयोर्मध्ये विभक्ते पञ्चधा (48)रमे।
प्रस्फुरत्तारकाकारान् श्रोत्रादीन् पञ्च चिन्तयन्।। 16.92 ।।
(47.ज. कर्णाद् हृत्पद्मपर्यन्तं स्मरेत् पञ्चपदे समे।। 16.Sl.165c,d.
      श्रोत्रादीनथ वै पञ्च प्रस्फुरत्तारकोज्वलान्। Sl.166a, b.)
(48.ग्र. समे।)
(49)हृन्नाभ्योः पञ्चधा मध्ये वागादीनि (50)स्मरन् रमे।
स्मरन् शब्दादितन्मात्रं नाभिवस्त्यश्रमध्यतः।। 16.93 ।।
(49.ज. स्पन्द(पद्म)स्थानाच्च नाभ्यन्तं प्राग्वत्पञ्चदशान्तरे।
      वागादीन्वै स्थितान् पञ्चबीजैः स्वैः पूर्ववत्स्मरेत्।। 16.Sl.167a,b,c,d.
      आनाभेर्वस्तिशीर्षान्तं सुसमे पदपञ्जके। Sl.168c,d.
      शब्दतन्मात्रपूर्वाणि गन्धतन्मात्रावसानतः। Sl.169a,b.)
(50.ग्र. स्मरेद्रमे।)
(51)ऊर्वोराचरणद्वन्द्वात् स्थूलभूतानि संस्मरन्।
सृष्ट्वा स्थूलशरीरं तमण्डभेदं विचिन्तयेत्।। 16.94 ।।
(51.पा. ऊरुमूले चरणे क्रमात् चिन्तयेत् भूतपञ्चकम्।)
ततः स्वमानसाज्जीवं तस्मिन् संक्रमयेत् गुरुः।
पुण्याहसलिलैः प्रोक्ष्य शिष्याणां नेत्रबन्धनम्।। 16.95 ।।
मोक्षयेत् परिधायान्यं वासः प्रक्षालयेत् पदः।
(52)आचामयित्वा तु पुनर्नेत्रबन्धं च कल्पयेत्।। 16.96 ।।
(52.पा. आचम्य वाससान्येन बद्धनेत्रोऽन्तिके गुरोः।)
पूर्ववद् दक्षिणे पार्श्वे शिष्यान् संस्थाप्य देशिकः।
(53)कालाध्वा च पदाध्वा च भुवनाध्वा तथैव च।। 16.97 ।।
(53.ग्र. कलाध्वा)
(54)तत्त्वाध्वा वर्णमन्त्राध्वा षडध्वानः प्रकीर्तिताः।
क्रमेणैषां चतुर्वारं हुत्वा देशिकसत्तमः।। 16.98 ।।
(54.पा. मन्त्राध्वा मन्त्रवर्णाध्वा)
संपाताज्यं शिष्यमूर्ध्नि न्यसेद्धोमावसानतः।
महाव्याहृतिमन्त्रेण घृतेन जुहुयात्ततः।। 16.99 ।।
प्रथमोक्तेन मन्त्रेण तिलाज्याभ्यां पुरा हुनेत्।
पादावारभ्य चोर्वन्तं संपातेन स्पृशेद्गुरुः।। 16.100 ।।
(55)ततो नाभिं स्पृशेद्भूयः पद्मेन जुहुयात् रमे।
चरुणाज्येन जुहुयादुरःस्पर्शन् ततः शिरः।। 16.101 ।।
(55.पा. हुत्वा नाभिं समालभ्य ततो हुत्वा कुशेशयैः।)
आज्येन जुहुयान्मन्त्री संपाताज्येन वै स्पृशेत्।
(56)मूलेन च ततो हुत्वा पृथगष्टोत्तरं शतम्।। 16.102 ।।
(56.पा. अष्टोत्तरशतं होमः प्रत्येकं मूलविद्यया।)
होमान्ते च (57)ततः शिष्यं गृहीत्वा दक्षिणे करे।
नीत्वा प्रदक्षिणं कुम्भं(58) वह्निमण्डलमेव च।। 16.103 ।।
(57.पा. गुरुः)
(58.पा. मण्डलं च यथोदितम्।)
शिष्याणामञ्जलौ रत्नान्यथवा कुसुमोत्करान्।
पूरयित्वा ततः शिष्यान् नयेच्चक्राब्जमण्डलम्।। 16.104 ।।
पुष्पाञ्जलिं मण्डलेऽस्मिन् विकिरंत्विति चोदयेत्।
(59)विकिरेयुर्हरिं ध्यात्वा शिष्याः पुष्पाञ्जलिं रमे।। 16.105 ।।
(59.पा. पुष्पादि विक(कि)रेत्तस्मिन् मण्डले गुरुचोदितः।)
यस्मिन् दले निपनति यस्य हस्तात् सुमोच्चयः।
(60)तद्दलाधिपतेर्नाम तच्छिष्यस्य (61)निदर्शयेत्।। 16.106 ।।
(60.पा. तद्भागाधिपमूर्त्तीनां नामान्यस्य विनिर्दिशेत्।)
(61.ग्र. विनिर्दिशेत्।)
नेत्रवस्त्रं समुद्‌वास्य वासुदेवादिसंमितम्।
मण्डलं दर्शयित्वाथ नयेत् कुण्डसमीपतः।। 16.107 ।।
हस्ते चक्रं च शङ्खं च लिखित्वा गुरुसत्तमः।
(62)आ पादान्मौलिपर्यन्तं तन्मन्त्रेणैव च स्पृशेत्।। 16.108 ।।
(62.[ईश्वरसंहिता] आपादान्मन्त्रहस्तेन परामृश्याथ मूर्धनि अध्यायः 21 Sl.282c, d.)
(63)ततः शिष्यस्य संस्कारान् कुर्यात् पञ्च यथाक्रमम्।
तापः पुण्ड्रस्तथा नाम मन्त्रो यागश्च पञ्चमः।। 16.109 ।।
(63.अतः शिष्यस्य वै कुर्यात्संस्कारान् पञ्च च क्रमात्। Sl.283c,d.
      Sl. 109-c-d. is the same as Sl. 284a-b.)
(64)तेषु तापविधानं तु शृणुष्व कमलेक्षणे।
(65)देशिकः सह शिष्येण वैष्णवानामनुज्ञया।। 16.110 ।।
(64.तत्र तापविधानं तु शृणुध्वं मुनिपुङ्गवाः। Sl. 284c, d.)
(65.[ईश्वरसंहिता.]
       आचार्यो वैष्णवान् सभ्यान् पूज्य तेषामनुज्ञया। Sl. 285a, b.)
कुण्डस्य पश्चिमे भागे प्राङ्मुखश्चोपविश्य सः।
(66)ततश्चक्रं च शङ्खं च तत्तन्मन्त्रैः (67)प्रतिष्ठितम्।। 16.111 ।।
(66.चक्रशङ्खौ समभ्यर्च्य तत्तन्मन्त्रैः प्रतिष्ठितौ।)
(67.ग्र. प्रतिष्ठितौ।)
(68)स्वदीक्षावसरे स्वस्य दत्तौ स्वगुरुणा रमे।
(69)अष्टाक्षरेण मन्त्रेण गायत्र्या विष्णुपूर्वया।। 16.112 ।।
(68.पूर्वं स्वगुरुणा दत्तौ स्वदीक्षावसरे द्विजाः।। 16.Sl.286a, b,c,d.)
(69.मूलमन्त्रेण जुहुयाच्छतमष्टोत्तरं घृतैः।
      वैष्णव्या वापि गायत्र्या तद्विष्णोरिति वै ऋचा।। 16.Sl.287a,b,c,d.)
तद्विष्णोरिति मन्त्रेण शतमष्टोत्तरं घृतैः।
जुहुयाच्च ततो वह्नौ पीठं संकल्प्य देशिकः।। 16.113 ।।
ध्यात्वा तस्मिंश्चक्रशङ्खौ क्रमादर्घ्यादिकान् यजेत्।
मन्त्राभ्यां शङ्खचक्राभ्यां पवित्रं तेति मन्त्रतः।। 16.114 ।।
प्र ते विष्णो ऋचा चापि शतमष्टोत्तरं तु वा।
अष्टाविंशतिवारान् वा घृतेन जुहुयाद् रमे।। 16.115 ।।
सूक्तेन पौरुषेणापि चरुणा षोडशाहुतीः।
ततश्चक्रं च शङ्खं च तापयित्वा यथाक्रमम्।। 16.116 ।।
(70)भगवन्तं पुरा ध्यात्वा ततो गुरुपरंपराम्।
ततश्चक्रं च शङ्खं च तन्मन्त्राभ्यां च तापयेत्।। 16.117 ।।
(70.हुत्वा ततस्तु देवेशं ध्यात्वा गुरुपरम्पराम्। Sl.289a,b.)
चक्रं गृहीत्वा प्रथमं मन्त्रमेतमुदीरयन्।
सुदर्शन महाज्वाल सर्वपापनिवर्तक।। 16.118 ।।
पुनीहि भगवन्नेतं हरेः पूजार्थमुद्यतम्।
इति मन्त्रेण संप्रार्थ्य शिष्यवामेतरे करे।। 16.119 ।।
(71)अङ्कयेच्चक्रराजेन ह्यूर्ध्वभागे गुरूत्तमः।
(72)ततो वामेऽपि शङ्खेन ह्यङ्कयेन्मन्त्रमुच्चरन्।। 16.120 ।।
(71.ग्र.[ईश्वरसंहिता] शिष्यस्य दक्षिणं बाहुलं चक्रेण चाङ्कयेत्। Sl.290c,d.)
(72.[ईश्वरसंहिता] शङ्केन प्रतपेत्सव्यबाहुमूलं मुनीस्वराः। )
पाञ्चजन्य हरिध्मात दैत्यराक्षसमर्दन।
तव ध्वानेन चैनं त्वं निष्पापं कर्तुमर्हसि।। 16.121 ।।
(73)ततश्चक्रं च शङ्खं च पयसाप्यभिषेचयेत्।
गुडान्नादीनि भक्ष्याणि भोज्यानि विनिवेदयेत्।। 16.122 ।।
(73.[ईश्वरसंहिता] ततश्चक्रं च शंखं च अभिषिच्य स्वमन्त्रतः।। 16.Sl. 291a,b,c,d.)
(74)ततस्तु मूलमन्त्रेण हुत्वा पूर्णाहुतिं गुरुः।
शिष्यस्य चोर्ध्वपुण्ड्राणि मृत्स्नया श्वेतपूर्वया।। 16.123 ।।
(74.[ईश्वरसंहिता] संपूज्य मूलमन्त्रेण हुनेत्पूर्णाहुतिं द्विजाः। Sl.296a, b.)
ललाटादिद्वादशसु कुर्यादङ्गेषु मन्त्रवित्।
वामहस्ते जलं पूर्वं निक्षिपेत् प्रणवेन तु।। 16.124 ।।
गन्धद्वारेति मन्त्रेण निघर्षेन्मृदमुत्तमाम्।
(75)जलेन लोलयित्वा तां दिग्बन्धनमथाचरेत्।। 16.125 ।।
(75.[ईश्वरसंहिता] जलेन सेचयित्वाथ कृत्वा दिग्बन्धनं द्विजाः।)
(76)मूलमन्त्रेणाभिमन्त्र्य नारसिंहं लिखेन्मनुम्।
वाञ्छितार्थप्रदायिन्या त्वङ्गुल्या नामहीनया।। 16.126 ।।
FM(76.[ईश्वरसंहिता] मूलमन्त्रेणाभिषिच्य वामहस्तस्थितां मृदम्।।
       Sl.296a,b,c,d.)
(77)इतरैर्वाप्यङ्गुलीभिर्ललाटादिषु धारयेत्।
(78)ऊर्ध्वपुण्ड्रमृजुं रम्यं हरेः पादद्वयाकृति।। 16.127 ।।
(77.[ईश्वरसंहिता] अङ्गुल्या मदृमादाय ललाटादिषु धारयेत्। Sl.297c,d.)
(78.[ईश्वरसंहिता] ऊर्ध्वपुण्ड्रमृजुं रम्यं विष्णोः पादद्वयाकृतिम्। Sl.300a,b.)
(79)सान्तरालं सुपार्श्वं च द्व्यङ्गुलं त्र्यङ्गुलं तु वा।
विस्तीर्णमथ चायामं चतुरङ्गुलसंमितम्।। 16.128 ।।
(79.ई. सान्तरालं सुपार्श्वं द्व्यङ्गुलं त्र्यङ्गुलं तु वा।
      विस्तीर्णमथ चायामे चतुरङ्गुलसम्मितम्।)
ललाटे धारयेत् पूर्वं कुक्षावष्टाङ्गुलायतम्।
उरस्यपि तथा कुर्यात् कण्ठे तु चतुरङ्गुलम्।। 16.129 ।।
कुक्षौ दक्षिणभागे च बाहौ सव्येतरे तथा।
पुण्ड्रमष्टाङ्गुलायामं कण्ठे दक्षिणतो रमे।। 16.130 ।।
चतुरङ्गुलमायामं वामकुक्षौ तु चाष्टकम्।
वामे बाहौ पुण्ड्रदीर्घमष्टाङ्गुलमुदाहृतम्।। 16.131 ।।
आयामं वामकण्ठे च तत्पृष्ठे चतुरङ्गुलम्।
पूर्ववद्धारयेत् पृष्ठे पुण्ड्राणां मध्यमे पदे।। 16.132 ।।
अभिषिक्तं हरेः पूर्वं रजनीचूर्णमुत्तमम्।
पुण्ड्राणां मध्यमे स्थाने ऋजुदीर्घं च धारयेत्।। 16.133 ।।
(80)वर्तिदीपाकृतिं वापि वेणुपत्राकृतिं तु वा।
विन्यस्य तेषु पुण्ड्रेषु केशवादीन् सशक्तिकान्।। 16.134 ।।
(80.(वर्तिदीपाकृतिं) चैव (वेणुपत्राकृतिं तु वा)।
ललाटादिषु शिष्याणां संदिशेद् ध्यानसिद्धये।
चक्राब्जमण्डले पूर्वं यत्प्राप्तं केशवादिषु।। 16.135 ।।
तन्नाम निर्दिशेत् (81)पूर्वं ब्राह्मणस्य विजानतः।
भट्टारकान्तमथवा भागवतान्तमेव वा।। 16.136 ।।
(81.ग्र. तेषु।)
देवान्तं क्षत्रियं कुर्यात् (82)वर्धनान्तं तु वैश्यकम्।
आह्वयेद्दासशब्दान्तं शूद्रजातिं गुरूत्तमः।। 16.137 ।।
(82.पा. वैश्यस्य पालशब्दान्तं दासान्तं शूद्रजन्मनः।)
पञ्चकालविधिं चापि विना शूद्रमुपादिशेत्।
[ब्राह्मणादेः सबीजं च प्रणवादिनमोऽन्तिमम्।। 16.138 ।।
ताभ्यां वियुक्तं शूद्रस्य स्त्रीणां मन्त्रमुपादिशेत्।]
मूलं (83)वापि द्विषट्‌कं वा षडक्षरमथापि वा।। 16.139 ।।
(83.ग्र. वाष्टार्णमथवा षडक्षरमथापि वा।)
अथवा शिष्यसामर्थ्यं पर्यालोच्य गुरूत्तमः।
मन्त्रान् सर्वान् सहार्थांश्च भूषणाद्यधिदेवताः।। 16.140 ।।
आराधनक्रमं चैव विना शूद्रमुपादिशेत्।
ततः पञ्चोपनिषदा मन्त्रेणाष्टोत्तरं शतम्।। 16.141 ।।
कृत्वा पूर्णाहुतिं देवि वह्निकार्यं समापयेत्।
वह्निमण्डलकुम्भस्थं देवमारोपयेद्‌धृदि।। 16.142 ।।
एवं सामान्यदीक्षां तु दीक्षयित्वा यथाविधि।
शिष्यान् यानान्यथारोप्य वेदघोषपुरःसरम्।। 16.143 ।।
सर्ववाद्यैर्नदीं वापि तटाकं वा नयेद् गुरुः।
दीक्षासमाप्त्यवभृथं कारयेच्च यथाक्रमम्।। 16.144 ।।
शिष्या गुरुं (84)धनैर्गोभिर्भूमिभिर्भूषणादिभिः।
तर्पयित्वा नमस्कृत्य ततस्ते तदनुज्ञया।। 16.145 ।।
(84.पा. गां च भूमिं हिरण्यं च भूषणं यानमेव वा।)
वेदघोषैर्वाद्यघोषैर्बन्धुभिश्चेतरैरपि।
स्वेषां गृहाणि संहृष्टा गच्छेयुर्जलजोद्भवे।। 16.146 ।।
परार्थयजने दीक्षामाचार्यपदपूर्विकाम्।
शृणुष्वावहितो देवि रहस्यं शास्त्रचोदितम्।। 16.147 ।।
मद्गोत्रिणस्तदुत्पन्नास्तेषां ये शिष्यतां गताः।
तेषु शास्त्रकृतप्रज्ञा वेदवेदान्तपारगाः।। 16.148 ।।
नीरोगा मध्यवयसस्तेषामाचार्यपूर्वकम्।
अभिषेकं पुरा कुर्यात्तमेवालयपूजने।। 16.149 ।।
अन्येषां दीक्षाकरणे कारयेन्नेतरान् गुरुः।
अथाचार्याभिषेकाय शिष्यं (85)सर्वगुणैर्युतम्।। 16.150 ।।
(85.ग्र. मद्गोत्रसंभवम्।)
[परंपरादीक्षितस्य कुले जातं निरोगिणम्।]
आरोप्य यानं छत्रैश्च चामरैर्व्यजनादिभिः।। 16.151 ।।
वेदघोषैर्वाद्यघोषैर्दीक्षितैर्यतिभिस्तथा।
साधकैरपि चान्यैश्च देवधाम प्रदक्षिणम्।। 16.152 ।।
सर्वोपकरणैः सार्धं गच्छेन्नद्यास्तटं तु वा।
पुष्करिण्यास्तटं वापि गत्वा देशिकसत्तमः।। 16.153 ।।
तत्र भूमौ गोमयेन चतुरश्रं विलेपयेत्।
सुधाचूर्णैरलंकृत्य विनिवेश्यासनं ततः।। 16.154 ।।
शिष्यं तस्मिन् प्राङ्मुखेन स्थापयित्वा गुरूत्तमः।
दीक्षितेभ्यो यतिभ्यश्च वैष्णवेभ्यः पुरा रमे।। 16.155 ।।
अस्याचार्याभिषेकाय प्राप्यानुज्ञां ततो भुवि।
शिष्यस्य पुरतः पीठं धान्येन परिकल्पयेत्।। 16.156 ।।
तस्मिंस्तु द्वादशदलं विलिखेत् कर्णिकायुतम्।
कर्णिकायां चतुष्कुम्भान् परितो द्वादशानपि।। 16.157 ।।
घृतं क्षीरं दधिमधुगन्धपुष्पफलानि च।
रत्नधातुयवा माषाः कुशाक्षतजलानि च।। 16.158 ।।
पञ्चगव्यं कतक(86)जलं तेषु कुम्भेषु पूरयेत्।
अथवा गन्धतोयेन कलशान् पूरयेत् क्रमात्।। 16.159 ।।
(86.ग्र. जे)
शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।
(87)ततः पुण्याहसलिलैः शिष्यं कुम्भांश्च शोधयेत्।। 16.160 ।।
(87.पुण्याहवारिणा प्रोक्ष्य शिष्यं कुम्भांश्च देशिकः।)
कुम्भेषु पीठं संकल्प्य मध्यकुम्भचतुष्टये।
वासुदेवादिचतुरः परितः केशवादिकान्।। 16.161 ।।
चक्राब्जमण्डले चापि द्वादशार्णं तु मध्यमे।
केशवादींश्च परितो ध्यायेदर्घ्यादिभिर्यजेत्।। 16.162 ।।
ततो वह्निं समुत्पाद्य तत्र पीठं प्रकल्प्य च।
वासुदेवादिकान् सर्वानग्ना(88)वावाह्य पूजयेत्।। 16.163 ।।
(88.ग्र. वर्घ्यादिभिर्यजेत्।)
[शिष्यस्य दक्षिणे हस्ते बध्वा प्रतिसरं गुरुः।]
तेषां (नाम) समुच्चार्य प्रत्येकं द्वादशाहुतीः।
घृतेन जुहुयान्मन्त्री गुडान्नादि निवेदयेत्।। 16.164 ।।
शिष्यस्नानस्य वै भूमौ फलकं विनिवेशयेत्।
तदलंकृत्य संप्रोक्ष्य पीठं संकल्प्य तत्र वै।। 16.165 ।।
निवेश्य पीठे शिष्यं तु पीठार्चादिपुरस्कृतम्।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं सधूपकम्।। 16.166 ।।
दीपं च नालिकेरस्य फलं ताम्बूलमेव च।
कुम्भमण्डलवह्नीनां शिष्यस्य(89)च निवेदयेत्।। 16.167 ।।
(89.ग्र. अपि)
कलशानां द्रव्यमन्त्रैः सूक्तेन पुरुषात्मना।
मूलेन विष्णुगायत्र्या द्वादशाक्षरविद्यया।। 16.168 ।।
घोषितेषु च वाद्येषु शिष्यं तमभिषेचयेत्।
ततः शिष्येण सहितो वैष्णवैर्गुरुसत्तमः।। 16.169 ।।
संकल्पपूर्वं नद्यादौ कुर्यादवभृथं रमे।
अहताभ्यां च वासोभ्यामञ्जनेन च रञ्जितम्।। 16.170 ।।
कृतोर्ध्वपुण्ड्रमालाभिर्भूषणैरप्यलंकृतम्।
रथादिषु निवेश्याथ वाद्यघोषपुरःसरम्।। 16.171 ।।
छत्रचामरदासीभिर्वेदघोषैर्विमिश्रितम्।
बन्धुभिश्च ततान्यैश्च देवधामप्रदक्षिणम्।। 16.172 ।।
कृत्वा देवगृहद्वारं गत्वा शिष्यसमन्वितः।
पादशौचं चाचमनं कुर्यात् (90)शिष्यमन्वितः।। 16.173 ।।
(90.ग्र. देशिकसत्तमः)
देवगर्भगृहस्यान्तः प्रविश्य नतिपूर्वकम्।
देवस्य दक्षिणे पार्श्वे शिष्यं तं विनिवेशयेत्।। 16.174 ।।
भूतशुद्ध्यादिकं सर्वं कारयित्वा यथाक्रमम्।
धूपदीपनिवेद्यान्तं होमान्तं बलिसंमितम्।। 16.175 ।।
गर्भगेहं तु देवस्य शरीरमिति हि स्मृतम्।
अतो बहिः समागत्य शिष्येण नतिमाचरेत्।। 16.176 ।।
संप्रार्थयेद् देवदेवं वासुदेवं सनातनम्।
दीक्षां लब्ध्वा ह्ययं देव त्वत्समाराधने रतः।। 16.177 ।।
पूजयत्यत्र यत्किंचित्प्रमादात् स्खलितं यदि।
मदीय इति देवेश क्षन्तुमर्हसि सुव्रत।। 16.178 ।।
इति संप्रार्थ्य (91)देवेशं प्राश्यात् तीर्थादिकं हरेः।
गच्छेद् बहिस्ततः शिष्यो गुरुं नत्वा पुनः पुनः।। 16.179 ।।
(91.ग्र. दैवस्य हस्ते तं विनियोजयेत्।)
रत्नादिभिश्च संतोष्य प्राप्यानुज्ञां गुरोत्ततः।
गच्छेच्च स्वगृहं देवि बन्धुमित्राणि पूजयेत्।। 16.180 ।।
ततो बन्धुजनान् सर्वान् भोजयेद् भुजिमाचरेत्।

।। इति श्रीश्रीप्रश्नसंहितायां षोडशोऽध्यायः(92) ।।
(92.`पञ्चदशोऽध्याय' इति मातृकायाम्)