← अध्यायः २२ प्रश्नसंहिता
अध्यायः २३
[[लेखकः :|]]
अध्यायः २४ →
प्रश्नसंहितायाः अध्यायाः

।। त्रयोविंशोध्यायः ।।

ततो घटान् सकरकान् द्वारकुंम्भांस्तथैव च।
स्नानयोग्यानपि घटान् मण्डपे त्वधिवासयेत्।। 23.1 ।।
शोधयेत् सलिलैः शुद्धै रन्ध्रादिपरिवर्जितान्।
सूत्रेण वेष्टयेद्यत्नादङ्गुलाङ्गुलमन्तरम्।। 23.2 ।।
उपयुङ्क्ते यदि घटान् स्वर्णादीन् लोहनिर्मितान्।
सूत्रेण वेष्टनं तेषां न कर्तव्यं जलोद्भवे।। 23.3 ।।
पश्चिमे यागसदनाद् व्रीहिभिश्छादयैद्(1)भुवम्।
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।। 23.4 ।।
(1.ग्र. भुवः।)
अधोमुखान् घटान् सर्वान् न्यसेत्पङ्क्तिक्रमेण(2)वै।
कुशानुपरि संस्तीर्य प्राङ्मुखं परमेष्ठिना।। 23.5 ।।
(2.ग्र. तु।)
दर्भमुद्रां प्रदर्श्याथ गन्धतोयेन सर्वेतः।
संप्रोक्ष्य पुंसा विश्वेन विकिरेदक्षतान् रमे।। 23.6 ।।
कुम्भवेद्यां पुरा देवि प्रत्येकं व्रीहिभिर्गुरुः।
पीठमष्टाङ्गुलं कुर्यात् तदर्धं तण्डुलेन च।। 23.7 ।।
तिलेन च तदर्धेन पद्मं वा चक्रमेव वा।
लिखित्वा तेषु वै कुम्भान् करकं चापि विन्यसेत्।। 23.8 ।।
तथा द्वारादिकुम्भानां घटानामभिषेचने।
षडङ्गुलं व्रीहिपीठं तदर्धेन च तण्डुलम्।। 23.9 ।।
तिलेन पीठं तस्यार्धं पल्पयित्वा च तेषु वै।
घटादयः स्थापनीया नो चेत्कर्म निरर्थकम्।। 23.10 ।।
चक्राब्जाय च वेद्यां तु व्रीह्याद्यैः पीठकल्पने।
तिलं विना तु कर्तव्यं तस्मिन्नब्जं लिखेद्‌गुरुः।। 23.11 ।।
पञ्चवर्णैस्तण्डुलैश्च तद्दलानि च कल्पयेत्।
कर्णिकां पीतवर्णेन रक्तश्वेतैश्च केसरान्।। 23.12 ।।
ततः प्रभाते स्नानादि नित्यकर्म समाप्य च।
ऋत्विग्भिरालयं गत्वा पालिकाबालबिम्बयोः।। 23.13 ।।
पूजां प्रकल्पयेद्धीमान् तथा द्वारादिपूजनम्।
प्रतिष्ठान्तं त्वित्थमेव कालयोः पूजनं चरेत्।। 23.14 ।।
पुराधिवासितान् कुम्भांस्तन्तुभिः परिवेष्टितान्।
विदिक्षु मध्यमे चापि विन्यसेत् पञ्च वै रमे।। 23.15 ।।
पञ्चगव्यानि मन्त्रैस्तु मेलयेदभिषेचने।
पञ्चगव्यैस्ततः पञ्च कलशान् पूरयेत् गुरुः।। 23.16 ।।
एकैकस्मिन् घटे कूर्चं नालिकेरफलं तथा।
आम्रपल्लवगुच्छैश्च कलशानपिधापयेत्।। 23.17 ।।
महामण्डपभूभागे विन्यसेत् स्नानविष्टरम्।
कर्मादिलोहबिम्बानि पीठे तस्मिन्नि(3)योजयेत्।। 23.18 ।।
(3.ग्र. धापयेत्।)
पीठस्य तस्य पुरतः स्थापितां(न्) धान्यविष्टरे।
शोधयेत् कलशान् पूजाद्रव्याण्यपि(च) शोषयेत्।। 23.19 ।।
पुण्याहवारिणा प्रोक्ष्य सौरभेयीं प्रदर्शयेत्।
तद्दुग्धैरमृतीकृत्य सर्ववस्तूनि देशिकः।। 23.20 ।।
कुम्भेषु पूजयेद्देवान् पञ्चभूताधि(4)देवताः।
मूलादिसर्वदेवानां स्नानशाटीं समर्पयेत्।। 23.21 ।।
(4.ग्र. दैवतान्।)
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।
मूलबिम्बानि (5)कुम्भेन मध्येनैवाभिषेचयेत्।। 23.22 ।।
(5.ग्र. मध्येन कुम्भे)
कर्मादिसर्वबिम्बानि वह्निस्थेन ततो रमे।
नैर्ऋतेन विमानं च भक्तबिम्बानि मारुतात्।। 23.23 ।।
कुम्भेनैशेन सर्वत्र प्रोक्षयेदालयं ततः।
सुधामयादिबिम्बानां प्रोक्षणं पञ्चगव्यतः।। 23.24 ।।
शुद्धतोयैस्ततो बिम्बान्यभ्यषिञ्चेद्‌गुरूत्तमः।
शिल्पिदोषनिरासार्थं स्नानमेतत् प्रकीर्तितम्।। 23.25 ।।
पुनर्देवस्य पुरतो धान्यपीठं प्रकल्प्य च।
गोघृतैः पूरितं कुम्भं निक्षिपेत् तत्र देशिकः।। 23.26 ।।
तस्मिन्नारायणं देवमावाह्याभ्यर्चयेद्रमे।
घृतस्नातेति मन्त्रेण सर्वबिम्बानि लेपयेत्।। 23.27 ।।
गन्धचूर्णैः शोधयित्वा ह्युष्णोदैरभिषेचयेत्।
मूलादीनां च (6)बिम्बानां सर्वेषां दर्भसंमितम्।। 23.28 ।।
(6.ग्र. सर्वेषां बिम्बानां)
युवासुवासामन्त्रेण वस्त्रयुग्मं समर्पयेत्।
अर्घ्यं पाद्यं तथाचामं गन्धं माल्यं च धूपकम्।। 23.29 ।।
दीपं नैवेद्यमपि च विष्णुगायत्रिया ततः।
दद्याच्छ्रियादिदेवीनां तत्तन्मन्त्रेण देशिकः।। 23.30 ।।
वास्तुशान्तिं ततः कुर्यात् तद्दैवं पूजयेत्पुरा।
पुरा दैवासुरे युद्धे दैत्यान् भृगुररक्षयत्।। 23.31 ।।
तत्पत्न्यप्यसुरान् सर्वानुदरे न्यस्य नित्यशः।
ततः कोपसमाविष्टः पत्न्यास्तस्य शिरोऽच्छिनम्।। 23.32 ।।
कोपेन महताविष्टे भृगौ तद्गात्रसंभवः।
स्वेदोऽपतद्धरापृष्ठे तत्स्वेदाद् दैत्यसत्तमः।। 23.33 ।।
भूमेरजनि सो देवान् हन्तुमुद्यतवांस्तदा।
सर्वे देवा मिलित्वा तं पातयन्तश्च तद्वपुम्(7)।। 23.34 ।।
(7.ग्र. तद्वपुः।)
आक्रम्य रविमुख्यास्ते शिरःप्रभृति सुस्थिताः।
ततः क्रन्दितुमारब्धः पङ्कजासनमब्जजे।। 23.35 ।।
चतुर्मुखस्ततस्तस्मै वरं प्रादात्तु वास्तवे।
तव भूमेः समुत्पत्तिर्यस्माज्जाता भुवः सुत।। 23.36 ।।
तस्मात् त्वां मानवा भूमौ गृहं वा ग्राममेव वा।
पत्तनं वाथ (8)देवस्य धाम वा कल्पयेद्यदा।। 23.37 ।।
(8.ग्र. यज्ञस्य)
इत्थं देवैरुपारूढं पूजयिष्यन्ति मद्वरात्।
तव तृप्तिस्तेन भवेद्यदि नार्चन्ति हेलया।। 23.38 ।।
पुत्रादीनां च नाशः स्यात् संपद्धीनो भविष्यति।
अतः (9)संप्रार्थयेद् विद्वान् सर्वेषां क्षेमहेतवे।। 23.39 ।।
(9.ग्र. संपूजयेत्)
प्रपाया दक्षिणे पार्श्वे तिलभारैः प्रसारिते।
अधोमुखं प्राक्‌शिरसं कोणेषु चतुर्षु क्रमात्।। 23.40 ।।
प्रसारितं पाणिपादं विलिखेद्यत्नमास्थितः।
देवानावाह्य तस्मिंस्तु पूजयेत्तद्वदामि ते।। 23.41 ।।
मस्तके सूर्यमावाह्य बाहुमूले च मन्मथम्।
सुब्रह्मण्यं कूर्परेऽस्य वामहस्ते विनायकम्।। 23.42 ।।
पादद्वयेऽश्विनीदेवै मध्ये पूर्णनिशाकरम्।
पाणौ दुर्गां कूर्परे तु मातॄर्मूले भुजस्य च।। 23.43 ।।
उमापतिं नाभिदेशे ब्रह्माणं हृदये हरिम्।
परितोऽष्टसु लोकेशानुत्तरे क्षेत्ररक्षकम्।। 23.44 ।।
सप्तदर्भकृतं कूर्चं वास्तुनाथस्य वै हृदि।
निधाय मनसा ध्यायन्नाचार्यस्त्वृत्विजोऽपि वा।। 23.45 ।।
पूजयेद्वास्तुनाथस्य पश्चिमे लौकिकेऽनले।
पञ्चोपनिषदा मन्त्री सहस्रं जुहुयाद्‌घृतैः।। 23.46 ।।
शम्यपामार्गखदिरसमिद्भिस्तदनन्तरम्।
मूलमन्त्रेण तन्मन्त्रवर्णमेकैकमुच्चरन्।। 23.47 ।।
अष्टोत्तरशतं वापि ह्यष्टविंशतिमेव वा।
अष्टौ वा जुहुयाद्देवि सूक्तेन पुरुषात्मना।। 23.48 ।।
चरुं च जुहुयाद्भद्रे षड्‌दशाहुतिभिर्गुरुः।
सकृतं(10)सकृच्चरुणा वास्तुनाथशरीरगान्।। 23.49 ।।
(10.ग्र. सकृच्च चरुणा)
नामान्युच्चार्य हुत्वा च तेभ्य एव बलिं क्षिपेत्।
विसृजेत्तद्गतान् देवान् सूर्यादीन् गुरुसत्तमः।। 23.50 ।।
तत्स्थानं गोमयाम्भोभिर्लेपयेत्तदनन्तरम्।
वाचयित्वा च पुण्याहं तज्जलैः प्रोक्षयेद्भुवम्।। 23.51 ।।
ततस्तु दर्भपुञ्जेन वास्तुवज्जनयेत्तनुम्।
तस्मिन् (11)तिलैः समावाह्य प्रोक्ष्य पुण्याह(12)वारिणा।। 23.52 ।।
(11.ग्र. तिलान्)
(12.ग्र. पूर्वकम्।)
ज्वलयित्वा तु तं वास्तुं परिचारैस्तु वीथिषु।
आकर्षयेदष्टदिक्षु प्रतिष्ठार्थं हरेः प्रिये।। 23.53 ।।
आहूतानां दिक्पतीनां बलिं दद्यात्तु पद्मजे।
अथालयं समागत्य पाणिपादं च शोधयेत्।। 23.54 ।।
आचम्य च यथाशास्त्रं मूलादीनां च वै गुरुः।
बन्धयेत् कौतुकं तेषां बिम्बानामानुपूर्वशः।। 23.55 ।।
ताम्बूलफलपुष्पाद्यैर्हेमसूत्रादिसंमितान्।
पटलादीन् समादाय ब्राह्मणैर्वेदपारगैः।। 23.56 ।।
ऋत्विग्भिर्दीक्षितैश्चापि यजमानेन वै गुरुः।
धाम प्रदक्षिणीकृत्य वाद्यघोषपुरःसरम्।। 23.57 ।।
गर्भमन्दिरमासाद्य धान्यपीठे निवेशयेत्।
(13)मुहुर्मुहुः प्रणम्याथ स्तुत्वा नानाविधैः स्तवैः।। 23.58 ।।
(13.ग्र. चतुर्वारं)
पुण्याहं वाचयित्वाथ सूत्राणि प्रोक्षयेत्ततः।
महारजतसूत्रादि शोधयेच्छोषणादिभिः।। 23.59 ।।
अपराजितमन्त्रेण रक्षासूत्राणि मन्त्रयेत्।
तेषु श्रियं समावाह्य क्षीरसागरमध्यतः।। 23.60 ।।
संपूज्य विधिवद्देवीं ततो बिम्बानि पूजयेत्।
कौतुकं मूलबिम्बानाम बध्वा देशिकसत्तमः।। 23.61 ।।
महामण्डपमासाद्य कर्मार्चाद्याः सुपूज्य च।
रक्षाबन्धं च विधिवत् कृत्वा स्वस्य करे तथा।। 23.62 ।।
ऋत्विजां चापि बध्नीयात् पश्चान्नीराजयेद्विभुम्।
ततो विमानमासाद्य संपूज्य विधिवत्ततः।। 23.63 ।।
प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः।
बध्वा प्रतिसरं पूर्वं पश्चात् तद्देशिकस्य च।। 23.64 ।।
ततश्छायाधिवासं तु कुर्यात् देशिकसत्तमः।
छायाधिवाससिद्‌ध्यर्थं मूलार्चायाः पुरो भुविः।। 23.65 ।।
स्वर्णादिनिर्मितां वापि दारुजां मृण्मयीं तु वा।
जलद्रोणीं कटाहं वा स्थापयेद् धान्यविष्टरे।। 23.66 ।।
परितोऽष्टौ नालिकेरसूत्रकूर्चादिभिर्युतान्।
घटांस्तत्तद्विधिन्यस्तानश्वत्थाम्रदलैर्युतान्।। 23.67 ।।
करकं च निधायादौ शिरोभागे गुरूत्तमः।
द्रोण्यादीन् (14)पुष्पसलिलैः पूरयेत् कमलासने।। 23.68 ।।
(14.ग्र. गन्ध)
ततः पुण्यजलैः प्रोक्ष्य पीठं तेषु प्रकल्पयेत्।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।। 23.69 ।।
अष्टाविंशतिदर्भैश्च कृते कूर्चे हरिं स्मरेत्।
एकविंशतिदर्भैश्च कृतकूर्चेषु वै रमे।। 23.70 ।।
श्रियादिदेवीरावाह्य पूजयेच्च यथाक्रमम्।
मन्त्रैस्तु पावमानीभिः पञ्चोपनिषदादिभिः।। 23.71 ।।
शुद्धीकृते जले तस्मिन् भगवानिति मन्त्रतः।
शाययेत् तत्र कूर्चस्थं हरिमष्टाक्षरेण वै।। 23.72 ।।
पूजयेच्च निवेद्यान्तं श्रियादीनामयं क्रमः।
चक्रमुद्रां प्रदर्श्याथ जलद्रोणीः पिधापयेत्।। 23.73 ।।
अर्चाभिमानिनं जीवं मन्त्रज्ञो देशिकोत्तमः।
आकृष्य हृदये स्वस्य नयेत् संहारमार्गतः।। 23.74 ।।
परे ब्रह्मणि तं चापि योजयेत् कमलेक्षणे।
ततस्तु मूलबिम्बानि शोषणप्लावनादिभिः।। 23.75 ।।
शोधयित्वाथ बिम्बानि वस्त्रैराच्छादयेद् गुरुः।
एवं विमानमूर्तीनां विमानस्य च कारयेत्।। 23.76 ।।
प्रत्येकं वा विमानार्थं जलद्रोण्यां गुरूत्तमः।
जलाधिवासं कुर्वीत विमानस्य पुरो भुवि।। 23.77 ।।
कृतेषु सप्तदर्भैस्तु कूर्चेष्वावाह्य वै रमे।
छायाधिवासं देवस्य सविमानस्य वै गुरुः।। 23.78 ।।
कृत्वैवं मण्डपं गत्वा कुम्भस्थापनं(15)कर्मणि।
सुस्नाता धौतवसनाः स्वच्छमृत्स्नोर्ध्वपुण्ड्रकाः।। 23.79 ।।
(15.ग्र. माचरेत्।)
चन्दनाद्यनुलिप्ताङ्गाः पुष्पमालादिभूषिताः।
परिचारवराः सर्वे कुम्भान् पूर्वाधिवासितान्।। 23.80 ।।
गृहीत्वा गुरूणाज्ञप्ता प्रादक्षिण्येन मन्दिरम्।
यात्रोपकरणैश्चैव वाद्यघोषादिभिः सह।। 23.81 ।।
नद्यादितीरमासाद्य गालितैः सलिलैर्घटान्।
संपूर्य समलंकृत्य नालिकेरा(16)दिभिर्घटान्।। 23.82 ।।
(16.ग्र. फलादिभिः।)
गजस्कन्धेषु वा विप्रा मूर्ध्निष्वारोप्य भक्तितः।
गत्वा प्रदक्षिणं धाम प्रविशेद्यागमण्डपम्।। 23.83 ।।
वेदिमध्ये महाकुम्भं करकं तस्य दक्षिणे।
ऐन्द्रादीशानपर्यन्तं समान् कुम्भान् विनिक्षिपेत्।। 23.84 ।।
मध्ये मध्ये तु कुम्भानां (17)शङ्खादीनष्टमङ्गलान्।
पद्मरागं प्रवालं च वज्रं वैडूर्यमेव च।। 23.85 ।।
(17.पा-1. श्रीवत्साद्यष्टमङ्गलम्।)
(18)पुष्यरागं चेन्द्रनीलं गारुडं मौक्तिकं तथा।
(19)गोमेदकं चेति नवरत्नानि कमलेक्षणे।। 23.86 ।।
(18.पुष्यरागं तथा नीलमणिं मरकतं तथा।)
(19.मुक्तास्फटिकमुद्दिष्टं सर्वं मंत्रेण निक्षिपेत्।)
वासुदेवं शङ्खचक्रं गदां पद्मं ध्वजं तथा।
श्रीवत्सं वैनतेयं च कूर्मराजं तथैव च।। 23.87 ।।
स्वर्णादिनिर्मितानेतान् रत्नैः सह गुरूत्तमः।
मध्यकुम्भादिकुम्भेषु निक्षिपेत्तदनन्तरम्।। 23.88 ।।
कालचक्रं चाग्निमणिं करके तु विनिक्षिपेत्।
इत्थमेव विमानस्य कलशान् स्थापयेद्रमे।। 23.89 ।।
प्रतिमामनिरुद्धस्य महाकुम्भे निधापयेत्।
पद्मरागादिरत्नानि द्वारकुम्भेषु वै न्यसेत्।। 23.90 ।।
मृगनाभिं चन्दनं च घनसारं च कुङ्कुमम्।
उशीरमगरुं चापि घटतीर्थेषु निक्षिपेत्।। 23.91 ।।
नास्तिकान् भिन्नमर्यादान् देवब्राह्मणनिन्दकान्।
प्रतिलोमान् पापवृत्तीन् कुष्ठादिव्याधिपीडितान्।। 23.92 ।।
हीनाङ्गान् बधिरानन्धान् नित्यकर्मविवर्जितान्।
निष्कास्यैतान् बहिः पुण्यैः सलिलैः प्रोक्षयेद् गुरुः।। 23.93 ।।
ऋग्वेदिनस्तु प्राग्द्वारे दक्षिणस्यां यजुर्मयान्।
प्रतीच्यां सामवेदज्ञानुत्तरेऽथर्वशाखिनः।। 23.94 ।।
तत्तद्वेदानुपक्रम्य पाठयेत्तान् गुरूत्तमः।
वेदान्तादिपुराणानि गाथास्तोत्राणि वह्निषु।। 23.95 ।।
एतेषामविरोधेन तूर्याण्यन्यानि गापयेत्।
ऋत्विजो गुरुणादिष्टाः प्राग्द्वारादींस्ततो यजेत्।। 23.96 ।।
प्राग्द्वारतोरणस्येत्थं दक्षिणोत्तरशाखयोः।
सुशोभनं गोत्रभिदमुपरिष्टाच्च पार्श्वयोः।। 23.97 ।।
वैनतेयौ मध्यमे तु पूजयेच्च सुदर्शनम्।
ध्वजयो रक्ततयोर्देवि कुमुदं कुमुदाक्षकम्।। 23.98 ।।
कुम्भयोः पूजयेद्विद्वानर्घ्याद्यैः पूर्णपुष्करौ।
ऋग्वेदं द्वारमध्ये तु दक्षिणद्वारशाखयोः।। 23.99 ।।
सुभद्रं धर्मराजं च ध्वजयोः पीतवर्णयोः।
पुण्डरीकं वामनं च कुम्भयोस्तु शुभानने।। 23.100 ।।
आनन्दनन्दनौ देवौ यजुर्वेदं तु मध्यमे।
सुगन्धवरुणौ पूज्यौ प्रतीचीद्वारशाखयोः।। 23.101 ।।
ध्वजयोर्नीलयोर्ध्यायेत् शङ्कुकर्णं तथापरम्।
सर्वनेत्रं कुम्भयोस्तु वीरसेनसुषेणकौ।। 23.102 ।।
मध्यदेशे सामवेदमुदीचीद्वारशाखयोः।
सुगोत्रधनदौ चैव ध्वजयोः शुक्लयो रमे।। 23.103 ।।
सुमुखं सुप्रतिष्ठं च कुम्भयोः संभवं तथा।
प्रभवं मध्यमे स्थाने अथर्वाणं (20)च पूजयेत्।। 23.104 ।।
(20.ग्र. समर्चयेत्।)
(21)द्वाराणामितरेषां च वैनतेयादिपूजनम्।
प्राग्द्वारवत् प्रकुर्वीत यमादीनां क्रमात् गुरुः।। 23.105 ।।
(21.ग्र. अयं श्लोकः 112, श्लोकादनन्तरं दृश्यते।)
बालबिम्बस्य पीठात्तु पूर्वोक्तानेषु वल्लभे।
आवाह्य चाक्षतैर्देवानर्घ्याद्यैः पूजयेत् क्रमात्।। 23.106 ।।
शङ्खचक्रगदापाणीन् करण्डिमकुटान्वितान्।
कृताञ्जलीन् भक्तितनम्रान् ध्यायेत्पार्षदवल्लभान्।। 23.107 ।।
पाठयेद् द्वारपालीयं साम सामविदस्तदा।
पश्चिमस्यां चक्रकुण्डप्रतीच्यां प्राङ्मुखस्थितः।। 23.108 ।।
कूर्मासने हरिं ध्यायन् सपवित्रो गुरूत्तमः।
असुरान्तकचक्राय स्वाहेति मनुमुच्चरन्।। 23.109 ।।
त्रिभिर्दर्भैः कुण्डशुद्धिं कृत्वा तदनु वै रमे।
चन्दनाद्यैर्लेपयित्वा विकिरेच्च ततोऽक्षतान्।। 23.110 ।।
कुण्डदेवं पुरा ध्यायेत् तत्स्वरूपं निबोध मे।
शिरः प्राच्यामीशकोणे वह्नौ बाहू प्रसारितौ।। 23.111 ।।
नैर्ऋते मारुते पादौ कुण्ड(22)मध्यस्तथोदरम्।
इत्थमेव हि सर्वेषां कुण्डानां ध्यानमब्जजे।। 23.112 ।।
(22.ग्र. मध्यं)
गन्धादिभिः कुण्डरूपं पुरुषं पूजयेत्ततः।
अस्त्रमन्त्रं समुच्चार्य गृह्णीयाद्दर्भयुग्मकम्।। 23.113 ।।
ताभ्यां प्रागायता रेखास्तिस्रोदग्रास्तथा रमे।
समुच्चरन्मूलमन्त्रं तिस्रो नाडीस्तु लेखयेत्।। 23.114 ।।
गुणमन्त्रेण तौ दर्भौ विसृजेत् कुण्डमध्यमम्।
मृदुदर्भसमूहं च शुष्कगोमयचूर्णवत्।। 23.115 ।।
गन्धद्वारेति मन्त्रेण पूरयेत् सतुषं गुरुः।
परिस्तृणीयात् कुण्डस्य परितः षोडशान् कुशान्।। 23.116 ।।
आस्तीर्य कुण्डमध्येऽपि योगपीठं प्रकल्पयेत्।
तत्पीठे तु रमानाथं वासुदेवं विचिन्तयेत्।। 23.117 ।।
अर्घ्यादिना तमभ्यर्च्य प्रार्थयेन्मुद्रया सह।
विराड्‌रूप जगद्योने ब्रह्मरुद्रादिसेवित।। 23.118 ।।
प्रतिष्ठार्थं तव मुखादग्निं संप्रार्थयामि भो।
इति संप्रार्थ्य देवेशमरणेः सूर्यकान्ततः।। 23.119 ।।
अथवा श्रोत्रिया(23)गारात् गृह्णीयात्ताम्रभाजने।
वह्निं निधाय कुण्डस्य (24)ईशाने शोषणादिभिः।। 23.120 ।।
(23.ग्र. गृहात्)
(24.ग्र. मध्यमे)
शोधयेच्चास्त्रमन्त्रेण ताडयेत् प्रोक्षयेच्च तम्।
सहस्रादित्यसंकाशं द्विशीर्षं सप्तहस्तकम्।। 23.121 ।।
सप्तजिह्वं त्रिनयनं त्रिपादं पाटलप्रभम्।
अञ्जलिं मुख्यहस्ताभ्यामितरैर्बाहुभी रमे।। 23.122 ।।
शङ्खं चक्रं स्रुक्‌स्रुवौ च दधानं शक्तिमायुधम्।
कुण्डपद्मे स्थितं ध्यायेदग्नीं स्वाहापतिं गुरुः।। 23.123 ।।
आवाहनादिषण्मुद्रां दर्शयेच्च यथाक्रमम्।
षडर्णेनाग्निबीजेन न्यासं कुर्याद्विचक्षणः।। 23.124 ।।
अर्घ्यादिना निवेद्यान्तमाज्येनाराधयेद्रमे।
लाजपूरितहस्ताभ्यां वह्निं संप्रार्थयेद् गुरुः।। 23.125 ।।
वासुदेवस्य देवस्य प्रतिष्ठामारभेऽनल।
गार्हपत्यादिरूपेण त्वं स्थित्वा कर्म पूरय।। 23.126 ।।
इति लाजैः पावकं तं तोषयेद् गुरुरात्मवान्।
इतरेषां तु कुण्डानां पर्यग्निं दर्भमुष्टिना।। 23.127 ।।
कृत्वा तेषु पुरा पीठं कल्पयित्वा यथाविधि।
प्रत्यक् कुण्डात्तेषु वह्निं निनयेच्च ततःपरम्।। 23.128 ।।
सर्वेषामपि वह्नीनामाज्येनार्घ्यादिकान् यजेत्।
चतस्रो धेनवः स्थाप्या दक्षिणस्यामुदङ्मुखाः।। 23.129 ।।
गङ्गासरस्वती गोदा यमुना (25)संज्ञिकास्ततः।
धेनूः संपूज्य तदनु दुहेत्ता गुरुसत्तमः।। 23.130 ।।
(25.पा. रूपधारिणी।)
दुग्धैश्चरूणां श्रपणं तदीयैराहुतिर्भवेत्।
विष्णुगायत्रिया स्थालीं संक्षाल्य व्रीहितण्डुलान्।। 23.131 ।।
निक्षिप्य चक्रमन्त्रेण विचक्राख्येण वारिभिः।
आपूर्याथ सुचक्रेण शोधयित्वा च तण्डुलान्।। 23.132 ।।
कुण्डे त्रिपादुकां लोहनिर्मितां विन्यसेत्ततः।
सूर्यचक्राख्यमन्त्रेण तस्यां स्थालीं निवेश्य च।। 23.133 ।।
ज्वालाचक्राख्यमन्त्रेण वह्निं प्रज्वालयेद्रमे।
महासुदर्शनाख्येन चरुश्रपणमाचरेत्।। 23.134 ।।
पायसान्नं पूर्वकुण्डे कृसरान्नं तु दक्षिणे।
पश्चिमे गुडमिश्रान्नं शुद्धान्नमुत्तरे पचेत्।। 23.135 ।।
चरुश्रपणकाले तु ज्वालाचक्राख्यमन्त्रतः।
समिधाष्टोत्तरशतं जुहुयाद्वह्निवृद्धये।। 23.136 ।।
प्रागादीनां तु कुण्डानां पालाशप्लक्षखादिराः।
बैल्वश्च समिधो देवि विज्ञेयाः सर्वकर्मसु।। 23.137 ।।
यद्वा प्राच्यादिकुण्डानां पालाश्याः समिधो मताः।
महानसे वा वच्यं स्याच्छालितण्डुलमाढकम्।। 23.138 ।।
कुण्डस्योत्तरपार्श्वेषु निदध्याद्दर्भविष्टरे।
अग्नेः प्रशमनार्थाय सप्तजिह्वासु ऋत्विजः।। 23.139 ।।
जुहुयात् तद्विधिं वक्ष्ये तासां द्रव्यं च वर्णकम्।
मूलेन काल्यां समिधः घृतं च निगमादिना।। 23.140 ।।
मनोजवायामन्नेन वासुदेवाख्यविद्यया।
लोहितायां तु धूम्रायां लाजैः संकर्षणाख्यया।। 23.141 ।।
तिलैः प्रद्युम्नमन्त्रेण स्फुलिङ्गिन्यां तु दुग्धतः।
अनिरुद्धाख्यमन्त्रेण विश्वरूप्यां तु माक्षिकम्।। 23.142 ।।
करालिकायां हवनं पुंसूक्तेन चरुं हुनेत्।
काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग्भवेत्।। 23.143 ।।
मनोजवायाश्चाग्नेयं(26) लोहितायास्तु वारुणम्।
सुधूम्रा सोमनिलया स्फुलिङ्गिन्यनिलाश्रया।। 23.144 ।।
(26.मातृकायां. ग्नेयां)
ऐशान्यां विश्वरूपिण्या(:) स्थान(27)मेतदुदाहृतम्।
सव्ये मुखे तु जिह्वानां चतसॄणां तु दक्षिणे।। 23.145 ।।
(27.ग्र. मेवं क्रमाद्भवेत्।)
तिसॄणां वर्णभेदस्तु प्रोच्यते शृणु वल्लभे।
कृष्णो नीलः कोकनदो विद्युदाभस्तथापरे।। 23.146 ।।
रक्तश्वेतस्तथा नील एवं ध्यायेद् गुरूत्तमः।
भट्टाचार्यनियोगेन याजका होतुमुद्यताः।। 23.147 ।।
भूतशूद्ध्यादिकं सर्वं मन्त्रन्यसनमेव च।
कृत्वा प्राच्यादिकुण्डेषु विमानस्य तथैव च।। 23.148 ।।
योगपीठं पुरा कृत्वा वासुदेवादिकान् क्रमात्।
आनन्दाख्यादिलोकेभ्यो ध्यात्वा चावाहयेद्रमे।। 23.149 ।।
मन्त्रन्यासादिभोज्यान्तं जुहुयान्मन्त्रपूर्वकम्।
परमानन्दवैकुण्ठाद् वासुदेवं तु चिन्मयम्।। 23.150 ।।
महाकुम्भे समावाह्य पूजयेद् गुरुसत्तमः।
तत्क्रमं त्विह वक्ष्यामि क्षीराब्धितनये तव।। 23.151 ।।
मानुषाद्यैः समायुक्तं भूलोकं विष्णुरक्षितम्।
ध्यायेद् भुवोपरि व्योम्नि गन्धर्वाद्यैः समन्वितम्।। 23.152 ।।
दाशार्हरक्षितं ध्यायेत् तदूर्ध्वे केशवादिभिः।
पालितं द्वादशात्मानमण्डलं मण्डलोपरि।। 23.153 ।।
हिमांशुमण्डलं ध्यायेद्(28)यच्छ्रीशेनाभिरक्षितम्।
तत ऊर्ध्वे मुकुन्देन पालितं सिद्धसेवितम्।। 23.154 ।।
(28.ग्र. हयग्रीवेण)
स्वर्गलोकमुपेन्द्रेण रक्षितं स्वर्गिसेवितम्।
दिक्पालानां तत्र तत्र पुर्यष्टकसमन्वितम्।। 23.155 ।।
वस्वादिदेवबृन्दानां यत्र प्रासादपङ्क्तयः।
स्मृत्वा तन्महसो लोकं तदूर्ध्वे सनकादिभिः।। 23.156 ।।
अन्यैर्महर्षिभिर्नित्यैर्जनोलोकं सुसेवितम्।
तस्मिन् जनार्दनो देवस्तैश्च नित्यं सुपूज्यते।। 23.157 ।।
तपोलोकं तदूर्ध्वे तु (29)वैराजादिभिरन्वितम्।
पुरुषोत्तमरूपेण मया संरक्षितं स्मरेत्।। 23.158 ।।
(29.ग्र. वैराजक्यादिभिर्युतम्।)
ब्रह्मादिदेवैः संसेव्यं पद्मनाभेन रक्षितम्।
सत्यलोकं हृदि ध्यात्वा ततोऽण्डं मनसा स्मरेत्।। 23.159 ।।
अण्डस्यापि बहिस्तोयं व्याप्तं तत्तेजसा रमे।
वायुना वेष्टितं तेजो व्याप्तं तद्बहिरम्बरात्।। 23.160 ।।
तस्माद् बहिरहंकारं ततो बुद्धिं ततः परम्।
अव्यक्तं च ततो ध्यायेत् प्रमोदनमुदाहृतम्।। 23.161 ।।
तत्तु सालोक्यवैकुण्ठं विमानैः स्वर्णनिर्मितैः।
नानारत्नमयैश्चित्रैः प्रासादैर्गोपुरैरपि।। 23.162 ।।
अप्राकृतैर्मनोहार्यैः कल्पवृक्षैश्च संवृतम्।
मणिकुट्टिमसोपानमहार्हमणिवेदिकम्।। 23.163 ।।
शतयोजनविस्तारम् (30)अनेकशतमायतम्।
तस्मिन् लोकोत्तरे दिव्ये प्रथमे देवपूजिते।। 23.164 ।।
(30.ग्र. तावद्योजनमायतम्।)
आस्तेऽनिरुद्धो भगवान् मायादेवीसमन्वितः।
स्मरेत् सामीप्यवैकुण्ठमामोदनमथोपरि।। 23.165 ।।
पूर्ववत्तु विमानाद्यैर्गोपुराद्यैः सुशोभितम्।
सूर्यायुतसमप्रख्यैः शतयोजनमुच्छ्रितैः।। 23.166 ।।
प्राकारैः पञ्चभिर्दिव्यैः शोभितं परमाद्‌भुतैः।
योजनानां सहस्रैस्तदायामं (31)चापि तत्समम्।। 23.167 ।।
(31.ग्र. चाथ विस्तृतम्।)
इतस्ततश्च धावद्भिर्भगवत्कर्मतत्परैः।
अलंकृतं विष्णुभक्तैः शतशोऽथ सहस्रशः।। 23.168 ।।
तस्मिन् लोकवरे दिव्ये भगवान् भक्तवत्सलः।
सुखमास्ते हि लोकेशः प्रद्युम्नो जयया सह।। 23.169 ।।
ध्यायेत् सारूप्यवैकुण्ठं संमोदनमुदाहृतम्।
विरजापरिघोपेतं सप्तावरणशोभितम्।। 23.170 ।।
अयुतैर्योजनानां च विस्तारायामसंमितम्।
सूर्यलक्षसमप्रख्यैः प्रासादादिभिरुज्ज्वलम्।। 23.171 ।।
शङ्खचक्रधरैर्दिव्यैश्चतुर्भुजसमन्वितैः।
पीताम्बरैः पृथूरस्कैः पद्मपत्रनिभेक्षणैः।। 23.172 ।।
स्तुवद्भिश्चैव नृत्यद्भिर्गायद्भिश्चैव भक्तितः।
तैः संवृतो जगन्नाथस्तस्मिन् लोके जगद्‌गुरुः।। 23.173 ।।
[आस्ते संकर्षणो देवः कीर्त्या सह सुखासने।]
ऊर्ध्वे सायुज्यवैकुण्ठमानन्दाख्यं सुविस्तरम्।। 23.174 ।।
लक्षयोजनविस्तारं तावद्भिश्चायतं शुभम्।
नवावरणसंयुक्तं सूर्यकोटिसमप्रभम्।। 23.175 ।।
विमानाद्यैः शोभमानं तोरणाद्यैरलंकृतम्।
स्वयंप्रभैर्विष्णुभूतैः शरच्चन्द्रांशुनिर्मलैः।। 23.176 ।।
नानाविधैरसंख्येयैर्नक्षत्राणां गणैरिव।
श्रीमद्भिः श्यामलाङ्गैश्च विष्णुतुल्यपराक्रमैः।। 23.177 ।।
तैः संवृतो वासुदेवो (32)लक्ष्म्या भोग्यासने स्थितः।
[स्थित्यै सुदर्शनं पाञ्चजन्यं मोक्षप्रदाय च।। 23.178 ।।
(32.ग्र. सृष्ट्ये सरसीरुहम्।)
कौमोदकीं संहृतये धर्मसंस्थापनाय च।
दधानो नन्दकं शार्ङ्गं लक्ष्म्या भोग्यासने स्थितः]।। 23.179 ।।
(33)उपरिष्टाच्च ततः कोटियोजनात् कमलेक्षणे।
परमानन्दनामानं वैकुण्ठं परमं पदम्।। 23.180 ।।
(33.ग्र. उपरिष्टा)
कोटियोजनविस्तीर्णं तावदायाममुच्छ्रितम्।
दिव्यरत्नमयैश्चित्रैः प्राकारैर्गोपुरैर्युतम्।। 23.181 ।।
दिव्यैर्नानामणिमयैर्गृहपङ्‌क्तिविराजितम्।
शक्रचापौघसंकाशैः प्रोच्चैः सौधैरलंकृतम्।। 23.182 ।।
सुधाकरसहस्राभैः पुरुषैरुपशोभितम्।
सर्वे चतुर्भुजाः शुद्धाः स्वात्मेशसमविग्रहाः।। 23.183 ।।
शङ्खचक्रधराः सर्वे स्रग्विणः पीतवाससः।
अप्राकृतमया नित्याः पुनरावर्तिवर्जिताः।। 23.184 ।।
एकायनाख्यवेदेन जितन्तादिस्तवैरपि।
शरच्चन्द्रसहस्राणां कोटितुल्यतनुप्रभाः।। 23.185 ।।
पुण्डरीकेक्षणाः सर्वा नित्ययौवनशोभिताः।
सर्वलक्षणसंपन्ना लक्ष्मीतुल्याश्च योषितः।। 23.186 ।।
मोदन्ते परमे व्योम्नि नित्यानन्दमयेऽक्षये।
एता अपि रमानाथं पूजयन्ति स्तुवन्ति च।। 23.187 ।।
तेजोमयं तदन्तःस्थं चतुर्द्वारसमन्वितम्।
प्राकारैर्दिव्यसोपानगोपुरैरुपशोभितम्।। 23.188 ।।
चण्डादिद्वारपालाद्यैः कुमुदाद्यैः सुरक्षितम्।
दिव्यचन्दनकस्तूरिकर्पूरामोदवासितम्।। 23.189 ।।
नानामणिमयैः क्लृप्ततोरणैरुपशोभितम्।
रत्नस्थूणासहस्रेण सवितानं सवेदिकम्।। 23.190 ।।
परितः कल्पवृक्षाद्यैः पारिजातादिभिर्युतम्।
परितः क्लृप्तसोपानं परमानन्दमण्डपम्।। 23.191 ।।
[तन्मध्येऽमलसंस्थाने द्वादशस्तम्भसंयुतम्।
पार्श्वयोर्द्वादसंयुक्तमुक्तिमण्डपशोभितम्।। 23.192 ।।
सोमच्छन्दव्योमयानं शृङ्गत्रयविराजितम्।]
मध्ये सिंहासनं दिव्यं धर्माद्यैः सूरिभिर्धृतम्।। 23.193 ।।
चतुर्वेदमयं दिव्यं साङ्गोपाङ्गपरिच्छदम्।
तन्मध्येऽष्टदलं पद्ममष्टाक्षरमयं शुभम्।। 23.194 ।।
तस्मिन्ननन्तपर्यङ्के फणारत्नविचित्रिते।
द्विहस्तमेकवक्त्रं च शुद्धस्फटिकसंनिभम्।। 23.195 ।।
[वीरभूषणमञ्जीरपरिष्कृतपदाम्बुजम्।
बालातपहसत्कान्तिकान्तकार्तस्वराम्बरम्।। 23.196 ।।
उरोविराजिश्रीवत्सकौस्तुभोद्भासिदिक्तटम्।
रत्नकाञ्चनसन्मुक्तायुक्तया वनमालया।। 23.197 ।।
सब्रह्मसूत्रया चैव संविराजदुरःस्थलम्।
माणिक्यवलयोदारमहार्हाङ्गुलिभूषणम्।। 23.198 ।।
आजानूरुपरिक्षिप्तवामबाहुं तथेतरम्।
उपधाय दयासिन्धोरुद्यच्चन्द्रनिभाननम्।। 23.199 ।।]
[विलसद्गण्डसंलग्नश्रवणोज्ज्वलकुण्डलम्।
मन्दस्मितरुचिद्योत्स्नाविलसन्मुखमण्डलम्।। 23.200 ।।
किंचिदारक्तगोक्षीरशुद्धनीलाब्जलोचनम्।
बालचन्द्रप्रतीकाशफालोद्यत्तिलकोज्ज्वलम्।। 23.201 ।।
अनर्घरत्नमकुटच्छायाविलसिताकृतिम्।
पर्यङ्कफणमाणिक्यरोचिर्नीराजिताङ्गकम्।। 23.202 ।।
सद्भिक्तिसुलभं सर्वैरागमैश्च दुरासदम्।
अदृश्यं सर्वभूतानां दयया दृश्यतां गतम्।। 23.203 ।।
अपर्याप्तामृतं रूपमार्तरक्षणदीक्षितम्।]
उत्तानशयनं देवं वासुदेवं परात्परम्।। 23.204 ।।
द्वादशाक्षरविद्याद्यैरुपास्यं जगतां गुरुम्।
स एव भगवान् देवः कूटस्थो ह्यचलो ध्रुवः।। 23.205 ।।
अचिन्त्यः सर्वभूतानामग्राह्योऽक्षर एव च।
सनातनः सत्यममृतमव्यक्तस्तमसः परः।। 23.206 ।।
निरञ्जनो निर्गुणश्च नित्यं स्वात्मन्यवस्थितः।
सच्चासच्चेति यः प्रोक्त आद्यं ब्रह्म परात्परम्।। 23.207 ।।
स एव भगवान् देवः शङ्कचक्रदिसेवितः।
तस्यैव सदृशी देवी शीलरूपगुणादिभिः।। 23.208 ।।
उद्यच्चम्पासहस्रस्य प्रभापुञ्जनिभा स्थिरा।
सर्वलक्षणसंपन्ना सर्वाभरणभूषिता।। 23.209 ।।
क्षीराब्धिफेनधवलदिव्यवस्त्रेण शोभिता।
सुस्निग्धनीलसच्छायकेशभारोपलक्षिता।। 23.210 ।।
चतुर्भुजैर्विराजन्ती केयूराङ्गभूषिता।
मुख्याभ्यां चैव हस्ताभ्यां बद्धाञ्जलिपुटा सदा।। 23.211 ।।
इतराभ्यां भगवतः पाणिभ्यां पादपङ्कजम्।
स्पृशन्ती श्रीः सदा भक्त्वा आस्ते दिव्यवपुर्धरा।। 23.212 ।।
तं वासुदेवं मनसा ध्यात्वा संप्रार्थयेद्रमे।
मत्स्यादिविभवार्चानां प्रतिष्ठासु गुरूत्तमः।। 23.213 ।।
राकाचन्द्रायुतस्वच्छक्षीरार्णवसमावृते।
धर्मानन्दाख्यवैकुण्ठै शतयोजनविस्तृते।। 23.214 ।।
तप्तहाटकसंसिद्धसप्तप्राकारशोभिते।
नवरत्नोल्लस(34)द्दिव्ये गोपुरादिभिरावृते।। 23.215 ।।
(34.ग्र. दिव्य)
जयादिद्वारपालाद्यैः सूरिभिश्च निषेविते।
तन्मध्यमण्डपे शेषपर्यङ्कशयने शुभे।। 23.216 ।।
व्यूहांशजः पद्मनाभः श्रीभूमिभ्यां समन्वितः।
चतुर्भुजः शङ्खचक्रगदाचापविभूषितः।। 23.217 ।।
शयानमित्थं देवेशं विभवस्यादिकारणम्।
ध्यात्वैवं पुण्डरीकाक्षं ततः कुम्भे समर्चयेत्।। 23.218 ।।
यस्मिन् यस्मिंस्तु भुवने वासुदेवादयः स्थिताः।
तत्तल्लोके जगन्नाथं मनसा पूजयेत्पुरा।। 23.219 ।।
ततः पुष्पाञ्जलिधरः संस्तुवीत जगत्पतिम्।
(35)जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन।। 23.220 ।।
(35.श्री जितन्तेस्तोत्रम् Sarga 3 Sl. 1 a, b, c, d.)
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज।
(36)नमस्ते वासुदेवाय शान्तानन्तजिता(चिदा?)त्मने।। 23.221 ।।
(36. श्री जितन्तेस्तोत्रम् Sarga 4 Sl. l c, d.)
(37)अध्यक्षाय स्वतन्त्राय निरपेक्षाय शाश्वते।
अच्युतायाविकाराय तेजसां निधये नमः।। 23.222 ।।
(37.श्री जितन्तेस्तोत्रम् Sarga 4 Sl. 2 a, b, c, d.)
(38)क्लेशकर्माद्यसंस्पृष्टपूर्णषाड्गुण्यमूर्तये।
(39)त्रिभिर्ज्ञानबलैश्वर्यवीर्यशक्त्यन्तरात्मने।। 23.223 ।।
(38. श्री जितन्तेस्तोत्रम् Sarga 4 Sl. 3 c, d.)
(39. " " 4 Sl. 4 a, b.)
(40)त्रियुगाय नमस्तुभ्यं नमस्ते चतुरात्मने।
(41)प्रधानपुरुषेशाय नमस्ते पुरुषोत्तम।। 23.224 ।।
(40.श्री जितन्तेस्त्रोत्रम् Sarga 4 Sl. 4 c, d.)
(41 " " 4 Sl. 3 a, b.)
(42)चतुः पञ्चनवव्यूहदशद्वादशमूर्तये।
अनेकमूर्तये तुभ्यममूर्तायैकमूर्तये।। 23.225 ।।
(42.श्री जितन्तेस्तोत्रम् Sarga 4 Sl. 5 a, b, c, d.)
(43)नारायण नमस्तेऽस्तु पुण्डरीकायतेक्षण।
सुभ्रूललाट सुनस सुस्मिताधरपल्लव।। 23.226 ।।
(43.श्री जितन्तेस्तोत्रम् Sarga 4 Sl. 6 a, b, c, d.)
(44)पीनवृत्तायतभुज श्रीत्सकृतलक्षण।
तनुमध्य विशालाक्ष पद्मनाभ नमोऽस्तु ते।। 23.227 ।।
(44.श्री जीतन्तेस्तोत्रम् Sarga 4 Sl. 7 a, b, c, d.)
(45)विलासविक्रमाक्रान्तत्रैलोक्यचरणाम्बुज।
नमस्ते पीतवसन स्फुरन्मकरकुण्डल।। 23.228 ।।
(45.जितन्तेस्तोत्रम् Sarga 4 Sl. 8 a, b, c, d.)
(46)लसत्किरीटकेयूर कौस्तुभाङ्गदभूषण।
पञ्चायुध नमस्तेऽस्तु नमस्ते पाञ्चकालिक।। 23.229 ।।
(46.जितन्तेस्त्रोत्रम् Sarga 4 Sl. 9 a, b, c, d.)
(47)पञ्चकालपरैकान्तियोगक्षेमवह! प्रभो।
नित्यज्ञानबलैश्वर्यभोगोपकरणाच्युत।। 23.230 ।।
(47.जीतन्तेस्तोत्रम् Sarga 4 Sl. 10 a, b, c, d. )
(48)नमस्ते ब्रह्मरुद्रादिलोकयात्राप्रवर्तक।
जन्मप्रभृति दासोऽस्मि शिष्योऽस्मि तनयोऽस्मि ते।। 23.231 ।।
(48.जीतन्तेस्तोत्रम् Sarga 4 Sl. 11 a, b, c, d.)
(49)त्वं च स्वामी गुरुर्माता पिता च मम माधव।
अपि त्वां भगवन् ब्रह्मन् शर्वश्शक्रो महर्षयः।। 23.232 ।।
(49. जीतन्तेस्तोत्रम् Sarga 4 Sl. 12-a, b, c, d.)
(50)द्रष्टुं यष्टुमपि स्तोतुमद्यापि न च शक्नुमः(51)।
(52)तापत्रयमहाग्राहभीषणे भवसागरे।। 23.233 ।।
(50.जितन्तेस्तोत्रम् Sarga 4 Sl. 13 a, b, न हि स्मर्त्तुमपीशते।)
(51.ग्र. युः)
(52.जितन्तेस्तोत्रम् Sarga 4 Sl. 13 c, d)
(53)मज्जतां नाथ नौरेषा प्रणतिस्त्वत्पदार्पिता।
(54)अनाथाय जगन्नाथ शरण्य शरणार्थिने।। 23.234 ।।
(53.जितन्तेस्तोत्रम् Sarga 4 Sl. 14 a, b)
(54. " " " 14 c, d )
(55)प्रसीद सीदते मह्यं नमस्ते भक्तवत्सल।
(56)मन्त्रहीनं क्रियाहीनं भक्तिहीनं यदर्चनम्।।
(57)तत्क्षन्तव्यं प्रपन्नानामपराधसहो ह्यसि।। 23.235 ।।
(55.जितन्तेस्तोत्रम् Sarga 4 Sl. 15 a, b)
(56. " " " 15 c, d)
(57. " " " 16 a, b )
(58)अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे।
अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु।। 23.236 ।।
(58.यामुनाचार्याणां स्तोत्ररत्ने Sl. 48)
(59)उपचारापदेशेन कृतानहरहर्मया।
अपचारानिमान् सर्वान् क्षमस्व पुरुषोत्तम।। 23.237 ।।
(59.जितन्तेस्तोत्रम् Sarga 1 Sl. 20.)
पाञ्चरात्रोक्तविधिना त्वदुक्तेन जगत्पते।
(60)निर्माय गोपुरादीनि विमानानि यथाविधि।। 23.238 ।।
(60.ग्र. विमानगोपुरादीनि निर्माय च यथाविधि।)
तस्मिन्नर्चारूपधरं श्रीभूमिसहितं विभुम्।
आराधयितुमिच्छामि त्वां भक्त्याहं जनार्दन।। 23.239 ।।
विष्वक्सेनादिभिः सार्धं परिवारैर्गरुत्मता।
विमानेन सहागत्य मन्त्रमूर्ते जगन्मय।। 23.240 ।।
अत्रार्चायां संप्रविश्य लोकानुग्रहकाम्यया।
क्रियमाणं मया नित्यं गृहाणाराधनं विभो।। 23.241 ।।
आगच्छतु जगन्नाथ मदनुग्रहकाम्यया।
एवं ध्यात्वा ततो लोकादागतं सूर्यमण्डलम्।। 23.242 ।।
सूर्यलोकस्थितस्याथ वासुदेवस्य पद्मजे।
पादयोः पादुके रत्नखचिते धारयेत् पुरा।। 23.243 ।।
श्रियश्चापि तथा दत्वा विष्णवादीनां तु धारयेत्।
एवं ध्यात्वा दीक्षितेन्द्रो वासुदेवं जगन्मयम्।। 23.244 ।।
सकलीकृत्य विष्ण्वादिमूर्तिभिश्चाष्टभिः सह।
महाकुम्भादिकुम्भेषु ध्यायीत प्रार्थयेत्ततः।। 23.245 ।।
आनन्दलक्षणं रूपमादिरूपमविक्रियम्।
सुसूक्ष्मं स्ववशं स्वैरं परं ज्योतिरनामयम्।। 23.246 ।।
ध्रुवमेकं चिदानन्दं चिद्रूपं सर्वगं परम्।
स्वभावनिर्मलं नित्यं निस्तरङ्गं निराकुलम्।। 23.247 ।।
निर्मर्यादं गुणातीतं सगुणं सर्वकामदम्।
अध्येयाध्येयमाश्चर्यमवाङ्मनसगोचरम्।। 23.248 ।।
षाड्गुण्यविग्रहं देवं वासुदेवाह्वयं विभुम्।
सहस्रफणसंवीत-रत्नकान्ति-विचित्रिते।। 23.249 ।।
शेषासने सुखासीनं सव्यं पादं प्रसारितम्।
दक्षिणं कुञ्चितं पादं तज्जानुन्यस्ततद्‌भुजम्।। 23.250 ।।
वामबाहुं शेषपीठे न्यस्तं वक्षसि च श्रियम्।
किरीटकुण्डलोपेतं वनमालाविराजितम्।। 23.251 ।।
पीताम्बरधरं सौम्यं कटकाद्यैरलंकृतम्।
परिवारैः सेव्यमानं मध्यकुम्भे स्मरेद् गुरुः।। 23.252 ।।
वासुदेव जगद्योने सच्चिदानन्दविग्रह।
यावद्बिम्बे प्रार्थयामि तावत् कुम्भे स्थिरो भव।। 23.253 ।।
अत्र पूजां मया दत्तां गृहाण पुरुषोत्तम।
इति संप्रार्थ्य लक्ष्मीशं प्रार्थनामुद्रया गुरुः।। 23.254 ।।
संप्रार्थ्य कलशे देवं यथावत्पूजयेत् पुरा।
ततः प्राच्यादिकुम्भेषु पद्मविष्टरसंस्थितान्।। 23.255 ।।
वासुदेवस्याभिमुखान् पीतनिर्मलवाससः।
चतुर्भुजान् सौम्यवक्त्रान् किरीटादिविभूषितान्।। 23.256 ।।
शङ्खचक्रगदापद्मधारिणो वनमालिनः।
एवं लक्षणसंयुक्तान् विष्ण्वादींस्तु यथाक्रमम्।। 23.257 ।।
आवाह्य पूजयेत् सर्वान् देशिको मन्त्रवित्तमः।
सहस्रारं ज्वलत्तेजोरूपिणं चक्रमुत्तमम्।। 23.258 ।।
करके च समावाह्य सर्वविघ्ननिवृत्तये।
सर्वेषां श्रमशान्त्यर्थं (61)इत्थमर्घ्यादिभिर्यजेत्।। 23.259 ।।
(61.ग्र. गुरुर)
प्रासादस्य प्रतिष्ठार्थं नियुक्तो यो गुरुः स च।
सूर्यमण्डलमध्यस्थं वासुदेवेन चागतम्।। 23.260 ।।
सपक्षं तद्विमानं च तदधिष्ठानदैवतम्।
अनिरुद्धं मध्यकुम्भे ध्यात्वा संप्रार्थयेत्ततः।। 23.261 ।।
सहस्रशीर्षचरणहस्तनेत्राद्‌भुताकृते।
विमानरूपिन् कुम्भेऽस्मिन् यावद्गर्भगृहे मया।। 23.262 ।।
आवाह्यते व्योमयान(ने?) तावदत्र स्थिरो भव।
तस्य प्रागादिकुम्भेषु नरोत्तममधोक्षजम्।। 23.263 ।।
नृसिंहमच्युतं पश्चाज्जनार्दनमुपेन्द्रकम्।
हरिं कृष्णं च करके चक्रराजं स्मरेद् बुधः।। 23.264 ।।
चक्राब्जमण्डले देवानित्थमावाहयेद् (62)रमे।
बहिरावरणे देवान् पुरुहूतादिकान् (63)यजेत्।। 23.265 ।।
(62.ग्र. गुरुः)
(63.ग्र. स्मरेत्।)
मध्यमावरणद्वार्षु प्राच्यादिषु यथाक्रमम्।
चण्डादीन् युग्मतो देवान् प्राग्द्वारस्य पुरःस्थले।। 23.266 ।।
मण्डलाभिमुखं देवं ध्यायेच्च विनतासुतम्।
प्रागादिद्वारमध्येषु शङ्खचक्रगदाम्बुजम्।। 23.267 ।।
ऐशान्ये सेनपं ध्यायेदन्तरावरणे ततः।
आग्नेयादिषु कोणेषु वराहनरकेसरी।। 23.268 ।।
अनन्तश्च हयग्रीव एतान् विष्टरसंस्थितान्।
चक्राब्जकर्णिकामध्ये सहस्रफणमण्डिते।। 23.269 ।।
शेषाहिभोगिपीठे तु सृष्टिस्थित्यन्तमुक्तिदम्।
मयूरकण्ठवच्छ्याममेकवक्त्रं चतुर्भुजम्।। 23.270 ।।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।
श्रीवत्सस्फुरितोरस्कं वनमालाविभूषितम्।। 23.271 ।।
किरीटहारकेयूरवलयादिविराजितम्।
पीताम्बरधरं सौम्यं जगतामादिकारणम्।। 23.272 ।।
परवासुदेवादुद्‌भूतं श्रीभूमिसहितं विभुम्।
वासुदेवं सुखासीनं ध्यायेदादित्यमण्डलात्।। 23.273 ।।
केसरेषु द्वादशार्णमष्टारेष्वष्टवर्णकम्।
ध्यायेत् द्विषट्‌कपत्रेषु प्रागादिषु यथाक्रमम्।। 23.274 ।।
विष्ण्वादिवत् केशवादीन् श्रीवत्साद्यैरलंकृतान्।
आवाह्य पूजयेद्विद्वानर्ध्याद्यैः श्रमशान्तये।। 23.275 ।।
कुम्भमण्डलवह्निस्थान् वासुदेवादिदेवताः।
इत्थमावाह्य तदनु मन्त्रासनपुरःसरम्।। 23.276 ।।
स्नानासनं विना देवि प्रापणान्तं समर्चयेत्।
वासुदेवादिदेवानां (64)पञ्चार्णां विंशतेरपि।। 23.277 ।।
(64.ग्र. चतुर्णां)
मन्त्रविष्टरकाले तु चतुर्हस्तेषु देशिकाः।
प्रदाक्षिण्येन दिव्यानि स्मरेत् प्रहरणान्यथ।। 23.278 ।।
दर्शयेयुस्तस्य तस्य मुद्रां मन्त्रविदो रमे।
द्वितीयो वासुदेवश्च तदुत्पन्नौ च तावुभौ।। 23.279 ।।
वासुदेवस्तथान्योऽपि नारायण इति स्मृतः।
संकर्षणादिदेवाश्च तेषां हस्तेषु वै क्रमात्।। 23.280 ।।
पद्मं चक्रं तथा शङ्खं गदां शार्ङ्गं च संस्मरेत्।
चतुर्विंशतिमूर्तीनां मुद्रान्यासमथोच्यते।। 23.281 ।।
वासुदेवं गदाशङ्खचक्रपद्मधरं विभुम्।
संकर्षणं गदाशङ्खपद्मचक्रसमन्वितम्।। 23.282 ।।
प्रद्युम्नं चक्रजलजगदापद्मविभूषितम्।
अनिरुद्धं चक्रदण्डपद्मशङ्खधरं स्मरेत्।। 23.283 ।।
केशवं पद्मशङ्खारिगदाशोभितपाणिकम्।
नारायणं शङ्खपद्मगदाचक्रसमुज्ज्वलम्।। 23.284 ।।
माधवं दिव्यदण्डारिशङ्खाम्बुजधरं विभुम्।
गोविन्दं चक्रदण्डाब्जपाञ्चजन्यविभूषितम्।। 23.285 ।।
विष्णुं गदाब्जशङ्खारिधारिणं वनमालिनम्।
मधुद्विषं चक्रशङ्खपद्मदण्डसमन्वितम्।। 23.286 ।।
त्रिविक्रमं पद्मदण्डचक्रशङ्खधरं विभुम्।
वामनं पाञ्चजन्यारिगदाजलजधारिणम्।। 23.287 ।।
श्रीधरं पद्महेतीशगदाशङ्खधरं प्रभुम्।
हृषीकेशं गदाचक्रपद्मशङ्खभुजान्वितम्।। 23.288 ।।
पद्मनाभं पद्मचक्रशङ्खकौमोदकीयुतम्।
दामोदरं पद्मशङ्खगदाचक्रधरं स्मरेत्।। 23.289 ।।
नरोत्तमं चक्रपद्मशङ्खकौमोदकीयुतम्।
अधोक्षजं पद्मदण्डशङ्खहेतीशमण्डितम्।। 23.290 ।।
नृसिंहं चक्रजलजगदाशङ्खचतुर्भुजम्।
अच्युतं दण्डनलिनचक्रशङ्खसमुज्ज्वलम्।। 23.291 ।।
जनार्दनं पद्मचक्रशङ्खकौमोदकीधृतम्।
उपेन्द्रं पद्मदण्डारिपाञ्चजन्येन शोभितम्।। 23.292 ।।
हरिं शङ्खारिजलजगदाभूषितविग्रहम्।
कृष्णं शङ्खगदापद्मचक्रयुक्तं स्मरेद् गुरुः।। 23.293 ।।
एवं स्मृत्वा (65)च मुद्राश्च दर्शयेत् कमलोद्भवे।
सप्तमे पञ्चमे (66)वापि (67)तृतीयादिवसेऽपि वा।। 23.294 ।।
(65.ग्र. थ)
(66.ग्र. यद्दा)
(67.ग्र. तृतीये)
कुर्यात् प्रतिष्ठां देवस्य नान्यथा कल्पयेद्विभोः।
प्रतिष्ठादिवसं त्यक्त्वा द्वादशस्वष्टसु क्रमात्।। 23.295 ।।
चतुर्ष्वपि च कालेषु सहस्रं त्वष्टसंमितम्।
शतं वा पूजनं कुर्याद् वासुदेवस्य शार्ङ्गिणः।। 23.296 ।।
पूर्वोक्तपूजनं भद्रे कुम्भमण्डलवह्निषु।
प्रत्येकं तेषु कालेषु कुर्याद्यद्वा गुरूत्तमः।। 23.297 ।।
कुम्भे पूजां तु कृत्वैव प्रतिष्ठां पूरयेत्ततः।
तत्तत्कालेषु विधिवत् तत्तत्संख्यासमर्चनम्।। 23.298 ।।
कुम्भादिषु त्रिषु ततः कृत्वान्नं च चतुर्विधम्।
निवेद्य पूर्णहवनं कुर्युर्मन्त्रविदो रमे।। 23.299 ।।

।। इति श्रीश्रीप्रश्नसंहितायां(68)(69)त्रयोविंशोऽध्यायः ।।
(68.ग्र. प्रतिष्ठाकर्मणि)
(69.मा. द्वाविंशोऽध्यायः)