← अध्यायः २७ प्रश्नसंहिता
अध्यायः २८
[[लेखकः :|]]
अध्यायः २९ →
प्रश्नसंहितायाः अध्यायाः

।। अष्टाविंशोध्यायः-आराधनक्रमः ।।
[नित्ययागविधिः]

[श्रीः-]
पुण्डरीकाक्ष सर्वस्य लोकस्याधिपते हरे।
प्रतिष्ठित्य हरिं भक्त्या पूजयेन्नित्यमव्ययम्।। 28.1 ।।
इति त्वयोक्तां तां पूजां वक्तुमर्हस्यशेषतः।
(1)श्री भगवान्-
(1.ग्र. भगवान्)
समाप्तिदिवसाद्देवि प्रतिष्ठायास्तु देशिकः।। 28.2 ।।
विभवानुगुणं नित्यं षट्‌कालमथवा त्रयम्।
द्विकालमेककालं वा भक्त्या भागवतोऽर्चयेत्।। 28.3 ।।
तत्प्रकारं प्रवक्ष्यामि शास्त्रोक्तविधिना रमे।
ब्राह्मे मुहूर्ते शयनादुत्थाय नियतेन्द्रियः।। 28.4 ।।
देशिकः पाणिपादं च प्रक्षाल्याचम्य वाग्यतः।
स्तुवन् हरिं जितंताद्यैर्गच्छेन्नद्यादिकं गुरुः।। 28.5 ।।
देहशुद्ध्यादिकं कृत्वा ततः स्नायाद्यथाविधि।
अथवा देशकालादिशरीरस्य गुणानपि।। 28.6 ।।
समालोच्य ततो देवि ह्युष्णोदेनाथवा रमे।
मन्त्रस्नानादि वा कृत्वा नित्यकर्म समाचरेत्।। 28.7 ।।
आत्मानं वस्त्रयुग्मेन कुण्डलादिविभूषणैः।
श्वेतमृत्स्नोर्ध्वपुण्ड्रैश्च चन्दनाद्यैः सुगन्धिभिः।। 28.8 ।।
हेमोपवीतैः स्रग्भिश्च भूषयेद् देशिकोत्तमः।
मुखवाससमोपेतैस्ताम्बूलैः शोधयेन्मुखम्।। 28.9 ।।
प्रक्षाल्य पाणिपादं च गोपुरस्य बहिः स्थले।
आचम्यान्तर्महापीठं प्रादक्षिण्येन वै ततः।। 28.10 ।।
अर्धमण्डपमासाद्य द्वादशार्णं समुच्चरन्।
तदा जय जयेत्युच्चैर्वन्दिनो मागधा अपि।। 28.11 ।।
स्त्रोत्रैरन्यैश्च विविधैः श्राव्यैर्वीणादिवादनैः।
प्रबोधयेयुर्देवेशं तथा भागवता अपि।। 28.12 ।।
स्तुवीर्युर्दिव्यगाथामिर्द्वारमासाद्य भक्तितः।
विहगेन्द्रं कवाटस्थान् द्वारशाखास्थितानपि।। 28.13 ।।
देवानुदुम्बरस्थां च श्रियं चण्डप्रचण्डकौ।
पुरा संपूज्य मनसा षडङ्गन्यासमाचरेत्।। 28.14 ।।
(2)स्थित्वा कवाटाभिमुखं पवनाधिपतिं स्मरेत्।
तालत्रयं च हस्ताभ्यां कृत्वाभिवलजस्थितः।। 28.15 ।।
(2.पा. कवाटमुद्धाट्य ततो वायुमन्त्रेण मन्त्रवित्।)
कवाटोद्धाटनं कुर्यात् तद्‌द्वारं देशिकोत्तमः।
त्रिधा विभज्य मनसा मध्यभागं द्विधा पुनः।। 28.16 ।।
विभज्य वामभागेन बद्धाञ्जलिपुटः स्थितः।
साम्ना देवव्रतेनान्तः प्रविशेद् दक्षिणाङ्घ्रिणा।। 28.17 ।।
दीपान् प्रज्वाल्य नेत्रेण द्विषट्‌काक्षरविद्यया।
(3)प्रणम्य शिरसा देवं शयनस्थं जगत्पतिम्।। 28.18 ।।
(3.ग्र. चतुर्वारं प्रणम्याथ)
प्रबोधलक्षणैः स्तोत्रैरुत्थाप्य शयनाद्रमे।
संस्थाप्य विष्टरे देवं मूले शक्तिं नियोजयेत्।। 28.19 ।।
ततो यवनिकां त्यक्त्वा हरेर्नीराजनं चरेत्।
तदा देवाय गोपृष्ठमश्ववक्त्रमिभाननम्।। 28.20 ।।
नीलकीशं महादर्शं कन्यकामपि दर्शयेत्।
विश्वशक्तियुतं देवं जितंताप्रमुखैः स्तवैः।। 28.21 ।।
स्तूयाद्गाथामिरन्याभिर्गोक्षीरं शर्करायुतम्।
दध्यन्नादि निवेद्याथ नित्यपूजामुपक्रमेत्।। 28.22 ।।
पूजाकाले पुरा कुर्यात् पञ्चशुद्धिं गुरूत्तमः।
स्थानशुद्धिं पात्रशुद्धिं बिम्बशोधनमेव च।। 28.23 ।।
आत्मनो भूतशुद्धिं च मन्त्रवर्णास्ततो रमे।
मयूरपिञ्छिकापुञ्जैर्दर्भमुष्टिभिरेव वा।। 28.24 ।।
वितानं गर्भगेहस्य हरेः सिंहासनं तथा।
भूमिं भित्तिं च परितो वेदिकास्थानमेव च।। 28.25 ।।
शुचीव इति मन्त्रेण प्रथमं मार्जयेद् गुरुः।
कुङ्कुमागरुकर्पूरचन्दनक्षोदवारिभिः।। 28.26 ।।
गर्भगेहं समालिप्य विकिरेदक्षतान् स्वयम्।
हैमादि चेच्छर्करया राजतानि सुधादिभिः।। 28.27 ।।
(4)ताम्रपैत्तलपात्राणि तिन्त्रिणीफलवारिभिः।
कांस्यानि दारुजातानि पूजापात्राणि वै रमे।। 28.28 ।।
(4.ग्र. ताम्राणि पैत्तलादीनि)
भस्मना मृत्स्नया चैव शोधयेच्च यथाक्रमम्।
अभिन्त्र्य च पात्राणि गायत्र्या विष्णुपूर्वया।। 28.29 ।।
अलंकृतानि पूर्वोद्युर्वस्त्रं माल्यं च चन्दनम्।
मूलबेरादिबिम्बेभ्यः परिहृत्य ततो रमे।। 28.30 ।।
तच्छंयोरिति मन्त्रेण शुद्धवस्त्रेण शोधयेत्।
अर्धमण्डपमारभ्य बलिपीठान्तमब्जजे।। 28.31 ।।
पाकशालां यागभूमिं तत्पात्राणीतराण्यपि।
शोधयेत्परिचारो वा साधको वा तदाज्ञया।। 28.32 ।।
द्वारेषु पूर्वदिवसे पुष्पैराम्रादिपल्लवैः।
कृतानि तोरणादीनि बद्धान्यपहरेत्ततः।। 28.33 ।।
संयोजयेन्नूतनानि रङ्गवल्लीश्च कल्पयेत्।
सेनेशं मनसा ध्यायेद्यागविघ्नोपशान्तये।। 28.34 ।।
ततः स्वदेहशुद्ध्यर्थं यागद्रव्यालयस्य च।
शुद्ध्यर्थं पाकशालायाः पुण्याहं वाचयेद् गुरुः।। 28.35 ।।
तेन शंशोधयेत् सर्वमात्मानं मन्दिरं तथा।
(5)ततस्तु वेदघोषे च वाद्यघोषे प्रवर्त्तिते।। 28.36 ।।
(5.ग्र. वाद्याम्नायादिघोषे च घण्टानादे प्रवर्त्तिते।)
गर्भगेहान्तरं गत्वा कवाटं बन्धयेत्तथा।
(6)तिरस्करिण्या संच्छाद्य तद्‌द्वारं गुरुसत्तमः।। 28.37 ।।
(6.पा. तिरस्करिण्या च द्वारे निश्छिद्रं छादिते ततः।)
देवस्य दक्षिणं पार्श्वं गत्वा विष्टरमास्थितः।
आसनस्य ऋषिर्मेरुश्च्छन्दस्त्वतलमीरितम्।। 28.38 ।।
श्रीकूर्मो देवता पद्मे त्वासने विनियोजयेत्।
दर्भसप्तकृतं कूर्चमासने निक्षिपेत् सुधीः।। 28.39 ।।
तस्मिन् कूर्मं स्मरेद्देवं स्वस्तिकं पद्मवे वा।
बध्वोपविश्य तदनु ह्यस्त्रेणाशाश्च बन्धयेत्।। 28.40 ।।
वह्निमन्त्रेण दहनमग्निप्राकारमुद्रया।
प्राकारावस्थितं ध्यायेद्गगनं चक्रमुद्रया।। 28.41 ।।
(7)आच्छाद्य चक्रमन्त्रेण प्राणायामत्रयं चरेत्।
प्रणवस्य ऋषिर्ब्रह्मा छन्दो गायत्रमुच्यते।। 28.42 ।।
(7.पा. गोपयन्नित्थमात्मानं प्राणायामैस्त्रिभिः क्रमात्।)
ब्रह्मविष्णुशिवा देवा रेचकाद्यधिनायकाः।
बीजं हकारो हांशक्तिः ककारः कीलकः स्मृतः।। 28.43 ।।
धूम्रवर्मयुतं मन्त्रं प्राणायामे विचिन्तयेत्।
योगमुद्रां समापन्नः शोधयेद्देहपाप्मनः।। 28.44 ।।
धूम्राभं नाभिकन्दस्यं यं बीजं चतुरश्रकम्।
ध्यात्वा स्वदेहपाप्मानं शोधयेत्तेन वायुना।। 28.45 ।।
वह्निबीजं हृदब्जस्थं त्रिकोणं पाटलप्रभम्।
ध्यात्वा (8)(9)तदुत्थं तेजोभिर्दाहयेत् कल्मषं गुरुः।। 28.46 ।।
(8.पा. तदुत्थसप्तार्चिश्शिखाभिः कल्मषं दहेत्।)
(9.ग्र. तदुत्थ)
माहेन्द्रबीजं (10)कण्ठस्थं पीताभं चतुरश्रकम्।
ध्यात्वा तदुत्थवातेन स्तम्भयेदनिलं ततः।। 28.47 ।।
(10.पा. विन्यस्य)
मूर्ध्निस्थवारुणं बीजं वृत्तं स्फटिकसंनिभम्।
ध्यात्वा संक्षालयेद्देहं तदुत्थामृतवारिभिः।। 28.48 ।।
रेचकैः शोधयेत् पापं पूरकैर्दाहयेत् ततः।
कुम्भकैः स्तम्भयेद्वह्निमेवं पापं विशोधयेत्।। 28.49 ।।
पृथिव्यादीनि तत्त्वानि (11)सृजेत् संहारपूर्वकम्।
पृथ्वीमन्त्रस्य ब्रह्मर्षिर्गायत्रीछन्द ईरितम्।। 28.50 ।।
(11.पा. समाधिपरया धिया।)
वराहो देवता प्रोक्तो हुंकारेण विराजितः।
चतुरश्रं पीतवर्णां पृथ्वीं पञ्चगुणैर्युताम्।। 28.51 ।।
(12)घ्राणोपस्थेन्द्रियां गन्धे तन्मात्रालक्षणे हरेत्।
आपादजानुपर्यन्तं पृथ्वीस्थानमुदाहृतम्।। 28.52 ।।
(12.पा. घ्राणोपस्थेन्द्रिययुतां तन्मात्रालक्षणे ततः।)
सिन्धुद्वीपऋषिरपां छन्दस्त्वतलमीरितम्।
बीजं वं वरुणो देवश्चन्द्रस्येवाकृतिर्भवेत्।। 28.53 ।।
श्वेतवर्णास्तु रसना खं(13)पायुसहिता रमे।
आपश्चतुर्गुणाः पद्मे रसे गन्धं च संहरेत्।। 28.54 ।।
(13.ग्र. पाय्विन्द्रययुता रमे।)
आजानोर्गुह्यपर्यन्तमपां स्थानमुदाहृतम्।
ऋषिरग्नेः काश्यपस्तु त्रिष्टुप् छन्दस्तनूनपात्।। 28.55 ।।
देवो बीजं रेफमाहुः प्रलेय चिन्तयेद् गुरुः।
दृष्टिपादेन्द्रियं वह्निं त्रिगुणं त्र्यश्रपाटलम्।। 28.56 ।।
रसं च रूपे तन्मात्रालक्षणे देशिकः स्मरेत्।
गुह्यादिनाभिपर्यन्तमग्निस्थानं विदुर्बुधाः।। 28.57 ।।
वायुवीजस्य किष्किन्धऋषिश्छन्दस्तु जागतम्।
यं बीजं पवनो देवः (14)संहारे परिचिन्तयेत्।। 28.58 ।।
(14.ग्र. प्रलये चिन्तयेत् क्रमात्।)
धूम्राभं द्विगुणोपेतं करचर्मेन्द्रियान्वितम्।
वृत्तं वायुं च रूपं च संहरेत् स्पर्शने ततः।। 28.59 ।।
नाभ्यादिघोणपर्यन्तं वायुस्थानं स्पृशेद् गुरुः।
आकाशस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द उच्यते।। 28.60 ।।
षं बीजं भगवान्देव (15)अनिरुद्धस्समीरितः।
नीलोत्पलदलश्यामः वाक्‌श्रुतीन्द्रियसंयुतम्।। 28.61 ।।
(15.ग्र. श्चानिरुद्धस्तु कथ्यते।)
नभः शब्दगुणोपेतं निराकारं सुविस्तरम्।
नासादिमूर्धपर्यन्तमाकाशस्थानमुच्यते।। 28.62 ।।
स्पर्शं च संहरेच्छब्दे तन्मात्रालक्षणे रमे।
शब्द स्वान्ते समाहृत्य ततः स्वान्तमहंकृतौ।। 28.63 ।।
(16)अहंकारं बुद्धितत्त्वे बुद्धिं च प्रकृतौ रमे(17)।
प्रकृतिं संहरेज्जीवे प्राणानायम्य देशिकः।। 28.64 ।।
(16.पा. अहंकृतिं)
(17.पा. पुनः।)
नाभिकन्दस्थितं वायुं ध्यात्वा कुम्भकवायुना।
सुसूक्ष्मं (18)नाभिचक्रस्थं रविकोटिसमप्रभम्।। 28.65 ।।
(18.पा. नाभिचक्रे भास्कराभव्यवस्थितम्।)
वायुना विवशं जीवं पद्मसूत्रसुसूक्ष्मया।
सुषुम्नया नाडिकया (19)शिरस्यारोपयेद् गुरुः।। 28.66 ।।
(19.पा. पद्मसूत्रसुक्ष्मया।)
निर्गमय्य ब्रह्मरन्ध्रात् नयेद्भास्करमण्डलम्।
तन्मण्डलाद्भगवति (20)परे ब्रह्मणि योजयेत्।। 28.67 ।।
(20.ग्र. पर)
योनिजं स्थूलदेहं तु शोधयेच्छोषणादिभिः।
परब्रह्मपदाम्भोजात् निर्गतं जीवमात्मनः।। 28.68 ।।
सोममण्डलमार्गेण ब्रह्मरन्ध्रं प्रवेश्य च।
सुषुम्ननाड्या तु पुनः प्रविष्टं हृत्कजे स्मरेत्।। 28.69 ।।
जीवात् सृजेत्प्रकृत्यन्तं ततो भगवतो हरेः।
आराधनाय स्वं देहं शुद्धसत्त्वं विचिन्तयेत्।। 28.70 ।।
त्रिविक्रमपदाम्भोजादुत्पन्नां सुरदीर्घिकाम्।
विचिन्त्य तस्यामात्मानं स्नातं सम्यग्विचिन्तयेत्।। 28.71 ।।
संशोध्यैवं स्वमात्मानं हरेरद्भुतकर्मणः।
उपक्रमेन्नित्ययागं सिद्धमन्त्रो गुरूत्तमः।। 28.72 ।।
स्थित्यासनादिबिम्बानां प्रतिष्ठायां यथा रमे।
येन मन्त्रेण यद्विम्बं यथान्यस्तं च मन्त्रिणा।। 28.73 ।।
तन्मन्त्रेणैव पूजायामात्मनोऽपि न्यसेद् गुरुः।
(21)सृष्टिस्थितिलयैः पूर्वं करन्यासमुपक्रमेत्।। 28.74 ।।
(21.पा. सृष्टिस्थितिलयन्यासैर्हस्तन्यासपुरस्सरम्।)
तलं पृष्ठं च करयोः शोधयेदस्त्रविद्यया।
अङ्गुलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु।। 28.75 ।।
प्रणवस्य तु विन्यासो मध्यमेषु च पर्वसु।
(22)मन्त्राक्षराणां विन्यास इति मन्त्रविदो विदुः।। 28.76 ।।
(22.पा. मन्त्राक्षराणि विन्यस्येन्न्यास एष सनातनः।)
पर्वदक्षिणतर्जन्याः प्रक्रम्याङ्गुलिपर्वसु।
पर्वान्तं वामतर्जन्या न्यासः सृष्टिर्भवेद्रमे।। 28.77 ।।
व्यत्यासेन तु संहारः स्थितौ तु करयोर्द्वयोः।
प्रारभ्य तर्जनीपर्व कनिष्ठायां तु विश्रमः।। 28.78 ।।
आष्टाक्षरस्य मन्त्रस्य न्यास एष उदाहृतः।
द्वादशाक्षरमन्त्रस्य (23)शृणु न्यासं वरानने।। 28.79 ।।
(23.पा. न्यासस्सम्प्रति कथ्यते।)
तले मध्यमया न्यासस्तर्जन्याङ्गुष्ठपर्वणि।
ततोऽष्टाक्षरन्यासं कृत्वा सर्वं विचक्षणः।। 28.80 ।।
सव्ये तले तु विश्रान्तिः सृष्टावपरया लये।
पालने तलयोर्देवि पूर्ववत् प्रक्रमेद् गुरुः।। 28.81 ।।
कनिष्ठयोरङ्गुलयोः कुर्याद्विश्रान्तिमात्मनः।
षडर्णस्यापि मन्त्रस्य न्यासः प्रोक्तः पुरातनैः।। 28.82 ।।
आरभ्य मध्यमाङ्गुल्य दक्षिणस्य करस्य वै।
तथा वामकरस्यापि मध्यमान्तं न्यसेद्रमे।। 28.83 ।।
सृष्टिन्यासस्त्वयं भद्रे व्यत्यासो लय ईरितः।
मध्यमाङ्गुलिमारभ्य करयोरुभयोरपि।। 28.84 ।।
कनिष्ठान्तं च विन्यासः स्थितिन्यासो भवेदयम्।
मन्त्ररत्नत्रयस्याद्य ह्यङ्गन्यासस्तु कथ्यते।। 28.85 ।।
मूर्ध्नि वक्त्रे च हृदये नाभिजान्वोश्च पादयोः।
षडक्षरस्य न्यासोऽयं सृष्टौ कुर्याद्विचक्षणः।। 28.86 ।।
पादादिमूर्धपर्यन्तं संहारे न्यास इष्यते।
अष्टाक्षरस्य न्यासे तु नेत्रे गुह्यं ततोऽधिकः।। 28.87 ।।
द्वादशाक्षरमन्त्रस्य मस्तके चतसृषु क्रमात्।
प्राच्यादिदिक्षु विन्यासस्त्वधिकः परिकीर्तितः।। 28.88 ।।
द्वादशार्णादिमन्त्राणां त्रयाणां न्यासकर्मणि।
अङ्गुलीनां यथायोगं कथयामि तवाधुना।। 28.89 ।।
(24)पूर्वभागे तु सिरसश्चाङ्गुष्ठेन न्यसेत्ततः।
(25)तर्जन्या दक्षिणे स्थाने पश्चिमे नामहीनया।। 28.90 ।।
(24.पा. प्राग्भागे शिरशोङ्गुल्या न्यासोऽङ्गुष्ठेन दक्षिणे।)
(25.पा. तर्जन्या पश्चिमे भागे न्यासोऽनामिकयोत्तरे।)
कनिष्ठया (26)चोत्तरस्मिन् मध्ये मध्यमया न्यसेत्।
मन्त्रासने योगपीठं पद्ममन्यत्र चिन्तयेत्।। 28.91 ।।
(26.पा. तदेतास्स्युर्द्वादशाक्षरभूमयः।)
ध्यायेन्मन्त्रासने तार्क्ष्यम् अनन्तं शयनासने।
(27)मध्यमातर्जनीभ्यां च चक्षुषोर्न्यसनं चरेत्।। 28.92 ।।
(27.पा. मूर्ध्नि मध्यमयाङ्गुल्या तर्जन्या सह चक्षुषोः।)
न्यसेन्मुखेऽनामिकया साङ्गुष्ठेन च मन्त्रवित्।
अङ्गुष्ठतर्जनीभ्यां तु हृदये न्यसनं (28)चरेत्।। 28.93 ।।
(28.पा. भवेत्।)
तथाङ्गुष्ठकनिष्ठाभ्यां नाभौ न्यासः (29)प्रकीर्तितः।
विनाङ्गुष्ठेन शेषाभिर्गुह्ये जानुनि चोभयोः।। 28.94 ।।
(29.पा. प्रशस्यते।)
समस्ताभिश्चरणयो(30) र्द्वादशाक्षरभूमयः।
अष्टार्णस्य षडर्णस्य स्थानेष्वेतेषु विन्यसेत्।। 28.95 ।।
(30.पा. अष्टाक्षरभूमयः।)
नाभ्यादिहृदयान्तेषु न्यासेऽङ्गेषु स्थितौ रमे।
वदाम्यष्टाक्षरं मन्त्रं देवतर्ष्यादिसंयुतम्।। 28.96 ।।
उच्चरेत् प्रणवं पूर्वं नमः शब्दं ततः परम्।
नारायणं चतुर्थ्यन्तमन्तर्यामी मुनिः स्मृतः।। 28.97 ।।
देवो नारायणः साक्षाद् गायत्रं छन्द ईरितम्।
अंबीजमित्यायशक्तिः कीलकं ह्रीमुदाहृतम्।। 28.98 ।।
वैकुण्ठं क्षेत्रमित्याहुः श्रीं तनुत्रं प्रकीर्त्यते।
चतुर्भुजमुदाराङ्गं चक्राद्यायुधसेवितम्।। 28.99 ।।
कालमेघप्रतीकाशं पद्मपत्रायतेक्षणम्।
पीताम्बरधरं सौम्यं रत्नोज्ज्वलितकुण्डलम्।। 28.100 ।।
स्फुरत्कटककेयूरहारकौस्तुभभूषितम्।
रत्नसिंहासनासीनं श्रीभूमिसहितं विभुम्।। 28.101 ।।
ध्यायेन्नारायणं देवं श्रितानां मुक्तिदायकम्।
शुक्लं हिरण्मयं कृष्णं रक्तं कुङ्कुमसंनिभम्।। 28.102 ।।
पद्मकिंजल्कसदृशमष्टमं सर्ववर्मवत्।
इत्थं वर्णँ त्वक्षराणां न्यासकाले विचिन्तयेत्।। 28.103 ।।
द्वादशार्णमनोर्देवि वदाम्यृष्यादिदेवताः।
उद्गीथं पूर्वमुच्चार्य नमो भगवते ततः।। 28.104 ।।
वासुदेवं चतुर्थ्यन्तमृषिर्ब्रह्मास्य ईरितः।
छन्दस्तु देवी गायत्री वासुदेवस्तु देवता।। 28.105 ।।
ओं बीजमाय शक्तिः स्याद् ह्रीं कीलकमुदाहृतम्।
श्रीं कवचमोमित्यस्त्रं शुक्लो वर्णः प्रकीर्तितः।। 28.106 ।।
सितं कृष्णं च धूम्राभं श्यामं तारानिभं तथा।
स्फटिकाभं च शङ्खाभं रक्तं शुक्लं च लोहितम्।। 28.107 ।।
तमोरूपं पीतवर्णं (31)ध्यायेद्वर्णान् यथाक्रमम्।
द्विभुजं पुण्डरीकाक्षं शुद्धस्फटिकविग्रहम्।। 28.108 ।।
(31.पा. ध्यात्वा मन्त्रद्वयाक्षरम्।)
किरीटकुण्डलधरं वनमालाविराजितम्।
श्रीवत्सवक्षसं भ्राजत् कौस्तुभानतकंधरम्।। 28.109 ।।
योगलक्ष्म्या समाक्रान्तबाहुमध्यं परात्परम्।
परमे व्योम्नि तिष्ठन्तं वासुदेवं स्मरेद्विभुम्।। 28.110 ।।
षडक्षरमथो वक्ष्ये विष्णुसांनिध्यसिद्धये।
छन्दसामादिमुच्चार्य वह्निजायां ततः स्मरेत्।। 28.111 ।।
विष्णवेति पदं तस्माद् ध्यायेन्मन्त्रविचक्षणः।
अस्य श्रीविष्णुमन्त्रस्य ऋषिर्ब्रह्मा भवेद्रमे।। 28.112 ।।
छन्दस्तु देवीगायत्री देवता विष्णुरीरितः।
बीजादिकं पूर्ववत्स्याद्ध्यायेद्विष्णुं सनातनम्।। 28.113 ।।
मेघश्यामं चदुर्बाहुं शङ्खचक्रगदाधरम्।
अन्तर्यामिनमीशानं किरीटादिविराजितम्।। 28.114 ।।
श्रीभूमिसहितं देवं सनकादिमहर्षिभिः।
सेवितं सूरिबृन्दैश्च पद्मविष्टरसंस्थितम्।। 28.115 ।।
ध्यायेत् षडर्णं कुमुदं बन्धूकमसितोत्पलम्।
अब्जकेसरमम्भोजमतसीसूनसंनिभम्।। 28.116 ।।
षडङ्गन्यासकाले तु द्वादशार्णस्य वै रमे।
हृदयादस्त्रपर्यन्तं द्विवारं विन्यसेद् गुरुः।। 28.117 ।।
अष्टाक्षरस्य विन्यासः षडङ्गेषु पुरा भवेत्।
वर्णाभ्यामवशिष्टाभ्यां हृन्मूर्ध्नि न्यासमिष्यते।। 28.118 ।।
षडक्षरस्य विन्यासो (32)षडंगेषु क्रमान्न्यसेत्।
ज्ञानायेति च मन्त्रैस्तु पूर्वोक्तानक्षरान्मनोः।। 28.119 ।।
(32.ग्र. हृदयादौ क्रमाद् भवेत्।)
मिश्रीकृत्य न्यसेदङ्गे तत्तत्स्थानेषु देशिकः।
किरीटमुद्रां शिरसि श्रीवत्सं दक्षिणोरसि।। 28.120 ।।
वामे कौस्तुभमुद्रां च वनमालां गले ततः।
(33)बाह्वोः दक्षिणयोर्देवि पद्मं चक्रं च विन्यसेत्।। 28.121 ।।
(33.ग्र. सुदर्शनं च कमलं विन्यसेद्दक्षिणे करे।)
(34)गदा शङ्खं वामयोश्च पदाग्रे गरुडं तथा।
(35)शेषाशस्य च शेषस्य तत्तत्स्थानेषु दर्शयेत्।। 28.122 ।।
(34.ग्र. पाञ्चजन्यं गदां वामे)
(35.ग्र. विष्वक्सेनस्य मुद्रां च शेषमुद्रां प्रदर्शयेत्।)
कुद्धोल्कादीनि चाङ्गानि ध्यात्वाङ्गुष्ठादिपञ्चसु।
न्यसेन्नरमुखे शेषं तले चक्रं सपद्मवत्।। 28.123 ।।
वामेतरस्य वामस्य शङ्खं कौमोदकीं स्मरेत्।
आब्रह्मरन्ध्रात्पादान्तं ताभ्यां व्यापकमाचरेत्।। 28.124 ।।
इत्थं न्यासं पुरा कृत्वा पूजयेन्मनसा हरिम्।
ततः कुम्भकवातेन नाभिपद्मं त्वधोमुखम्।। 28.125 ।।
उन्नमय्य समुद्धाट्य तस्मिन् पीठं प्रकल्पयेत्।
मूलबेराद्वासुदेवं वनमालाविभूषितम्।। 28.126 ।।
पीताम्बरं चतुर्बाहुं दिव्यानेकोद्यतायुधम्।
श्रीवत्सकौस्तुभधरं योगलक्ष्म्या विराजितम्।। 28.127 ।।
श्रीभूमिसहितं देवं ध्यायेत्पूर्वोक्तविष्टरे।
ततस्तु भावनाजातैर्भोगैः परमपावनैः।। 28.128 ।।
देवमभ्यर्चयेत् पूर्वं ततो विज्ञापयेद् गुरुः।
स्वागतं देवदेवेश हृत्पद्मे संनिधिं भज।। 28.129 ।।
गृहाण मानसीं पूजां यथार्हपरिभाविताम्।
ज्ञात्वा तं सुप्रसन्नं च प्रसादाभिमुखं विभुम्।। 28.130 ।।
संनिधिं संनिरोधं च सांमुख्यं प्रार्थयेद्रमे।
मन्त्रन्यासं ततः कुर्यात् हस्तन्यासं विना हरेः।। 28.131 ।।
किरीटवनमालादिमुद्रां सर्वां प्रदर्शयेत्।
मधुपर्कं निवेद्याथ स्मरेत् स्नानासने विभुम्।। 28.132 ।।
अभ्यङ्गनादिस्नानं च स्मरेद्देशिकसत्तमः।
मानसे मण्डने ध्यात्वा किरीटाद्यैश्च भूषयेत्।। 28.133 ।।
छत्रादिधूपदीपान्तं दर्शयेन्मनसा विभोः।
प्रार्थ्य भोज्यासने देवं लेह्यचोष्योपदंशकैः।। 28.134 ।।
चतुर्विधान्नं देवाय निवेद्य तदनन्तरम्।
होमान्तं मनसा ध्यात्वा तोषयेत् पुरुषोत्तमम्।। 28.135 ।।
कृत्वैव लययागं तु भोगयागं ततश्चरेत्।
(36)(37)तद्विधानं प्रवक्ष्यामि शृणु पङ्कजमालिनि।
भगवत्पुरतः पीठे स्थापयेत् पात्रवेदिकाम्।। 28.136 ।।
(36.अत्र ग्र. पुस्तके `एकोनत्रिंशोऽध्याय' इति अध्यायविभागः कृतः।)
(37.ग्र. भोगयागं)
भूम्यां प्रतिग्रहं पात्रं तन्मुखे विनिवेशयेत्।
आग्नेयादिषु कोणेषु प्राच्यादिष्वथवा रमे।। 28.137 ।।
वेदिकायां च पात्राणि मध्ये चैकं विनिक्षिपेत्।
गालितैरम्बुभिः शुद्धैस्तत्पात्राणि च पूरयेत्।। 28.138 ।।
अदीक्षिताद्यैरानीतपूजाद्रव्याणि शोधयेत्।
(38)सव्ये करतले ध्यायेत् भास्करं चक्रमध्यगम्।। 28.139 ।।
(38.ग्र. सव्येतरतले)
द्रव्याणि संस्पृशेत्तेन दहेत्तज्जातेन (जात) तेजसा।
सव्ये करतले ध्यायेत् सुधांशु पद्ममध्यगम्।। 28.140 ।।
दग्धानि द्रव्यजालानि स्पृष्ट्वा तज्जामृताम्भसा।
सिक्तानि जातानि पुनर्यागयोग्यानि भावयेत्।। 28.141 ।।
चाम्पेयमुकुलं दूर्वां श्यामाकं पाद्यवारिणि।
एलालवङ्गकर्पूर(39)माचामे निक्षिपेद्रमे।। 28.142 ।।
(39.पा. जातितक्कोलचन्दनम्।)
रजनीकुङ्कुमं पुष्पं कर्पूरं हरिचन्दनम्।
स्नानीयवारिण्येतानि निदध्यान्मन्त्रवित्तमः।। 28.143 ।।
तिलानि तुलसी चैव (40)शुद्धे वारिणि निक्षिपेत्।
अर्घ्यादीन् कल्पयामीति संस्पृशेन्निगमादिना।। 28.144 ।।
(40.पा. निक्षिपेदू गन्धवारिणि।)
द्रव्याण्यर्घ्यादिपात्रेषु हृन्मन्त्रेण नियोजयेत्।
दर्शयेत् सुरभीमुद्रां तत्सुधापूरितानि तु।। 28.145 ।।
ध्यात्वोद्धरिण्यार्घ्यजलं गृहीत्वा वेदिकोपरि।
निधाय तस्मिन् वैकुण्ठात् प्रार्थयेद्विरजानदीम्।। 28.146 ।।
चतुर्भुजां (41)पीतवस्त्रां शुद्धस्फटिकविग्रहाम्।
पुरःस्थिताभ्यां हस्ताभ्यां प्राञ्जलिं पद्मधारिणीम्।। 28.147 ।।
(41.ग्र. पीवरांसां)
अपराभ्यां च हस्ताभ्यां स्नातानां मुक्तितायिनीम्।
ध्यात्वा पुष्पादिनाभ्यर्च्य तज्जलेन च सर्वतः।। 28.148 ।।
पूरयेत् पात्रतोयानि आत्मानं प्रोक्षयेद् गुरुः।
उद्धरिण्या पुनस्तोयमर्घ्यपात्रात् समुद्धरेत्।। 28.149 ।।
सव्यहस्ते निधायाथ दक्षिणेन पिधापयेत्।
ललाटान्तं समुद्धृत्य (42)मूलं सप्त जपेन्मनुम्।। 28.150 ।।
(42.ग्र. जपेन्मूलं तु सप्तकम्।)
तत्तोयेनास्त्रमन्त्रेण द्रव्याण्यात्मानमेव च।
प्रोक्ष्य कूर्चेन देवस्य भोगयागमुपक्रमेत्।। 28.151 ।।
भगवन् सर्वलोकेश मन्त्रमूर्ते जनार्दन।
करोमि पूजां देवेश त्वयोक्तेनैव वर्त्मना।। 28.152 ।।
प्रीत्या गृहाण लक्ष्मीश मदनुग्रहकाम्यया।
इति विज्ञाप्य मूलस्य पादयोरब्जसंभवे।। 28.153 ।।
अर्चत प्रार्चसाम्ना वै क्षिपेत् पुष्पाञ्जलिं गुरुः।
(43)अर्घ्यं पाद्यं तथाचामं गन्धमाल्यं च धूपवत्।। 28.154 ।।
(43.ग्र. अर्घ्यं पाणिक्षालनं च पाद्यमाचमनं ततः।)
(44)दीपं समर्प्य देवाय मधुपर्कं निवेदयेत्।
पञ्चामृतं वापि ततः श्रीभूम्योरर्चनं चरेत्।। 28.155 ।।
(44.ग्र. गन्धमाल्यं धूपदीपौ)
कर्मार्चासहजे पीठे भिन्ने वा कमलालये।
मन्त्रन्यासाय देवस्य योगपीठं प्रकल्पयेत्।। 28.156 ।।
आधारशक्ति सप्तास्यां रक्तवर्णां चतुर्भुजाम्।
पीठाधारे पुरा ध्यात्वा कमठं तदनन्तरम्।। 28.157 ।।
तदूर्ध्वे कालदहनं सप्तवक्त्रं त्रिलोचनम्।
त्रिपादं सप्तयुग्मेन भुजेन च विराजितम्।। 28.158 ।।
तदूर्ध्वे नीलवसनं सहस्रफणशोभितम्।
चतुर्भुजं श्वेतवर्णं शङ्खचक्रसमन्वितम्।। 28.159 ।।
उपरिष्टात् ततो देवीं चतुरश्रां भुवं स्मरेत्।
तस्यां वह्न्यादिकोणेषु धर्मादीन् पुरुषाकृतीन्।। 28.160 ।।
चतुर्भुजान् सिंहवक्त्रान् योगपीठपदाकृतीन्।
मुख्यहस्ताञ्जलियुतानन्याभ्यां पीठधारिणः।। 28.161 ।।
श्वेतवर्णान् पुरा ध्यात्वा प्राच्यादिषु तथाऽपरान्।
अधर्मादींश्चतुर्दिक्षु रक्तवर्णान् यथाक्रमम्।। 28.162 ।।
(45)ध्यायेत् सदाशिवं मध्ये पञ्चाशद्धस्तशोभितम्।
मुखेन पञ्चविंशत्या पञ्चसप्तति(46)चक्षुषा।। 28.163 ।।
(45.पा. मध्ये सदाशिवो देवः तद्वदेव प्रतिष्ठितः।)
(46.ग्र. चक्षुषम्।)
(47)पाण्डुराभं नीलकण्ठं शिरोभिः पाणिभिः सह।
योगपीठं धृतं ध्यायेत्तदूर्ध्वे(48)तु विचक्षणः।। 28.164 ।।
(47.ग्र. पाण्डराभं)
(48.ग्र. पूजकोत्तमः।)
उपानज्जगतीपट्टिकपोतं च चतुष्टयम्।
ऋग्वेदादिक्रमात् ध्यायेत् फलकाकृतिरूपिणम्।। 28.165 ।।
(49)भूतानि तूलिकां तस्मात् जीवात्मास्तरणं तथा।
(50)वह्नेः सोमस्य सूर्यस्य मण्डलानि यथाक्रमम्।। 28.166 ।।
(49.पा. तूलिकापञ्चभूतात्मा)
(50.पा. अग्नेस्सोमस्य सूर्यस्य मण्डलान्युपरि क्रमात्।)
स्मरेत्तदुपरि श्वेतपङ्कजं द्वादशच्छदम्।
मध्ये कर्णिकया युक्तं केसराद्यैः सुपूरितम्।। 28.167 ।।
प्रणवं कर्णिकामध्ये स्मरेद् वेदादिमब्जजे।
तस्य द्वादशपत्रेषु पूर्वादिषु यथाक्रमम्।। 28.168 ।।
श्रीवत्सं वनमालां च (51)योगमायां च वैष्णवीम्।
(52)विमलां च तथा सृष्टिं शक्तिमुत्कर्षिणीमपि।। 28.169 ।।
(51.पा. मायां योगात्मिकां तथा।)
(52.पा. वाष्णवीं विमलां सृष्टिं)
(53)प्रभवां सत्यां तथेशानामनुकम्पां पितामहीम्।
बद्धाञ्जलिधराः पूर्वैर्दोर्भिश्चैतास्तथा परैः।। 28.170 ।।
(53.ग्र. प्रज्ञां)
विकसत्स्वर्णपद्मानि दधानाः कमलेक्षणाः।
वह्निमण्डलपूर्वादिदिक्ष्विन्द्रादीन् यथाक्रमम्।। 28.171 ।।
अर्कस्य मण्डले देवि कुमुदादिपदेष्वमून्।
शङ्खं चक्रं गदां शार्ङ्गं वज्रं खड्गं तथा परम्।। 28.172 ।।
पद्मं मुसलमित्येतानायुधान् पुरुषाकृतीन्।
सोमस्य मण्डले चापि पूर्वादिष्वष्टसु क्रमात्।। 28.173 ।।
व्याप्तिं कान्तिं तथा तृप्तिं श्रद्धां विद्यां जयां क्षमाम्।
शान्तिं च शक्तीरष्टैताः स्मरेच्चामरधारिणीः।। 28.174 ।।
बहिरावरणे तार्क्ष्यमीशकोणे तु सेनपम्।
सर्वांस्थितान् प्राञ्जलींश्च देवस्याभिमुखान् स्मरेत्।। 28.175 ।।
एवं ध्यात्वा योगपीठं तत्रत्याः शक्तिदेवताः।
गन्धपुष्पैर्धूपदीपैरर्चयेच्च ततः परम्।। 28.176 ।।
भगवद्वंशमाचार्यं पूजारम्भे हृदि स्मरेत्।
आसीनस्य शयानस्य कर्मबिम्बस्य वै रमे।। 28.177 ।।
पीठकल्पनकाले तु स्मरेत् पद्मान्तमादितः।
ततोऽनन्तं स्मरेद्देवि सहस्रफणमण्डितम्।। 28.178 ।।
यानारूढस्य बिम्बस्य पद्मात्तार्क्ष्यं विचिन्तयेत्।
मन्त्रासने योगपीठं पद्ममन्यत्र चिन्तयेत्।। 28.179 ।।
ध्यायेद्यात्रासने तार्क्ष्यमनन्तं शयनासने।
श्रियादीनां तु देवीनां पीठमूले तु कच्छपम्।। 28.180 ।।
तन्मध्ये पन्नगाधीशमस्य कोणेषु पद्मजे।
धर्मादीन् क्रमशो (54)ध्यात्वा तदूर्ध्वेऽव्यक्तपङ्कजम्।। 28.181 ।।
(54.ग्र. ध्यायेत्)
(55)भगवद्वंशमाचार्यं पूजारम्भे स्मरेद् गुरु।
[आवाहनविधिं वक्ष्ये शृणु पङ्कजमानिनि।। 28.182 ।।
(55.ग्र. यागबेरादिनां पद्मविष्टरं चिन्तयेत्ततः।)
आवाहने तु मूलार्चाहृदब्जात्पात्रमन्ततम्।
देवं पिङ्गलया तत्तद्बिम्बहृत्सरसीरुहे।। 28.183 ।।
सुषुम्नया समावाह्य ततः पूजादिकं चरेत्।
तत्तत्कर्मावसाने तु तथा मूले नियोजयेत्।। 28.184 ।।
त्रिमुहूर्तात्पुरा प्राप्तपूजने पुरुषोत्तमम्।
नोद्वास्य पूजनं कृत्वा ततोद्वासनमाचरेत्।। 28.185 ।।
ज्वलनः सूर्यकान्ते तु यथा भाति दिवाकरात्।
तथार्चकप्रार्थनया मूलात्कर्मादिकौतुके।। 28.186 ।।
त्रिस्थाने स्नानकुम्भे च हरिः संनिहितो रमे।]
आवाहनपदं पात्रं पूरयेद् गन्धवारिभिः।। 28.187 ।।
मूलमन्त्रेण तुलसीं तस्मिन्निक्षिप्य वै ततः।
तत्पात्रं हस्तयुग्मेन ललाटान्तं समुद्धरेत्।। 28.188 ।।
मूलस्थं रविवह्नीन्दुकोटिकोटिसमप्रभम्।
द्विहस्तमेकवक्त्राब्जं चक्राद्यायुधसेवितम्।। 28.189 ।।
किरीटवनमालाभ्यां कौस्तुभेन च शोभितम्।
वासुदेवं परात्मानं प्रार्थयेद् गाथयानया।। 28.190 ।।
करुणारसदुग्धाब्धिसमुत्पन्न घनप्रभ।
आगच्छागच्छ पात्रेऽस्मिन् नित्यपूजार्थमच्युत।। 28.191 ।।
एवं संप्रार्थ्य मूलार्चां तस्मात् पात्रे समागतम्।
शङ्खचक्रगदाशार्ङ्गधारिणं पीतवास(स)म्।
श्रीवत्सकौस्तुभोरस्कं वनमालादिभूषितम्।। 28.192 ।।
नीलनीरदसंकाशं वासुदेवं चतुर्भुजम्।
[पद्मविष्टरमासाद्य संस्थितं काञ्चनप्रभम्।। 28.193 ।।
अनर्घ्यरत्नखचितकिरीटेन विराजितम्।
नवनीरदनीलालिदलिताञ्जनसंनिभैः।। 28.194 ।।
माधवीमल्लिकाजातिपुष्पसंवलितान्तरैः।
कर्पूरधूसरैर्दिव्यकचभारैः सुशोभितम्।। 28.195 ।।
कटुलालकलोलालिकोमलाननपङ्कजम्।
अष्टमीचन्द्रधिक्कारिफालोद्यत्तिलकोज्ज्वलम्।। 28.196 ।।
निरङ्कुशदयापूरतरङ्गितकटाक्षकम्।
षट्‌पदाश्रितशुभ्राब्जपरीहासिविलोचनम्।। 28.197 ।।
शीतलैर्दृष्टिपातैस्तु जगदानन्दकारिणम्।
हेमचाम्पेयकुसुमोल्लसत्सुन्दरनासिकम्।। 28.198 ।।
मन्दहासोल्लसद्दन्तं बन्धूकसदृशाधरम्।
आदर्शगण्डसंलग्नरत्नकुण्डलभूषितम्।। 28.199 ।।
सौन्दर्यसंपुटाकारचुबुकस्थलशोभितम्।
कम्बुकण्ठस्थितार्धेन्दूल्लसद्ग्रैवेयकोज्ज्वलम्।। 28.200 ।।
कुङ्कुमागरुकस्तूरीसुवासितभुजान्तरम्।
चतुर्भुजमुदाराङ्गं दीर्घबाहुं सुयौवनम्।। 28.201 ।।
लसत्कङ्कणकेयूरमहार्हाङ्गुलिभूषणम्।
चतुर्वर्गप्रदानोद्यत्करपल्लवसंयुतम्।। 28.202 ।।
मुख्यदक्षिणहस्तेन श्रितानामभयप्रदम्।
लीलया वामहस्तेन निषण्णे पद्मविष्टरे।। 28.203 ।।
धृत्वा कौमोदकीशार्ङ्गे पश्चाद् दक्षिणपाणिना।
सुदर्शनं सहस्रारं कोटिकालानलद्युति।। 28.204 ।।
प्रणवध्वाननिर्घोषं हिमाद्रिशतशोभितम्।
दधानं वामहस्तेन पाञ्चजन्यं सुनिर्मलम्।। 28.205 ।।
उरोविराजि श्रीवत्सकौस्तुभोद्भासि दिक्तटम्।
रत्नकाञ्चनसन्मुक्ताभरणैर्वनमालया।। 28.206 ।।
सद्ब्रह्मसूत्रया चैव संविराजदुरस्स्थलम्।
तुलसीदामसौरभ्यमद्भ्रमरमण्डितम्।। 28.207 ।।
अन्तःस्फुरदनेकाण्डसंशोभिततनूदरम्।
विधातृजन्मभूनाभिकमलेन सुशोभितम्।। 28.208 ।।
चम्पासहस्रपुञ्जाभपीताम्बरलसत्कटिम्।
नागेन्द्रदर्पहरणनन्दकान्वितमेखलम्।। 28.209 ।।
यूथपेन्द्रकरोदारचारूरुयुगलोज्ज्वलम्।
मुक्तास्फोटोल्लसद्दिव्यजानुमण्डलशोभितम्।। 28.210 ।।
मीनमानहरश्लक्ष्णजङ्घाकाण्डमनोहरम्।
मणिमञ्जीरविलसत्कूर्माकारपदद्वयम्।। 28.211 ।।
विद्रुमाभाङ्गुलीजालोल्लसद्रत्नाङ्गुलीयकम्।
शरदिन्दुदशोद्भासिनखपङ्क्तिविराजितम्।। 28.212 ।।
सर्वलक्षणसंपूर्णं सार्वज्ञादिगुणैर्युतम्।
वपुषा सुन्दरेणैव दिव्येनाविष्कृतेन च।। 28.213 ।।
मुञ्चन्तमनिशं देहादालोकं ज्ञानलक्षणण्।
प्रयत्नेन विनाऽज्ञाननाशकं ध्यायिनां प्रभुम्।। 28.214 ।।
करुणापूर्णहृदयं जगदुद्धारणोद्यतम्।
अभिन्नपूर्णषाड्गुण्यविभवेनोपबृंहितम्।। 28.215 ।।
सर्वदेवमयं दंव सर्वेषां तेजसां निधिम्।
स्वदेहतेजःसंभूतज्वालामण्डलमध्यगम्।। 28.216 ।।
योगिध्येयमजं नित्यं जगज्जन्मादिकारणम्।
एवं लक्ष्मीपतिं स्मृत्वा शार्ङ्गधन्वानमादरात्।। 28.217 ।।]
(56)ध्यात्वा तद्वारिणा कर्मशिरः कूर्चेन सेचयेत्।
(57)द्वादशार्णं चतुर्वारमागच्छेति समं वदेत्।। 28.218 ।।
(56.ग्र. तद्वारिणा कर्मबेरशिरः
      अयमर्धश्लोकः ग्र. पुस्तके एतदुत्तरश्लोकादनन्तरं दृश्यते।)
(57.ग्र. द्वादशार्णैश्चतुर्वारमागच्छेति वदेत्ततः।)
पात्रस्थं परमात्मानं कर्मार्चायां (58)विचिन्तयेत्।
प्रदर्श्यावाहनमुद्रां स्थापनं तु ततः परम्।। 28.219 ।।
(58.ग्र. विचिन्त्य च।)
विभो सकललोकेश विनतासुतसेवित।
त्राणाय सर्वजगतां स्वागतं ते जगत्पते।। 28.220 ।।
इति स्वागतमुद्रां च प्रतिमां च प्रदर्शयेत्।
स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।। 28.221 ।।
तावन्मद्भक्तभावेन बिम्बेऽस्मिन् संनिधिं कुरु।
दर्शयेत् संनिधिं मुद्रां प्रार्थनां च वरानने।। 28.222 ।।
सुमुखो भव देवेश विष्णो जिष्णो जनार्दन।
इति विज्ञाप्य (59)सान्निद्यमुद्रामपि च दर्शयेत्।। 28.223 ।।
(59.ग्र. सांमुख्य)
सोन्दर्यामृतसिन्धूत्थघनविद्युल्लताप्रभे।
आगच्छावाहने पात्रे गोविन्दगृहमेधिनि।। 28.224 ।।
एवं संप्रार्थ्य पात्रस्थां श्रियं बिम्बे स्मरेत्ततः।
सर्वजीवधरे कान्ते परमात्मप्रिये रसे।। 28.225 ।।
पात्रेऽस्मिन् पूजनाय त्वमागच्छ वसुधे शुभे।
एवमावाह्य पात्रस्थां भुवं बिम्बे नियोजयेत्।। 28.226 ।।
आवाहनादिषण्मुद्रां दर्शयेद्देशिकोत्तमः।
मूलाभावे श्रियादीनां भगवन्मूलबिम्बतः।। 28.227 ।।
श्रियादिकर्मबिम्बेषु शक्तीरावाह्य पूजयेत्।
मन्त्रन्यसनकाले तु देवेशं योगविष्टरे।। 28.228 ।।
स्थितं ध्यात्वा देवदेहे मन्त्रन्यसनमाचरेत्।
किरीटाद्यहिनाथान्तं मुद्राः सर्वाश्च दर्शयेत्।। 28.229 ।।
श्रामित्यादि श्रियो देहे विन्यसेच्च तथा भुवः।
ह्रामित्यादिषडङ्गानि विन्यसेत् कमलेक्षणे।। 28.230 ।।
पद्ममुद्रां प्रदर्श्याथ देवेशं प्रार्थयेद् गुरुः।
दासोऽहं ते जगन्नाथ पुत्रदारगृहैः सह।। 28.231 ।।
कर्तव्ये मां नियुङ्क्ष्व त्वं प्रेष्यं भक्तं हिते सदा।
त्वां भक्त्या पूजयाम्यद्य भोगैरर्घ्यादिभिर्हरे।। 28.232 ।।
मदीय्य (य) इति तां पूजां गृहाण परमेश्वर।
विज्ञाप्यैवं रमानाथं यजेदर्घ्यादिभिस्ततः।। 28.233 ।।
श्रीभूम्योश्चार्चनं कृत्वा मधुपर्कं निवेदयेत्।
[योगे स्थितं मण्डने च यात्रायां भोजने तथा।। 28.234 ।।
स्नाने च सुखमासीनं शय्यायां शयनं विभुम्।
अन्यत्र चोपचारेषु स्थितमासीनमेव वा।। 28.235 ।।
प्राङ्मुखं चिन्तयेद्विद्वान् देवप्राचीक्रमेण वा।
आचार्यः शिष्यवन्मन्त्रविष्टरे स्नपनासने।। 28.236 ।।
जननीव शिशुं रत्यां सतीव प्रियनायकम्।
अलंकारेऽतिथिं भोज्यविष्टरे तु गृहस्थवत्।। 28.237 ।।
यात्रासने सुशय्यायां नृपं मन्त्रीव सेवकः।
प्रार्थनायां मित्रवच्च देवं ध्यायेत पूजकः]।। 28.238 ।।
एकबेरविधाने तु पूजाकाले पुरा रमे।
योगपीठस्थितान् देवान् क्रमेणाभ्यर्च्य वै गुरुः।। 28.239 ।।
मन्त्रन्यासादिहोमान्तं पूजां कुर्याद्यथाविधि।
मखार्चादिषु बिम्बेषु वासुदेवादिकान् यजेत्।। 28.240 ।।
बहुबेरे तव विधिं वदाम्यावाहनस्य तु।
ज्ञानादिषड्गुणोपेतं वासुदेवं चतुर्भुजम्।। 28.241 ।।
शुद्धस्फटिकसंकाशं मूलादुत्सवकौतुके।
संकर्षणं ज्ञानमूर्तिं रक्ताभं बलिकौतुके।। 28.242 ।।
बलमूर्तिं हेमवर्णं प्रद्युम्नं (60)स्नानकौतुके।
अनिरुद्धं (61)तीर्थबेरे भूतिमूर्तिं घनप्रभम्।। 28.243 ।।
(60.ग्र. तीर्थ)
(61.ग्र. स्नान)
धर्ममूर्तिं पद्मनाभं मयूरगलमेचकम्।
स्वप्नबिम्बे समावाह्य तत्तत्काले समर्चयेत्।। 28.244 ।।
सर्वांश्चतुर्भुजान् शङ्खचक्रपद्मगदाधरान्।
श्रीवत्सकौस्तुभोरस्कान् वनमालाद्यलंकृतान्।। 28.245 ।।
वासुदेवोद्भवान् ध्यायेत् केशवाद्यधिनायकान्।
स्नानासनं समभ्यर्च्य पादुकार्चनमाचरेत्।। 28.246 ।।
कनकाचलगम्भीर्यमहीन्द्राभरणं विभुम्।
छन्दोमयं गरुत्मन्तं पादुकायां विचिन्तयेत्।। 28.247 ।।
पादुकां तार्क्ष्यगायत्र्या स्नापयेन्मन्त्रवारिभिः।
पुष्पधूपादिनाभ्यर्च्य स्नानपीठपुरो भुवि।। 28.248 ।।
द्वादसाद्येककुम्भान्तं विभवेच्छानुसारतः।
कुम्भान् विधाय संपूज्य प्रापयेत् स्नानकौतुकम्।। 28.249 ।।
स्नानकालस्त्वयं प्राप्तस्तवेच्छा यदि वर्तते।
अभ्यञ्जयित्या देवेश सुस्नानं कारयाम्यहम्।। 28.250 ।।
(62)विज्ञाप्य दद्याद्देवाय पादुकां हेमनिर्मिताम्।
(63)इदं विष्णुरिति ध्यायेत् पादुकारोहणे विभोः।। 28.251 ।।
(62.पा. दद्याच्च पादुके स्नातुमुत्थानसमये हरेः।)
(63.पा. इदं विष्णुरिति द्वाभ्यां पादुकारोहणं हरेः।)
उत्तिष्ठ ब्रह्मणेत्येवं देवमुत्थापयेद् गुरुः।
(64)भद्रं कर्णेति मन्त्रेण नयेत् स्नपनविष्टरम्।। 28.252 ।।
(64.पा. मन्त्रस्तु भद्रं कर्णेभिरिति स्नानासनासने।)
विष्णोर्नुकेति मन्त्रेण स्थापयेत् स्नानविष्टरे।
विष्णुगायत्रिया चार्घ्यं पाद्यं त्रीणि पदेति च।। 28.253 ।।
आपः पुनन्तु मन्त्रेण दद्यादाचमनं हरेः।
तद्विष्णोरिति काष्ठेन रदनान् शोधयेत्ततः।। 28.254 ।।
रसज्ञां विष्णुगायत्र्या गण्डूषं निगमादिना।
कारयेत् स्नानवस्त्रे च परिदध्याद्धरेर्गुरुः।। 28.255 ।।
वामदेव्येति वै साम्ना गन्धतैलेन वै विभोः।
शिरः प्रभृति पादान्तमुद्वर्तनमताचरेत्।। 28.256 ।।
रमागायत्रिया केशान् कङ्कतेन मृजेत्ततः।
तैलानि(65) वानचूर्णेन सुगन्धिसलिलेन च।। 28.257 ।।
(65.ग्र. रि)
तच्छंयोरिति केशादिपादान्तं शोधयेत्ततः।
आप्यायस्वेति दुग्धेन दध्ना च तदनन्तरम्।। 28.258 ।।
दधिक्रावुण्णमन्त्रेण गायत्र्या विष्णुपूर्वया।
नालिकेराम्बुना लक्ष्मीगायत्र्या पीतवारिणा।। 28.259 ।।
वस्त्रयुग्मं समर्प्याथ गन्धद्वारेति देशिकः।
स्नापयेद्गन्धपङ्केन कुङ्कुमालेपनं ततः।। 28.260 ।।
प्रालम्बैर्मौलिमालाभिर्भूषयेत् परमेश्वरम्।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।। 28.261 ।।
सहस्रधारापटके भास्कराधिपतिं तथा।
शङ्खपद्माह्वये पात्रे श्रियमावाह्य पूजयेत्।। 28.262 ।।
तयोः कुम्भाम्बुनापूर्य सहस्रच्छिद्रया सह।
सार्धं द्वाभ्यां देशिकाभ्यां सूक्तेन पुरुषात्मना।। 28.263 ।।
लक्ष्मीशं स्नापयेद्यद्वा महाकुम्भेन वा रमे।
जम्बीररसधाराभिः शुचीव इति मन्त्रतः।। 28.264 ।।
अभिषिञ्चेद्रमानाथं ततः शुद्धजलेन च।
(66)शङ्खोदकेन देवेशं सावित्र्या परिषेचयेत्।। 28.265 ।।
(66.पा. परिषिच्य तु सावित्र्या सूक्तेन पुरुषात्मना।)
अग्निर्मूर्धेति मन्त्रेण शुष्कवस्त्रेण शोधयेत्।
मूर्धानमित्यार्द्रकेशान् शोषयेद्गन्धधूपकैः।। 28.266 ।।
(67)वस्त्रं युग्मं समर्प्याथ स्थापयेत् सिंहविष्टरे।
आराधयेद् भूषणस्थान् प्रार्थयेत् कर्मकौतुके।। 28.267 ।।
(67.ग्र. वस्त्रयुग्मं)
सपद्मपीठं परममिदं भूषासनं महत्।
आकल्पधारणार्थाय आतिष्ठ जगतां प्रभो।। 28.268 ।।
इति विज्ञाप्य देवेशं स्मरेन्मण्डनविष्टरे।
पुरातनं वस्त्रयुग्मं व्याहृत्या परिहृत्य च।। 28.269 ।।
विष्णुगायत्रिया (68)वस्त्रे नूतने परिधापयेत्।
इदं विष्णुरिति श्रुत्या (69)चन्दनेन सुगन्धिना।। 28.270 ।।
(68.पा. दद्याद्वस्त्रे धौतनिर्मले।)
(69.पा. लेपनं वपुषि स्मृतम्।)
वपुष्यालेपयेत् पश्चात् जितं त इति मण्डनैः।
मण्डयेत् परमात्मानं किरीटेन सुवर्चसा।। 28.271 ।।
मणिनिर्मितमालाभिश्चक्राद्यायुधभूषणैः।
(70)ललाटे देवदेवस्य तिलकं परिकल्पयेत्।। 28.272 ।।
(70.ग्र. नेत्रयोरञ्जनं काले)
प्रावारमुपवीतं च धारयेन्निगमादिना।
पुष्पमालादिभिर्देवं तद्विष्णोरिति मन्त्रतः।। 28.273 ।।
इरावतीति मन्त्रेण पादयोरक्षतान् क्षिपेत्।
ततोऽध्वरादिबिम्बानां प्रतिकर्म समाचरेत्।। 28.274 ।।
आदर्शे कमलां देवीं व्यजने पवनाधिपम्।
आतपत्रे पन्नगेन्द्रमर्चयेत् स्वस्वविद्यया।। 28.275 ।।
व्याहृत्या दर्पणादीनि दर्शयेत् परमात्मनः।
कर्मार्चादीनि बिम्बानि यजेदर्घ्यादिना ततः।। 28.276 ।।
रमागायत्रिया दद्यात् ताम्बूलीमास्यशोधिनीम्।
दद्यादगरुधूपं च जितं त इति मन्त्रतः।। 28.277 ।।
[उद्दीप्यस्वेति मन्त्रेण (71)दीपमारोपयेद्रमे।]
दीपजालेषु ताराणि मध्यदीपेषु वै विधुम्।। 28.278 ।।
(71.पा. दीपारोपणमिष्यते।)
आवाह्य दर्शयेत् दीपं उद्दीप्यस्वेत्यृचा हरेः।
ततो यवनिकां त्यक्त्वा दीपमादाय देशिकः।। 28.279 ।।
त्रिवारं गुणमन्त्रेण पादादिशिरसोऽवधि।
(72)कर्मबिम्बादिबिम्बानां एवं कृत्वा ततो गुरुः।
[ताम्बूलं तण्डूलं मुद्गमाज्यं हेमं फलानि च।। 28.280 ।।
(72.ग्र. कर्मार्चां भ्रामयेत् पश्चाद् गुरुर्मात्रां समाहरेत्।)
गोग्रासं गाश्च वसनं मात्राद्रव्यमितीरितम्।]
(73)देवस्य पुरतो मात्राद्रव्यं सन्दर्शयेत् स्वयम्।। 28.281 ।।
(73.ग्र. ततो देवस्य पुरतः तद्‌द्रव्यं स्थापयेद् भुवि।)
[दर्शयित्वा तु देवस्य गृह्णीयात् तदनन्तरम्।]
(74)संगृह्य वैनतेयादीन् अर्घ्याद्यैः पूजयेत् क्रमात्।। 28.282 ।।
(74.ग्र. ततो बहिश्च तार्क्ष्यादीन् गन्धाद्यैरर्चयेत् क्रमात्।)
ऋगाद्यध्ययनारम्भं प्रारभेयुश्च वैदिकाः।
स्वरेणोच्चतरेणैव स्तुवीयुः स्तोत्रपाठकाः।। 28.283 ।।
नृत्तार्धमण्डपे रम्ये नृत्येयुर्गणिका जनाः।
मङ्गलानि च गीतानि तत्र गायन्तु गायकाः।। 28.284 ।।
तुलसीपल्लवैर्देवमर्चयेच्च तदा गुरुः।
व्यूहादिनामभिश्चापि विभवाद्यैश्च नामभिः।। 28.285 ।।
पिधाय काण्डवस्त्रेण गर्भद्वारं ततो गुरुः।
देवस्य पुरतो वेद्यां भक्ष्यादीन् घृतपाचितान्।। 28.286 ।।
निधाय विविधान्नानि शोधयेच्छोषणादिभिः।
प्रदर्श्य सुरभीमुद्राममृतीकृत्य तानि वै।। 28.287 ।।
मूलादिसर्वबिम्बानि प्रार्थयेद् गाथयानया।
मृष्टपूतस्थिरान्नानि भोज्यभक्ष्याण्यनेकशः।। 28.288 ।।
संपन्ननि जगन्नाथ भोज्यासनमलंकुरु।
इति विज्ञाप्य देवाय पादुके धारयेद्धरेः।। 28.289 ।।
अन्नादीन् क्रमशो न्यूनं दशभागं स्मरेद्रमे।
मूलादिसप्तबिम्बानां सप्तभागं निवेदयेत्।। 28.290 ।।
सालिग्रावस्यैकभागं विमानस्य तथा परम्।
होमाय चापरं भागं पात्रेऽन्यस्मिन्निवेशयेत्।। 28.291 ।।
भोज्यासने स्थितं ध्यात्वा यजेदर्घ्यादिना विभुम्।
भगवद्दक्षइणे हस्ते न्यसेदर्घ्यसुमं गुरुः।। 28.292 ।।
त्वद्दासेन मया दत्तं भोज्यवस्तु सुसंस्कृतम्।
अभीतिदकरेण त्वं गृहाण कृपया विभो।। 28.293 ।।
इति विज्ञाप्य देवाय मधुपर्कं निवेदयेत्।
अन्वारब्धेन वामेन पाणिना दक्षिणेन च।। 28.294 ।।
भक्त्या नम्रेण शिरसा दर्शितग्रासमुद्रया।
(75)द्वात्रिंशत् कबलान् विष्णो(76)र्देवस्येति च मन्त्रतः।। 28.295 ।।
(75.ग्र. द्विचतुष्कबलान्)
(76.ग्र. देवस्य त्वेति।)
(77)निर्वपेद्दक्षिणे हस्ते भक्ष्यान्नादीनि देशिकः।
मध्ये मध्ये च पानीयं दद्यादेलादिमिश्रितम्।। 28.296 ।।
(77.पा. देवस्य दक्षिणे हस्ते निर्वपेत्साधकस्स्वयम्।)
[शीतलोदकसंयुक्तमेलाकर्पूरमिश्रितम्।
मन्दोष्णं वासनायुक्तमर्हणाम्भ इति स्मृतम्]।। 28.297 ।।
भोज्यासनादौ भोज्यान्ते दद्यादर्हणमम्बु च।
हस्तप्रक्षालनं कुर्याद्देवस्य परमात्मनः।। 28.298 ।।
गण्डूषं च समर्प्याथ पुनरर्घ्यादिना यजेत्।
(78)पाणिवक्त्रपदाम्भोजं शोधयेत् शुद्धवारिणा।। 28.299 ।।
(78.ग्र. मुखहस्तपदाब्जानि शोधयेत् अस्त्रवारिणा।)
एवं कर्मादिबिम्बानां षण्णामपि निवेदयेत्।
श्रीभूम्योश्च ततान्नादीन् विनिवेद्य ततो रमे।। 28.300 ।।
सालग्रावादिदेवाय विष्णवे विनिवेद्य च।
प्रासादपतयेऽन्नादीननिरुद्धाय चार्पयेत्।। 28.301 ।।
ततो ध्रुवादिबेरेभ्यस्ताम्बूलं वासनायुतम्।
निवेदयेत्ततः स्नानबिम्बशक्तिं ध्रुवे नयेत्।। 28.302 ।।
[निवेदनान्ते त्वन्नानि भक्ष्याणि विविधानि च।
विष्वक्सेनादिपूजार्थमर्धभागं त्यजेत्ततः।। 28.303 ।।
प्रतिग्राहोदकं पीत्वा पादुकां मूर्धनि स्वके।
भुक्तानि पत्रपुष्पाणि विदध्याद् विनयान्वितः।। 28.304 ।।
पूजासिद्ध्यर्थमर्धान्ने स्तोकमर्चकसत्तमः।
देवाभिमुखमासीनः प्रागश्नीयाच्च मौनवान्।। 28.305 ।।
हृद्यागमाद्यमङ्गं स्याद्योगपीठे प्रपूजनम्।
द्वितीयमङ्गं स्नपनं तृतीयं वेषपूजनम्।। 28.306 ।।
तुर्यं भोज्यासने विष्णोः पूजनं पञ्चमं ततः।
गुरोः सिद्धिप्राशनं तु षष्ठं नित्याग्निपूजनम्।। 28.307 ।।
सप्तमं तूत्सवो नित्यश्चाष्टमाङ्गमितीरितम्।
अष्टाङ्गपूजनं त्वेवं गर्भगेहे विधीयते।। 28.308 ।।
चतुर्थादिषडङ्गान्तं (79)बहिः पूजनमारभेत्।
नित्ये नैमित्तिके प्राप्ते त्वेकस्मिन् समये तदा।। 28.309 ।।
(79.ग्र. मण्डपादिषु पूजयेत्।)
नैमित्तिकं पुरा कृत्वा पश्चान्नित्यसमर्चनम्।
नैमित्तिके ह्यनित्ये च नित्ये च युगपद्गते।। 28.310 ।।
प्रागनित्यं ततः पश्चान्नैमित्तं नित्यमाचरेत्।
नैमित्तिके च काम्ये च प्राप्ते काम्यं तु पूर्वतः।। 28.311 ।।
एतत्कालेषु संप्राप्ते प्रायश्चित्ते तु देशिकः।
प्रायश्चित्तं पुरा कृत्वा ततस्तानि क्रमाच्चरेत्।। 28.312 ।।
कालातिक्रमदोषस्तु तत्र न स्यात्कदाचन।
प्राङ्कणेषु च सर्वेषु प्रासादेष्वाश्रयेषु च।। 28.313 ।।
प्रतिष्ठितेषु शोभार्थं विभव्यूहमूर्तिषु।
तथैव गोपुरद्वारदिङ्मूर्तिषु च मण्डपे।। 28.314 ।।
सांनिध्यं चैव यातासु शक्त्या नित्यं समर्चनम्।
त्रिकालं वा द्विकालं वा संकटे त्वेककालिकम्।। 28.315 ।।
कुर्यादष्टोपचारैस्तु तथा नैमित्तिकेष्वपि।
न कर्मार्चादिकं तत्र स्नपनं चोत्सवादिकम्।। 28.316 ।।
बलिदानं च होमं च पवित्रारोहणादिकम्।
नाचर्तव्यं विशेषेण प्राङ्कणादिषु मूर्तिषु।। 28.317 ।।
सूक्ष्माभिषेकमात्रं तु तत्र तासु समाचरेत्।
खगेशविष्वक्सेनादिपरिवारगणेष्वपि।। 28.318 ।।
प्रतिष्ठितेषु गेहेषु पूज्यमाश्रयमूर्तिवत्।
अनन्ततार्क्ष्यसेनेशदेवानां मण्डपादिषु।। 28.319 ।।
कुमुदादिगणेशानां द्वारावरणवासिनाम्।
अमूर्तीनां बलिं दद्याद्वासुदेवपुरो भुवि।। 28.320 ।।
यत्र भक्तश्च सेनानीः स्वतन्त्रेण प्रपूज्यते।
तन्निवेदितवस्तूनि नाश्नीयाद्वैष्णवोत्तमः।। 28.321 ।।
परिचारवरैः कार्यं शिष्यैर्वा भक्तपूजनम्।]
स्तुत्वा च विविधैः स्तोत्रैर्नित्यहोमं ततश्चरेत्।। 28.322 ।।

।। इति श्री श्रीप्रश्नसंहिताया(80)मष्टाविंशोऽध्यायः ।।
(80.ग्र. भोगयागे भोज्यासनविधिर्नामैकोनत्रिंशोऽध्यायः ।।)