← अध्यायः १० प्रश्नसंहिता
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →
प्रश्नसंहितायाः अध्यायाः

।। एकादशोऽध्यायः ।।

स्थितं यानसमारूढमासीनं लोकविक्रमम्।
शयनं विश्वरूपं च षड्विधं बिम्बमुच्यते।। 11.1 ।।
ममावतारभेदेषु तत्तत्कार्यानुरोधतः।
भिद्यते बहुधा देवि यजमानस्यानुरोधतः।। 11.2 ।।
चतुरश्रे सुवृत्ते च षडश्रे स्थापयेद् विभुम्।
स्थितं यानसमारूढमासीनं लोकविक्रमम्।। 11.3 ।।
वृत्तायते शयानं स्याच्चतुरश्रायते तथा।
अष्टाश्रये विश्वरूप(1)मेकमालोक्य कल्पयेत्।। 11.4 ।।
(1.ग्र. मेव)
अर्चारूपस्य निर्माणे पदार्था अपि षड्विधाः।
रत्नस्फटिकलोहाश्च शिला दारुश्च मृण्मयः।। 11.5 ।।
पूर्वपश्चिमतो बिम्बं न हीनं निर्मितं यदि।
तत्पूर्णं बिम्बमित्याहुः पूर्वभागं तु यत्र वै।। 11.6 ।।
मुखादिसहितं बिम्बमर्धचित्रं तदुच्यते।
पटादिलिखितं यत्तु तच्चित्रं हीनमुच्यते।। 11.7 ।।
(2)रत्नैस्तु निर्मितं बिम्बं सर्वकामफलप्रदम्।
(3)संपत्प्रदं स्वर्णबिम्बं रजतं ज्ञानदं भवेत्।। 11.8 ।।
(2.पा. निर्दोषा रत्नजाः सर्वाः सर्वकामफलप्रदाः।)
(3.ग्र. संपत्करं)
सौभाग्यदायकं ताम्रमेवं त्रिविधमीरितम्।
यशोवित्तज्ञानदायि श्वेतशैलसमुद्भवम्।। 11.9 ।।
आराधनीयं (4)विप्रेण तदन्यत्सर्वकामदम्।
क्षत्रियादिभिराराध्यं स्वेषां चैवेष्टसिद्धये।। 11.10 ।।
(4.ग्र. विप्राणां)
सिद्धा महर्षयो यत्र तपस्यन्ति द्विजा अपि।
मर्त्यागम्ये देवसेव्ये परिपक्वशिलामये।। 11.11 ।।
आचार्यः प्रथमं गत्वा बिम्बयोग्यां शिलां रमे।
सम्यक् परीक्ष्य चागत्य यजमानाय वेदयेत्।। 11.12 ।।
यजमानो गुरुश्चैव ब्राह्मणान् भोजयेत् पुरा।
तेभ्यश्चानुग्रहं प्राप्य (5)यजमानेन सम्मितः।। 11.13 ।।
(5.ग्र. यजमानो गुरुः स्वयम्।)
(6)रथकारादिसहितो गत्वा तत्र प्रपां क्रियात्।
अङ्कुरार्पण(7)पूर्वं हि स्थण्डिले स्थापयेद् घटान्।। 11.14 ।।
(6.ग्र. रथकारेण)
(7.ग्र. पूर्वाणि)
विन्यस्य परमेष्ठ्याख्यविद्यया कूर्चपल्लवैः।
अलंकृत्य पिधायास्याननुचक्रं च पूजयेत्।। 11.15 ।।
पुण्याहवारिणा प्रोक्ष्य सिद्धार्थांश्चक्रविद्यया।
विकीर्य चक्रमुद्रां च प्रदर्श्यानन्तरं गुरुः।। 11.16 ।।
मध्ये तु परमात्मानं करके च सुदर्शनम्।
इन्द्रादीनुपकुम्भेषु प्रापणान्तं समर्चयेत्।। 11.17 ।।
समित्सर्पिः पुष्फलैर्दलैः पञ्चभिरप्यथ।
मूलमन्त्रेण जुहुयात् पृथगष्टोत्तरं शतम्।। 11.18 ।।
चरुणापि नृसूक्तेन जुहुयात् षोडशाहुतीः।
वनदेवान् पर्वतांश्च गण्डशैलांस्तटानपि।। 11.19 ।।
शृङ्गांश्च निर्झरानब्धीन् वृक्षानप्योषदीरपि(8)।
वनस्पतिं(तीन्) जरायुजानण्डजान् स्वेदजानपि।। 11.20 ।।
(8.ग्र. धीस्ततः)
उद्भिदः सर्वभूतानि तित्रोऽपि व्याहृतीरपि।
नमस्तया च व्याहृत्या हुत्वा संपातमाहरेत्।। 11.21 ।।
पूर्णाहुतिं ततो हुत्वा संपातं स्पर्शविद्यया।
तस्यां शिलायां विन्यस्य बलिदानं च कल्पयेत्।। 11.22 ।।
दध्यन्नं रजनीचूर्णयुक्तं लाजानपूपिकाम्।
पयोदधिघृतं रम्भाशलाटूंश्चरुणा सह।। 11.23 ।।
दद्याच्च सर्वभूतेभ्यो बलिदानं तु देशिकः।
सुमुहूर्ते शिलां वीक्ष्य सिद्धार्थांश्चक्रविद्यया।। 11.24 ।।
दद्यात् बलिं प्रतिदिशं भूतेभ्यः कमलेक्षणे।
पुण्याहं वाचयित्वाथ प्रोक्ष्य पूरुषविद्यया।। 11.25 ।।
शिलां स्पृष्ट्वाथ मूलेन दत्वार्ध्यं प्रीतिमन्दिरे।
जपेदष्टोत्तरशतं मूलमन्त्रं गुरूत्तमः।। 11.26 ।।
बिम्बस्यानुगुणं कुर्यात् (9)सूत्रपातं शिलाभुवि।
बिम्बं शीतलया कुर्यान्न तूष्णशिलया क्वचित्।। 11.27 ।।
(9.ग्र. सूत्रपात्रं)
यदि बिम्बं शीत(ल)या कुर्याल्लक्षणसंयुतम्।
तद्देवसंनिधौ (10)संपत् सदा पूर्णा भवेत् ध्रुवम्।। 11.28 ।।
(10.ग्र. सर्वसंपूर्णा सदा भवेत्।)
पुंलिङ्गशिलया कुर्यान्नादवत्या (11)सदा हरिम्।
(12)स्त्रीशिला पादपीठं स्याद्ररत्नन्यासं नपुंसके।। 11.29 ।।
(11.ग्र.हरिं गुरुः।)
(12.पा. पुंशिला।)
शिलामेवं परीक्ष्याथ(13) रथकारैस्तु भेदयेत्।
सा शिला निपतेद् भूम्यां न भवेद् बिम्बसाधने।। 11.30 ।।
(13.ग्र. परीक्ष्यैव।)
मध्ये स्थितापि वा ग्राह्या तामुद्धृत्य गुरुः शिलाम्।
महाकुम्भजलैः प्रोक्ष्य ततः करकवारिणा।। 11.31 ।।
परिषिच्य प्रतिकृतिं शिल्पिभिः कारयेद् गुरुः।
देवीनां च श्रियादीनां निर्माणे स्त्रीशिला वरा।। 11.32 ।।
पुंशिला पादपीठे स्याद्रत्नन्यासं नपुंसके।
श्रीसूक्तेनैव देवीनां शिलासंग्रहणं चरेत्।। 11.33 ।।
मध्यकुम्भे श्रियं देवीं परितः कलशेषु च।
वागीश्वरीं क्रियां कीर्तिं लक्ष्मीं सृष्टिमतः पराम्।। 11.34 ।।
प्रह्वीं सत्यां ततो ब्राह्मीं करके च सुदर्शनम्।
यथा पूर्वं तदितरत् श्रियमग्नौ तु पूजयेत्।। 11.35 ।।
इतरा अपि चावाह्य वागीशाद्या यथाक्रमम्।
ब्रह्मादिकल्पने देवि घटस्थापनकर्मणि।। 11.36 ।।
ब्रह्मादीन् मध्यकुम्भस्थान् पूर्वादिषु यथाक्रमम्।
इन्द्रादीन् पूजयेत् विद्वान् करके च सुदर्शनम्।। 11.37 ।।
पूर्णाहुतिं ततः कुर्यात् संपाताज्येन वै शिलाम्।
स्पर्शयेत्तत्तदङ्गेषु मूलमन्त्रेण देशिकः।। 11.38 ।।
देवीब्रह्मादिबिम्बानि कारयेच्छिल्पिवर्गतः।
दारुणा यदि कल्प्येत बिम्बानि स्वार्थसिद्धये।। 11.39 ।।
दारुसग्रहणं कुर्याद् वृश्चिकादित्रिमासके।
वृश्चिकाद्यष्टमासेषु अगरुश्चन्दनोऽथवा।। 11.40 ।।
काश्मर्यो देवदारुश्च मधूकहरिचन्दनौ।
खदिरश्चार्जुनश्चैव कदम्बपनसौ तथा।। 11.41 ।।
बिल्वः पूर्वोक्तवृक्षा ये सारवन्तो न कोटराः।
सुषिरादिविहीनाश्च गृह्णीयात् तान् द्रुमाधिपान्।। 11.42 ।।
दग्धान् वक्रान् ग्रन्थियुक्तान् ससाखान् वर्जयेद्रमे।
शिलासंग्रहवद्धोमः सर्वः कार्यो यथाविधि।। 11.43 ।।
अनोकहानामङ्गानि प्रवालादीनि पूर्ववत्।
प्राचीनकुण्डे जुहुयात् सर्पिरादि गुरूत्तमः।। 11.44 ।।
प्रक्षालयेद् वृक्षमूलं वाससा छादयेद्रमे।
सदर्भेण स्मरन् मूलं प्रादक्षिण्येन (14)गुरूत्तमः।। 11.45 ।।
(14.ग्र. वै गुरुः।)
मूर्तिभिश्च द्वादशभिर्मत्स्यादिभिरनुक्रमात्।
व्याहृतीभिस्ततः पश्चादुपतिष्ठेन्महीरुहम्।। 11.46 ।।
कर्मणा पूर्ववृत्तेन स्थावरत्वमुपागतः।
वृणोभि विष्णोर्बिम्बार्थं तव मोक्षाय वै द्रुम।। 11.47 ।।
स्थावरत्वादितो गच्छ दिव्यं रूपमनुत्तमम्।
प्राप्य योगांश्च विपुलान् वासुदेवप्रसादतः।। 11.48 ।।
अनुभूय ततो मोक्षं याहि सूरिनिषेवितम्।
इत्युपस्थाय मन्त्रेण रक्षासूत्रं तु बन्धयेत्।। 11.49 ।।
अनुक्तमन्यत्कर्तव्यं शिलासंग्रहवन्निशि।
प्रभाते देशिकः स्नात्वा मुहूर्ते शोभने शुचिः।। 11.50 ।।
छिन्द्याद् वृक्षं कुठारेण प्राङ्मुखः पुरुषात्मना।
रथकारस्ततो वृक्षं छेदयेद् गुर्वनुज्ञया।। 11.51 ।।
प्राच्यामुदीच्यां पतितस्तरुरभ्युदयावहः।
कुर्याद् बिम्बं प्रकाण्डेन शाखयाप्यनुरूपया।। 11.52 ।।
कुम्भोदकेन तं सिञ्चेद् ध्यात्वा तत्र स्थितं हरिम्।
मूलमन्त्रेण परितः सिञ्चेत् करकवारिणा।। 11.53 ।।
देवालयं तरुं नीत्वा धाममानानुसारतः।
आलये चाधिवासादि स्थापयित्वा द्रुमं भुवि।। 11.54 ।।
कुर्याद् बहिर्वने यद्वा सर्वं तद्वद्यथाविधि।
बिम्बमत्यद्भुताकारं शिलया (वा)द्रुमेण वा।। 11.55 ।।
कारयेत् संस्कृतेनैव त्वन्यथानर्थमाप्नुयात्।
कुर्याद्यतोक्तविधिना कृतं मोक्षाय वै भवेत्।। 11.56 ।।

।। इति श्रीश्रीप्रश्नसंहितायां एकादशोऽध्यायः ।।