प्रश्नसंहिता/अध्यायः २
← अध्यायः १ | प्रश्नसंहिता अध्यायः २ [[लेखकः :|]] |
अध्यायः ३ → |
।। द्वितीयोऽध्यायः ।।
श्रीरुवाच-
जगत्कारण पद्माक्ष शङ्खचक्रगदाधर।
ब्रह्मरुद्रादिदेवेड्यः सृष्टिस्थित्यन्त(1)कारक।। 2.1 ।।
(1.ग्र. कारण।)
अनादिमध्यनिधन भक्तवत्सल निर्गुण।
पृच्छामि संशयं किंचित् तन्मे व्याख्यातुमर्हसि।। 2.2 ।।
कर्माणि जन्तून् विश्वेश न त्यजन्ति कदाचन।
जन्तवोऽपि च कर्माणि प्रकृतिं प्राप्य नित्यशः।। 2.3 ।।
माया तु प्रकृतिर्नाम त्वया सृष्टा जगत्पते।
ब्रह्मादिप्राणिनः सर्वे विचित्रगतिमैश्वरीम्।। 2.4 ।।
मायां प्राप्य बहून् क्लेशान् सुखमित्यामनन्ति हि।
माययापहृततज्ञानाः सुखदुःखविभेदनम्।। 2.5 ।।
न जानन्ति जगत्स्वामिंस्त्वन्माया हीदृशी किल।
विद्यया तपसा वापि वेदाध्ययनतोऽपि वा।। 2.6 ।।
धर्मशास्त्रादिपाठेन पुराणपठनेन वा।
यज्ञादिकर्मभिर्वापि नित्यकर्मादिभिर्हरे।। 2.7 ।।
मायां त्वदीयां जित्वा यः कश्चिन्नो (2)मोक्षमेष्यति।
परिवृत्तावनेकानां युगानामपि वल्लभ।। 2.8 ।।
(2.ग्र. मोक्षमाप्नुयात्।)
कश्चित् प्राणी समायाति मायया मोहितेषु वै।
ज्ञातो भवद्भिस्तद्धेतुर्न जाने भगवन्नहम्।। 2.9 ।।
विना भवन्तं क्षणिकं न याम्यन्यत्र पूरुष।
तथापि न मया ज्ञातं मोक्षदं वेदशास्त्रकम्।। 2.10 ।।
कार्यं वापि समुद्धिष्टं भवता न प्रकाशितम्।
न रहस्यं यदि भवेद् भक्ताया मम वत्सल।। 2.11 ।।
सर्वलोकहितार्थाय (3)दयासिन्धो जगत्पते।
उपादिश जगत्स्वामिन् (4)अमी मुक्तिमवाप्नुयुः।। 2.12 ।।
(3.ग्र. मम च प्रीतये भवान्।)
(4.ग्र. तेन)
भगवानुवाच-
पद्मे त्वत्तोऽपि मे गोप्यं त्रैलोक्ये नास्ति वल्लभे।
अवतारादिषु मया सह तिष्ठसि सुव्रते।। 2.13 ।।
इत्थं स्थिते मया गोप्यं (5)किं वास्ति जगदीश्वरि।
सर्वज्ञा ह्यसि मां देवि त्वमज्ञेव मम प्रिये।। 2.14 ।।
(5.ग्र. त्रैलोक्ये नास्ति वल्लभे)
लोकस्य हितमिच्छन्ती मां पृच्छसि वरानने।
लोकमातुरयं प्रश्नस्तवैवौपयिकं हि सः।। 2.15 ।।
आदितो देवी वक्ष्यामि ब्रह्मादीनामहं पुरा।
नोपादिशं मुक्तिशास्त्रं जगतो वृद्धये रमे।। 2.16 ।।
ब्रह्मकल्पे पुरा प्राप्ते सर्वं सलिलमावृतम्।
योगलक्ष्मीस्वरूपेण (6)श्रीवत्सेऽन्तर्हिता ह्यसि।। 2.17 ।।
(6.ग्र. श्रीवत्सा)
तमसा सर्वलोकेषु व्याप्तेषु सचराचरम्।
लोकं मदुदरं प्राप्य स्थितं ब्रह्मसमन्वितम्।। 2.18 ।।
तदा बालं समास्थाय रूपं जलनिधावपि।
वटपत्रे शयानोऽहं तं कालमनयं रमे।। 2.19 ।।
ब्रह्मरतात्र्यां व्यतीतायां मत्संकल्पादयं प्रिये।
मन्नाभिकमलोद्भूतो ब्रह्मा लोकपितामहः।। 2.20 ।।
कर्णिकायां क्वचित्कालं तिष्ठन्नन्तर्हितं जले।
अजानंश्चिन्तयन्नेव कंचित्कालमवस्थितः।। 2.21 ।।
ततस्तस्य मतिर्जाता पङ्कजोपर्यहं स्थितः।
पङ्कजस्य क्वचिद्बन्धमन्तरा (न)स्थितिर्भवेत्।। 2.22 ।।
कस्मिन् बद्धः पङ्कजोऽयं तं ज्ञास्यामीति निश्चितः।
पद्मस्य नालरन्ध्रेण गन्तुमन्तरभित्वरन्।। 2.23 ।।
मार्गमन्विष्यमाणस्य नादान्मार्गं तदा ह्यहम्।
चिन्तामास्थाय स विधिस्तप आतिष्ठदव्ययम्।। 2.24 ।।
ततो वर्षसहस्रान्ते हंसरूपं समाश्रितः।
स्थित्वाकाशे त्रयीरूपं कर्मकाण्डमयं शुभम्।। 2.25 ।।
जगत्सृष्टेरादिकन्दमुपादिक्षं विधेः पुरा।
ततः संतुष्टहृदयस्त्रयीं कर्मप्रवर्तिनीम्।। 2.26 ।।
प्राप्य ब्रह्मा तदा मां तु मानसैरर्चयत्सुमैः।
अनुज्ञया मम विधिः सत्यलोकमुपेयिवान्।। 2.27 ।।
मरीच्यादीन् पुरा सृष्ट्वा तेभ्यो वेदानुपादिशत्।
तेऽपि प्राप्य त्रयीं तद्वदसृजन् प्राणिनो बहून्।। 2.28 ।।
स्थावराणि च सर्वाणि वृक्षगुल्मलता रमे।
इत्थं सृष्ट्वा कर्मकाण्डमधीयानाश्च नित्यशः।। 2.29 ।।
कुर्वाणाः कर्मणो भेदांस्तेषु तृप्ताश्च देवताः।
प्रावर्तयंश्च भूलोके कर्मकाण्डाननेकधा।। 2.30 ।।
धर्मार्थकामरूपाणामर्थानामुपदेशतः।
मानवास्तेषु विश्वासमनुप्राप्ताः सुमध्यमे।। 2.31 ।।
निवृत्तिशास्त्रमपरं वेदं वापि तदर्थकम्।
नापृच्छन्मां विधिमुखा नावोचंश्चाप्यहं रमे।। 2.32 ।।
संवत्सरं तदर्धं वा गुरुशुश्रूषया ततः।
सच्छिष्यायोपदेष्टव्यमिति शास्त्रेषु वर्तते।। 2.33 ।।
तद्विधिं समतिक्रम्य रहस्यं शास्त्रमुत्तमम्।
पद्ममालिनि नावोचं वेदं तद्बोधकं च तम्।। 2.34 ।।
श्रीः-
नमामि गुण्डरीकाक्ष जगदादे दयानिधे।
तव शक्तिर्विचित्रा हि गुणमायाविमोहिता।। 2.35 ।।
कथं ज्ञातुं प्रवर्तन्ते तच्छास्त्रं वा तदर्थकम्।
वेदं वापि महोदारसंसारपतिता इमे।। 2.36 ।।
मयि प्रीतिस्तव यदि वेदं तच्छास्त्रमादितः।
उपादिश हरे सर्वं लोकानुग्रहकाम्यया।। 2.37 ।।
भगवान्-
वेदमेकायनं नाम वेदानां शिरसि स्थितम्।
तदर्थकं पाञ्चरात्रं मोक्षदं तत्क्रियावताम्।। 2.38 ।।
यस्मिन्नेको मोक्षमार्गः वेदे प्रोक्तः सनातनः।
मदाराधनरूपेण तस्मादेकायनं भवेत्।। 2.39 ।।
रात्रिरज्ञानमित्युक्तं पञ्चेत्यज्ञाननाशकम्।
तच्छास्त्रं पञ्चरात्रं स्यादन्वर्थस्यानुरोधतः।। 2.40 ।।
सार्धकोटिप्रमाणेनानुष्टुभा छन्दसा रमे।
वेदवन्नित्यमेतच्च मल्लोके नित्यसूरयः।। 2.41 ।।
आमनन्ति सदा भक्त्या मनसा पूजयन्ति च।
अन्तरैतद्वेदशास्त्रज्ञानं मोक्षप्रदं न हि।। 2.42 ।।
यस्मिन् ज्ञानेन सहितं (7)योगश्चापि विशेषतः।
आलयानां च निर्माणं बिम्बनिर्माणमेव च।। 2.43 ।।
(7.ग्र. योगं चापि)
एतेषां लक्षणं चापि सविशेषमुदाहृतम्।
प्रतिष्ठा चाग्निकार्यं च प्रायश्चित्तमशेषतः।। 2.44 ।।
पूजकानां च दीक्षा च सिद्धान्ताः समुदीरिताः।
मद्यागा विविधाः प्रोक्ता उत्सवा बहुभेदवत्।। 2.45 ।।
मन्त्रोद्धारादिकार्याणि बहून्यस्मिन् स्थितानि हि।
श्रीः-
कथं महति शाश्त्रेऽस्मिन् संसारे पतिता जनाः।। 2.46 ।।
प्रवर्तन्ते देवदेव ज्ञानं वापि कथं भवेत्।
श्रद्धा वापि कथं तेषां संसारेषु निमज्जताम्।। 2.47 ।।
वासनाविवशाः केचिज्जगदाहुरनीश्वरम्।
नित्यं शरीरं केचिच्च संसृतेर्नास्ति सौख्यदम्।। 2.48 ।।
एवं बहुविधा भेदा जन्तूनां मतयोऽन्यथा।
भ्रमन्ति तन्निवृत्तिस्तु कथं स्याज्जगतीपते।। 2.49 ।।
महान्तो ह्युपदेष्टारो न सन्ति जगतीतले।
उपदिष्टं न गृह्णन्ति जनाः कामविमोहिताः।। 2.50 ।।
तथापि कृपया मेऽद्य शास्त्रं संगृह्य सारवत्।
आदाय सात्त्विकं भागं पञ्चरात्रमुपादिश।। 2.51 ।।
भगवानु-
त्वयोक्तमुचितं देवि विधिप्रभृतिदेवताः।
भ्रमन्ते संसृतिं प्राप्य किं पुनर्मनुजा भुवि।। 2.52 ।।
त्वयाहं प्रार्थितो देवि पीयूषमुदधेर्यथा।
सात्त्विकं भागमुद्धृत्य लोकस्य हितकाम्यया।। 2.53 ।।
वदामि कमले तुभ्यं शृणु लोकहितंकरि।
मन्मूर्तयः पञ्चविधा वदन्त्युपनिषत्सु च।। 2.54 ।।
परव्यूहो हार्द इति विभवोऽर्चेति भेदतः।
वैकुण्ठेऽस्मिन् (8)परव्यूहो सदा पश्यन्ति सूरयः।। 2.55 ।।
(8.परव्यूहौ इति साधु।)
योगतत्त्वेन मुनयः सदा मां ध्यानगोचरम्।
पश्यन्ति देवि हृन्मध्ये तस्मान्मां हार्द उच्यते।। 2.56 ।।
अवतारेषु तत्काले पश्यन्तोऽपि जना भुवि।
अवजानन्ति मुनयो जानन्ति ज्ञानिनो रमे।। 2.57 ।।
।। इति श्रीश्रीप्रश्नसंहितायां द्वितीयोऽध्यायः ।।