← अध्यायः ३० प्रश्नसंहिता
अध्यायः ३१
[[लेखकः :|]]
अध्यायः ३२ →
प्रश्नसंहितायाः अध्यायाः

।। एकत्रिंशोऽध्यायः ।।

अथोत्सवारम्भदिनात् पूर्वस्मिन्नवमेऽहनि।
षष्ठे वा स्यात्तृतीय वा पूर्वस्मिन् दिवसेऽपि वा।। 31.1 ।।
रजन्यामेव कुर्वीत बीजावापं गुरूत्तमः।
अङ्कुरार्पणकार्मार्थं मृत्संग्रहणमाचरेत्।। 31.2 ।।
मृत्संग्रहदिने प्रातः ऋत्विग्भिः सह देशिकः।
(1) महोत्सवस्य दीक्षार्थं स्नायाद्वपनपूर्वकम्।। 31.3 ।।
(1.[ई.अ.10] स्नायाद्वपनपूर्वं तु भगवद्यागसिद्धये।)
शुद्धवस्तत्रैर्यज्ञसूत्रैरूर्ध्वपुण्ड्रैरलंकृतः।
कटकाङ्गदकेयूरैर्गन्धमाल्यैरलंकृतः।। 31.4 ।।
भगवद्गेहमासाद्य नित्यपूजामुपक्रमन्।
चण्डादिद्वारपालांश्च भक्तबिम्बांश्च वै गुरुः।। 31.5 ।।
आलयाश्रितमूर्तीश्च (2)साधकैः पूजयेत्ततः।
स्वर्णादिपात्रे ताम्बूलनालिकेराक्षतादिकान्।। 31.6 ।।
(2.ग्र. साधकेन च पूजयेत्।)
आदाय विष्वक्सेनस्य संनिधिं प्राप्य देशिकः।
(3)संपूज्य विष्वक्सेनं तं प्रार्थयेन्मृद्‌ग्रहाय च।। 31.7 ।।
(3.[ई.अ.10] विष्वक्‌सेनं समभ्यर्च्य यागविघ्नप्रशान्तये।)
देव सूत्रवतीनाथ सर्वदेवनमस्कृत।
उपक्रान्तो मया ह्यद्य वासुदेवमहोत्सवः।। 31.8 ।।
वनिर्विघ्नसिद्धये तस्य वासुदेवाभ्यनुज्ञया।
सेनाधिप भवानद्य मृत्संग्रहणकर्मणि।। 31.9 ।।
आगच्छतु हरेर्धाम ह्नुज्ञार्थं जगद्गुरोः।
इति विज्ञाप्य सेनान्यं यानमारोप्य देशिकः।। 31.10 ।।
सुमुहूर्ते गर्भगेहं गत्वा देवस्य संनिधौ।
स्थापयित्वा फलादीनि नमस्कृत्य यथाविधि।। 31.11 ।।
ततो गुरुवरः सर्वान् वैष्णवान् पाञ्चरात्रिकान्।
यतीन् वेदविदो विप्रान् ज्ञानिनो ब्रह्मवादिनः।। 31.12 ।।
महान्तो देवदेवस्य समारब्धो महोत्सवः।
निर्विघ्नेन समाप्त्यर्थं यावत्तीर्थावसानकम्।। 31.13 ।।
कर्मकाले मया यूयं स्थित्वा यागमतन्द्रिताः।
समाप्य यज्ञकार्याणि प्राप्यानुज्ञां ततो हरेः।। 31.14 ।।
गन्तुमर्हसि सर्वज्ञा गृह्णीत प्रार्थनां मम।
इत्यभ्यर्थ्य ततस्तेभ्यः अनुज्ञां प्रतिगृह्य च।। 31.15 ।।
(4)ततः स्वदेहशुद्ध्यर्थमृत्विक्साधकशुद्धये।
पूजोपकरणानां च पुण्याहं वाचयेद्रमे।। 31.16 ।।
(4.[इ.अ.10] पश्चात् स्वदेहशुद्ध्यर्थं पुण्याहं वाचयेद् गुरुः।)
तज्जलैरात्मनः शुद्धिमन्येषामपि (5)कारयेत्।
स्वयं द्रव्याणि सर्वाणि प्रोक्षयेत्पूजयेद्धरिम्।। 31.17 ।।
(5.ग्र. शोधयेत्।)
निवेद्य फलताम्बूलं नीराजनमथाचरेत्।
नमस्कृत्य ततो भूमौ कृताञ्जलिपुटो गुरुः।। 31.18 ।।
अतृप्तामृतलोकेश पूर्णकाम रमापते।
उत्सवोऽयं मयारब्धो बालिशेन हरे तव।। 31.19 ।।
तत्पूर्तये रमाध्यक्ष सेनेशं संदिश प्रभो।
इत्यनुज्ञां हरेः प्राप्य सेनेशं प्रार्थयेत्ततः।। 31.20 ।।
यज्ञसंरक्षणार्थाय हरिणा ज्ञापितो भवान्।
मृत्संग्रहणमारभ्य ह्युत्सवावभृथावधि।। 31.21 ।।
सेनापते मया सार्धं सर्वकार्याणि साधय।
आगच्छ मृदमानेमुत्सवाङ्कुरकर्मणे।। 31.22 ।।
इति संप्रार्थ्य विघ्नेशं मालां भगवतो गुरुः।
विष्वक्सेनस्य शिरसि पादुकामपि धारयेत्।। 31.23 ।।
सर्वोपकरणैः सार्धं सर्ववादित्रनिःस्वनैः।
ऋगादिवेदघोषैश्च प्राचीं सोमस्य वा दिशम्।। 31.24 ।।
विष्वक्सेनं प्रापयित्वा प्रपायां तत्र वै रमे।
पुण्याहवारिणा प्रोक्ष्य स्थापयेत्सैन्यनायकम्।। 31.25 ।।
पुरतस्तस्य वै भूमावीशाने न्यस्तमौलिकाम्।
नेर्ऋते न्यस्तपादान्तामूर्ध्ववक्त्रां कृताञ्जलिम्।। 31.26 ।।
एवं विलिख्य वसुधां धान्यपीठं ततो गुरुः।
शिरः प्रदेशे तस्यास्तु दक्षिणे वा प्रकल्पयेत्।। 31.27 ।।
शुद्धं खनित्रं तस्मिंस्तु दर्भाद्यैः समलंकृतम्।
स्थापयित्वा परिस्तीर्य धान्यपीठं भुवं तथा।। 31.28 ।।
वस्त्रादिभिरलंकृत्य भूषणैश्चापि भूषयेत्।
सप्तदर्भकृतं कूर्चं तालमानसमन्वितम्।। 31.29 ।।
धराया हृदि विन्यस्य खनित्रेऽपि च कूर्चकम्।
पुण्याहवारिणा प्रोक्ष्य भूमिर्भूम्नोति मन्त्रतः।। 31.30 ।।
अभिन्त्र्य ततस्तस्याः खनित्रस्य च वै गुरुः।
पीठं प्रकल्पयेद्देवि प्रार्थयेत्तत्र वै धराम्।। 31.31 ।।
वासुदेवप्रिये देवि तन्महोत्सवसिद्धये।
मृत्स्नायां संनिधत्स्वात्र तदुत्सवहिते शुभे।। 31.32 ।।
इत्यावाह्यार्घ्यपाद्याद्यैरभ्यर्च्य तदनन्तरम्।
क्रोडावतारभूम्याप्तहिरण्याक्षवधोद्यत।। 31.33 ।।
उत्सवार्थं भगवतो मृत्संग्रहणकर्मणि।
संनिधत्स्वाचिराद्देव लोकानां क्षेमहेतवे।। 31.34 ।।
इत्यावाह्यार्घ्यपाद्याद्यैरर्चयेत् क्रोडरूपिणम्।
माषापूपं निवेद्याथ तयोर्नीराजनं चरेत्।। 31.35 ।।
गुरुः खनित्रमादाय गायत्रीं क्रोडरूपिणः।
उच्चरन् वसुधायास्तु मुखबाहुस्तनाङ्घ्रिषु।। 31.36 ।।
खनित्रान्मृदमादाय गायत्र्या विष्णुपूर्वया।
(6)लोहजे वेत्रजे वाथ निक्षिपेत् तां मृदं रमे।। 31.37 ।।
(6.[ई.अ.10] लोहजे भाजने मृस्नां वेत्रजे वा यथारुचि।)
वालुकां गोकरीषं च तस्मात् संपादयेद(7)गुरुः।
पात्रत्रयं नूतनेन वस्त्रेण पिदधात् पृथक्।। 31.38 ।।
(7.ग्र. रमे।)
(8)स्यन्दने वा गजस्कन्धे परिचारकमूर्धनि।
निधाय स च वाद्यानां वेदानां ध्वनिभिर्युतः।। 31.39 ।।
([ई.अ.10] यानादिके समारोप्य यद्वा दीक्षितमूर्धनि।)
(9)धाम प्रदक्षिणीकृत्य नयेन्मण्डपमब्जजे।
तां मृदं मण्डपे न्यस्य वीथीः सर्वाः परिक्रियात्।। 31.40 ।।
(9.गत्वा प्रदक्षिणं ग्रामं प्रविशेन्मण्डपं ततः।)
नियोजयेत् कर्मकारान् शुद्धीकर्तुं च वीथिकाः।
ते नु निम्नोन्नताः पद्याः समीकृत्य च पांसुभिः।। 31.41 ।।
शोधयेद्गोमयाम्भोभिर्गन्धयेद् गन्धवारिणा।
चन्दनागरुधूपैश्च धूपयेत् सर्ववीथिकाः।। 31.42 ।।
प्रपायां सर्वतो भद्रे वितानाद्यैरलंक्रियात्।
विविधैश्चित्रितैर्वस्त्रैर्मालाभिश्चापि वन्दनैः।। 31.43 ।।
दीपस्तम्भान् सदीपांश्च सर्वतः स्थापयेत्ततः।
शोभार्थं सर्ववीथीषु पार्श्वयोरुभयोरपि।। 31.44 ।।
पात्रेषु पालिकाः(:)स्थाप्याः प्रतिस्तम्भं च वै रमे।
रम्भास्तम्भान् फलैर्युक्तान् वस्त्रमाल्यैश्च वेष्टितान्।। 31.45 ।।
नालिकेराणि पूगीनि फलानि पनसान्यपि।
लम्बयेन्मण्डपस्योत्ध्वे पानीयानि च दापयेत्।। 31.46 ।।
वीथिकासु च सर्वासु तथा सद्मसु सर्वतः।
गोपुराणां च कुम्भेषु मण्डपेषु पताकिकाः।। 31.47 ।।
बन्धयेच्चित्रवर्णाश्च पक्षिराजविचित्रिताः।
देशाद्देशादागतानां मद्भक्तानां वरानने।। 31.48 ।।
तृतीयावरणे वापि चतुर्थावरणेऽपि वा।
शयनार्थं भोजनाय पानीयार्थं सुखार्थकम्।। 31.49 ।।
पचनार्थं च विविधाः शालाः स्युः सुमनोहराः।
वैद्यशालाश्च कर्तव्याः समर्थैः सचिकित्सकैः।। 31.50 ।।
यजमानः प्रतिदिनं पश्यन् सर्वांश्च तोषयेत्।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 31.51 ।।
विस्तारं तु द्वादशभिरायामं दशभिः करैः।
सप्तभिर्वा पालिकानां मण्डपं परिकल्पयेत्।। 31.52 ।।
चतुर्दिक्षु चतुर्द्वारं गवाक्षैः समलंकृतम्।
तन्मध्ये पालिकादीनां स्थापने वीथिवर्जिता।। 31.53 ।।
हस्तोन्नता वेदिभूमिः शोधयेत्पुण्यवारिणा।
पञ्चगव्यैश्च तदनु सुधाचूर्णैरलंक्रियात्।। 31.54 ।।
वेदिकासु च सर्वासु व्रीहिभिः स्थण्डिलानि च।
पद्मानि विलिखेत्तेषु मन्त्रोच्चारणपूर्वकम्।। 31.55 ।।
पालिका घटिकाश्चैव शरावाः स्थापयेत् गुरुः।
प्रतीच्यां सोमकुम्भं च करकं चापि वै रमे।। 31.56 ।।
सोमकुम्भस्य परितः उपकुम्भाष्टकं न्यसेत्।
द्वारतोरणकुम्भादीनर्घ्याद्यैः पूजयेत् पुरा।। 31.57 ।।
पालिकादिषु सर्वासु सोमकुम्भे तथैव च।
उपकुम्भेषु पद्मानं पीठमाकल्प्य चाक्षतैः।। 31.58 ।।
संकर्षणांशजं विष्णुं पूजयेत् पालिकासु (10)वै।
अनिरुद्धांशसंभूतं ब्रह्माणं घटिकासु च।। 31.59 ।।
(10.ग्र. च।)
प्रद्युम्नांशजं शर्वं शरावेषु च वै स्मरेत्।
प्रद्युम्नांशात्समुद्भूतं सोमकुम्भे निशाकरम्।। 31.60 ।।
इन्द्रादीनुपकुम्भेषु पूजयेत् कमलासने।
एतेषां रक्षणार्थाय करके च सुदर्शनम्।। 31.61 ।।
नीवारिदिषु धान्येषु केशवादीन् समर्चयेत्।
सर्वार्थपालिकानां तु क्रमात् (11)षोड(श)के गुरुः।। 31.62 ।।
(11.ग्र. षोडशके)
वासुदेवादि चतुरो दाश द्वौ केशवादिकान्।
विष्ण्वादीनष्टके देवि जनार्दनपुरोगमान्।। 31.63 ।।
पूजनं चतुर्षु प्रोक्तं पायसान्नं निवेदयेत्।
प्रत्येकं नववस्त्रेण पिधाय च गुरूत्तमः।। 31.64 ।।
घटिकानां पूर्वभागे कुण्डे वा स्थण्डिलेऽपि वा।
पीठमाकल्प्य (12)पाद्यान्तं लक्ष्मीशं तत्र पूजयेत्।। 31.65 ।।
(12.ग्र. पद्मान्तं)
भगवन् पुण्डरीकाक्ष यात्रोत्सवनिमित्ततः।
ध्वजार्थाङ्कुरसिद्ध्यर्थमग्निमुत्पादयामि भोः।। 31.66 ।।
इति विज्ञाप्य तत्राग्निमुत्पाद्य जुहुयात्ततः।
भगवन्तं ततः सोमं हुत्वा देशिकसत्तमः।। 31.67 ।।
बीजावापं ततः कुर्यात् संपाताज्यं च निक्षिपेत्।
उत्सवार्थं यागगेहं द्वितीयावरणादिषु।। 31.68 ।।
अवकाशो यत्र वा स्यात्तत्र स्थानं प्रकल्पयेत्।
तन्मण्डपस्य विस्तारमायामं वेदिकल्पनम्।। 31.69 ।।
कुण्डानि शृणु मानेन वदामि कमलेक्षणे।
चतुर्दशकरैर्मानैर्विस्तारायामसंमिताम्।। 31.70 ।।
पञ्चहस्तसमां वेदिं हस्तोच्छ्रायां तु मध्यतः।
कुर्यात् समेखलां तस्याः परितः कुण्डकल्पनम्।। 31.71 ।।
चतुरश्रं पौरुहूत्यां दक्षिणस्यां धनु रमे।
चक्रकुण्डं तु वारुण्यां चान्द्रमस्यां त्रिकोणकम्।। 31.72 ।।
इत्थं (13)कुण्डानि शिल्पज्ञैः कल्पयित्वा ततः परम्।
यागोपकरणार्थं च हस्तद्वयसमायताम्।। 31.73 ।।
(13.ग्र. कुण्डान् लक्षणोक्तान्)
वेदिं प्रकल्पयेद् धीमान् वह्निकोणेऽथ नैर्ऋते।
यागबिम्बस्थापनाय वायव्ये मण्डलाय च।। 31.74 ।।
ईशकोणे पालिकादिस्थापने कल्पयेच्च ताम्।
एककुण्डविधाने तु वेद्याः प्राचीनभूतले।। 31.75 ।।
चतुरश्रं भवेत् कुण्डं पात्रवेदिं तु दक्षिणे।
प्रतीच्यां मखबिम्बस्य कौबेर्यां मण्डलस्य च।। 31.76 ।।
ऐशान्यां पालिकार्थाय कल्पयेद् वेदिकां गुरुः।
शिलादिमण्डपे देवि यदि कुण्डानि कल्पयेत्।। 31.77 ।।
यथायोगं प्रकुर्वीत निम्नमन्तस्तु तत्र वै।
एवं वेदीश्च कुण्डानि शास्त्रोक्तेनैव वर्त्मना।। 31.78 ।।
ततो देवालयं सर्वं सलिलैः शोधयेत् पुरा।
सुधालेपध्वजोच्छ्रायांस्तोरणान् दर्भमालिकाः।। 31.79 ।।
कुर्यात् सर्वत्र सत्कारान् कदलीस्तम्भसंयुतान्।
अलंकृतासु वीथीषु प्रसादे च तथा कृते।। 31.80 ।।
ततो यात्रोपकरणैर्यानमारोप्य सेनपम्।
वादित्रवेदघोषैश्च प्रादक्षिण्येन वै गुरुः।। 31.81 ।।
वीथीः प्रदर्शयेत्तस्मै प्रासादं चापि सर्वतः।
अर्घ्यादिभिस्ततोऽभ्यर्च्य निनयेत्तस्य तं गृहम्।। 31.82 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (14)महोत्सवे कर्मणि एकत्रिंशोऽध्यायः ।।
(14.महोत्सवे द्वात्रिंशोऽध्यायः इति ग्र. पुस्तके।)