← अध्यायः ४१ प्रश्नसंहिता
अध्यायः ४२
[[लेखकः :|]]
अध्यायः ४३ →
प्रश्नसंहितायाः अध्यायाः

।। द्विचत्वारिंशोऽध्यायः ।।

प्रत्यब्दं कटके मासि ह्यष्टादशदिने रमे।
गङ्गोत्पत्त्युत्सवं कुर्याद् राजराष्ट्राभिवृद्धये।। 42.1 ।।
महाबलेर्यज्ञमध्ये देवानां हितकाम्यया।
वामनं रूपमास्थाय पदत्रयमयाचयम्।। 42.2 ।।
मह्यं तुष्टो बलिः प्रादात्ततो वर्धितुमारभे।
पादेनैकेन वसुधां द्वितीयेन विधेः पदम्।। 42.3 ।।
अतीत्याभिनदं भित्तिमण्डस्य महतो बिलात्।
अन्तः प्रविष्टं सलिलं नदीरूपेण चासरत्।। 42.4 ।।
तां गङ्गेति ततो ब्रह्मा मत्पादसलिलं ब्रुवन्।
मत्पादं तां च गन्धाद्यैरपूजयदधोगताम्।। 42.5 ।।
कैलासशिखरं प्राप्तां गङ्गां तां पार्वतीपतिः।
मत्पादादुद्भवां ज्ञात्वा पूजयित्वा यथाविधि।। 42.6 ।।
शिरसाधारयच्चैनां स्वस्य पापापनुत्तये।
व्यसर्जयत् ततो भूमौ सप्तधा प्राविशत्तदा।। 42.7 ।।
गङ्गा गोदावरी चैव यमुना च सरस्वती।
नर्मदासिन्धुकावेरीत्येवं नामानि बिभ्रति।। 42.8 ।।
तदा प्रभृति देवाश्च मुनयो ब्राह्मणास्तथा।
सप्ताकृतिं पूजयन्ति तद्दिने भक्तितः शुभाम्।। 42.9 ।।
अतः सः उत्सवः कार्यस्तद्विधानं वदामि ते।
अष्टादशदिने देवि सायाह्ने प्रार्थयेद् गुरुः।। 42.10 ।।
पुण्यतीर्थपदाम्भोज त्रिविक्रम जगद्धित।
नदीनां शुद्धये देव बिम्बेऽस्मिन् संनिधिं कुरु।। 42.11 ।।
इति विज्ञाप्य चावाह्य यानेऽलंकारमाचरेत्।
नदीतीरं प्रापयित्वा तत्रस्थे सिंहविष्टरे।। 42.12 ।।
स्थापयन्नर्घ्यपाद्याद्यैरर्चयेद् देवमच्युतम्।
देवस्य तु पुरोभागे धान्यपीठं प्रकल्पयेत्।। 42.13 ।।
नवान् कुम्भान् सकरकान् सर्वालंकारसंयुतान्।
पुण्याहवारिणा प्रोक्ष्य सलिलेन च पूरयेत्।। 42.14 ।।
मध्यकुम्भे योगपीठं ध्यात्वा गङ्गां समर्चयेत्।
विष्णुपादोद्भवे गङ्गे सर्वपापविनाशिनि।। 42.15 ।।
नदीनां शुद्धये देवि कुम्भेऽस्मिन् संनिधिं कुरु।
इति देवपदाम्भोजादावाह्यार्घ्यादिना यजेत्।। 42.16 ।।
इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।
आवाह्याभ्यर्च्य पूण्याहवारिणा प्रोक्ष्य भार्गवि।। 42.17 ।।
शुद्धां कृत्वा नदीं तस्यां कुम्भस्थां विष्णुपादजाम्।
गङ्गां संयोज्य संपूज्य वस्त्रपुष्पफलादिभिः।। 42.18 ।।
त्रिविक्रमपदाम्भोजादुत्पन्ने देवसेविते।
अस्यां नद्यां स्थितान् सर्वान् स्नातान् पापाद्विमोचय।। 42.19 ।।
इति संप्रार्थ्य चेन्द्रादीन् कुम्भादुद्वासयेद् गुरुः।
प्रासादं देवमानीय मूले शक्तिं नियोजयेत्।। 42.20 ।।
अष्टादशदिने ह्यस्मिन् उत्सवोऽयं मया कृतः।
अङ्गीकुरु जगन्नाथ भक्तस्य प्रियकाम्यया।। 42.21 ।।
इति विज्ञाप्य लक्ष्मीशं शय्यान्तं पूजयेद्रमे।
अथ लक्ष्मीः प्रवक्ष्यामि नित्यनैमित्तिकादिषु।। 42.22 ।।
प्राप्तेषु पूजालोपेषु ज्ञानतोऽज्ञानतोऽपि वा।
तस्य प्रतिनिधिः कार्यः पवित्रारोपसंज्ञिकः।। 42.23 ।।
(1)आषाढादौ कार्तिकान्तं सर्वदोषनिवारणम्।
पवित्रारोपणं विष्णोः प्रीतिदं मोक्षदं नृणाम्।। 42.24 ।।
(1.[ई.अ.14] आषढपञ्चदश्यास्तु यावद्वै कार्तिकस्य च।)
(2)पूर्वोदितेषु मासेषु शुक्लपक्षेऽमृतोद्भवे।
प्रथमायां तृतीयायां पञ्चम्यामथवा तिथौ।। 42.25 ।।
(2.पा. द्वादश्यामतियद्यदि।
        दशम्यां पूर्णमास्यां वा पंचम्यामथवा तिथौ।
        एकादश्यां त्रयोदश्यां द्वितीयायामथापि वा।)
एकादश्यां दशम्यां वा त्रयोदस्यामथापि वा।
द्वादश्यां पूर्णिमायां वा नक्षत्रे यमदैवते।। 42.26 ।।
रोहिण्यां पुष्यनक्षत्रे मृगशीर्षे मखेऽपि वा।
चित्रर्क्षे श्रवणे वापि (3)रेवत्यश्विनि तारके।। 42.27 ।।
(3.[ई.अ.14] कालं तं वैष्णवं विद्धि तूत्तमं सर्वसिद्धदम्।)
तत्तन्मासस्य नक्षत्रे पूर्णिमारहितेऽपि वा।
एतेष्वन्यतमे देवि निश्चित्यावभृथं गुरुः।। 42.28 ।।
कुर्यात् सर्वप्रयत्नेन तेषु कालेषु चोत्सवम्।
(4)स कालो वैष्णवो ज्ञेयः प्रायश्चित्तोत्सवस्य हि।। 42.29 ।।
(4.ग्र. रेवत्यामश्विनि)
(5)विनिर्मितं कुमार्या वा ब्राह्मण्या वृद्धयापि वा।
प्रथमाश्रमिणा वापि द्वितीयाश्रमिणापि वा।। 42.30 ।।
(5.विनिर्मितं कुमार्या वा वृद्धया वा विनीतया।)
(6)कृतं तन्तुसमूहं वाप्त्यथवा क्षौमपट्टजम्।
(7)यथा लब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।। 42.31 ।।
(6.क्षौमं वा पट्टजं वापि केशरोमादिवर्जितम्।)
(7.sl. 31 c.d. is same as sl. 94. a. b.)
आतपे शोषयेत्तन्तुसमूहं त्रिगुणीकृतम्।
हरिद्रया रञ्जयित्वा क्रिमिजं भूतवर्णकैः।। 42.32 ।।
तन्तुभिश्च समैः कुर्याद्धरेर्भूषणमब्जजे।
अष्टोत्तरसहस्रैर्वा तदर्धैरङ्घ्रिभिस्तु वा।। 42.33 ।।
आकण्ठात्पादपर्यन्तं यथेष्टग्रन्थिसंयुतम्।
पवित्रं वनमालेति विज्ञेयं प्राणवल्लभे।। 42.34 ।।
बीजपूरसमाकारमाम्रामलकशङ्खवत्।
मुक्तावद्बदरीवच्च ग्रन्थिभेदा वरानने।। 42.35 ।।
पञ्चवर्णसमायुक्तं पञ्चयष्टिसमन्वितम्।
पवित्रं चोत्तमं ज्ञेयं यष्टित्रयसमन्वितम्।। 42.36 ।।
पवित्रं मध्यमं प्रोक्तमधमं त्वेकयष्टिकम्।
वित्तानुसारात् त्रिष्वेकं कुर्याद् देशिकसत्तमः।। 42.37 ।।
जान्वन्तं वनमालेति नाभ्यन्तं कौस्तुभं स्मृतम्।
वक्षःस्थलान्तं श्रीवत्सं किरीटाख्यं शिरःस्थितम्।। 42.38 ।।
(8)देवीनां च श्रियादीनां पवित्रं पद्मसंज्ञिकम्।
पवित्रमन्यदेवानां सुदर्शनमितीरितम्।। 42.39 ।।
(8.पा. देवीनां च श्रियादीनां पवित्रं तद्वदिष्यते।)
द्वारतोरणकुम्भानां पवित्रं शङ्खसंज्ञिकम्।
कुण्डानां कुण्डमानं स्याद् वेदीनां तत्प्रमाणकम्।। 42.40 ।।
विमानपीठयानानां तत्तन्मानं पवित्रकम्।
प्रभाधूपादिपात्राणां व्यजनच्छत्रयोस्तथा।। 42.41 ।।
चामरणां च घण्टाया पादुकाध्वजदण्डयोः।
तत्तन्मानं पवित्रं स्यादेवमन्यस्य कारयेत्।। 42.42 ।।
(9)आचार्याणां यतीनां च द्विजातीनां सलक्षणम्।
पवित्रं नाभिपर्यन्तमन्येषां स्तनमात्रकम्।। 42.43 ।।
(9.पा. आचार्याणां यतीनां च पिवत्रं तन्तुभिः कृतम्।)
मानुषाणां पवित्रं तु चक्रमित्यभिधीयते।
पवित्रमित्थमाचार्यः कुर्याद्वा शिल्पिनापि वा।। 42.44 ।।
शास्त्रोक्तेन विधानेन कारयेत् तदनन्तरम्।
कल्पयेद्यज्ञसदनं द्वारतोरणसंयुतम्।। 42.45 ।।
चतुष्कुण्डसमायुक्तं कुण्डेनैकेन वा युतम्।
वेद्यादिभिः शोभमानं रम्भास्तम्भैरलंकृतम्।। 42.46 ।।
दर्भमालावितानाद्यैः शोभितं सर्वतो रमे।
एवं लक्षणसंयुक्तं मण्डपं देशिकोत्तमः।। 42.47 ।।
पुण्याहवारिणा प्रोक्ष्य पञ्चगव्येन वै ततः।
गन्धोदकेन संसिच्य धूपयेत् सर्वतो दिशम्।। 42.48 ।।
सुधाचूर्णैर्लंकृत्य सिद्धार्थान् विकिरेद् भुवि।
नवमे दिवसे वापि सप्तमे पञ्चमेऽपि वा।। 42.49 ।।
निश्चित्यावभृथं विष्णोः प्रायश्चित्तोत्सवं चरेत्।
उत्सवारम्भपूर्वेद्युराचार्यो मूर्तिपैः सह।। 42.50 ।।
भगवद्यागकर्माङ्गं स्नायाद्वपनपूर्वकम्।
शुद्धवस्त्राणि पुण्ड्राणि यज्ञसूत्राणि धारयेत्।। 42.51 ।।
श्व आरभ्य करिष्यामि पावित्रीं पूजनां हरेः।
[आगन्तव्यं भवद्भिश्च पञ्चकालपरायणैः]।। 42.52 ।।
एवमभ्यर्थ्य तेभ्यश्च ह्यनुज्ञां प्रितगृह्य च।
गुरुः सेनेशसहितो भगवन्मन्दिरं व्रजेत्।। 42.53 ।।
ताम्बूलफलपूगादिपटलं देवसंनिधौ।
निधायाभ्यर्च्य चार्घ्याद्यैः फलादीनि निवेदयेत्।। 42.54 ।।
नमस्कृत्य गुरुद्वेवं कृताञ्जलिपुटस्थितः।
ओमादिवेदमन्त्रात्मन् षाड्गुण्य पुरुषोत्तम।। 42.55 ।।
क्रियालोपस्य शमनं यत् त्वयाभिहितं विभो।
पवित्रारोपणं नाम तदद्य क्रियते मया।। 42.56 ।।
अनुज्ञां कुरु देवेश सेनेशस्य गदाधर।
विज्ञाप्यैवं हरिं जिष्णुमनुज्ञां प्रतिगृह्य च।। 42.57 ।।
ततः सूत्रवतीनाथं समभ्यर्च्य यथाविधि।
दर्भपुञ्जं समादाय सेनेशं प्रार्थयेद् गुरुः।। 42.58 ।।
सेनेश द्विपवक्त्रादिपरिचर्यपदद्वय।
पवित्राङ्कुरसिध्यर्थं देवेनाज्ञापितः किल।। 42.59 ।।
मृत्तिकां संगृहीतुं त्वं मयायाहि सवैष्णवैः।
एवं संबोध्य देवेशं हस्ते तर्भाणि धारयेत्।। 42.60 ।।
ततः सायाह्नसमये मृत्संग्रहणमाचरेत्।
निशायां पालिकादीनि पूजयेत् विधिवत्ततः।। 42.61 ।।
बिम्बयोग्यानि चैकस्मिन्नाग्नेयान्यपराण्यपि।
अन्यानि चक्रयोग्यानि मानुषाणि तथैव च।। 42.62 ।।
(10)पृथक्पृथक् च पात्रेषु स्थापयेत् कमलेक्षणे।
पात्राणि परिचाराणां हस्तेषु ग्राहयेत्ततः।। 42.63 ।।
(10.पात्रे पात्रे पृथक् स्थाप्य पात्रलाभानुरूपतः।)
वेदघोषैर्वाद्यघोषैश्चामरव्यजनादिभिः।
धाम प्रदक्षिणीकृत्य पवित्राण्यधिवासयेत्।। 42.64 ।।
(11)देवस्य पुरतो वापि हुताशनगृहेऽपि वा।
(12)शालीनां तण्डुलानां च तिलानां राशिमेव च।। 42.65 ।।
(11.सन्निधौ देवदेवस्य जागरेण नयेन्निशाम्‌।)
(12.शालिभिस्तण्डुलैर्वापि तिलैर्वा त्रितयेन वा।)
उपर्युपरि निक्षिप्य पात्राण्यस्मिन्निधाय च।
रोचनागरुकस्तूरिकुङ्कुमैर्गन्धवस्तुभिः।। 42.66 ।।
पात्रमापूर्य तस्मिंस्तु श्रियमावाह्य पूजयेत्।
गन्धवस्तूनि चादाय पवित्रेषु नियोजयेत्।। 42.67 ।।
नववस्त्रैः समाच्छाद्य करके च सुदर्शनम्।
आवाह्य पूजयेत्तस्मिन् रक्षणं तेन कारयेत्।। 42.68 ।।
तत्रैव साधकैः सार्धं जागरेण नयन्निशाम्।
प्रभाते स्नाननियमान् कृत्वाचार्यः प्रसन्नधीः।। 42.69 ।।
(13)प्रविश्य भगवद्गेहं कृत्वा नित्यार्चनं पुरा।
ततो मूलात् कर्मबिम्बे समावाह्याभिषेचयेत्।। 42.70 ।।
(13.प्रविश्य देवसदनं कृत्वा नित्यार्चनं विभोः।)
नववस्त्रादिभिर्देवं भूषणैरपि भूषयेत्।
यागशालां प्रविश्याथ वस्त्राण्युद्धाट्य देशिकः।। 42.71 ।।
पवित्रपात्राण्यादाय यतिभिर्वैष्णवैः सह।
धाम प्रदक्षिणीकृत्य स्थापयेद् देवसंनिधौ।। 42.72 ।।
पुण्याहवारिणा प्रोक्ष्य शुद्धयेच्छोषणादिभिः।
वद्धाञ्जलिस्ततो मूलमीश्वरं गुरुसत्तमः।। 42.73 ।।
निजानन्दमयैर्भोगैर्नित्यतृप्तस्त्वमच्युत।
जगद्धितावतीर्णस्य अर्चारूपस्य ते विभो।। 42.74 ।।
संवत्सरोपचाराणां पूरणार्थं जगद्‌गुरो।
मयाद्य क्रियते पूजा रक्षाबन्धपुरःसरम्।। 42.75 ।।
तद्‌गृहाण जगन्नाथ लोकस्य हितकाम्यया।
इति विज्ञाप्य देवेशं मूलबेरादिषु क्रमात्।। 42.76 ।।
सूक्ष्मेणैव पवित्रेण रक्षासूत्रं च बन्धयेत्।
शिरः पवित्रमादाय पात्रेऽन्यस्मिन् निधाय च।। 42.77 ।।
तत्र योगासनं ध्यात्वा पूजयित्वा यथाविधि।
मकुटाधिपते विष्णो वासुदेव दयानिधे।। 42.78 ।।
(14)परिवारयुतस्तिष्ठ त्वमस्मिन् शीर्षभूषणे।
इति मूलात्समावाह्य सैद्धादिषु च दिव्यतः।। 42.79 ।।
(14.[ई.अ.14] sl. 79a, b is the same as sl. 220-a. b.)
सालग्राण्णि च दिव्ये च स्वयंव्यक्ते मम प्रिये।
एतेषु नित्यं तिष्ठामि तस्माच्छ्रेष्ठतमा भुवि।। 42.80 ।।
सिद्धादिषु प्रतिष्ठायां पवित्रारोपणेऽपि च।
तेभ्य एव समावाह्य पूजयेद्देशिकोत्तमः।। 42.81 ।।
तस्मादावाह्य तन्मुद्रां प्रदर्श्यार्घ्यादिना यजेत्।
एवं सर्वपवित्राणां पूजां कुर्याद्यथाविधि।। 42.82 ।।
संप्रार्थयेत् पवित्रेषु श्रीवत्सादीन् यथाक्रमम्।
श्रीवत्साधिष्ठिते लक्ष्मीः शम्पाकोटिसमप्रभे।। 42.83 ।।
वक्षोभूषापवित्रेऽस्मिन् हरेः सांनिध्यमाचर।
जठरान्तं मधुरिपोः पवित्रं कल्पितं मया।। 42.84 ।।
कौस्तुभाधिपते भानो त्वमस्मिन् संनिधिं कुरु।
मुक्ताफलसमे सोम त्वमस्मिन् हारसंज्ञिके।। 42.85 ।।
पवित्रे संनिधिं प्राप्य भगवत्प्रीतिमावह।
तुलसि त्वं भगवतः प्रिये सर्वाङ्गशोभिनि।। 42.86 ।।
(15)पवित्रे वनमालायां संनिधत्स्व यथासुखम्।
श्रियादीनां पवित्रेषु पद्ममध्यस्तिते रमे।। 42.87 ।।
(15.[ई.अ. 14, पारमेश्वर. अ. 12.])
       वनमाले समागच्छ देवदेवप्रिये शुभे!।
सांनिध्यं कुरु लोकानां मङ्गलाय हरिप्रिये।
विमानपरिवाराणां देवानां भूषणेष्वपि।। 42.88 ।।
सुदर्शन सहस्रार सांनिध्यं कुरु सर्वदा।
द्वारतोरणकुम्भानां पवित्रेषु हरेः प्रिय।। 42.89 ।।
पाञ्चजन्य त्वमधुना संनिधत्स्व महास्वन।
मानुषाणां पवित्रेषु वज्री त्वं संनिधिं भज।। 42.90 ।।
एवं तत्तत्पवित्रेषु तत्तद्देवान् समर्चयेत्।
ततः पुष्पाञ्चलिधरः प्रार्थयेद्धरिमव्ययम्।। 42.91 ।।
संवत्सरोपचाराणां न्यूनाधिक्योपशान्तये।
पवित्राणि तवाङ्गेषु भूषयामि जगत्पते।। 42.92 ।।
क्रियमाणं मया देऽद्य पूजामपि रमापते।
श्रियादिभिर्गृहाण त्वं पावित्रीं भक्तवत्सल।। 42.93 ।।
इति संप्रार्थ्य देवस्य गायत्र्या विष्णुपूर्वया।
शिरःप्रभृति पादान्तं पवित्राणि तु धारयेत्।। 42.94 ।।
तथा कर्मादिबिम्बानां पवित्रैर्धारयेद् गुरुः।
एवं श्रियादिदेवीनां तत्तन्मन्त्रमुदीरयन्।। 42.95 ।।
पवित्रैर्भूषयेत्तासां सर्वाङ्गेषु शुचिस्मिते।
हरिद्रातन्तुभिश्चैव वेष्टयेद्गर्भमन्दिरम्।। 42.96 ।।
गर्भादिबलिपीठान्तं द्वारावरणसंस्थितान्।
पवित्रैर्भूषयेत्पश्चात् भक्तबेरांस्ततः परम्।। 42.97 ।।
कुम्भमण्डलकुण्डादीन् यागशालामलंक्रियात्।
पूजापात्राणि सर्वाणि तथा यानानि मण्डयेत्।। 42.98 ।।
[पूर्वमग्निं प्रतिष्ठाप्य द्वारपूजादि कारयेत्।]
कुम्भपूजां ततः कृत्वा चक्राब्जं पूजयेद् गुरुः।। 42.99 ।।
पश्चादग्नौ यजेद्देवं बिम्बस्य तदनन्तरम्।
चतुःस्थानेषु देवस्य पूजासंख्यामिमां शृणु।। 42.100 ।।
शतोत्तरसहस्रं वा सप्तत्युत्तरषट्‌शतम्।
अथवा पूजनं कुर्यात् षष्ट्युत्तरशतत्रयम्।। 42.101 ।।
विसृज्यावभृथदिनं यावदुत्सववासरम्।
तावद्दिनानां पूर्वोक्तपूजनं तु समं गुरुः।। 42.102 ।।
विभज्य कुर्यात् पूजां वै सांनिध्याधिकसिद्धये।
कुम्भमण्डलयोः प्रातर्मध्याह्ने हरिमर्चयेत्।। 42.103 ।।
रात्रावग्निषु पूजा स्याद्विभवे सत्ययं विधिः।
बिम्बमात्रस्य वा कुर्यात् षष्ट्युत्तरशतत्रयम्।। 42.104 ।।
अन्येषां कुम्भचक्राब्जवह्निस्थानं दिने दिने।
रात्रौ मध्यंदिने चैव कालयोः पूजनं चरेत्।। 42.105 ।।
यज्ञागारं समासाद्य कुम्भस्थापनमाचरेत्।
महाकुम्भोपकुम्भेषु कल्पयेद्योगपीठिकाम्।। 42.106 ।।
पुण्याहवारिणा प्रोक्ष्य द्वारतोरणमर्चयेत्।
महाकुम्भे मूलबेराच्छक्तिमावाह्य पूजयेत्।। 42.107 ।।
पूर्वाद्याशासु कुम्भेषु वासुदेवादिकान् यजेत्।
आग्नेयादिषु कोणेषु यष्टव्याः पुरुषादयः।। 42.108 ।।
सुदर्शनं च करके मूलबेरस्य हस्ततः।
आवाह्याभ्यर्च्य चक्राब्जमण्डले द्वादशेष्वपि।। 42.109 ।।
दलेषु केशवादींश्च समावाह्य च पूजयेत्।
चतुरश्रादिकुण्डेषु वासुदेवादिकान् यजेत्।। 42.110 ।।
दिने दिने नित्यपूजां समाप्य च यथाविधि।
वेदान् गाथा वैष्णवेषु पठत्सु गुरुसत्तमः।। 42.111 ।।
संख्यां संकल्प्य विधिवद् भगवद्यागमाचरेत्।
सायाह्ने समनुप्राप्ते मखबिम्बेन वै सह।। 42.112 ।।
कर्मार्चां यानमारोप्य चक्राब्जस्य समीपगे।
पीठे संस्थाप्य यागेशमग्न्यगारस्य पार्श्वगे।। 42.113 ।।
भद्रपीठे हरिं नीत्वा कुम्भमण्डलवह्निगम्।
यताशास्त्रं पूजयेयुर्ऋत्विजो दीक्षितास्तदा।। 42.114 ।।
कर्मार्चां मखबिम्बं च पूजयेद् गुरुसत्तमः।
पूजाकाले वेदविदः पूर्वादिषु यथाक्रमम्।। 42.115 ।।
ऋग्वेदादीन् पाठयेयुस्तथा द्राविडसंज्ञिकाः।
महाहविर्निवेद्याथ भक्तेभ्यो दापयेत्क्रमात्।। 42.116 ।।
ततो यानं समारोप्य कर्मार्चामुत्सवेन च।
धाम प्रदक्षिणीकृत्य घटदीपं प्रदर्शयेत्।। 42.117 ।।
गर्भमन्दिरमानीय विष्टरे स्थापयेत् प्रभुम्।
संकल्पपूजां यावच्च तावद्वस्त्राणि भूषणान्।। 42.118 ।।
पवित्राण्यपि देवस्य वल्लभे नावरोपयेत्।
नोद्वासयेन्मूलबिम्बे कौतुकं न विसर्जयेत्।। 42.119 ।।
समाप्तदिवसे प्रातर्देवं तीर्थार्चया सह।
यानमारोप्य वीथीश्च प्रादक्षिण्येन वै हरिम्।। 42.120 ।।
नदीतीरमथानाय्य पवित्रावभृथं चरेत्।
ततस्त्वालयमानाय्य यज्ञमन्दिरविष्टरे।। 42.121 ।।
संस्थाप्य पालिकां देवान् योजयेत् पादविष्टरे।
श्रीसूक्तेनाङ्कुरैर्देवमर्चयेत् पद्मविष्टरे।। 42.122 ।।
स्नानमण्डपमानीय पञ्चविंशतिभिर्घटैः।
तीर्थबिम्बेन कर्मार्चां स्नापयेद् विधिपूर्वकम्।। 42.123 ।।
द्वारतोरणकुम्भस्थान् विसृज्य च यथाक्रमम्।
मण्डलस्थं च वह्निस्थं महाकुम्भे नियोजयेत्।। 42.124 ।।
महाकुम्भं नयेदन्तर्बिम्बेन सह देशिकः।
मूलबेरस्य पुरतो निधायाभिमुखं स्थितः।। 42.125 ।।
बिम्बकुम्भस्थितां शक्तिं मूलार्चायां नियोजयेत्।
नृसूक्तेन महाकुम्भवारिणा प्रोक्षयेद्विभुम्।। 42.126 ।।
महाहविर्निवेद्याथ हरिं संप्रार्थयेत् ततः।
संसारार्णवमग्नानां समुद्धरणदीक्षित।। 42.127 ।।
संवत्सरोपचाराणां पूरणार्थं मया कृतम्।
आराधनं गृहाण त्वं भक्तस्य हितकाम्यया।। 42.128 ।।
नाहं स्वतन्त्रः किंचिच्च करोमि विहितं हितम्।
किं तु त्वत्प्रेरितं सर्वं करोमि प्रेष्यवत्स्वयम्।। 42.129 ।।
तत् क्षन्तव्यमशेषेण क्रियालोपादि यत्कृतम्।
इति विज्ञाप्य देवेशं पुष्पाञ्जलिमथार्पयेत्।। 42.130 ।।
रक्षाबन्धं च सर्वेषां विसृजेत् देशिकोत्तमः।
पवित्राणि च सर्वाणि भक्तेभ्यो दापयेद्रमे।। 42.131 ।।
रात्रिपूजां यथाशास्त्रं कुर्याद् देशिकसत्तमः।

।। इति श्रीश्रीप्रश्नसंहितायां पवित्रोत्सवसमाप्तिर्नाम (16)एकचत्वारिंशोऽध्यायः ।।
(17.`द्विचत्वारिंशोऽध्याय' इति भव्यम्।
       `पवित्रोत्सवो नाम त्रिचत्वारिंशोऽध्याय' इति ग्र. पुस्तके वर्तते।)