← अध्यायः ९ प्रश्नसंहिता
अध्यायः १०
[[लेखकः :|]]
अध्यायः ११ →
प्रश्नसंहितायाः अध्यायाः

।। दशमोऽध्यायः ।।

गर्भमन्दिरनिर्माणे संपूर्णो तदनन्तरम्।
गर्भगेहस्य तन्मानं तन्मानार्धाधिकं पुरः ।। 10.10.1 ।।
अर्धमण्डपनिर्माणं कुर्याच्छास्त्रोक्तवर्त्मना।
गर्भार्धसद्मनो भूमेः समं कुर्याद्विचक्षणः।। 10.2 ।।
अग्रेऽर्धमण्डपात् कुर्यात् नृत्तमण्डपनामकम्।
नृत्तार्धमण्डपस्याग्रे कुर्यादास्थानमण्डपम्।। 10.3 ।।
पार्श्वयोर्निर्गमार्थाय पुरतो वा वरानने।
सोपानानि क्वचिद्भद्रे कुर्याच्छिल्पिविचक्षणः।। 10.4 ।।
मण्डपेषु प्रक्लृप्तेषु प्राकारान् परिकल्पयेत्।
परिवारनिवेशार्थं शोभार्थं मन्दिरस्य च।। 10.5 ।।
अन्तर्मण्डल(1)संज्ञं स्यात् तत्सालं प्रथमं विदुः।
अन्तर्हारं (2)द्वितीयं स्यान्मध्यहारमनन्तरम्।। 10.6 ।।
(1.पा. नामानं प्राकारं प्रथमं विदुः।)
(2.पा ततो वप्रं)
(3)चतुर्थं पारिभद्रं स्यात् पञ्चमं पर्वताह्वयम्।
षष्ठं वैद्याधरं विद्यात् सप्तमं सर्ववेष्टनम्।। 10.7 ।।
(3.पा. अनन्तरं च मर्यादा महती नाम पञ्चकम्।)
चतुः पञ्चाष्टदण्डानां सालानामुच्छ्रयं भवेत्।
प्रथमावरणाद्येषु विस्तारो यत्र दृश्यते।। 10.8 ।।
आग्नेये पचनागारं दीर्घचुल्लीसमन्वितम्।
मध्येऽग्नियमयोः कुण्डं नित्यहोमाय कल्पयेत्।। 10.9 ।।
मरीच्यादि(4)निवेशार्थं वायुसोमान्तरे भवेत्।
बहिरावरणे कुर्याद् धान्यस्थापनवेश्मकम्।। 10.10 ।।
(4.पा. निधानं स्यात्।)
वाहनादिस्थितिश्चैन्द्रे पानीयं वारुणे भवेत्।
उत्सवे देवयजनं सोमेशान्तरे(5) भवेत्।। 10.11 ।।
(5.ग्र. सोमेशानान्तरे)
पाकस्थाने कूपमेकं बहिर्द्वौ कल्पयेद् रमे।
एवं बहुविधं स्थानं पुष्पोद्यानं तथा सरः।। 10.12 ।।
प्राकाराणामन्तरेषु कारयित्वा च शिल्पिभिः।
प्राकाराणां च सर्वेषामूर्ध्वस्थानेषु सर्वतः।। 10.13 ।।
गरुडान् शङ्खचक्रान्वा सिंहान् वापि च कारयेत्।
एकैकस्य च सालस्य चतुर्द्वाराणि कल्पयेत्।। 10.14 ।।
द्वारेषु गोपुराणि स्युश्चतुरश्रायतानि वै।
प्रवेशनिर्गमौ स्यातां द्वारेषु प्रतिगोपुरम्।। 10.15 ।।
गर्भं तु मण्डपादीनामग्निकोणे तु विन्यसेत्।
(6)गोपुराणां भवेद्याम्ये गर्भन्यासं गुरूत्तमः।। 10.16 ।।
(6.ग्र. गोपुरस्य)
गोपुराणां च सर्वेषामन्तर्गर्भगृहस्य च।
द्वौ द्वौ कवाटौ सुदृढौ श्लक्ष्णौ तालघनान्वितौ।। 10.17 ।।
स्वर्णादिकीलैः पट्टैश्च सर्वतो बन्धयेद्रमे।
स्वर्णादिक्षुद्रघण्टाश्च नीरन्ध्रेण च योजयेत्।। 10.18 ।।
एवं गर्भविमानं च (7)मण्डपां (पान्) सालसंयुतान्।
कारयित्वा गोपुराणि ततो देशिकसत्तमः।। 10.19 ।।
(7.ग्र. मण्डपान्।)
प्रतिष्ठामारभेद्देवि तद्विधानमिहोच्यते।
(8)प्रासादस्याग्रतः कुर्यात् कुण्डस्थापनमण्डपम्।। 10.20 ।।
(8.[ई. अ.16] प्रासादस्याग्रतः कृत्वा पूर्ववद्यागमण्डपम्।)
सर्वोपकरणैर्युक्तं (9)सर्वलक्षणसंमितम्।
(10)सर्वतोऽष्टौ विमानस्य दिशि कुण्डान् प्रकल्पयेत्।। 10.21 ।।
(9.[ई. अ.16] सर्वलक्षणसंयुतम्।)
(10.प्रासादस्यापि परितः कुर्यात्कुण्डाष्टकं गुरुः।)
तदभावे तु चतुरस्तदभावे पुरोदिते।
(11)मण्डपे स्थापयेदग्निमेकमेव गुरूत्तमः।। 10.22 ।।
(11.यागमण्डपभूभागे कुण्डमेकं प्रकल्पयेत्।)
सौवर्णी राजती ताम्री स्तूपी दारुमयी तथा।
शिलामयी वा संस्थाप्या नो चेन्मूर्ध्ना विना भवेत्।। 10.23 ।।
तद्विमानं न पूर्णं स्याद्यत्नेन स्थापयेदतः।
(12)तस्य (13)द्वितीयस्य गोलस्य प्रमाणं बिम्बमुत्तमम्।। 10.24 ।।
(12.तद्विगोलकमानेन मन्त्रबिंबेन वै सह।)
(13.ग्र. द्वितीयगोलस्य)
अधिवासं रहस्येऽन्ये मण्डपे कल्पयेत् पुरा।
स्तूपिभिः सह शास्त्रोक्तविधानेन विचक्षणः।। 10.25 ।।
बिम्बस्य स्तूपिकानां च स्नानाद्यमखिलं चरेत्।
(14)वस्त्रैराभरणैः पुष्पैरलंकृत्य सुपूज्य च।। 10.26 ।।
(14.वस्त्रैराभरणैः पुष्पैश्छन्नं कृत्वार्घ्यपुष्पवत्।)
तस्मिन् रत्नादिसंयुक्ते (15)कुम्भे बिम्बं निवेश्य च।
शनैः प्रासादपर्यङ्कमारोहेन्मूर्तिपैः सह।। 10.27 ।।
(15.बिम्बं कुम्भे निवेश्य च
      Sl.27c, d same as sl. 297-a, b.)
(16)तत्र प्राक्ताडनादीनि क्षालनादीनि कारयेत्।
ततो बिम्ब(17)स्तूपिकां तां नयेदूर्ध्वं स साधकः।। 10.28 ।।
(16.तत्र प्राक्ताडनादींस्तु कुर्यात्सङ्क्षालनादिकान्।)
(17.ग्र. स्थूपिकास्ताम्।)
प्राङ्मुखोदङ्मुखो वापि गुरुः पद्मे स्थितः स्वयम्।
स्थाने मध्यमकुम्भस्य स्थापयेत् सुधया ततः।। 10.29 ।।
प्रतिष्ठासीति मन्त्रेण दृढी कुर्याद् गुरूत्तमः।
(18)आचरेन्मन्त्रविन्यासं कुम्भे बिम्बसमन्विते।। 10.30 ।।
(18.[ई. अ.16] `आचरेद्रत्नविन्यासं सर्वं वाऽऽवाहनोदितम्।)
हृदाद्यं त्वनिरुद्धेन मूलमन्त्रेण (19)देशिकः।
(20)तत्राद्यमनुसंधाय ह्येकं कृत्वा परान्वितम्।। 10.31 ।।
(19.लाङ्गलिन्।)
(20.तत्राद्यमनुसन्धानमेकं कृत्वा परान्वितम्।)
संपूज्य स्थापयेत् स्तूपीः पार्श्वयोस्तस्य वै रमे।
सुधाभिः परिलिप्याथ मन्त्रानपि च विन्यसेत्।। 10.32 ।।
(21)प्रासादपट्टिकायां तु पञ्चविंशतितन्तुभिः।
बध्वा परिसरं पश्चात् स्वयं बध्वा च कौतुकम्।। 10.33 ।।
(21.Sl. 33-a, b same as sl. 303-a,b.)
[प्रतिष्ठाविधिवत् पूर्वं संभारानर्पयेत् क्रमात्।]
छायाधिवसनं कुर्यात् कटाहादिषु वै रमे।। 10.34 ।।
(22)स्नपनं दर्पणे कुर्यात् मूर्तीनां मन्त्रवित्तमः।
नेत्रोन्मीलनमेतासां कुर्याच्छास्त्रोक्तवर्त्मना।। 10.35 ।।
(22.स्नपनं दर्पणे कुर्यात्प्राग्वद्देशिकसत्तमः।)
ध्यात्वा विराजं वैमानं तत्तत्स्थानेषु देशिकः।
पादादारभ्य कुम्भान्तं लोकाध्वानं विचिन्तयेत्।। 10.36 ।।
तत्तत्स्थानेषु देवानां पूजनं कलशेष्वपि।
(23)मण्डले च क्रमेणैव पूजनीया वरानने।। 10.37 ।।
(23.कलशे मण्डले चैव प्रासादस्थान् समर्चयेत्।
      Sl. 38a,b,c, d same as sl.308-c, d
                             sl.309-a, b
      Sl. 39a,b,c, d same as sl.309-c, d
                             sl.310-a, b
      Sl. 40a-b same as sl. 310-c,d.)
प्रासादं परितः क्लृप्तकुण्डेष्वग्निं यथाविधि।
संस्कृत्य वासुदेवादीन् प्रभवाप्यययोगतः।। 10.38 ।।
संतर्पयेद्यथाशास्त्रमथवा तत्पुरस्स्थिते।
कुण्डे तु सकलं होममाचार्यः स्वयमाचरेत्।। 10.39 ।।
मन्त्रांस्तु पाठयेद्विद्वान् तत्प्रतिष्ठां नयेत् सुधीः।
पूर्णान्तमखिलं कृत्वा (24)तद्विधानेन वै पुनः।। 10.40 ।।
(24.[ई. अ.16] विधिनानेन वै पुनः।)
क्षुरो हरेति (25)मन्त्रेण (26)सामगान् पाठयेद्रमे।
चक्रमामलसारस्य मध्यतः संनिवेशयेत्।। 10.41 ।।
(25.ग्र. वै साम)
(26.पाठयेत्सामगांस्तु वै।
      Sl. 41,c, d is same as Sl.312-c, d.
      Sl. 42-a,b,c,d same as Sl.313-a,b,c,d.
      Sl. 43-a,b,c,d same as Sl.314-a,b,c,d.
      Sl. 44-a, b same as Sl.315-a, b.)
यथाभिमतरूपं तु दिग्वक्त्रं चाम्बराननम्।
स्वशक्तिवर्णदण्डस्थं चण्डमार्ताण्डभास्वरम्।। 10.42 ।।
चक्रमन्त्रं न्यसेत्तस्मिन् वर्णाध्वानं पुरोदितम्।
गत्यागतिप्रयोगेण प्राक्‌प्रमेयज्ञलक्षणम्।। 10.43 ।।
नान्यथावत्पुरा ज्ञात्वा मन्त्रमूर्तिगतं विभुम्।
(27)कुर्यात्ततोर्ध्वसंस्थानं नान्यथा तु वरानने।। 10.44 ।।
(27.कुर्यात्ततोर्ध्वसन्धानं नान्यथा तु मुनीस्वराः।)
एवं चाभिमतं चक्रं (28)सर्वविघ्नप्रशान्तकम्।
प्रतिष्ठाप्य तमभ्यर्च्य (29)ततोऽस्त्रं समनन्तरम्।। 10.45 ।।
(28.सर्वविघ्नक्षयङ्करम्।)
(29.तस्यैवं।)
त्रियंशेन (30)शिरोदेशात् पक्षिराजविभूषितम्।
संस्कृत्य ध्वजदण्डं च शिखामन्त्रं च विन्यसेत्।। 10.46 ।।
(30.[ई. अ.16]त्र्यंशेन शिखरादुच्चं खगराट्‌परिभूषितम्।
               Sl. 46c, d same as sl.325-c, d.
               Sl. 47a,b,c, d same as sl.328-a, b)
कृत्वास्त्रसंनिधिं तस्मिन् लाञ्छनाख्ये पुरा पटे।
निवेश्य ध्वजदण्डाग्रे गन्धाद्यैरर्चयेद्रमे।। 10.47 ।।
विमानस्तूपिकैका चेद्वासुदेवस्तु तत्र वै।
द्वे चेत्तयोर्देववरौ(31) वासुदेवस्तथा परः।। 10.48 ।।
(31.ग्र. परौ)
संकर्षणिस्त्रिषु स्थाप्या वासुदेवादिकास्त्रयः।
(32)वासुदेवादिचतुरः प्रार्थयेच्च त्रिषु क्रमात्।। 10.49 ।।
(32.वासुदेवादिकाः पूज्याः कुम्भषट्के कृते सति।)
(33)कुम्भषट्‌के केशवादिषट्‌कं तत्र सुपूजयेत्।
(34)कुम्भाष्टके केशवाद्यास्तत्र संप्रार्थयेद्रमे।। 10.50 ।।
(33.संपूज्य केशवादीनां षट्कं कुम्भाष्टके कृते।)
(34.केशवाद्यष्टकं पूज्यं द्विषट्के द्वादशार्चयेत्।)
कलशेषु द्वादशसु केशवादीन् नियोजयेत्।
(35)युग्मयोगेन कुम्भानां स्थापनं मोक्षकाङ्क्षिणाम्।। 10.51 ।।
(35.Sl. 51c, d same as sl. 349-c, d.)
(36)अयुग्मं स्यात्तदन्येषां स्वर्गादिफलकाङ्क्षिणाम्।
एवं कृत्वा मध्यकुम्भं तोयेन गुरुरात्मवान्।। 10.52 ।।
(36.इतरस्यां युग्मयुक्त्या कुम्भस्थापनमाचरेत्।)
आरुह्य च विमानाग्रात् सर्वतः प्रोक्षयेद्रमे।
सुधामयादिबिम्बानां बृहत्या शिलयापि वा।। 10.53 ।।
कृतानामपि बिम्बानां पिण्डिकायां पुरा रमे।
रत्नलोहादिविन्यासं शिल्पिभिः कारयेत्ततः।। 10.54 ।।
औषधैश्च दृढीकृत्य (37)विमानेन सहैव च।
मूलबेरादिबेराणां प्रतिष्ठां कारयेद् गुरुः।। 10.55 ।।
(37.ग्र. विमानस्य तथैव च।)
प्रासादस्य प्रतिष्ठेत्थं समासात् कथिता मया।
मण्डपानां च सालानां गोपुराणां तथैव च।। 10.56 ।।
शाखानां च कवाटानां प्रतिष्ठाविधिरुच्यते।
मण्डपं प्रथमादीनामास्थानान्तं तथैव च।। 10.57 ।।
प्राकारान् पचनागारमग्न्यगारादिकान् रमे।
संक्षालयेत् पुरा सर्वानङ्कुरानपि कल्पयेत्।। 10.58 ।।
कृत्वा पर्यग्निकरणं धूपयेत् सर्वतो दिशम्।
पञ्चगव्येन संशोध्य प्रोक्षयेत् पुण्यवारिणा।। 10.59 ।।
सुधाचूर्णैरलंकृत्य सिद्धार्थान् विकिरेत्ततः।
वास्तुक्षेत्रेशयोः पूजां कृत्वा देशिकसत्तमः।। 10.60 ।।
कुम्भानां स्थापनं कुर्यात् तेष्वावाह्य हरिं यजेत्।
शाखाकवाटयोः किंचिद् विशेषः कथ्यतेऽधुना।। 10.61 ।।
(38)जलैः शाखाकवाटानि पञ्चोपनिषदा गुरुः।
क्षालयेद् गन्धमाल्याद्यैरलंकुर्याच्च वस्त्रतः।। 10.62 ।।
(38.पा. शाखाकवाटौ प्रक्षाल्य पञ्चोपनिषदा जलैः।)
ततो मुहूर्ते विजये शाखास्थापनमाचरेत्।
शाखारन्ध्रे च रत्नादिविन्यासं मन्त्रवच्चरेत्।। 10.63 ।।
शाखासमीपरन्ध्रेषु कवाटा(नि)निधापयेत्।
शाखायां दक्षिणस्थायां ब्रह्माणं तूत्तरे भवम्।। 10.64 ।।
उदुम्बरे महालक्ष्मीं प्रार्थयेत् गुरुसत्तमः।
कवाटाना(39)मुपरितने दशमूर्तिर्लिखेन्मम।। 10.65 ।।
(39.ग्र. कवाटानां परितने।)
वेदशास्त्रपुराणानि (40)मुनीनपि लिखेदधः।
कवाटकन्दपट्टे स्याद् (41)विश्वनाथः प्रतिष्ठितः।। 10.66 ।।
(40.पा. वेत्रेषु निवसन्नि च।)
(41.पा. संस्थाप्यो विश्वभावनः।)
कुञ्चिकायां कवाटस्य संस्थाप्यो विश्वभावनः।
एतान् कुम्भजले पूज्य तत्तत्स्थानेषु वै रमे।। 10.67 ।।
आवाह्य च कवाटेषु प्रोक्षयेन्मूलविद्यया।
एवं भगवतो विष्णोः सौधं गोपुरसंयुतम्।। 10.68 ।।
कारयित्वा शिल्पिवर्गैः प्रतिष्ठाप्य यथाविधि।
यजमानस्याभिमते कल्पयेन्मूलकौतुकम्।। 10.69 ।।

।। इति श्रीश्रीप्रश्नसंहितायां दशमोऽध्यायः ।।