← अध्यायः ३१ प्रश्नसंहिता
अध्यायः ३२
[[लेखकः :|]]
अध्यायः ३३ →
प्रश्नसंहितायाः अध्यायाः

।। द्वात्रिंशोऽध्यायः ।।

ततः परस्मिन् दिवसे नित्यकर्म समाप्य च।
ऋत्विग्भिः साधकाचार्यैर्बोधकैश्च समन्वितः।। 32.1 ।।
प्रविशेदालयं श्रीमद्देवं संपूजयेत्ततः।
गरुत्न्तं सेनपं च द्वाःस्थानप्यालयाश्रितान्।। 32.2 ।।
पालिकाद्वारपूजां च पालिकादिसमर्चनम्।
ऋत्विग्भिः साधयेत् सर्वं ततो गुरुरतन्द्रितः।। 32.3 ।।
दुकूलं पट्टजं वापि कार्पासजमथापि वा।
ध्वजारोहाय सुदृढं स्निग्धं लक्षणसंयुतम्।। 32.4 ।।
नीलरोमादिरहितं श्वेतं वस्त्रमथापि वा।
(1)आयतं पञ्चदशभिर्दशभिः सप्तमिस्तु वा।। 32.5 ।।
(1.पा. आयतं दशभिरहस्तैः)(1.[ई.अ.10] आयतं नवभिर्हस्तैः सप्तभिः पञ्चभिस्तु वा।)
(2)मूलबेरसमं वापि गर्भद्वारायतं तु वा।
(3)विस्तारं पञ्चभिर्हस्तैस्त्रिभिर्वापि वरानने।। 32.6 ।।
(2.पा. मूलबेरसमायामं द्वारायाममथापि वा।)(2.[ई.अ.10] मूलबेरसमायामं द्वारायाममथापि वा।)
(3.पा. विस्तीर्णं पञ्चभिर्दृढं)
पक्षिराट्-लेखयोग्यस्य पटस्य परिमाणकम्।
आदाय पूर्वं तन्मध्याच्चन्दनक्षोदवारिणा।। 32.7 ।।
सूत्रेण मध्यरेखायाः कोणात्कोणं च मध्यमे।
आस्फालयेन्मध्यदेशाद्यावन्मस्तकपादयोः।। 32.8 ।।
पक्षयोरवशिष्टं यत् परिहार्यं तु शिल्पिना।
गरुडं गमनोद्यक्तं हेमाङ्गं कुटिलेक्षणम्।। 32.9 ।।
नीलनासाग्रसंयुक्तं सर्वावयवसुन्दरम्।
बद्धाञ्जलिपुटं सौम्यं शङ्खचक्रधरं विभुम्।। 32.10 ।।
(4)ललाटे न्यस्ततिलकं पक्षविक्षपणान्वितम्।
सर्वाभरणसंयुक्तं श्वेतवर्णं चतुर्भुजम्।। 32.11 ।।
(4. पा. ललाटे रचितालकम्)
करण्डिकामकुटिनं श्वेतवस्त्रोपशोभितम्।
आकुञ्चितं सव्यपादमपरं पृष्ठतः स्थितम्।। 32.12 ।।
मौलौ मालायितं नागं शङ्खं तु तुहिनप्रभम्।
पद्मं च दक्षिणे कर्णे शोणाभं कुण्डलाकृतिम्।। 32.13 ।।
महापद्मं पिङ्गलाभं वामकर्णस्य कुण्डलम्।
मेघाभं गुलिकं कण्ठे कण्ठाभरणरूपिणम्।। 32.14 ।।
(5)रक्ताभं वासुकं भीमं ब्रह्मसूत्रोपशोभितम्।
(6)कार्कोटकं धूम्रनिभं हाररूपिणमब्जजे।। 32.15 ।।
(5.पा. अनन्तो वा कटको यज्ञसूत्रं तु वासुकिः।)
(6.पा. उरसि न्यस्तकार्कोटं कटिसूत्रिततक्षकम्।)
तक्षकं पीतवर्णाभं कटिसूत्रोपशोभितम्।
अनन्तं (7)क्षौमसदृशं कटकं दक्षिणे करे।। 32.16 ।।
(7.ग्र. क्षोमवर्णाभं)
वामे करे महाश्वेतं विलिखेत् कटकायितम्।
(8)परितः शङ्खचक्रं च गदाखड्गौ तथा धनुः।। 32.17 ।।
(8.[ई.अ.10] चक्रं खड्गं शरं चैव शंखं शार्ङ्गगदां तथा। पटोर्ध्वे ह्युभये पाश्र्वे)
(9)तार्क्ष्यस्य सिरसि छत्रं पार्श्वयोश्चामरावपि।
(10)दीपस्तम्भौ पादपार्श्वे पालिकाः साङ्कुरास्तथा।। 32.18 ।।
(9.पा. उपरिष्टाच्च कर्त्तव्यं पार्श्वयोश्चामरद्वयम्।)
(10.[ई.अ.10] दीपौ सुशोभनौ कुर्यात्पालिकानां तु पार्श्वयोः।)
(11)एवं लिखेत् पञ्चवर्णैर्देशिकः शिल्पिनोऽपि वा।
शिल्पिनं तोष(12)येत्तस्मात् पटमादाय देशिकः।। 32.19 ।।
(11.[ई.अ.10] पञ्चवर्णैर्लिखदेवं पञ्चायुधं तथा।)
(12.ग्र. तोषयित्वाथ)
शिबिकायां समारोप्य वाद्यघोषपुरःसरम्।
(13)धाम प्रदक्षिणीकृत्य प्रतिष्ठामण्डपं नयेत्।। 32.20 ।।
(13.पा. प्रादक्षिण्येन धामादीन्नीत्वा तूर्यनिनादितम्।)
वास्तुशान्तिं ततः कुर्यात् ग्रामादीनां विशुद्धये।
धान्यादिकल्पिते पीठे पटं तत्र प्रसारयेत्।। 32.21 ।।
पटं पुण्याहसलिलैः प्रोक्षयेन्मण्डपादिकान्‌।
द्वारादि(14)देवान् संपूज्य कुण्डे वा स्थण्डिलेऽपि वा।। 32.22 ।।
(14.ग्र. सर्वदोषस्य शान्तये।)
भद्रासनं कल्पयित्वा लक्ष्मीनारायणं विभुम्।
संपूज्य विधिवद्देवं प्रार्थज्जलजोद्भवे।। 32.23 ।।
लक्ष्मीपते जगन्नाथ महोत्सवसमृद्धये।
ध्वजारोहणकार्याय पटेऽस्मिन् पञ्चवर्णकैः।। 32.24 ।।
लिखितं गरुडं देव (15)सर्वदोषप्रशान्तये।
शीलताभ्यां (16)च नेत्राभ्यां पश्य त्वं परमेश्वर।। 32.25 ।।
(15.ग्र. देवताः पूज्य)
(16.[ई.अ.10] समालोक्य नेत्राभ्यां शीतलाभ्यां पटस्थितम्।)
तार्क्ष्यप्रतिष्ठाकर्माङ्गमग्नि (18)मुत्पादयामि भोः।
इति विज्ञाप्य वै कुण्डं तयोः सङ्गं विचिन्तयेत्।। 32.26 ।।
(18.ग्र. मुत्पादय प्रभो)
तज्जातं वैष्णवाग्निं तं ध्यायेद्देशिकसत्तमः।
वासुदेवाज्ञाप्य वै गुण्डं तयोः सङ्गं विचिन्तयेत्।। 32.27 ।।
तार्क्ष्यस्य कौतुकं चैव छायायामधिवासनम्।
(19)पञ्चभिः कलशैश्चैव स्नपनं दर्पणे भवेत्।। 32.28 ।।
(19.पा. कुम्भैः षोडशभिः छायास्नपनं दर्पणे भवेत्।)
तार्क्ष्यस्य पन्नगानां च नयनोन्मीलनं चरेत्।
धान्यादीन् दर्शयित्वाथ शय्यायां शाययेत् पटम्।। 32.29 ।।
स्वदेहे तार्क्ष्यमन्त्रेण न्यासं कुर्याद्विचक्षणः।
क्षिपेदष्टोत्तरशतं प्रणवाद्यन्तसंयुतम्।। 32.30 ।।
जप्त्वा गन्धजलैः पञ्च कलशान् पूरयेद्रमे।
दान्यपीठे स्थापयित्वा स्वलंकृत्य यथाविधि।। 32.31 ।।
पीठमाकल्प्य कुम्भेषु विहगांस्तेषु पूजयेत्।
पुष्पाञ्जलिधरो भूत्वा प्रार्थयेद्विहगाधिपम्।। 32.32 ।।
वासुदेवात्समुत्पन्न पक्षीन्द्र कनकप्रभ।
उत्सवार्थं भगवतः कुम्भेऽस्मिन् संनिधिं कुरु।। 32.33 ।।
इति संप्रार्थ्य हृदयात् कुम्भे तार्क्ष्यं विचिन्तयेत्।
आवाहनादिषणमुद्रां प्रदर्श्यार्ध्यादिभिर्यजेत्।। 32.34 ।।
वासुदेवांशसंभूत सत्समूर्ते तटित्प्रभ।
अपमृत्युजयाय त्वं कुम्भेऽस्मिन् संनिधिं कुरु।। 32.35 ।।
संकर्षणांशज स्वामिन् द्विजानां ज्ञानवृद्धये।
सुपर्णागच्छ कुम्भेऽस्मिन् संनिधिं स्फटिकप्रभ।। 32.36 ।।
प्रद्युम्नस्यांशसंभूत नृपाणां बलवृद्धये।
कुम्भेऽस्मिन् कुरु सानिध्यं गरुड त्वं तटित्प्रभ।। 32.37 ।।
अनिरुद्धात् समुत्पन्न वैश्यानामर्थसिद्धये।
तार्क्ष्य तारानिभ स्वामिन् कुम्भेऽस्मिन् संनिधिं कुरु।। 32.38 ।।
आग्नेयादिषु कोणेषु कुम्भेष्वावाह्य यत्नतः।
आवाहनादिषण्मुद्राः सपर्यां च ततश्चरेत्।। 32.39 ।।
भोज्यासनं ततो दत्वा मोदकादीन् निवेदयेत्।
अग्निं संतर्प्य विधिवत् तत्त्वहोमं समाचरेत्।। 32.40 ।।
संपाताज्यं समादाय पटे कूर्चेन विन्यसेत्।
वह्निमध्ये योगपीठं संकल्प्य विधिवद् गुरुः।। 32.41 ।।
विहगेन्द्रस्य मन्त्रेण हृदयादवतारयेत्।
आवाहनादिषण्मुद्रां दर्शयेत् कमलासने।। 32.42 ।।
मन्त्रासनादिभोज्यान्तमाज्येन जुहुयात्ततः।
चरुं पुरुषसूक्तेन जुहुयात् षोडशाहुतीः।। 32.43 ।।
विहगाधिपगायत्र्या घृतेनाष्टोत्तरं शतम्।
तत्संख्यया समिद्भिश्च पलाशाश्वत्थखादिरैः।। 32.44 ।।
बिल्वैश्च जुहुयादाज्यैः पुनरष्टोत्तरं शतम्।
संपाताज्यं गृहीत्वा तु तार्क्ष्यगायत्रिया ततः।। 32.45 ।।
न्यसेत् सर्वेषु कुम्भेषु पटे च गुरुसत्तमः।
ततः पूर्णाहुतिं हुत्वा कुण्डात् विष्णुरथं रमे।। 32.46 ।।
उद्वास्य कुम्भात्तदनु सत्यादीन् विसृजेत्ततः।
न्यूनाधिक्योपशान्त्यर्थं शान्तिहोमं समाचरेत्।। 32.47 ।।
कुण्डादग्निं समुद्वास्य शर्करान्नं निवेदयेत्।
कुमुदादिबलिं दद्यात् वैनतेयस्य वै मनुम्।
(20)जपन् रात्रिं जागरेण नयेन्नियममास्थितः।। 32.48 ।।
(20.पा. तूर्यघोषैर्वेदघोषैर्जागरेण नयोन्निशम्।)
।। इति श्रीश्रीप्रश्नसंहितायां[उत्सवकर्मणि](21)द्वात्रिंशोऽध्यायः ।।
(21.महोत्सवे त्रयस्त्रिंशोऽध्यायः इति ग्र. पुस्तके।)