ऋग्वेदः सूक्तं १.१३६
← सूक्तं १.१३५ | ऋग्वेदः - मण्डल १ सूक्तं १.१३६ परुच्छेपो दैवोदासिः। |
सूक्तं १.१३७ → |
दे. १-५ मित्रावरुणौ, ६-७ लिङ्गोक्ताः । अत्यष्टिः, ७ त्रिष्टुप् |
प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥१॥
अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥२॥
ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।
मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥३॥
अयं मित्राय वरुणाय शंतमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥४॥
यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् ।
उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥५॥
नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥६॥
ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥७॥
सायणभाष्यम्
‘ प्र सु ज्येष्ठम् ' इति सप्तर्चं तृतीयं सूक्तम् । ऋषिश्चान्यस्मात् ' इति परिभाषया परुच्छेप ऋषिः । अत्यष्टिश्छन्दः । ऊती देवानाम्' इत्यन्त्या त्रिष्टुप् । अत्र त्रिष्टुबन्तपरिभाषा नाश्रीयते ‘ सर्वमात्यष्टम्' इति विशेषपरिभाषया बाधितत्वात् । मित्रावरुणौ देवता । अन्त्ययोस्तु तन्मन्त्रलिङ्गोक्तदेवता । तथा चानुक्रान्तं - प्र सु सप्त मैत्रावरुणं त्वन्त्ये लिङ्गोक्तदेवते अन्त्या त्रिष्टुप् ' इति । तुशब्दप्रयोगात् इदमादिके द्वे सूक्ते मैत्रावरुणदेवताके । विनियोगो लैङ्गिकः ॥
प्र सु ज्येष्ठं॑ निचि॒राभ्यां॑ बृ॒हन्नमो॑ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या॑म् ।
ता स॒म्राजा॑ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता ।
अथै॑नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे॑ देव॒त्वं नू चि॑दा॒धृषे॑ ॥१
प्र । सु । ज्येष्ठ॑म् । नि॒ऽचि॒राभ्या॑म् । बृ॒हत् । नमः॑ । ह॒व्यम् । म॒तिम् । भ॒र॒त॒ । मृ॒ळ॒यत्ऽभ्या॑म् । स्वादि॑ष्ठम् । मृ॒ळ॒यत्ऽभ्या॑म् ।
ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । य॒ज्ञेऽय॑ज्ञे । उप॑ऽस्तुता ।
अथ॑ । ए॒नोः॒ । क्ष॒त्रम् । न । कुतः॑ । च॒न । आ॒ऽधृषे॑ । दे॒व॒ऽत्वम् । नु । चि॒त् । आ॒ऽधृषे॑ ॥१
प्र । सु । ज्येष्ठम् । निऽचिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्ऽभ्याम् । स्वादिष्ठम् । मृळयत्ऽभ्याम् ।
ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । यज्ञेऽयज्ञे । उपऽस्तुता ।
अथ । एनोः । क्षत्रम् । न । कुतः । चन । आऽधृषे । देवऽत्वम् । नु । चित् । आऽधृषे ॥१
हे ऋत्विजः मित्रावरुणाभ्यां “ज्येष्ठं प्रशस्यं “बृहत् महदतिप्रवृद्धं “नमः नमस्कारोपलक्षितं स्तोत्रं तदुपलक्षितं हविर्लक्षणमन्नं वा “प्र “भरत संपादयत । नम इत्यन्ननाम, ‘नमः आयुः (नि. २. ७. २२) इति तन्नामसु पाठात् । किंच “हव्यं हव्यां मतिं तत्प्रदानविषयां बुद्धिं भरत । यद्वा मतिं पूज्यं हव्यं हविर्भरत । पूर्वत्र पुरोडाशाद्यदनीयमन्नं इदानीं तु सोमाज्यादिरूपं निपेयं हविः इति विवेकः । कीदृशाभ्यां ताभ्याम् । “निचिराभ्यां नितरां चिरकालाभ्यां नित्याभ्यामित्यर्थः । प्रवाहरूपेणेति भावः । किंच "मृळयद्भ्यां स्तुत्या हविःस्वीकारेण स्वयं मृडित्वा यजमानमपि सुखयद्यांचि तथा “स्वादिष्ठं स्वादुतरं मृळयद्भ्यां हविः सुखयद्यां क भक्षयद्याेणमित्यर्थः । कस्तयोर्विशेषः इति तत्राह । “ता तौ मित्रावरुणौ “सम्राजा सम्यक् राजमानौ॥ राजतेः क्विप् । ‘मो राजि समः क्वौ' इति समो मकारस्य मकारः ॥ “घृतासुती । घृतमासूयते आदीयते याभ्यां तौ तादृशौ। यद्वा । घृतमुदकं वृष्टिलक्षणं प्रसूयते सर्वत्रानुज्ञायते याभ्यां तौ । एतयोः अहोरात्राभिमानिदेवत्वात् अहोरात्रद्वारा वृष्ट्युत्पादकत्वात् ‘अहोरात्रे वै मित्रावरुणावहोरात्राभ्यां खलु वै पर्जन्यो वर्षति' (तै. सं. २. १. ७. ३) इति श्रुतेर्वृष्ट्यनुज्ञाप्रदत्वं प्रसिद्धम् । किंच एतौ “यज्ञेयज्ञे सर्वेष्वपि यज्ञेषु “उपस्तुता सर्वैर्ऋत्विग्भिः स्तूयमानौ ।' गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ “अथ अपि च “एनोः एनयोः ॥ संज्ञापूर्वकस्य विधेरनित्यत्वात् ‘ ओसि च ' ( पा. सू. ७. ३. १०४ ) इति गुणाभावे । अतो गुणे : इति पररूपत्वम् ॥ “क्षत्रं बलं “कुतश्चन कस्मादपि च शत्रोः राक्षसादेः सकाशात् कस्मादप्युपायाद्वा “न “आधृषे आधर्षितुं शक्यं न भवति ॥ ‘ कृत्यार्थे तवैकेन्' इति केन्प्रत्ययः ।। किंच तयोः देवत्वं “नू “चित् देवभावोऽपि न “आधृषे अधर्षणायोग्यः । यद्वा । पूर्वमिव इदानीमपि । “नू चिदिति निपातः पुराणनवयोः' (निरु. ४. १७ ) इति यास्केनोक्तत्वात् । आधृषे न केनाप्याधर्षणीयो भवति । एतयोर्बलं नाधृष्यं किमु तद्देवत्वमिति भावः ।।
अद॑र्शि गा॒तुरु॒रवे॒ वरी॑यसी॒ पन्था॑ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभि॑ः ।
द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च ।
अथा॑ दधाते बृ॒हदु॒क्थ्यं१॒॑ वय॑ उप॒स्तुत्यं॑ बृ॒हद्वय॑ः ॥२
अद॑र्शि । गा॒तुः । उ॒रवे॑ । वरी॑यसी । पन्थाः॑ । ऋ॒तस्य॑ । सम् । अ॒यं॒स्त॒ । र॒श्मिऽभिः॑ । चक्षुः॑ । भग॑स्य । र॒श्मिऽभिः॑ ।
द्यु॒क्षम् । मि॒त्रस्य॑ । सद॑नम् । अ॒र्य॒म्णः । वरु॑णस्य । च॒ ।
अथ॑ । द॒धा॒ते॒ इति॑ । बृ॒हत् । उ॒क्थ्य॑म् । वयः॑ । उ॒प॒ऽस्तुत्य॑म् । बृ॒हत् । वयः॑ ॥२
अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मिऽभिः । चक्षुः । भगस्य । रश्मिऽभिः ।
द्युक्षम् । मित्रस्य । सदनम् । अर्यम्णः । वरुणस्य । च ।
अथ । दधाते इति । बृहत् । उक्थ्यम् । वयः । उपऽस्तुत्यम् । बृहत् । वयः ॥२
“गातुः गमनशीला “वरीयसी उरुतरा उषाः “उरवे विस्तीर्णाय यागाय गमनादिव्यापाराय अदर्शि सर्वेर्दृष्टा अभूत्। तथा “ऋतस्य गमनशीलस्यादित्यस्य “पन्थाः मार्गः आकाशलक्षणः “रश्मिभिः “समयंस्त प्रकाशैः संगतोऽभूत् । “भगस्य सर्वैर्भजनीयस्य एतन्नामकस्य देवस्य “रश्मिभिः “चक्षुः सर्वप्राणिनां लोचनं समयंस्त संगतमभूत् । सर्वे स्वस्वद्रव्यदर्शनाय समर्था अभवन्नित्यर्थः । तदेव स्पष्टीक्रियते । "मित्रस्य प्रकाशकारित्वात् सर्वजनमित्रस्य “सदनं गृहमन्तरिक्षं “द्युक्षं दीप्तानां निवासस्थानं रश्मिभिः समयंस्त संगतमभूत् । तथा “अर्यम्णः एतन्नामकस्य देवस्य ॥ उदात्तनिवृत्तिस्वरेण विभक्तेः उदात्तत्वम् ॥ द्युक्षं सदनं रश्मिभिः समयंस्त । किंच “वरुणस्य तमोनिवारकस्य एतन्नामकस्य देवस्य सदनं तथाभूत् । यद्यपि सूर्यस्य एकत्वेऽपि उपाधिभेदेन भेदात् पृथक् स्तुतिः तथा यद्यपि त्रिभिरपि प्रकाश्यमप्यन्तरिक्षमेकं तथापि प्रकाशकानां भेदात् त्रिधा स्तूयते । उदयानन्तरं कर्मानुष्ठानाय प्रकाशः अभवदित्यर्थः। “अथ अतः कारणात् उदितत्वादेव “उक्थ्यं स्तुत्यं "बृहत् प्रभूतं “वयः हविर्लक्षणमन्नं “दधाते धारयतः । किंच “उपस्तुत्यम् उपेत्य स्तोतव्यम् ॥ ‘एतिस्तुशासु' (पा. सू. ३. १. १०९) इत्यादिना क्यप् । “बृहत् स्तोमादिना महत्स्तोत्रं “वयः हविर्लक्षणमन्नं च दधाते ॥
ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व॑र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा॑ दि॒वेदि॑वे ।
ज्योति॑ष्मत्क्ष॒त्रमा॑शाते आदि॒त्या दानु॑न॒स्पती॑ ।
मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या॑त॒यज्ज॑नः ॥३
ज्योति॑ष्मतीम् । अदि॑तिम् । धा॒र॒यत्ऽक्षि॑तिम् । स्वः॑ऽवतीम् । आ । स॒चे॒ते॒ इति॑ । दि॒वेऽदि॑वे । जा॒गृ॒ऽवांसा॑ । दि॒वेऽदि॑वे ।
ज्योति॑ष्मत् । क्ष॒त्रम् । आ॒शा॒ते॒ इति॑ । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।
मि॒त्रः । तयोः॑ । वरु॑णः । या॒त॒यत्ऽज॑नः । अ॒र्य॒मा । या॒त॒यत्ऽज॑नः ॥३
ज्योतिष्मतीम् । अदितिम् । धारयत्ऽक्षितिम् । स्वःऽवतीम् । आ । सचेते इति । दिवेऽदिवे । जागृऽवांसा । दिवेऽदिवे ।
ज्योतिष्मत् । क्षत्रम् । आशाते इति । आदित्या । दानुनः । पती इति ।
मित्रः । तयोः । वरुणः । यातयत्ऽजनः । अर्यमा । यातयत्ऽजनः ॥३
अयं यजमानः “ज्योतिष्मतीम् आहवनीयाग्नेस्तेजोयुक्ताम् “अदितिम् अदीनां संपूर्णलक्षणां “क्षितिम् अग्नेर्निवासयोग्यां भूमिम् उत्तरवेदिलक्षणां “धारयत् धारयति स्वयं कृतवानित्यर्थः। एतावती वै पृथिवी यावती वेदिः' (तै. सं २. ६, ४, १) इति श्रुतेः । तथा “स्वर्वतीं यज्ञनिष्पत्तिद्वारा स्वर्गवतीं ईदृशीं ताम् “आ “सचेते मित्रावरूणौ संगतौ भवतः । न केवलम् एतस्मिन् एव अहनि किंतु “दिवेदिवे सर्वेष्वप्यहःसु । कीदृशौ तौ । “दिवेदिवे प्रतिदिनं "जागृवांसा प्रबोधं कुर्वाणौ । यज्ञं गन्तुम् अनलसौ इत्यर्थः । किंच वेदिमागत्य “ज्योतिष्मत् आज्यादिस्वीकारेण अतिशयेन तेजोयुक्तं “क्षत्रं बलम् “आशाते अश्नुवाते प्राप्नुतः ॥ अश्नोतेश्छान्दसे लिटि ‘अनित्यमागमशासनम्' इति वचनात् नुडभावः । लटि वा छान्दसः शपः श्लुः । कीदृशौ इति तावाह। "आदित्या अदितेः पुत्रौ "दानुनस्पती दानस्य आज्यादिप्रदानस्य स्वामिनौ अभिमतदानस्य पालयितारौ वा ॥ ‘ षष्ठ्याः पतिपुत्र' इति संहितायां सत्वम् ॥ “मित्रः च “वरुणः च तावुभौ देवौ । अर्यमाख्यस्तु देवः “तयोः मित्रावरुणयोः “यातयज्जनः । तयोरेव संबन्धादुभयोर्मध्ये स्थितो यातयज्जनः स्वस्वव्यापारनियोजितसर्वजनः। मित्रावरुणौ अहोरात्रदेवौ। अर्यमा तु तयोरेव सामर्थ्यात् सर्वप्राणिनः प्रेरयतीत्यर्थः। किंच “यातयज्जनः । यातयन्ति लोकं यदीया जनाः प्रेष्याः स तादृशः । यद्वा । यात्यमाना नरके निपात्यमाना जनाः प्राणिनः अयष्टारो येन स तादृशः । कर्मसाक्षित्वात् स्वस्वकर्मानुरोधेन प्राणिनः सुकृते यातयतीत्यर्थः । तादृशः अर्यमा मित्रावरुणयोरधीनो वर्तते इति शेषः ॥
अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑म॒ः सोमो॑ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः ।
तं दे॒वासो॑ जुषेरत॒ विश्वे॑ अ॒द्य स॒जोष॑सः ।
तथा॑ राजाना करथो॒ यदीम॑ह॒ ऋता॑वाना॒ यदीम॑हे ॥४
अ॒यम् । मि॒त्राय॑ । वरु॑णाय । शम्ऽत॑मः । सोमः॑ । भू॒तु॒ । अ॒व॒ऽपाने॑षु । आऽभ॑गः । दे॒वः । दे॒वेषु॑ । आऽभ॑गः ।
तम् । दे॒वासः॑ । जु॒षे॒र॒त॒ । विश्वे॑ । अ॒द्य । स॒ऽजोष॑सः ।
तथा॑ । रा॒जा॒ना॒ । क॒र॒थः॒ । यत् । ईम॑हे । ऋत॑ऽवाना । यत् । ईम॑हे ॥४
अयम् । मित्राय । वरुणाय । शम्ऽतमः । सोमः । भूतु । अवऽपानेषु । आऽभगः । देवः । देवेषु । आऽभगः ।
तम् । देवासः । जुषेरत । विश्वे । अद्य । सऽजोषसः ।
तथा । राजाना । करथः । यत् । ईमहे । ऋतऽवाना । यत् । ईमहे ॥४
“अयम् अस्माभिर्हूयमानः “सोमः “मित्राय “वरुणाय च “शंतमः पीयमानः सन् सुखतमः “भूतु भवतु ॥ छान्दसः शपो लुक् । ‘ भूसुवोस्तिङि' इति गुणाभावः ॥ “अवपानेषु अवाङ्मुखचमसपानेषु विषयेषु “आ सर्वतः “भगः भजनीयः ताभ्याम् । किंच “देवः दीप्यमानः “देवेषु मित्रावरुणानुचरेषु इतरदेवेषु तैः “आभगः आभजनीयः । यद्वा । देवेषु स्तोतृषु यजमानेषु मध्ये देवो दीप्यमानः । तथा आभगस्तैरेव आ सर्वतो भजनीयः । किंच “तं सोमं “विश्वे सर्वे “देवासः देवाः “अद्य अस्मिन्नहनि “जुषेरत सेवन्ते ॥ छान्दसो झस्य रन्नादेशाभावः। ‘ बहुलं छन्दसि ' इति रुडागमः ॥ कीदृशास्ते । “सजोषसः समानप्रीतियुक्ताः । “तथा “राजाना राजमाना मित्रावरुणौ युवां “करथः कुरुतं सेवेथे इत्यर्थः। व्यत्ययेन शप्॥ “यत् यस्मात् कारणात् “यत् “ईमहे यत् प्राप्नुमः तत् देवान् याचामहे ।। ‘ ईङ् गतौ'। दैवादिकः । छान्दसो विकरणस्य लुक् ।। तस्मात् जुषेरत । तथा “ऋतावाना ऋतवन्तौ सत्यवन्तौ यज्ञवन्तौ वा मित्रावरुणौ “ईमहे अभिमतफलं तयोः पानं वा याचामहे ॥
यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो॑ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः ।
तम॑र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु॑ व्र॒तम् ।
उ॒क्थैर्य ए॑नोः परि॒भूष॑ति व्र॒तं स्तोमै॑रा॒भूष॑ति व्र॒तम् ॥५
यः । मि॒त्राय॑ । वरु॑णाय । अवि॑धत् । जनः॑ । अ॒न॒र्वाण॑म् । तम् । परि॑ । पा॒तः॒ । अंह॑सः । दा॒श्वांस॑म् । मर्त॑म् । अंह॑सः ।
तम् । अ॒र्य॒मा । अ॒भि । र॒क्ष॒ति॒ । ऋ॒जु॒ऽयन्त॑म् । अनु॑ । व्र॒तम् ।
उ॒क्थैः । यः । ए॒नोः॒ । प॒रि॒ऽभूष॑ति । व्र॒तम् । स्तोमैः॑ । आ॒ऽभूष॑ति । व्र॒तम् ॥५
यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः ।
तम् । अर्यमा । अभि । रक्षति । ऋजुऽयन्तम् । अनु । व्रतम् ।
उक्थैः । यः । एनोः । परिऽभूषति । व्रतम् । स्तोमैः । आऽभूषति । व्रतम् ॥५
“यः “जनः यजमानः “मित्राय वरुणाय च ॥ कर्मणः संप्रदानत्वाच्चतुर्थी । मित्रं वरुणं च “अविधत् परिचरति "तं जनं युष्मत्परिचारकम् “अनर्वाणम् अद्वेषिणम् । ‘भ्रातृव्यो वा अर्वा ' (तै. सं. ६. ३. ८. ४ )इति श्रुतेः । अनल्पं वा अनन्यसेविनं “परि “पातः परितो रक्षताम्। कस्मादिति तदुच्यते । अंहसः न्यूनातिरेकजनितात् पापात् । न केवलं सामान्यं जनम् अपि तु “दाश्वांसं हविर्दत्तवन्तं "मर्तं मरणधर्माणम् “अंहसः सर्वस्मादपि पापात् । न केवलं भवन्तावेव अपि तु “अर्यमा सर्वेषां नियन्ता देव: “ऋजूयन्तं देवेष्वार्जवमाचरन्तं यजमानम् “अनु “व्रतं तदीयं कर्मानुलक्ष्य “अभि “रक्षति अभितो रक्षति । कोऽस्य जनस्य विशेषः इति तत्राह । “यः यजमानः “उक्थैः शस्त्रैः “एनोः एनयोर्मित्रावरुणयोः “व्रतं कर्म “परिभूषति परिगृह्णाति तथा यजमानो युष्मदीयं “व्रतं कर्म “स्तोमैः स्तोत्रैर्गानयुक्तमन्त्रसाध्यैः “आभूषति सर्वतोऽलंकरोति ॥ ‘ भूष अलंकारे । भौवादिकः ॥ तम् अभिरक्षति इत्यन्वयः ॥
नमो॑ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे॑ सुमृळी॒काय॑ मी॒ळ्हुषे॑ ।
इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम॑र्य॒मणं॒ भग॑म् ।
ज्योग्जीव॑न्तः प्र॒जया॑ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ॥६
नमः॑ । दि॒वे । बृ॒ह॒ते । रोद॑सीभ्याम् । मि॒त्राय॑ । वो॒च॒म् । वरु॑णाय । मी॒ळ्हुषे॑ । सु॒ऽमृ॒ळी॒काय॑ । मी॒ळ्हुषे॑ ।
इन्द्र॑म् । अ॒ग्निम् । उप॑ । स्तु॒हि॒ । द्यु॒क्षम् । अ॒र्य॒मण॑म् । भग॑म् ।
ज्योक् । जीव॑न्तः । प्र॒ऽजया॑ । स॒चे॒म॒हि॒ । सोम॑स्य । ऊ॒ती । स॒चे॒म॒हि॒ ॥६
नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सुऽमृळीकाय । मीळ्हुषे ।
इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् ।
ज्योक् । जीवन्तः । प्रऽजया । सचेमहि । सोमस्य । ऊती । सचेमहि ॥६
“दिवे द्योतमानाय सूर्याय “नमः "वोचं नमस्कारोपलक्षितं स्तोत्रं वोचं ब्रवीमि स्तौमीत्यर्थः । कीदृशाय तस्मै । "बृहते महते ॥ ‘ बृहन्महतोरुपसंख्यानम्' इति विभक्तिरुदाता ॥ स्तुत्याय । तथा “रोदसीभ्यां द्यावापृथिवीभ्यां तदभिमानिदेवाभ्यां नमो वोचम् । तथा “मित्राय सर्वजनहिताय अहरभिमानिदेवाय नमः वोचम् । तथा “वरुणाय आवरकाय रात्र्यभिमानिदेवाय । तथा “मीळ्हुषे अभिमतफलस्य सेक्त्रे रुद्राय । कीदृशाय तस्मै । “सुमृळीकाय शोभनसुखयित्रे । पुनः स एव विशेष्यते । मीळ्हुषे सुमृळीकाय इति द्वे प्रत्येकविशेषणभूते । इदानीं यजमानः ऋत्विजं स्वात्मानं वा प्रति ब्रवीति । हे होतः हे आत्मन् वा “इन्द्रम् “अग्निं “द्युक्षं दीप्तिमन्तम् “अर्यमणं “भगं च “उप उपेत्य बुद्ध्या प्राप्य “स्तुहि स्तुतिं कुरु । युष्मदनुग्रहात् “ज्योक् चिरकालं “जीवन्तः जीवनोपेता वयं “प्रजया पुत्रभृत्यादिना “सचेमहि संगता भूयास्म । किंच “सोमस्य इन्दोः “ऊती ऊत्या "सचेमहि तमपि स्तुत्वा तत्कारितेन रक्षणेन सहिता भूयास्मेत्यर्थः ॥
ऊ॒ती दे॒वानां॑ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भि॑ः ।
अ॒ग्निर्मि॒त्रो वरु॑ण॒ः शर्म॑ यंस॒न्तद॑श्याम म॒घवा॑नो व॒यं च॑ ॥७
ऊ॒ती । दे॒वाना॑म् । व॒यम् । इन्द्र॑ऽवन्तः । मं॒सी॒महि॑ । स्वऽय॑शसः । म॒रुत्ऽभिः॑ ।
अ॒ग्निः । मि॒त्रः । वरु॑णः । शर्म॑ । यं॒स॒न् । तत् । अ॒श्या॒म॒ । म॒घऽवा॑नः । व॒यम् । च॒ ॥७
ऊती । देवानाम् । वयम् । इन्द्रऽवन्तः । मंसीमहि । स्वऽयशसः । मरुत्ऽभिः ।
अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघऽवानः । वयम् । च ॥७
"इन्द्रवन्तः प्रीतेनेन्द्रेण तद्वन्तः वयं “देवानां देवान् ॥ कर्मणि षष्ठी ॥ "उती ऊत्या तर्पणेन हविरादिना "मंसीमहि मन्येमहि । कीदृशा वयम् । “स्वयशसः स्वायत्तकीर्तयः “मरुद्भिः स्तुत्या हृद्यैर्मरुद्देवैरनुगृहीताः । यद्वा । देवानाम् ऊत्या रक्षणेन रक्षिता मंसीमहि ज्ञातारो भवेम सामर्थ्यात् तेषामेव महत्त्वस्य । किंच अग्निमित्रवरुणाः देवाः “शर्म "यंसन् अस्माकं सुखं प्रायच्छन् तं तं वरम् । “मघवानः वयं च तैर्दत्तान्नवन्तः सन्तः “तत् सुखम् “अश्याम व्याप्नुयाम ॥ अश्नोतेराशिषि लिङि ‘ छन्दस्युभयथा ' इति सार्वधातुकत्वात् सलोपः ॥ ॥ २६ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये द्वितीयाष्टके प्रथमोऽध्यायः समाप्तः ॥
मण्डल १ | ||||||
---|---|---|---|---|---|---|
|