प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.२

(ऋग्वेद: सूक्तं १.२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.१ ऋग्वेदः - मण्डल १
सूक्तं १.२
मधुच्छन्दा वैश्वामित्रः
सूक्तं १.३ →
दे. १-३ वायुः, ४-६ इन्द्र-वायू, ७-९ मित्रा-वरुणौ। गायत्री


वायवा याहि दर्शतेमे सोमा अरंकृताः ।
तेषां पाहि श्रुधी हवम् ॥१॥
वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
सुतसोमा अहर्विदः ॥२॥
वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
उरूची सोमपीतये ॥३॥
इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
इन्दवो वामुशन्ति हि ॥४॥
वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
तावा यातमुप द्रवत् ॥५॥
वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
मक्ष्वित्था धिया नरा ॥६॥
मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
धियं घृताचीं साधन्ता ॥७॥
ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं बृहन्तमाशाथे ॥८॥
कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
दक्षं दधाते अपसम् ॥९॥

सम्पाद्यताम्

सायणभाष्यम्

अग्निमीळे ' इत्यादिसूक्तमग्निष्टोमस्य प्रातरनुवाके यथा (शस्त्रे) विनियुक्तं तथा ' वायवा याहि ' इत्यादयस्तृचाः प्रउगशस्त्रे विनियुक्ताः । तत्रेदं चिन्त्यते, शस्त्रं किं देवतास्मरणरूपसंस्कारकर्म किं वा अदृष्टफलं प्रधानकर्मेति । तत्र पूर्वपक्षं जैमिनिः ( जै. सू. २. १. १३-२९) सूत्रयामास-

' स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात् ' इति ।। ' आज्यैः स्तुवते पृष्ठैः स्तुवते प्रउगं शंसति निष्केवल्यं शंसति ' इति श्रूयते । तत्र स्तुतिः शंसनं च गुणिनिष्टगुणाभिधानम् ' इन्द्रस्य नु वीर्याणि प्र वोचम् ( ऋ सं. १. ३२. १) इत्यत्र दृष्टत्वात् । एवं सति याज्यान्यायेन गुणिन्या देवताया अभिधायकत्वेन स्तुतशस्त्रयोः संस्काररूपत्वमभ्युपेयम् । याज्यायास्तद्रूपत्वं दशमाध्यायस्य चतुर्थपादे ( जै. सू. १०. ४ ३९-४१) दृष्टार्थलाभेन निर्णीतम् । तद्वदत्रापि । तुशब्दः प्रधानकर्मत्वं व्यावर्तयति ।। सिद्धान्ती तं पक्षं दूषयति-

' अर्थेन त्वपकृष्येत देवतानाम्नश्चोदनार्थस्य गुणभूतत्वात् ' इति । तुशब्देन संस्कारत्वं वारयति संस्कारपक्षे प्रयोजनवशेन मन्त्रः स्वस्थानादपकृष्येत । कुतः । मन्त्रगतं देवतावाचकं यदिन्द्रादिनामास्ति तच्चोदनया मन्त्ररूपया प्रतिपाद्य देवतारूपभ्यार्थस्य गुणभूतम् । तस्मात् यत्र प्रधानभूतदेवतास्ति तत्र गुणभूतो मन्त्रो नेतव्यः । तद्यथा माहेन्द्रग्रहसंनिधौ ' अभि त्वा शूर ' ( ऋ. सं. ७. ३२. २२) इत्ययं प्रगाथ आम्नातः । स चेन्द्रं प्रकाशयति न तु महेन्द्रम् । ततो यत्रैन्द्रं कर्म तत्रायं प्रगाथोऽपकर्षणीयः । तथा सति क्रमसंनिधी वाध्येयाताम् ।। तदेतत् सिद्धान्तिनाभिहितं दूषणं पूर्वपक्षी समाधत्ते--

वशावद्वा गुणार्थं स्यात् ' इति । वाशब्दः प्रगाथस्यान्यत्रनयनं वारयति । मन्त्रे यदेतदिन्द्रशब्दाभिधानं तदेतन्महत्वगुणोपलक्षणार्थं स्यात् । यथा ' सा वा एषा सर्वदेवत्या यदजा वशा

वायव्यामा लभेत ' ( तै. सं. ३. ४. ३. २) इत्यत्र अजावशाशब्देन चोदिते कर्मणि छागशब्देन केवलेन युक्ता निगमा वशात्वगुणमप्युपलक्षयन्ति तद्वत् । तस्मात् महत्त्वगुणयुक्ते चोदिते कर्मणि निर्गुणेनेन्द्रशब्देनाभिधानमविरुद्धम् । लोकेऽपि महाराजे केवलराजशब्दप्रयोगमपि पश्यामः । तदेतत् समाधानं सिद्धान्ती दूषयति-

' न श्रुतिसमवायित्वात् ' इति । यदुक्तं वशान्यायेन राजन्यायेन वास्य ग्रहस्यैन्द्रो देवता युज्यते इति तन्न । देवतात्वस्य तद्धितश्रुतिसमवायित्वात् । माहेन्द्रग्रह इत्यत्र सास्य देवतेत्यस्मिन्नर्थे ' महेन्द्राद्धाणौ च ' ( पा. सू. ४. २. २९) इति महेन्द्र्शब्दात् अण्प्रत्ययो विहितः । तस्मात् महेन्द्र एव देवता न त्विन्द्रः ।। विपक्षे बाधमाह-

' गुणश्चानर्थकः ' डति । यदीन्द्रो देवता स्यात् तदानीम् ऐन्द्रग्रह इत्येतावतैव अर्थावगतौ माहेन्द्र इति महत्त्वगुणोऽनर्थकः स्यात । चकारः पूर्वहेतुना समुच्चयार्थः ।। हेत्वन्तरमाह-

' तथा याज्यापुरोरुचोः ' इति । इन्द्रमहेन्द्रयोर्देवतयोर्भेदे यथा महत्वगुणः सार्थकस्तथा याज्या- पुरोनुवाक्ययोर्भेदोऽप्यस्मिन्नेव पक्षे उपपद्यते । ' एन्द्र सानसिम् ' ( ऋ. सं. १. ८. १) इत्यादिके इन्द्रस्य याज्यापुरोनुवाक्ये । ' महाँ इन्द्रो य ओजसा ' ( ऋ सं. ८. ६. १) इत्यादिके महेन्द्रस्य ।। पूर्वपक्षिणोक्ते वशादृष्टान्ते वैषम्यमाह-

' वशायामर्थसमवायात् ' इति । या वशा विधिवाक्ये श्रुता तस्या एव निगमेषु छागशब्देन व्यवहारो न विरुद्धः । छागत्वलक्षणस्यार्थस्य वशायां समवेतत्वात् । तच्च प्रत्यक्षेणोपलभ्यते । इन्द्र-महेन्द्रयोस्तु भेद उपपादितः । तस्मात् विषमो दृष्टान्तः । एवं संस्कारपक्षे प्रगाथस्यैन्द्रकर्मण्यपकर्षप्रसङ्गात् तद्वारयितुं स्तोत्रशस्त्रयोः प्रधानकर्मत्वमिति सिद्धान्तिनो मतम् ।। पुनरपि पूर्वपक्षी तदेतन्मतं निराचष्टे--

‘यत्रेति वार्थवत्त्वात्स्यात् ' इति । वाशब्दः सिद्धान्तिमतव्यावृत्यर्थम् । यत्रैन्द्रं कर्म तत्र प्रगाथो नेतव्य इत्ययमेव पक्षः स्यात् । कुतः, अर्थवत्त्वात् । ऐन्द्रो मन्त्र इन्द्र प्रकाशयितुं समर्थ इत्यर्थवान् स्यात् । महेन्द्रं तु प्रकाशयितुमसमर्थत्वादानर्थक्यं प्रगाथस्य प्रसज्येत । तस्मात् देवताप्रकाशनरूपसंस्कारकर्मत्वमेव स्तोत्रशस्त्रयोर्युक्तमिति स्थितः पूर्वपक्षः ॥ अथ सिद्धान्तमाह –

अपि वा श्रुतिसंयोगात्प्रकरणे स्तौतिशंसती क्रियोत्पत्तिं विदध्याताम्' इति । 'अपि वा । इत्यनेन संस्कारकर्मत्वं व्यावर्त्यते । स्तौतिधातुः शंसतिधातुश्चेत्येतावुभावपि स्वप्रकरणे एव कस्याश्चित् प्रधानक्रियाया उत्पत्तिं विदध्याताम् । कुतः, श्रुतिसंयोगात्। तयोर्धात्वोर्वाच्योऽर्थः श्रुतिरित्युच्यते । तस्संयोगः प्रधानकर्मत्वे सिध्यति । तथा हि गुणिनमुपसर्जनीकृत्य तन्निष्टानां गुणानां प्राधान्येन कथनं स्तुतिः । यो देवदत्तः स चतुर्वेदाभिज्ञ इत्युक्ते सर्वे जनाः स्तुतिमवगच्छन्ति । गुणस्योपसर्जनत्वे तु न स्तुतिः प्रतीयते । यश्चतुर्वेदाभिज्ञस्तमाकारय ' इत्युक्ते स्तुतिं न मन्यन्ते किंत्वाह्वानप्राधान्यमेव बुध्यन्ते । एवं मन्त्रेष्वपि या देवता सेयमीदृशैर्गुणैरुपेतेति गुणप्राधान्यविवक्षायां मुख्यः स्तौतिधात्वर्थो विधीयते । त्वत्पक्षे तु येयमीदृग्गुणयुक्ता सेयं देवतेति देवतास्मरणस्य प्राधान्यादियं स्तुतिर्न स्यात्। ततः श्रुतिवशादेते प्रधानकर्मणी । तथा सति देवताप्रकाशने तात्पर्याभावात् ऐन्द्रोऽपि प्रगाथः स्वप्रकरणगते माहेन्द्रकर्मण्येवावतिष्ठते । यदि देवतास्मरणरूपं दृष्टं प्रयोजनं न लभ्येत तर्ह्यदृष्टमस्तु ॥ प्रधानकर्मत्वे हेत्वन्तरमाह---

'शब्दपृथक्त्वाच्च' इति । द्वादशाग्निष्टोमस्य स्तोत्राणि द्वादश शस्त्राणि ' इत्यत्र द्वादशशब्देन स्तोत्राणां पृथक्त्वमवगम्यते । देवताप्रकाशनपक्षे सर्वैरपि मन्त्रसंघैः कृतस्य प्रकाशनस्यैकत्वेन द्वादशसंख्या न स्यात् । प्रधानकर्मणां तु आज्यस्तोत्रपृष्ठस्तोत्रादिनामकानां भिन्नत्वात् द्वादशत्वसंख्योपपद्यते ।। एवं शस्त्रवाक्येऽपि योज्यम् ॥ विपक्षे बाधमाह

‘अनर्थकं च तद्वचनम् ' इति । अग्निष्टुति श्रूयते- आग्नेया ग्रहा भवन्ति' इति । तत्रैव पुनरप्यन्यदुच्यते-आग्नेयीषु स्तुवते । आग्नेयीः शंसन्ति' इति । त्वत्पक्षे तद्वचनमनर्थकं स्यात् ।। चोदकप्राप्तेषु स्तोत्रशस्त्रमन्त्रेष्वाग्नेयग्रहानुसारेण देवतापदस्य ऊहे सति आग्नेयत्वसिद्धेः । प्रधानकर्मपक्षे तु देवताप्रकाशनरूपस्वाभावेन ऊहाभावात् आग्नेयमन्त्रान्तरविधिवचनमर्थवद्भवति ॥ पुनरपि हेत्वन्तरमाह----

‘अन्यश्चार्थः प्रतीयते ' इति । ‘संबद्धे वै स्तोत्रशस्त्रे' इति ह्याम्नातम् । संबन्धश्च द्वयोर्भवति न त्वेकस्य । तस्मात् स्तोत्रशस्त्रयोरर्थभेदः प्रतीयते । स च संस्कारपक्षे न संभवति । देवताप्रकाशनरूपस्यार्थस्यैकत्वात् । प्रधानकर्मपक्षे तु स्तोत्रकर्म शस्त्रकर्म चेत्यर्थभेद उपपद्यते । यद्यपि ‘ष्टुञ् स्तुतौ '; ‘शंसु स्तुतौ ' इत्येकार्थौ, तथापि ‘प्रगीतमन्त्रसाध्यं स्तोत्रम् ', ' अप्रगीतमन्त्रसाध्यं शस्त्रम् ' इति तयोर्विवेकः ॥ हेत्वन्तरमाह

' अभिधानं च कर्मवत् ' इति । यया प्रधानकर्म ' अग्निहोत्रं जुहोति ' इति द्वितीयासंयोगेनाभिहितं, तथा प्रउगं शंसति ' इत्यभिधीयते । अतस्तत्सादृश्यात् प्रधानकर्मत्वम् ।। हेत्वन्तरमाह—

, फलनिर्वृत्तिश्च ' इति । ' स्तुतस्य स्तुतमसि ' ( तै. सं. ३. २. ७. १) इति स्तोत्रानुमन्त्रणमाम्नाय वाक्यशेषे स्तोत्रफलमेवाम्नातम्-' इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजामिषम् ' ( तै. सं. ३ २. ७. २) इति । न तु देवताप्रयुक्तं फलमाम्नातम् । अतो न देवतासंस्कारः किंतु प्रधानकर्मेति स्थितम् । अनेन तु निर्णयेन प्रयोजनं विकृतिषु ऊहाभावः । संस्कारपक्षे तु यस्यां विकृतौ देवतान्तरं तत्र तद्वाचकं पदमूहनीयं स्यात् । तन्मा भूदिति प्रधानकर्मत्वमुक्तम् । एतच्च दशमाध्याये सूत्रितं- ' ग्रहाणां देवतान्यत्वे स्तुतशस्त्रयोः कर्मत्वादविकारः स्यात् ' ( जै. सू. १०. ४. ४९) इति । अत्र संग्रहश्लोकौ-

प्रउगं शंसतीत्यादौ गुणतोत प्रधानता ।

दृष्टा देवस्मृतिस्तेन गुणता स्तोत्रशस्त्रयोः ।।

स्मृत्यर्थत्वे स्तौतिशंस्योर्धात्वोः श्रौतार्थबाधनम् ।

तेनादृष्टमुपेत्यापि प्राधान्यं श्रुतये मतम् ( जै. न्या. २. १. ५) इति ।।

अग्निष्टोमे सुत्यादिने, सूर्योदयात् पूर्वं प्रेषितो होता प्रातरनुवाकमनुब्रूयात् । एतच्चैतरेयब्राह्मणे प्रपञ्चितं- देवेभ्यः प्रातर्यावभ्यो होतरनुब्रूहीत्याहाध्वर्युः ' ( ऐ. ब्रा. २.१५) इत्यादि ब्राह्मणम् । तस्मिंश्च प्रातरनुवाके ' अग्निमीळे ' इत्यादिसूक्तमन्तर्भूतम् । तच्च व्याख्यातम् । प्रातःसवने वैश्वदेवग्रहणादूर्ध्वं प्रउगशस्त्रं होत्रा शंसनीयम् । तच्च शस्त्रं ' वायवा याहि ' इत्यादिसप्ततृचात्मकम् । एतच्च ब्राह्मणे ' ग्रहोक्थम् ' ( ऐ.ब्रा. ३.१) इत्यादिखण्डे प्रपञ्चितम् । तथा पञ्चमाध्याये ' स्तोत्रमग्रे शस्त्रात् ' ( आश्व. श्रौ. ५. १०) इत्यादिखण्डे सूत्रितं च । अत्रेयमनुक्रमणिका- वायो वायव्यैन्द्रवायवमैत्रावरुणास्तृचा अश्विना द्वादशाश्विनैन्द्रवैश्वदेवसारस्वतास्तृचाः सप्तैताः प्रउगदेवताः ' इति । अस्यायमर्थः । ' वायवा याहि ' इत्यादिकं नवर्चं सूक्तम् । ' अग्निं नव ' इत्यतो नवशब्दस्यानुवृत्तेः । तत्राद्यस्तृचो वायुदेवताकः । द्वितीय इन्द्रवायुदेवताकः । तृतीयो मित्रावरुणदेवताकः । ' अश्विना ' इत्यादिकं द्वादशर्चं सूक्तम् । तत्राद्यस्तृच आश्विनः । द्वितीय ऐन्द्रः । तृतीयो वैश्वदेवः । चतुर्थः सारस्वतः । तेषु तृचेषु प्रतिपाद्या वाय्वादयः सरस्वन्यन्ताः सप्तसंख्याकाः प्रउगशस्त्रस्य देवता इति । मधुच्छन्दसोऽनुवर्तनात् स एवर्षिः । तथैवानुवृत्त्या गायत्रं छन्दः । वायव्ये तृचे प्रथमा ग्रहस्य ऐन्द्रवायवस्यैका पुरोनुवाक्या । एतच्च ब्राह्मणे समाम्नातं- वायव्या पूर्वा पुरोनुवाक्यैन्द्रवायव्युत्तरा ' ( ऐ. ब्रा. २. २६) इति । तथा सूत्रितं च-' वायवा याहि दर्शतेन्द्रवायू इमे सुता इत्यनुवाक्ये ( आश्व श्रौ. ५ ५) इति ।।


वाय॒वा या॑हि दर्शते॒मे सोमा॒ अरं॑कृताः ।

तेषां॑ पाहि श्रु॒धी हवं॑ ॥१

वायो॒ इति॑ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः॑ । अर॑म्ऽकृताः ।

तेषा॑म् । पा॒हि॒ । श्रु॒धि । हव॑म् ॥१

वायो इति । आ । याहि । दर्शत । इमे । सोमाः । अरम्ऽकृताः ।

तेषाम् । पाहि । श्रुधि । हवम् ॥१

"दर्शत हे दर्शनीय "वायो कर्मण्येतस्मिन् आ "याहि आगच्छ । त्वदर्थम् "इमे "सोमा "अरंकृताः अलंकृताः । अभिषवादिसंस्कारोऽलंकारः। "तेषां तान् सोमान् । यद्वा। तेषामेकदेशमित्यध्याहारः। "पाहि स्वकीयं भागं पिबेत्यर्थः। तत्पानार्थं "हवम् अस्मदीयमाह्वानं “श्रुधि शृणु। अत्र यास्कः-’वायवा याहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् ' ( निरु. १०. २ ) इति ॥ दर्शतेत्यत्र ‘भृमृदृशि° ' ( उ. सू. ३. ३९० ) इत्यादिसूत्रेण अतच्प्रत्यय औणादिकः । चित्त्वादन्तोदात्तस्य आमन्त्रितानुदात्तत्वम् । अर्तिस्तुसु ' (उ. सू. १. १३७ ) इत्यादिना मन्प्रत्ययान्तस्य सोमशब्दस्य नित्स्वरः । अलमित्यत्र छान्दसो रेफादेशः । अरंकृतशब्दे समासान्तोदात्तत्वम् (पा. सू. ६. १. २२३) बाधित्वा अव्ययपूर्वपदप्रकृतिस्वरप्राप्तौ (पा. सू. ६. २. २) भूषणेऽलम्' (पा. सू. १. ४. ६४ ) इत्यलंशब्दस्य गतिसंज्ञायां ' गतिकारक° ' ( पा. सू. ६. २. १३९ ) इत्यादिना कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन ‘ गतिरनन्तरः ' ( पा. सू. ६. २. ४९ ) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छन्दसः । श्रुधीत्यत्र ‘श्रुशृणु° । (पा. सू. ६. ४. १०२) इत्यादिना हेर्धिभावः । तिङन्तादुत्तरस्य निघातो नास्ति । सेर्ह्यपिञ्च' (पा. सू. ३. ४. ८७ ) इति पित्वनिषेधानुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोः ‘बहुलं छन्दसि ' ( पा. सू. ६. १. ३४ ) इति संप्रसारणे सति उकारान्तत्वात् ‘ऋदोरप् ' ( पा. सू. ३. ३. ५७) इति अप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते। संहितायां श्रुधीत्यस्य ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति दीर्घः ।


वाय॑ उ॒क्थेभि॑र्जरंते॒ त्वामच्छा॑ जरि॒तारः॑ ।

सु॒तसो॑मा अह॒र्विदः॑ ॥२

वायो॒ इति॑ । उ॒क्थेभिः॑ । ज॒र॒न्ते॒ । त्वाम् । अच्छ॑ । ज॒रि॒तारः॑ ।

सु॒तऽसो॑माः । अ॒हः॒ऽविदः॑ ॥२

वायो इति । उक्थेभिः । जरन्ते । त्वाम् । अच्छ । जरितारः ।

सुतऽसोमाः । अहःऽविदः ॥२


हे "वायो "जरितारः स्तोतार ऋविग्यजमानाः “त्वामच्छ त्वामभिलक्ष्य “उक्थेभिः आज्यप्रउगादिशस्त्रैः "जरन्ते स्तुवन्ति। कीदृशाः। 'सुतसोमाः अभिषुतेन सोमेनोपेताः। "अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । ऋत्वभिज्ञा इत्यर्थः । ‘अर्चति गायति' इत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु “जरते ह्वयति' (नि. ३. १४, ८) इति पठितम् । स्तुतेरपि अर्चनाविशेषत्वात् औचित्येनात्र स्तुत्यर्थों जरतिधातुः । अच्छशब्दस्य संहितायां ‘निपातस्य च' ( पा. सू. ६. ३. १३६ ) इति दीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात् पूर्वपदप्रकृतिस्वरः ( पा. सू. ६. २. १ )। अहर्विद इत्यत्र समासस्वरं ( पा. सू. ६. १. २२३ ) बाधित्वा ‘तत्पुरुषे तुल्यार्थ° ( पा. सू. ६. २. २) इत्यादिना द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन ‘गतिकारकोपपदात्कृत (पा. सू. ६. २. १३९ ) इति कृदुत्तरपदप्रकृतिस्वरः ।।


वायो॒ तव॑ प्रपृंच॒ती धेना॑ जिगाति दा॒शुषे॑ ।

उ॒रू॒ची सोम॑पीतये ॥३

वायो॒ इति॑ । तव॑ । प्र॒ऽपृ॒ञ्च॒ती । धेना॑ । जि॒गा॒ति॒ । दा॒शुषे॑ ।

उ॒रू॒ची । सोम॑ऽपीतये ॥३

वायो इति । तव । प्रऽपृञ्चती । धेना । जिगाति । दाशुषे ।

उरूची । सोमऽपीतये ॥३

हे "वायो तव "धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवन्तं यजमानं जिगाति गच्छति । हे यजमान त्वया दत्तं सोमं पास्यामीत्येवं वायुर्ब्रूते इत्यर्थः। कीदृशी धेना । "प्रपृञ्चती प्रकर्षेण सोमसंपर्क कुर्वती सोमगुणं वर्णयन्तीत्यर्थः । उरूची उरून् बहून् यजमानान् गच्छन्ती । ये ये सोमयाजिनस्तान् सर्वान् वर्णयन्तीत्यर्थः ॥ प्रपृञ्चतीत्यत्र ‘शतुरनुमः' ( पा. सू. ६. १. १७३ ) इति ङीप् उदात्तः । ‘श्लोकः धारा ' इत्यादिषु सप्तपञ्चाशत्सु वाङ्नामसु ' गणः धेना ग्नाः' ( नि. १. ११. ३९ ) इति पठितम् । वर्तते अयते' इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु “ गाति जिगाति' (नि. २. १४. ११३) इति पठितम् । दाशुषे इत्यत्र ‘गत्यर्थकर्मणि' (पा. सू. २. ३. १२ ) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन ( पा. सू. ४. १. ४१ ) ङीषि कृते प्रत्ययस्वरः । सोमपीतये इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥


इंद्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒रा ग॑तं ।

इंद॑वो वामु॒शंति॒ हि ॥४

इन्द्र॑वायू॒ इति॑ । इ॒मे । सु॒ताः । उप॑ । प्रयः॑ऽभिः । आ । ग॒त॒म् ।

इन्द॑वः । वा॒म् । उ॒शन्ति॑ । हि ॥४

इन्द्रवायू इति । इमे । सुताः । उप । प्रयःऽभिः । आ । गतम् ।

इन्दवः । वाम् । उशन्ति । हि ॥४


एतस्या ऋच ऐन्द्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे "इन्द्रवायू भवदर्थम् “इमे सोमाः सुताः अभिषुताः। तस्मात् युवां प्रयोभिः अन्नैरस्मभ्यं दातव्यैः सह “उप “आ “गतम्, अस्मत्समीपं प्रति आगच्छतम्। "हि यस्मात् इन्दवः सोमाः “वां युवाम् "उशन्ति कामयन्ते तस्मात् आगमनमुचितम् ॥ इन्द्रवायूशब्दस्यामन्त्रिताद्युदात्तत्वम् । प्रीणयन्ति भोक्तॄनिति प्रयांस्यन्नानि । प्रीञ्धातोरन्तर्भावितण्यर्थात् (पा. सू. ३. १. २६ ) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘अनुदात्तोपदेश' ( पा. सू. ६. ४. ३७) इत्यादिना मकालोपः । ततो गतमिति भवति । ‘उन्दी क्लेदने ! इति धातोः ‘ उन्देरच्चादेः' (उ. सू. १. १२) इति उन्प्रत्ययः। आद्यक्षरस्य इकारादेशः । तत इन्दुशब्दस्य नित्स्वरः। सोमरसस्य द्रवत्वात् क्लेदनं संभवति। युष्मच्छब्दादेशस्य वामित्येतस्य ‘अनुदात्तं सर्वमपादादौ (पा. सू. ८. १. १८) इत्यनुदात्तः । उशन्तीत्यस्य निघाते ' हि च ' ( पा. सू. ८, १, ३४ ) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हिशब्दस्य निपातस्वरः ॥


वाय॒विंद्र॑श्च चेतथः सु॒तानां॑ वाजिनीवसू ।

तावा या॑त॒मुप॑ द्र॒वत् ॥५

वायो॒ इति॑ । इन्द्रः॑ । च॒ । चे॒त॒थः॒ । सु॒ताना॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ।

तौ । आ । या॒त॒म् । उप॑ । द्र॒वत् ॥५

वायो इति । इन्द्रः । च । चेतथः । सुतानाम् । वाजिनीवसू इति वाजिनीऽवसू ।

तौ । आ । यातम् । उप । द्रवत् ॥५


अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव। हे "वायो त्वम् इन्द्रश्च युवामुभौ "सुतानाम् अभिषुतान् सोमान् "चेतथः जानीथः । यद्वा। अभिषुतानां सोमानां विशेषमित्यध्याहारः। कीदृशौ युवाम्। “वाजिनीवसू । वाजिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविः संततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमन्त्रितत्वादनुदात्तः। “तौ तथाविधौ युवां "द्रवत् क्षिप्रम् “उप समीपे "आ "यातम् आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु ‘नु क्षिप्रं मधु द्रवत्' (नि. २. १५. ३ ) इति पठितम् । तत्र फिट्स्वरः ॥ ॥ ३ ॥


वाय॒विंद्र॑श्च सुन्व॒त आ या॑त॒मुप॑ निष्कृ॒तं ।

म॒क्ष्वि१॒॑त्था धि॒या न॑रा ॥६

वायो॒ इति॑ । इन्द्रः॑ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप॑ । निः॒ऽकृ॒तम् ।

म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥६

वायो इति । इन्द्रः । च । सुन्वतः । आ । यातम् । उप । निःऽकृतम् ।

मक्षु । इत्था । धिया । नरा ॥६

हे "वायो त्वम् इन्द्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य "निष्कृतं संस्कृतं संस्कर्तारं वा सोमम् "उप आ "यातम् आगच्छतम् । "नरा हे नरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवयोरागतयोश्च सतोः "धिया अमुना कर्मणा "मक्षु त्वरया संस्कारः संपत्स्यते। "इत्था सत्यम्॥ वायो इत्यस्य ‘आमन्त्रितस्य (पा. सू. ६. १. १९८) इति षाष्ठिकमाद्युदात्तत्वम् । इन्द्रशब्दः ‘ ऋजेन्द्रा ' ( उ. सू. २. १८६ ) इत्यादिना रन्प्रत्ययान्तत्वेन निपातितो नित्यादिर्नित्यम् ' ( पा. सू. ६. १. १९७ ) इत्याद्युदात्तः । चशब्दः ‘चादयोऽनुदात्ताः' ( फि. सू. ८४ ) इत्यनुदात्तः । सुन्वत इत्यत्र ‘शतुरनुमो नद्यजादी' (पा. सू. ६. १. १७३) इति विभक्तेरुदात्तत्वम् । ‘ निरित्येष समित्येतस्य स्थाने ' ( निरु. १२. ७) इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः ( पा, सू. ३. ४. ७१ ) । संस्कर्तुं प्रवृत्त इत्यर्थः । “कुगतिप्रादयः' ( पा. सू. २. २. १८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते ' थाथघञ्ताादजबित्रकाणाम् ' ( पा. सू. ६. २. १४४ ) इत्यन्तोदात्तः । ‘गतिरनन्तरः ' ( पा. सू. ६. २. ४९ )। इति तु निसः उदात्तत्वं न भवति । तद्धि कर्मणि क्े विहितम् (पा. सू. ६. २. ४८ )। निष्करोतीति निष्कृदिति क्विबन्तव्याख्याने तु ‘गतिकारकोपपदात्कृत्' (पा. सू. ६. २. १३९ ) इति ऋकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः° '( पा. सू. ६. १. १६८ ) इति विभक्तिरुदात्ता । नरा । ‘सुपां सुलुक्' ' ( पा. सू. ७. १. ३९ ) इत्यादिना संबोधनद्विवचनस्य डादेशः । पदापरत्वात् ' आमन्त्रितस्य' (पा. सू. ८. १. १९ ) इत्याष्टमिको निघातः ॥


‘मित्रं हुवे' इति मैत्रावरुणस्तृचो गवामयने आरम्भणीये चतुर्विंशेऽहनि प्रातःसवने मैत्रावरुणस्य स्तोत्रियः। तत्रैव अभिप्लवषडहेऽपि विनियुक्तः। तथा चाश्वलायनेन ‘चतुर्विंशे होताऽजनिष्ट' इत्यादिखण्डे मित्रं वयं हवामहे मित्रं हुवे पूतदक्षम्' (आश्व. श्रौ. ७. २ ) इत्यादि सूत्रितम् । तथाह ' अभिप्लवपृष्ठ्याहानि' इति खण्डे परिशिष्टानावापानुद्धत्य ‘मित्रं वयं हवामहे मित्रं हुवे पूतदक्षम्' (आश्व. श्रौ. ७. ५) इति च ॥


मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सं ।

धियं॑ घृ॒ताचीं॒ साधं॑ता ॥७

मि॒त्रम् । हु॒वे॒ । पू॒तऽद॑क्षम् । वरु॑णम् । च॒ । रि॒शाद॑सम् ।

धिय॑म् । घृ॒ताची॑म् । साध॑न्ता ॥७

मित्रम् । हुवे । पूतऽदक्षम् । वरुणम् । च । रिशादसम् ।

धियम् । घृताचीम् । साधन्ता ॥७

अहमस्मिन् कर्मणि हविष्प्रदानाय "पूतदक्षं पवित्रबलं "मित्रं हुवे। तथा “रिशादसं रिशानां हिंसकानाम् अदसम् अत्तारं वरुणं च हुवे आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमञ्चति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं "धियं साधन्ता साधयन्तौ कुर्वन्तौ ॥ मित्रशब्दः पुँल्लिङ्गः प्रातिपदिकस्वरेणान्तोदात्तः । हुवे इति हूयतेः ‘बहुलं छन्दसि' ( पा. सू. २. ४. ७३ ) इति शपो लुकि सति ‘ह्वः संप्रसारणम्' (पा. सू. ६. १. ३२) इत्यनुवृत्तौ ‘बहुलं छन्दसि’ ( पा. सू. ६.१. ३४ ) इति संप्रसारणे उवङादेशः । तिङ्ङतिङः' (पा. सू ८. १. २८) इति निघातः। पूतशब्दः प्रत्ययस्वरेणान्तोदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वरुणशब्दः ‘कॄवृदारिभ्य उनन्’ (उ. सू.३. ३३३) इति उनन्प्रत्ययान्तो नित्त्वादाद्युदात्तः । रिशन्ति हिंसन्तीति रिशाः शत्रवः। ‘इगुपधज्ञाप्रीकिरः कः' (पा. सू. ३. १. १३५ ) इति कः । प्रत्ययस्वरेणोदात्तः । तानत्तीति रिशादाः, तम् । ‘सर्वधातुभ्योऽसुन् ' ( उ. सू. ४, ६२८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते। शेषनिघाते सति ‘एकादेश उदात्तेनोदात्तः' (पा. सू.८.२.५) इति सवर्णदीर्घोऽप्युदात्त एव। ‘धीः' इति ‘अपः' इत्यादिषड्विंशतौ कर्मनामसु (नि. २.१.२१)पठितः। प्रातिपदिकस्वरेणान्तोदात्तः । घृतमञ्चतीति घृताची । 'ऋविग्दधृक् ' (पा. सू. ३. २. ५९ ) इत्यादिना क्विनि “ अनिदिताम्' (पा. सू. ६. ४. २४) इति नकारलोपः । ‘अञ्चतेश्चोपसंख्यानम्' (पा. सू. ४. १. ६. २) इति ङीप् ! ‘अचः' (पा. सू. ६. ४. १३८ ) इत्यकारलोपे ‘चौ ' (पा. सू. ६. ३. १३८ ) इति दीर्घत्वम् । घृतशब्दः ‘नब्विषयस्यानिसन्तस्य' (फि. सू. २६ ) इत्याद्युदात्तं बाधित्वा 'घृतादीनां च ' (फि. सू. २१ ) इत्यन्तोदात्तः। 'समासस्य' ( पा. सू. ६. १. २२३ ) इत्यन्तोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थं° ' (पा. सू. ६. २. २) इतिपूर्वपदप्रकृतिस्वरं बाधित्वा ‘गतिकारकोपपदात् ' ( पा. सू. ६. २. १३९ ) इति उत्तरपदप्रकृतिस्वरेणोदात्तस्य धात्वकारस्य लोपे सति ‘अनुदात्तस्य च यत्रोदात्तलोपः' ( पा. सू. ६. १. १६१ ) इति ङीप उदात्तत्वे प्राप्ते ‘चौ ' ( पा. सू. ६. १. २२२) इति पूर्वपदान्तोदात्तत्वम् । साधन्ता । ‘राध साध संसिद्धौ ' इत्यस्मादन्तर्भावितण्यर्थात् लटः शत्रादेशे ( पा. सू. ३. २. १२४) क्षुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् (पा. सू. ६. १. १८६) । द्वितीयाद्विवचनस्य शपश्च ‘अनुदात्तौ सुप्पितौ ' ( पा. सू. ३. १, ४) इत्यनुदात्तत्वे ‘धातोः ' (पा. सू. ६. १. १६२) इति धातुस्वर एव शिष्यते । ‘सुपां सुलुक्' (पा. सू. ७. १, ३९) इत्यादिना विभक्तेराकारादेशः ॥


ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा ।

क्रतुं॑ बृ॒हंत॑माशाथे ॥८

ऋ॒तेन॑ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒ऽवृ॒धौ॒ । ऋ॒त॒ऽस्पृ॒शा॒ ।

क्रतु॑म् । बृ॒हन्त॑म् । आ॒शा॒थे॒ इति॑ ॥८

ऋतेन । मित्रावरुणौ । ऋतऽवृधौ । ऋतऽस्पृशा ।

क्रतुम् । बृहन्तम् । आशाथे इति ॥८

हे “मित्रावरुणौ युवां “क्रतुं प्रवर्तमानमिमं सोमयागम् “आशाथे आनशाथे व्याप्तवन्तौ । केन निमित्तेन । “ऋतेन अवश्यंभावितया सत्येन फलेन । अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । “ऋतावृधौ । 'ऋतमित्युदकनाम' (निरु. २. २५), ‘सत्यं वा यज्ञं वा ' ( निरु. ४. १९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव “ऋतस्पृशा उदकादीन् स्पृशन्तौ । कीदृशं क्रतुम् । “बृहन्तम् अङ्गैरुपाङ्गैश्च अतिप्रौढम् ॥ ऋतशब्दो घृतादित्वादन्तोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । “ देवताद्वन्द्वे च ' ( पा. सू. ६. ३. २६ ) इति पूर्वपदस्य आनङादेशः । ऋतस्य वर्धयितारौ इत्यर्थेऽन्तर्भावितण्यर्थात् वृधेः क्विप् । ‘अन्येषामपि दृश्यते ' ( पा. सू. ६. ३. १३७ ) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । ‘सुपां सुलुक् ' ( पा. सू. ७. १. ३९ ) इति डादेशः । मित्रावरुणावित्याद्यामन्त्रितत्रयस्य स्वस्वपूर्वपदात् परत्वात् ' आमन्त्रितस्य ' ( पा. . ८. १. १९ ) इति आष्टमिको निघातः । ननु ऋतेन इत्येतस्य ‘सुबामन्त्रिते पराङ्गवत्स्वरे ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन आमन्त्रितानुप्रवेशात् पादादित्वेन पदादपरत्वेन वा आष्टमिकनिघाताभावात् ' आमन्त्रितस्य च ' ( पा. सू. ६. १. १९८ ) इत्याद्युदात्तेन भवितव्यमिति चेत्, न। पराङ्गवद्भावस्य सुबामन्त्रिताश्रयत्वेन पदविधित्वात् ‘समर्थः पदविधिः' (पा. सू. २. १. १) इति नियमात् । इह च ऋतेन मित्रावरुणौ इत्यनयोः आशाथे इति आख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र पराङ्गवद्भावात् पादादेः आद्युदात्तत्वं भवत्येव । यथा 'मरुतां पितस्तदहं गृणामि ' इति । ' मृग्रोरुतिः ' ( उ. सू. १. ९४ ) । इति उतिप्रत्ययान्तत्वेन ‘पृश्नियै वै पयसो मरुतो जाताः' (तै. सं. २. २. ११. ४ ) । इत्यादौ अन्तोदात्तोऽपि हि मरुच्छब्दो ‘ मरुतां पितः' इत्यत्र सामर्थ्यात् पराङ्गवद्भावादेव आद्युदात्तो जातः । प्रकृते तु ऋतेन इत्यस्यासामर्थ्यादेव न पराङ्गवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामन्त्रितस्य निघाते कर्तव्ये ‘आमन्त्रितं पूर्वमविद्यमानवत् ' ( पा. सू. ८. १.७२ ) इति प्रथमामन्त्रितेन अविद्यमानवद्भवितव्यमिति चेत्, भवतु । अत एव तस्याव्यवधायकत्वात् ऋतेन इति प्रथमपदात् परत्वेनैव द्वितीयामन्त्रितं निहनिष्यते । यथा “ इमं मे गङ्गे यमुने' ( ऋ. सं. १०. ७५, ६ ) इत्यादौ गङ्गेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव मे इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किं च प्रकृते मित्रावरुणौ इत्यामन्त्रितं सामान्यवचनम् । तस्य विशेषणतया विशेषवचनम् ऋतावृधाविति । अतः ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' ( पा. सू. ८. १.७३ ) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरन्तरायो द्वितीयस्य निघातः ॥ ननु एवमपि ‘अपादादौ ' (पा. सू. ८. १. १८) इत्यनुवृत्तेर्ऋतावृधेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हि ‘इमं मे गङ्गे' इत्यत्र शुतुद्रिपदस्य पदात् परस्य आमन्त्रितस्यापि पादादित्वादेव अनिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति ॥ उच्यते---मित्रावरुणपदस्य ‘सुबामन्त्रिते० ' ( पा. सू. २. १. २) इति पराङ्गवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्वम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य पराङ्गवद्भावेन न पादादिरिति निहन्येत इति चेत्, न । पराङ्गवद्भीवस्तावत् सुबन्तमामन्त्रितं चाश्रित्य प्रवृत्तेः' पदविधिः । अतस्तयोः सत्येव परस्परान्वये पराङ्गवद्भावेन भवितव्यं समर्थः पदविधिः' (पा, सू. २. १. १ ) इति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः किंतु सचत इत्यनेन इत्यसामर्थ्यात् न पराङ्गवद्भावः । प्रकृते तु मित्रावरुणौ ऋतावृधौ इति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्तिसामर्थ्यमिति भवितव्यं पराङ्गवद्भावेन । यथा “ मरुतां पितः' इत्यत्रेति विशेषः ॥ ननु अत एव तर्हि मित्रावरुणपदस्य पराङ्गवद्भावेन पादादित्वात् “ अपादादौ ' इति पर्युदासादामन्वितनिघातो न स्यादिति चेत् , न । पूर्वं सुबन्तं परं चामन्त्रितमाश्रित्य यः स्वरः प्रवर्तते तत्र ‘सुबामन्त्रिते' इति पराङ्गवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य पराङ्गवद्भावेनापादादित्वात् स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामन्त्रितमिति न पराङ्गवद्भावः ॥ ननु पराङ्गवद्भाववन्निघातोऽपि पदविधिरिति ऋतेन इत्यनेनासामर्थ्यात् ततः पदात्परस्य मित्रावरुणपदस्य न स्यात् इति चेत्, न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः' (पा. सू. २. १. १. ११) इति निघाते पदविधावपि समानवाक्यत्वमेव पर्याप्तं, न पराङ्गवद्भाववत् परस्परान्वयोऽपीत्यलम् । क्रतुम् । ‘कृञः कतुः' (उ. सू. १. ७७ )। प्रत्ययस्वरेणादिरुदात्तः । आशाथे आनशाथे। 'छन्दसि लुङ्लङ्लिटः ' ( पा. सू. ३. ४. ६) इति वर्तमाने लिट् । नुडभावश्छन्दसः ॥


क॒वी नो॑ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया॑ ।

दक्षं॑ दधाते अ॒पसं॑ ॥९

क॒वी इति॑ । नः॒ । मि॒त्रावरु॑णा । तु॒वि॒ऽजा॒तौ । उ॒रु॒ऽक्षया॑ ।

दक्ष॑म् । द॒धा॒ते॒ इति॑ । अ॒पस॑म् ॥९

कवी इति । नः । मित्रावरुणा । तुविऽजातौ । उरुऽक्षया ।

दक्षम् । दधाते इति । अपसम् ॥९

मित्रावरुणावेतौ देवौ "नः अस्माकं “दक्षं बलम् “अपसं कर्म च “दधाते पोषयतः। कीदृशौ। "कवी मेधाविनौ। “तुविजातौ बहूनामुपकारकतया समुत्पन्नौ । “उरुक्षया बहुनिवासौ । ‘विप्रः धीरः' इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु ' कविः मनीषी' ( नि. ३. १५. १०) इति पठितम् । ‘उरु तुवि ' (नि. ३. १. १, २) इत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ‘ओजः पाजः' इत्यादिषु अष्टाविंशति संख्याकेषु बलनामसु ‘दक्षः वीळु' (नि. २. ९. १३) इति पठितम् । अपःशब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः (नि. २. १. १) ॥ मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वन्द्वे देवताद्वन्द्वे च' ( पा. सू. ६. २. १४१ ) इत्युभौ अवशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबन्धित्वेन जाताविति षष्ठीसमासे समासान्तोदात्तत्वम् । चतुर्थी समासे हि क्ते च' (पा. सू. ६. २. ४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयौ उरुक्षयौ । ‘क्षि निवासगत्यो-' इति धातोः क्षियन्त्यस्मिन्निति क्षयः । अधिकरणे ‘एरच् ' ( पा. सू. ३. ३. ५६ ) इत्यच्प्रत्ययान्तस्य ‘चितः' ( पा. सू. ६. १, १६३) इत्यन्तोदात्तत्वे प्राप्ते 'क्षयो निवासे' (पा. सू. ६. १. २०१ ) इत्याद्युदात्तत्वं विहितम् । समासे तु ‘समासस्य' (पा. सू. ६. १. २२३ ) इत्यन्तोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्य़ुदात्तत्वं यद्यपि थाथादिस्वरेणान्तोदात्तेन बाध्यते, तथापि ‘परादिश्छन्दसि बहुलम् । (पा. सू. ६. २. १९९) इत्युत्तरपदाद्युदात्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञित्वादाद्युदात्तः । आप्यते फलमनेन इति अपः कर्म । ‘आपः कर्माख्यायां ह्रस्वो नुट्च वा' (उ. सू. ४. ६४७ ) इत्यसुनन्तस्य ‘अपसस्पारे' ( ऋ. सं. ६. ६९. १) इत्यादौ नित्त्वादाद्युदात्तस्यापि अपःशब्दस्य अत्र व्यत्ययेन प्रत्ययाद्युदात्तत्वम् ॥ ॥ ४ ॥


सम्पाद्यताम्

प्रउगशब्दोपरि संदर्भाः

प्रउगशस्त्रतृच- (हौ०) सोमयज्ञेषु प्रकृतिभूत- ज्योति-तद्विकृतिषु चैकाहाहीनसत्रेषु विशेषवर्जं प्रातःसवने होतुः प्रउगशस्त्रस्य 'वायवा याहि दर्शतं (ऋ० १ । २ । १- ३) इति वायव्यः प्रथमस्तृचः । 'इन्द्रवायू इमे सुताः' (ऋ० १ । २ ।४६ । इति ऐन्द्रवायवो द्वितीयस्तृचः । 'मित्रं हुवे पूतदक्षम् (ऋ० १ । २ ।६-८ इति मैत्रावरुणस्तृतीयस्तृचः । ' आश्विना यज्वरीरिषः' (ऋ० १ । ३ । १-३) इति आश्विनश्चतुर्थस्तृचः । 'इन्द्राऽऽयाहि चित्रभानो' (ऋ० १ । ३ ।४- ६) इति ऐन्द्रः पञ्चमस्तृचः । ' ओमासश्चर्षणीधृतः' ऋ० १ । ३।७-९) इति वैश्वदेवः षष्ठस्तृचः । 'पावका नः सरस्वती' (ऋ० १ । ३ । १०- १२) इति सारस्वतः सप्तमस्तृचः । इति तत्तद्देवत्याः सप्ततृचा भवन्ति । तृचानां पुरस्तात् यथासंख्येन शोंसावोम्' इत्याहावहिताः 'वायुरग्रेगाः' इत्याद्याः सप्त पुरोरुचः (ऋ०खि० ५ ।६ । १ -७) पठितव्याः । शंसनप्रकारः-द्र० अग्निष्टोमे होतुः प्रउगशस्त्र-, का० श्रौ० १ । ३ ।८ टि० विद्याधरः । श्रौतयज्ञप्रक्रिया - पदार्थानुक्रमकोषः। प्रणेता पण्डित पीताम्बरदत्त शास्त्री

मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.२&oldid=207537" इत्यस्माद् पुनः प्राप्तिः