← सूक्तं ७.९१ ऋग्वेदः - मण्डल ७
सूक्तं ७.९२
मैत्रावरुणिर्वसिष्ठः
सूक्तं ७.९३ →
दे. वायुः, २, ४ इन्द्रवायू। त्रिष्टुप्।


आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥१॥
प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै ।
प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥२॥
प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।
नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥३॥
ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥४॥
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ।
वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥५॥


सायणभाष्यम्

‘आ वायो' इति पञ्चर्चं तृतीयं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं वायव्यम् । अनुक्रान्तं च --- ‘ आ वायो पञ्च ' इति । शुनासीरीये पर्वणि वायोर्नियुत्वतो यागस्य ‘आ वायो ' इत्यनुवाक्या । सूत्रितं च --- आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमच्छ ' ( आश्व. श्रौ. २.२० ) इति । नियुत्वद्वायुदेवताके पशावेषैव वपाया अनुवाक्या ( आश्व. श्रौ. ३. ८)। प्रथमे छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैवाद्या । सूत्रितं च -- समुद्रादूर्मिरित्याज्यमा वायो भूष शुचिपाः' (आश्व. श्रौ. ८.९) इति ॥


आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।

उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ॥१

आ । वा॒यो॒ इति॑ । भू॒ष॒ । शु॒चि॒ऽपाः॒ । उप॑ । नः॒ । स॒हस्र॑म् । ते॒ । नि॒ऽयुतः॑ । वि॒श्व॒ऽवा॒र॒ ।

उपो॒ इति॑ । ते॒ । अन्धः॑ । मद्य॑म् । अ॒या॒मि॒ । यस्य॑ । दे॒व॒ । द॒धि॒षे । पू॒र्व॒ऽपेय॑म् ॥१

आ । वायो इति । भूष । शुचिऽपाः । उप । नः । सहस्रम् । ते । निऽयुतः । विश्वऽवार ।

उपो इति । ते । अन्धः । मद्यम् । अयामि । यस्य । देव । दधिषे । पूर्वऽपेयम् ॥१

हे “शुचिपाः शुचेः शुद्धस्य सोमस्य पातः “वायो “नः अस्माकम् “उप समीपे “आ “भूष आगच्छ । ‘ भू प्राप्तौ ' इत्यस्यैतद्रूपम् । हे “विश्ववार विश्वैर्वरणीय “ते तव वाहनभूताः “नियुतः वडवाः “सहस्रं सहस्रसंख्याका विद्यन्ते । यत एवमतः शीघ्रमागच्छ । “ते तव “मद्यं मदकरं सोमलक्षणम् “अन्धः अन्नम् “उपो उप उ उप “अयामि । उपयतं पात्रे गृहीतमासीत् । हे “देव वायो “यस्य सोमस्य “पूर्वपेयं प्रथमपानं “दधिषे दधासि धारयसि । ऐन्द्रवायवग्रहे प्रथमे वषट्कारे केवलाय वायवे हूयते द्वितीये त्विन्द्रवायुभ्यामिति वायोः प्रथमपानम् । तादृशमन्धंं उपायामीत्यन्वयः ॥


प्रथमे छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य ‘प्र सोता' इत्याद्या । सूत्रितं च - ‘ प्र सोता जीरो अध्वरेष्वस्थाद्ये वायव इन्द्रमादनासः ' ( आश्व. श्रौ. ८. ९) इति ॥

प्र सोता जीरो अध्वरेष्व॑स्थात्सोममिन्द्रय वायवे पिबध्यै ।

प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै ।

प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्त॒ः शची॑भिः ॥२

प्र । सोता॑ । जी॒रः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । सोम॑म् । इन्द्रा॑य । वा॒यवे॑ । पिब॑ध्यै ।

प्र । यत् । वा॒म् । मध्वः॑ । अ॒ग्रि॒यम् । भर॑न्ति । अ॒ध्व॒र्यवः॑ । दे॒व॒ऽयन्तः॑ । शची॑भिः ॥२

प्र । सोता । जीरः । अध्वरेषु । अस्थात् । सोमम् । इन्द्राय । वायवे । पिबध्यै ।

प्र । यत् । वाम् । मध्वः । अग्रियम् । भरन्ति । अध्वर्यवः । देवऽयन्तः । शचीभिः ॥२

"जीरः क्षिप्रकारी “सोता अभिषोताध्वर्युः “इन्द्राय “वायवे च “पिबध्यै पानार्थम् “अध्वरेषु यागेषु “सोमं “प्र “अस्थात् प्रातिष्ठिपत् । पुरस्तादुत्तरवेदिं प्रापितवान् । हे इन्द्रवायू “यत् येषु यज्ञेषु “मध्वः सोमस्य “अग्रियम् अग्रभवं प्रथमभागं “देवयन्तः देवकामाः “अध्वर्यवः “शचीभिः कर्मभिरभिषवादिलक्षणैः “वां युवयोरर्थं “प्र “भरन्ति प्रकर्षेण भरन्ति संपादयन्ति । तेष्वध्वरेष्वित्यन्वयः॥


शुनासीरीये पर्वणि नियुत्वद्वायोर्यागस्य ‘प्र याभिः' इति याज्या । सूत्रितं च- ‘ प्र याभिर्यासि दाश्वांसमच्छ स त्वं नो देव मनसा ' ( आश्व. श्रौ. २. २०) इति । तद्देवत्ये पशावेषैव पुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ प्र याभिर्यासि दाश्वांसमच्छा नो नियुद्भिः शतिनीभिः' (आश्व. श्रौ. ३. ८) इति । प्रथमे छन्दोमे प्रउगशस्त्र एषैव वायव्यतृचस्य द्वितीया । सूत्रितं च - ‘ आ वायो भूष शुचिपा उप नः प्र याभिर्यासि दाश्वांसमच्छ ' (आश्व. श्रौ. ८. ९) इति ।।

प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे ।

नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑ः ॥३

प्र । याभिः॑ । यासि॑ । दा॒श्वांस॑म् । अच्छ॑ । नि॒युत्ऽभिः॑ । वा॒यो॒ इति॑ । इ॒ष्टये॑ । दु॒रो॒णे ।

नि । नः॒ । र॒यिम् । सु॒ऽभोज॑सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य॑म् । अश्व्य॑म् । च॒ । राधः॑ ॥३

प्र । याभिः । यासि । दाश्वांसम् । अच्छ । नियुत्ऽभिः । वायो इति । इष्टये । दुरोणे ।

नि । नः । रयिम् । सुऽभोजसम् । युवस्व । नि । वीरम् । गव्यम् । अश्व्यम् । च । राधः ॥३

हे "वायो “दुरोणे यज्ञगृहे स्थितं “दाश्वांसं हविषां दातारं यजमानम् “इष्टये यागाय “याभिः “नियुद्भिः वडवाभिः "अच्छ “यासि अभिगच्छसि ताभिरस्मान् प्रत्यागच्छेति शेषः । आगत्य च “नः अस्मभ्यं “सुभोजसं शोभनान्नयुक्तं “रयिं धनं “नि “युवस्व नितरां मिश्रय प्रयच्छ । तथा “वीरं पुत्रं “गव्यं गोसंघम् “अश्व्यम् अश्वसंघमेतदुभयात्मकं “राधः धनं “च “नि युवस्व प्रयच्छ ॥ ।


प्रथमे छन्दोमे प्रउगशस्त्र ऐन्द्रवायवतृचस्य • ये वायव इन्द्र ' इति द्वितीया । सूत्रितं च -- ‘ ये वायव इन्द्रमादनासो या वां शतं नियुतो याः सहस्रम् ' (आश्व. श्रौ. ८. ९) इति ॥

ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः ।

घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभि॑ः ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥४

ये । वा॒यवे॑ । इ॒न्द्र॒ऽमाद॑नासः । आऽदे॑वासः । नि॒ऽतोश॑नासः । अ॒र्यः ।

घ्नन्तः॑ । वृ॒त्राणि॑ । सू॒रिऽभिः॑ । स्या॒म॒ । स॒स॒ह्वांसः॑ । यु॒धा । नृऽभिः॑ । अ॒मित्रा॑न् ॥४

ये । वायवे । इन्द्रऽमादनासः । आऽदेवासः । निऽतोशनासः । अर्यः ।

घ्नन्तः । वृत्राणि । सूरिऽभिः । स्याम । ससह्वांसः । युधा । नृऽभिः । अमित्रान् ॥४

“ये सूरयः स्तोतारः “इन्द्रमादनासः स्तोत्रैरिन्द्रस्य तर्पयितारस्तथा “वायवे वायोश्च मादनाः तर्पका भवन्ति । ये च “आदेवासः जागतैरुपेता अत एव “अर्यः अरेः शत्रोः “नितोशनासः निहन्तारः । तैरस्मदीयैः “सूरिभिः स्तोतृभिः “वृत्राणि शत्रून् “घ्नन्तः हिंसन्तः “स्याम भवेम । किं कुर्वन्तः। “अमित्रान् शत्रुभटान् “नृभिः अस्मदीयैः पुरुषैः "युधा युद्धेभिः “ससह्वांसः अभिभवन्तः ॥


नियुत्वद्वायुदेवताके पशौ ‘आ नो नियुद्भिः ' इति हविषोऽनुवाक्या । सूत्रितं च - ‘ आ नो नियुद्भिः शतिनीभिरध्वरं पीवोअन्नां रयिवृधः सुमेधाः ' (आश्व. श्रौ. ३. ८) इति । प्रथमे छन्दोमे प्रउगशस्त्रे वायव्यतृचस्यैषैव तृतीया । सूत्रितं च --- आ नो नियुद्भिः शतिनीभिरध्वरं प्र सोता जीरो अध्वरेष्वस्थात् ' (आश्व. श्रौ. ८. ९) इति ।।

आ नो॑ नि॒युद्भि॑ः श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।

वायो॑ अ॒स्मिन्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥५

आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् ।

वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥५

आ । नः । नियुत्ऽभिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् ।

वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥५

हे “वायो “नः अस्माकम् “अध्वरं हिंसारहितं “यज्ञं “शतिनीभिः शतसंख्यावतीभिः “सहस्रिणीभिः सहस्रसंख्यावतीभिश्च “नियुद्भिः वडवाभिः “उप “आ “याहि उपागच्छ। तदनन्तरम् “अस्मिन् “सवने प्रातःसवने “मादयस्व सोमेन तृप्यस्व । अन्यद्गतम् ॥ ॥ १४ ॥

मण्डल ७

सूक्तं ७.१

सूक्तं ७.२

सूक्तं ७.३

सूक्तं ७.४

सूक्तं ७.५

सूक्तं ७.६

सूक्तं ७.७

सूक्तं ७.८

सूक्तं ७.९

सूक्तं ७.१०

सूक्तं ७.११

सूक्तं ७.१२

सूक्तं ७.१३

सूक्तं ७.१४

सूक्तं ७.१५

सूक्तं ७.१६

सूक्तं ७.१७

सूक्तं ७.१८

सूक्तं ७.१९

सूक्तं ७.२०

सूक्तं ७.२१

सूक्तं ७.२२

सूक्तं ७.२३

सूक्तं ७.२४

सूक्तं ७.२५

सूक्तं ७.२६

सूक्तं ७.२७

सूक्तं ७.२८

सूक्तं ७.२९

सूक्तं ७.३०

सूक्तं ७.३१

सूक्तं ७.३२

सूक्तं ७.३३

सूक्तं ७.३४

सूक्तं ७.३५

सूक्तं ७.३६

सूक्तं ७.३७

सूक्तं ७.३८

सूक्तं ७.३९

सूक्तं ७.४०

सूक्तं ७.४१

सूक्तं ७.४२

सूक्तं ७.४३

सूक्तं ७.४४

सूक्तं ७.४५

सूक्तं ७.४६

सूक्तं ७.४७

सूक्तं ७.४८

सूक्तं ७.४९

सूक्तं ७.५०

सूक्तं ७.५१

सूक्तं ७.५२

सूक्तं ७.५३

सूक्तं ७.५४

सूक्तं ७.५५

सूक्तं ७.५६

सूक्तं ७.५७

सूक्तं ७.५८

सूक्तं ७.५९

सूक्तं ७.६०

सूक्तं ७.६१

सूक्तं ७.६२

सूक्तं ७.६३

सूक्तं ७.६४

सूक्तं ७.६५

सूक्तं ७.६६

सूक्तं ७.६७

सूक्तं ७.६८

सूक्तं ७.६९

सूक्तं ७.७०

सूक्तं ७.७१

सूक्तं ७.७२

सूक्तं ७.७३

सूक्तं ७.७४

सूक्तं ७.७५

सूक्तं ७.७६

सूक्तं ७.७७

सूक्तं ७.७८

सूक्तं ७.७९

सूक्तं ७.८०

सूक्तं ७.८१

सूक्तं ७.८२

सूक्तं ७.८३

सूक्तं ७.८४

सूक्तं ७.८५

सूक्तं ७.८६

सूक्तं ७.८७

सूक्तं ७.८८

सूक्तं ७.८९

सूक्तं ७.९०

सूक्तं ७.९१

सूक्तं ७.९२

सूक्तं ७.९३

सूक्तं ७.९४

सूक्तं ७.९५

सूक्तं ७.९६

सूक्तं ७.९७

सूक्तं ७.९८

सूक्तं ७.९९

सूक्तं ७.१००

सूक्तं ७.१०१

सूक्तं ७.१०२

सूक्तं ७.१०३

सूक्तं ७.१०४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_७.९२&oldid=201440" इत्यस्माद् प्रतिप्राप्तम्