प्रमुखा विकल्पसूचिः उद्घाट्यताम्

ऋग्वेदः सूक्तं १.७४

(ऋग्वेद: सूक्तं १.७४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १.७३ ऋग्वेदः - मण्डल १
सूक्तं १.७४
गोतमो राहूगणः
सूक्तं १.७५ →
दे. अग्निः। गायत्री


उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
आरे अस्मे च शृण्वते ॥१॥
यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
अरक्षद्दाशुषे गयम् ॥२॥
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
धनंजयो रणेरणे ॥३॥
यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
दस्मत्कृणोष्यध्वरम् ॥४॥
तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।
जना आहुः सुबर्हिषम् ॥५॥
आ च वहासि ताँ इह देवाँ उप प्रशस्तये ।
हव्या सुश्चन्द्र वीतये ॥६॥
न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।
यदग्ने यासि दूत्यम् ॥७॥
त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः ।
प्र दाश्वाँ अग्ने अस्थात् ॥८॥
उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।
देवेभ्यो देव दाशुषे ॥९॥


सायणभाष्यम्

त्रयोदशानुवाके एकादश सूक्तानि । तत्र ‘ उपप्रयन्तः' इति नवर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते-’ उपप्रयन्तो नव गोतमो राहूगणो गायत्रं तु ' इति । अस्यायमर्थः । रहूगणनामा कश्चिदृषिः । तस्य पुत्रो गोतमोऽस्य सूक्तस्य ऋषिः । ‘ गायत्रं तु इत्युक्तत्वादिदमुत्तरं च गायत्रीच्छन्दस्कम् । ‘ परमाग्नेयमैन्द्रात् ' इति परिभाषितत्वादग्निर्देवता । प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छन्दस्येतदादिके द्वे सूक्ते । सूत्रितं च- ‘ आपो रेवतीः क्षयथा हि वस्व उपप्रयन्त इति सूक्ते ' ( आश्व. श्रौ. ४. १३ ) इति । आश्विनशस्त्रेऽप्येते सूक्ते : प्रातरनुवाकन्यायेन ' ( आश्व. श्रौ. ६. ५ ) इत्यतिदेशात् । पृष्ठ्यषडहस्य प्रथमेऽहनि एतदेव सूक्तमाज्यशस्त्रम् । सूत्रितं च- ‘ उपप्रयन्त इति तु प्रथमेऽहन्याज्यम् ' ( आश्व. श्रौ. ७. १०) इति ॥


उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ ।

आ॒रे अ॒स्मे च॑ शृण्व॒ते ॥१

उ॒प॒ऽप्र॒यन्तः॑ । अ॒ध्व॒रम् । मन्त्र॑म् । वो॒चे॒म॒ । अ॒ग्नये॑ ।

आ॒रे । अ॒स्मे इति॑ । च॒ । शृ॒ण्व॒ते ॥१

उपऽप्रयन्तः । अध्वरम् । मन्त्रम् । वोचेम । अग्नये ।

आरे । अस्मे इति । च । शृण्वते ॥१

“अध्वरं हिंसाप्रत्यवायरहितमग्निष्टोमादियज्ञम् “उपप्रयन्तः उपेत्य प्रकर्षेण यन्तो गच्छन्तः प्राप्त्यविच्छेदेन सम्यगनुतिष्ठन्तः इत्यर्थः । तादृशा वयम् “अग्नये अङ्गनादिगुणयुक्ताय देवाय “मन्त्रं मननसाधनमेतत्सूक्तरूपं स्तोत्रं “वोचेम । वक्तारो भूयास्मेत्याशास्यते । कीदृशायाग्नये । “आरे “अस्मे “च “शृण्वते । चशब्दः अप्यर्थे आरेशब्दात्परो द्रष्टव्यः । आरे च दूरेऽपि स्थित्वास्माकं स्तुतीः शृण्वते । अस्मासु प्रीत्यतिशयेन सर्वत्र प्रवर्तमानोऽग्निरस्मदीयमेव स्तोत्रं शृणोतीति भावः ॥ वोचेम । ‘ ब्रुवो वचिः । ‘ लिङयाशिष्यङ्'। ‘वच उम्' इति उमागमः । शृण्वते । ‘शतुरनुमः' इति । विभक्तेरुदात्तत्वम् ॥


यः स्नीहि॑तीषु पू॒र्व्यः सं॑जग्मा॒नासु॑ कृ॒ष्टिषु॑ । अर॑क्षद्दा॒शुषे॒ गय॑म् ॥२

यः । स्नीहि॑तीषु । पू॒र्व्यः । स॒म्ऽज॒ग्मा॒नासु॑ । कृ॒ष्टिषु॑ ।

अर॑क्षत् । दा॒शुषे॑ । गय॑म् ॥२

यः । स्नीहितीषु । पूर्व्यः । सम्ऽजग्मानासु । कृष्टिषु ।

अरक्षत् । दाशुषे । गयम् ॥२

“पूर्व्यः चिरंतनः “यः अग्निः “स्नीहितीषु वधकारिणीषु “कृष्टिषु शत्रुभूतासु प्रजासु “संजग्मानासु संगतासु सतीषु “दाशुषे हवींषि दत्तवते यजमानाय “गयं धनम् “अरक्षत् रक्षति तस्मै मन्त्रं वोचेमेति पूर्वेण संबन्धः ॥ स्नीहितीषु । ‘ष्णिह स्नेहने'। चुरादिः । ‘ स्नेहयति' (नि. २. १९. १३) इति वधकर्मसु पठितः । स्नेह्यन्ते हिंस्यन्ते प्रजा आभिरिति स्नेहितयः । करणे क्तिन् । ‘ तितुत्रेष्वग्रहादीनामिति वक्तव्यम् ' (पा. म. ७. २. ९. १) इति वचनात् निगृहीतिर्निपठितिरितिवत् इडागमः । व्यत्ययेन एकारस्य ईकारादेशः क्तिनो दीर्घश्च । नित्वादाद्युदात्तत्वम् । संजग्मानासु । ‘ समो गम्यृच्छि ' इति आत्मनेपदम् । लिटः कानच् । ‘गमहन' इत्यादिना उपधालोपः । अरक्षत् । ‘ छन्दसि लुङलङ्लिटः' इति वर्तमाने लङ् ॥


अग्निमन्थने ‘ जातायानुब्रूहि' इत्युक्ते ‘उत ब्रुवन्तु' इत्येषानुवचनीया। ‘प्रातर्वैश्वदेव्याम्' इति खण्डे सूत्रितं-’ शिष्टेनोत्तरामुत ब्रुवन्तु जन्तवः ' ( आश्व. श्रौ. २. १६) इति । तथा साकमेधेषु मरुद्भ्यः क्रीडिभ्यः पुरोडाशम् इत्यस्यामिष्टौ एषैव प्रथमाज्यभागानुवाक्या । सूत्रितं च- मरुद्भ्यः क्रीडिभ्य उत्तरोत ब्रुवन्तु जन्तवः ' ( आश्व. श्रौ. २. १८ ) इति ।

उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।

ध॒नं॒ज॒यो रणे॑रणे ॥३

उ॒त । ब्रु॒व॒न्तु॒ । ज॒न्तवः॑ । उत् । अ॒ग्निः । वृ॒त्र॒ऽहा । अ॒ज॒नि॒ ।

ध॒न॒म्ऽज॒यः । रणे॑ऽरणे ॥३

उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्रऽहा । अजनि ।

धनम्ऽजयः । रणेऽरणे ॥३

“अग्निः “उत् "अजनि अरण्योः सकाशादुत्पन्नः । “उत अनन्तरं “जन्तवः जाताः सर्वे ऋत्विजः “ब्रुवन्तु तमग्निं स्तुवन्तु । कीदृशोऽग्निः । “वृत्रहा वृत्राणामावरकाणां शत्रूणां हन्ता “रणेरणे सर्वेषु संग्रामेषु “धनंजयः शत्रुधनानां जेता ॥ धनंजयः । ‘ संज्ञायां भृतॄवृजि ' (पा. सू. ३. २. ४६ ) इति खच्। ' अरुर्द्विषदजन्तस्य°' (पा. सू. ६. ३. ६७ ) इति मुम् । चित्स्वरेणान्तोदात्तत्वम् । रणेरणे। रण शब्दार्थः । रणन्ति दुन्दुभयोऽस्मिन्निति रणः संग्रामः । ‘वशिरण्योरुपसंख्यानम् ' ( पा. सू. ३. ३. ५८. ३) इति अप् । 'नित्यवीप्सयोः' इति द्विर्वचनम् । आम्रेडितानुदात्तत्वम् ॥


यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये॑ ।

द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ॥४

यस्य॑ । दू॒तः । असि॑ । क्षये॑ । वेषि॑ । ह॒व्यानि॑ । वी॒तये॑ ।

द॒स्मत् । कृ॒णोषि॑ । अ॒ध्व॒रम् ॥४

यस्य । दूतः । असि । क्षये । वेषि । हव्यानि । वीतये ।

दस्मत् । कृणोषि । अध्वरम् ॥४

हे अग्ने “यस्य यजमानस्य “क्षये देवयजनलक्षणे गृहे देवानां “दूतः त्वम् “असि भवसि । यस्य च “हव्यानि चरुपुरोडाशादीनि हवींषि “वीतये देवानां भक्षणाय “वेषि गमयसि । यस्य च “अध्वरं यज्ञं “दस्मत् सर्वैर्दर्शनीयं “कृणोषि करोषि । ' तमित्सुहव्यम्' इत्युत्तरया संबन्धः ॥ वेषि । वी गत्यादिषु । अन्तर्भावितण्यर्थात् लट् । अदादित्वात् शपो लुक् । पादादित्वात् निघाताभावः । दस्मत् । ‘ दसि दंसनदर्शनयोः । ‘ इषियुधीन्धि ' इत्यादिना मक् । दस्ममित्यत्र मकारस्य वर्णव्यापत्त्या तकारः । कृणोषि । ‘ कृवि हिंसाकरणयोश्च । धिन्विकृण्व्योर च' इति उप्रत्ययः; तत्संनियोगेन वकारस्य अकारः । तस्य अतो लोपे सति स्थानिवद्भावात् लघूपधगुणाभावः। यस्य इत्यनुषङ्गात् निघाताभावः ।


तमित्सु॑ह॒व्यम॑ङ्गिरः सुदे॒वं स॑हसो यहो ।

जना॑ आहुः सुब॒र्हिष॑म् ॥५

तम् । इत् । सु॒ऽह॒व्यम् । अ॒ङ्गि॒रः॒ । सु॒ऽदे॒वम् । स॒ह॒सः॒ । य॒हो॒ इति॑ ।

जनाः॑ । आ॒हुः॒ । सु॒ऽब॒र्हिष॑म् ॥५

तम् । इत् । सुऽहव्यम् । अङ्गिरः । सुऽदेवम् । सहसः । यहो इति ।

जनाः । आहुः । सुऽबर्हिषम् ॥५

हे "सहसो “यहो बलस्य पुत्र “अङ्गिरः अङ्गनादिगुणयुक्ताग्ने यो यजमानः पूर्वमुक्तः “तमित् तमेव यजमानं “सुहव्यं शोभनहविष्कं “सुदेवं शोभनदैवतं “सुबर्हिषम् । बर्हिरिति यज्ञनाम । शोभनयज्ञं च “जनाः सर्वे मनुष्याः "आहुः कथयन्ति ॥ सुहव्यमित्यादिषु नञ्सुभ्याम्' इत्युत्तरपदान्तोदात्तत्वम् । सहसो यहो। सुबामन्त्रिते° ' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य आष्टमिकमामन्त्रितानुदात्तत्वम् ॥ ॥ २१ ॥


आ च॒ वहा॑सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये ।

ह॒व्या सु॑श्चन्द्र वी॒तये॑ ॥६

आ । च॒ । वहा॑सि । तान् । इ॒ह । दे॒वान् । उप॑ । प्रऽश॑स्तये ।

ह॒व्या । सु॒ऽच॒न्द्र॒ । वी॒तये॑ ॥६

आ । च । वहासि । तान् । इह । देवान् । उप । प्रऽशस्तये ।

हव्या । सुऽचन्द्र । वीतये ॥६

हे “सुश्चन्द्र शोभनाह्लादनाग्ने “तान् “देवान् “इह अस्मिन् कर्मणि “उप अस्मत्समीपं “प्रशस्तये स्तुतये “आ “वहासि “च आवह प्रापय च । आगतेभ्यस्तेभ्यः “हव्या हव्यानि चरुपुरोडाशादीनि हवींषि “वीतये भक्षणाय प्रापयेत्यर्थः ॥ वहासि । “वह प्रापणे' । लेटि आडागमः। प्रशस्तये । शंसु स्तुतौ ' । भावे क्तिन् । तितुत्र' इति इट्प्रतिषेधः। ‘ अनिदिताम्' इति नलोपः । ‘ तादौ च° ' इति गतेः प्रकृतिस्वरत्वम् । सुश्चन्द्र । ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे ' इति सुट् ॥


न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न ।

यद॑ग्ने॒ यासि॑ दू॒त्य॑म् ॥७

न । योः । उ॒प॒ब्दिः । अश्व्यः॑ । शृ॒ण्वे । रथ॑स्य । कत् । च॒न ।

यत् । अ॒ग्ने॒ । यासि॑ । दू॒त्य॑म् ॥७

न । योः । उपब्दिः । अश्व्यः । शृण्वे । रथस्य । कत् । चन ।

यत् । अग्ने । यासि । दूत्यम् ॥७

हे “अग्ने “यत् यदा “दूत्यं देवानां दूतत्वं “यासि प्राप्नोषि “कच्चन कदाचन तदानीं सर्वदापि “योः गच्छतस्तव “रथस्य अश्व्यः अश्वैरुत्पादितः “उपब्दिः श्रवणार्हः शब्दः "न “शृण्वे न श्रूयते । रथस्य शीघ्रगमनेनास्माभिः शब्दो नोपलभ्यते इत्यर्थः ॥ योः । ‘ या प्रापणे' इत्यस्मात् “यो द्वे च ' (उ. सू. १. २१ ) इति औणादिकः कुप्रत्ययः । बहुलवचनात् द्विर्भावाभावः। उपब्दिरित्येतत् श्रोतुमर्हस्य शब्दस्याख्या । तथा च तैत्तिरीयाणां प्रातिशाख्यं “ सशब्दमुपब्दिमत् ' (तै. प्रा. २३. ९) इति । शृण्वे । ' श्रु श्रवणे '। कर्मणि लटि ‘ श्रुवः शृ च ' इति व्यत्ययेन श्नुः ऋभावश्च । ' लोपस्त आत्मनेपदेषु ' इति तलोपः । ‘ हुश्नुवोः सार्वधातुके' इति यणादेशः ॥


त्वोतो॑ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः ।

प्र दा॒श्वाँ अ॑ग्ने अस्थात् ॥८

त्वाऽऊ॑तः । वा॒जी । अह्र॑यः । अ॒भि । पूर्व॑स्मात् । अप॑रः ।

प्र । दा॒श्वान् । अ॒ग्ने॒ । अ॒स्था॒त् ॥८

त्वाऽऊतः । वाजी । अह्रयः । अभि । पूर्वस्मात् । अपरः ।

प्र । दाश्वान् । अग्ने । अस्थात् ॥८

यः पुरुषः “पूर्वस्मात् स्वस्मादधिकारात् “अपरः निकृष्टो भवति हे “अग्ने स इदानीं “दाश्वान् तुभ्यं हवींषि दाता सन् “त्वोतः त्वया ऊतः रक्षितः “वाजी अन्नवान् “अह्रयः लज्जारहितः एवंभूतः सन् "अभि “प्र “अस्थात् ऐश्वर्यमभिप्राप्य प्रतितिष्ठति सर्वोत्कृष्टो भवतीत्यर्थः ॥ अह्रयः । ‘ ह्री लज्जायाम्' । जिह्रेतीति ह्रयः । न ह्रयोऽह्रयः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाश्वान् । ‘ दाशृ दाने '।' दाश्वान् साह्वान्' इति क्वसुप्रत्ययान्तो निपातितः ॥


उ॒त द्यु॒मत्सु॒वीर्यं॑ बृ॒हद॑ग्ने विवाससि ।

दे॒वेभ्यो॑ देव दा॒शुषे॑ ॥९

उ॒त । द्यु॒ऽमत् । सु॒ऽवीर्य॑म् । बृ॒हत् । अ॒ग्ने॒ । वि॒वा॒स॒सि॒ ।

दे॒वेभ्यः॑ । दे॒व॒ । दा॒शुषे॑ ॥९

उत । द्युऽमत् । सुऽवीर्यम् । बृहत् । अग्ने । विवाससि ।

देवेभ्यः । देव । दाशुषे ॥९

“उत अपि च हे "देव द्योतमान “अग्ने “देवेभ्यः “दाशुषे चरुपुरोडाशादीनि हवींषि दत्तवते तस्मै यजमानाय “बृहत् प्रौढं धनं “विवाससि गमयितुमिच्छसि प्रापयसीति यावत् । कीदृशम् । “द्युमत् अतिशयेन दीप्तं “सुवीर्यं शोभनवीर्योपेतम् ॥ सुवीर्यम् । वीरवीर्यौ च ' इत्युत्तरपदाद्युदात्तत्वम् । विवाससि ।' वा गतिगन्धनयोः । सनि द्विर्भावे ‘ सन्यतः' इति इत्वम् । दाशुषे । चतुर्थ्येकवचने ' वसोः संप्रसारणम् ' इति संप्रसारणम् । ‘शासिवसिघसीनां च' इति षस्वम् ॥ ॥२२॥


सम्पाद्यताम्

टिप्पणी

रहूगणोपरि टिप्पणी

गौतमोपरि टिप्पणी

१.७४.२ स्नीहितीषु - वधकारिणीषु ( स्नेह्यन्ते हिंस्यन्ते प्रजा आभिरिति) - सायणभाष्यम्। संजग्मानासु - संगतासु

१.७४.६ वीतये - भक्षणाय प्रापयेत्

विनियोगं-प्रातरनुवाकस्य आग्नेये क्रतौ इत्यादि


मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१










"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.७४&oldid=207715" इत्यस्माद् पुनः प्राप्तिः